महाकवि भारवि प्रणीत किरातार्जुनीय महाकाव्य के द्वितीय सर्ग के श्लोक (01से 59), अन्वय, सन्दर्भ, प्रसङ्ग, संस्कृत एवं हिन्दी व्याख्या, हिन्दी अर्थ तथा व्याकरण-अलंकार टिप्पणी।
विहितां प्रियया मनः प्रियमथ निश्चित्य गिरं गरीयसीम् ।
उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः ॥ १ ॥
अन्वय --अथ वृकोदरः प्रियया विहितां मनःप्रियां गिरं गरीयसीं निश्चित्य नृपम् उपपत्तिमद् ऊर्जिताश्रयं वचनम् ऊचे ॥१॥
सन्दर्भ --कविकुलालङ्कारभूतेन महाकविना भारविना प्रणीतस्य अर्थगौरवप्रथितस्य किरातार्जुनीयमहाकाव्यस्य द्वितीयसर्गात् समुद्धृतमिदम्पद्यम् ।
प्रसङ्ग --सारगर्भातां द्रौपदीवाणीं श्रुत्वा भीमस्तामेव समर्थयति युधिष्ठिरम्प्रति ।
संस्कृत व्याख्या --अथ = अनन्तरं, वृकोदरः = भीमः, प्रियया = वल्लभाया, द्रौपद्येत्यर्थः, विहितां = प्रतिपादितां, मनःप्रियां = चित्ताभिलषितां, 'चित्तन्तु चेतो हृदयं स्वान्तर्हन्मानसं मनः' इत्यमरः, गिरं = भारतीं, 'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः, गरीयसीं = सारयुक्तां, निश्चित्य = निर्णीय, नृपं = राजानं, युधिष्ठिरमित्यर्थः, उपपत्तिमत् = युक्तिसहितम्, ऊर्जिताश्रयम् = ऊर्जितः आश्रयः यस्य तत् ओजोमयमिति, उदारविषयमित्यर्थः, वचनं = वाचः, ऊचे = कथितवान् ।
हिन्दी व्याख्या --अथ = इसके बाद (द्रौपदी के द्वारा युधिष्ठिर से युक्तियुक्त वाणी कहने पर), वृकोदरः = भीम, प्रियया = पत्नी द्रौपदी के द्वारा, विहितां = कही गई, मनःप्रियां = मनोहर, गिरं = वाणी को, गरीयसीं = सार्थक (सारयुक्त), निश्चित्य = जानकर, नृपं = राजा से, उपपत्तिमत् = युक्तियुक्त, ऊर्जिताश्रयं = ओजस्वी (उदार अर्थ वाले), वचनं = वचन, ऊचे = कहे ॥१॥
हिन्दी अर्थ --(युधिष्ठिर के प्रति द्रौपदी के द्वारा सार्थक वचन कहने के) बाद में भीम प्रिया द्रौपदी द्वारा कथित मनोरम वाणी को सार्थक जानकर राजा युधिष्ठिर से युक्तियुक्त और ओजोमय वचन कहे ॥१॥
टिप्पणी --अत्र पदार्थहेतुककाव्यलिङ्गमलङ्कारः । तद्यथा साहित्यदर्पणे 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गन्निगद्यते' इति । सर्गेऽस्मिन् ५६ तमश्लोकपर्यन्तं वियोगिनीवृत्तम् । तल्लक्षणं यथा—'विषमे यदि सौ जगौ समे सभराः स्यात् तदा वियोगिनी' ।
यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ।
अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयम् ॥ २ ॥
अन्वय --मानिनी स्नेहमयेन चक्षुषा परितः वीक्ष्य यद् अवोचत वागधिपस्य अपि दुर्वचं तद् वचनं विस्मयं विदधीत ॥२॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --द्रौपदीकथनं देवगुरोः बृहस्पतेरपि विस्मयावहमिति प्रस्तौति भीमः ।
संस्कृत व्याख्या --मानिनी = मनस्विनी, क्षत्रियाभिमानयुक्ता, द्रौपदीत्यर्थः, स्नेहमयेन = प्रेमयुक्तेन, चक्षुषा = नेत्रेण, ज्ञानस्येति शेषः, परितः = अभितः, वीक्ष्य = विलोक्य, विचार्येति यावत्, यत् = यद्वचनम्, अवोचत = अकथयत्, वागधिपस्य = बृहस्पतेः, अपि, दुर्वचं = दुःखेन वक्तुं शक्यं, तद् = पूर्वोक्तं, वचनं = कथनं द्रौपद्या इति शेषः, विस्मयम् = आश्चर्यं, 'विस्मयोऽद्भुतमाश्चर्यं चित्रमित्यमरः', विदधीत = कुर्यात् ।
हिन्दी व्याख्या --मानिनी = मनस्विनी (अभिमानिनी द्रौपदी), स्नेहमयेन = प्रेमयुक्त, चक्षुषा = आँख (ज्ञानदृष्टि) से, परितः = चारों ओर, वीक्ष्य = देखकर, अर्थात् पूर्णरूप से समझ कर, यद् = जो, अवोचत = कहा, वागधिपस्य = बृहस्पति के लिए, अपि = भी, दुर्वचं = कठिनाई से कहने योग्य, तद् = वह, वचनं = कथन, विस्मयं = आश्चर्य को, विदधीत = पैदा करता है ॥२॥
हिन्दी अर्थ --स्वाभिमानिनी द्रौपदी ने प्रेमपूर्ण ज्ञानदृष्टि से चारों ओर देखकर अर्थात् विचार कर जो कहा, बृहस्पति के लिए भी कठिनाई से कहने योग्य द्रौपदी द्वारा कहा हुआ वह वचन विस्मय पैदा कर सकता है अर्थात् द्रौपदी द्वारा कहा हुआ वह वचन बृहस्पति के आश्चर्य को पैदा करने वाला है ॥२॥
टिप्पणी --अत्र वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । तद्यथा- 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गन्निगद्यते' इति ॥२॥
विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः ।
स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ॥ ३ ॥
अन्वय --विषमः अपि नयः पयसाम् आशयः इव कृततीर्थः विगाह्यते । तु तत्र स विशेषदुर्लभः यः कृत्यवर्त्म सद् उपन्यस्यति ॥३॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --नीतिशास्त्रवक्तुः दुर्लभत्वमुपस्थापयति भीमो युधिष्ठिरम्प्रति ।
संस्कृत व्याख्या --विषमः = दुष्प्रवेशः (नयपक्षे दुर्ज्ञेयः), नयः = नीतिशास्त्रं, पयसां = जलानाम्, आशयः = भण्डारः, ह्रद इत्यर्थः, इव = यथा, कृततीर्थः = निर्मितजलावतारः, (नयपक्षे-विहिताभ्यासः), विगाह्यते = प्रवेष्टुं शक्यते, (नयपक्षे ज्ञातुं शक्यते) । तु = परन्तु, तत्र = नये जलाशये च विषये, सः = तथाभूतः, विशेषदुर्लभः = अतीवदुर्लभो नर इति शेषः, यः = नरः, कृत्यवर्त्म = ह्रदे प्रवेशयोग्यं गर्तप्रस्तरादिहीनं मार्गं (नयपक्षे-देशकालाद्यविरोधकोपायमार्गं), सत् = साधु, सम्यक् प्रकारेणेत्यर्थः, उपन्यस्यति = विन्यस्यति ।
हिन्दी व्याख्या --विषमः = दुष्प्रवेश होने पर, अपि = भी, कृततीर्थः = तीर्थ सम्पादन कर देने पर अर्थात् सीढ़ियाँ बना देने पर, पयसाम् = जलों के, आशयः = जलाशय की, इव = तरह; विषमः = दुर्बोध होने पर, अपि = भी, नयः = नीतिशास्त्र, कृततीर्थः = अभ्यास करने पर, विगाह्यते = बोधगम्य (जानने योग्य) हो जाता है; तु = परन्तु, तत्र = नीतिमार्ग एवं जलाशय के विषय में, सः = वैसा पुरुष, विशेषदुर्लभः = विशेष दुर्लभ (है), यः = जो, कृत्यवर्त्म = देशकाल से विरोध न करने वाले उपायों तथा गड़ढ़ा, पत्थर आदि से रहित सीढ़ियों का, सद् = अच्छी तरह, उपन्यस्यति = निर्माण करता है अर्थात् सम्पादन करता है ॥३॥
हिन्दी अर्थ --दुष्प्रवेश जलाशय सीढ़ियों को बना देने से प्रवेश करने के योग्य हो जाता है वैसे ही दुर्बोध नयशास्त्र बार-बार अभ्यास करने से बोधगम्य हो जाता है । लेकिन (इन दोनों स्थानों पर) नीतिमार्ग एवं जलाशय के विषय में वह पुरुषविशेष दुर्लभ होता है, जो देशकाल से विरोध न करने वाले उपायों का सम्पादन करता है तथा जो गड्डा, पत्थर इत्यादि से रहित सीढ़ियों का सम्पादन (निर्माण) करता है ॥३॥
टिप्पणी --अत्र नयजलाशययोः साम्यवर्णनादुपमाऽलङ्कारः । तद्यथा- 'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥३॥
परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् ।
अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥ ४ ॥
अन्वय --परिणामसुखे गरीयसि क्षतौजसां व्यथके अल्पीयसि अस्मिन् वचसि अतिवीर्यवति भेषजे इव बहुः गुणः दृश्यते ॥४॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --द्रौपदीकथने गुणान् प्रदर्शयति भीमो युधिष्ठिरम्प्रति ।
संस्कृत व्याख्या --परिणामसुखे = फलसमये सुखकरे, गरीयसि = श्रेष्ठे, क्षतौजसां = क्षीणशक्तीनां, व्यथके = भयप्रदे, दुःखोत्पादके, अल्पीयसि = अल्पमात्रे, अल्पाक्षरे, अस्मिन् = एतस्मिन्, द्रौपद्याः इति शेषः, वचसि = वचने, अतिवीर्यवति = बहुगुणयुक्ते, अतीवसामर्थ्यशालिनि, भेषजे = औषधे, 'भेषजौषधभैषज्यान्यगदो जायुरित्यपि' इत्यमरः, इव = यथा, बहुः गुणः = प्रतिष्ठाराज्यप्राप्तिगुणः (औषधपक्षे आरोग्यबलादिगुणः), दृश्यते = अवलोक्यते ।
हिन्दी व्याख्या --परिणामसुखे = फलकाल में सुखद, गरीयसि = अतीव उत्तम, क्षतौजसां = क्षीणशक्तिवालों को, व्यथके = कष्ट देने वाली, अल्पीयसि = थोड़ी मात्रा में होने पर भी, अतिवीर्यवति = अत्यधिक शक्ति देने वाली, भेषजे = औषध की, इव = तरह; परिणामसुखे = उत्तरकाल में सुखद, गरीयसि = गम्भीर, क्षतौजसां = दुर्बल लोगों को, व्यथके = भयभीत करने वाले, अल्पीयसि = परिमित अक्षर वाले, अस्मिन् = इस, अतिवीर्यवति = अत्यधिक प्रभावशाली (द्रौपदी के), वचसि = वचन में, बहुः = बहुत, गुणः = गुण, दृश्यते = दिखाई देता है अर्थात् मानरक्षा और नष्टराज्य की प्राप्ति इत्यादि गुणों का अवलोकन होता है ॥४॥
हिन्दी अर्थ --फलकाल में सुखद, अतीव उत्तम, बलसहित अर्थात् क्षीणशक्ति वालों को कष्टप्रद, थोड़ी मात्रा में होने पर भी अत्यधिक शक्ति देने वाली, आरोग्यप्रद औषध की तरह उत्तरकाल में सुखद, गम्भीर, दुर्बल लोगों को भयभीत करने वाले, परिमित अक्षरवाले अत्यधिक प्रभावशाली (द्रौपदी के) इस वचन में बहुत गुण दिखाई देता है अर्थात् मानरक्षा और नष्टराज्य की प्राप्ति इत्यादि गुणों का अवलोकन होता है ॥४॥
टिप्पणी --'अतिवीर्यवति भेषजे इव अस्मिन् वचसि' इत्यत्र साम्यादुपमाऽलङ्कारः । तद्यथा साहित्यदर्पणे—'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥४॥
इयमिष्टगुणाय रोचतां रुचिराऽपि भवतेऽपि भारती ।
ननु वक्तृविशेषनिःस्पृहाः गुणगृह्या वचने विपश्चितः ॥ ५ ॥
अन्वय --रुचिराऽर्था इयं भारती इष्टगुणाय भवते अपि रोचताम् । गुणगृह्याः विपश्चितः वचने वक्तृविशेषनिःस्पृहाः ननु ॥५॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --महत्त्वगुणसम्पन्ना द्रौपदीवाणी युधिष्ठिरेण ग्राह्येति उपदिशति भीमः ।
संस्कृत व्याख्या --रुचिराऽर्था = रुचिरः सुन्दरः, अर्थः यस्याः सा, शोभनार्था इत्यर्थः, 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनमित्यमरः', इयम् = एषा, भारती = द्रौपदीवाणी, 'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः, इष्टगुणाय = इष्टो गुणः यस्मै तस्मै इष्टगुणाय = यथेप्सितगुणाय, 'कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्' इत्यमरः, भवते = तुभ्यं, युधिष्ठिरायेति यावत्, अपि, रोचताम् = स्वदताम् । गुणगृह्याः = गुणग्राहिणः, विपश्चितः = विद्वांसः, वचने = वचसि, वक्तृविशेषनिःस्पृहाः = स्त्रीपुरुषादिविषये निरीहाः, ननु = निश्चयेन । 'बालादपि सुभाषितम्' इति विचार्य वक्तृगुणप्राधान्यमेव स्वीकुर्वते विद्वांसः ।
हिन्दी व्याख्या --रुचिराऽर्था = सुन्दर अर्थों वाली, इयं = यह, भारती = वाणी (द्रौपदी द्वारा कथित), इष्टगुणाय = गुणग्राही, भवते = आप (युधिष्ठिर) को, अपि = भी, रोचताम् = अच्छी लगनी (रुचनी) चाहिए। गुणगृह्याः = गुणग्राही, विपश्चितः = विद्वान्, वचने = वचन में (वचन के विषय में), ननु = निश्चय ही, वक्तृविशेषनिःस्पृहाः = वक्ताविशेष के विषय में निरीह होते हैं अर्थात् यह नहीं देखते कि वक्ता किस प्रकार का है, बल्कि उसके गुणों को देखते हैं ॥५॥
हिन्दी अर्थ --महत्त्वसम्पन्न यह (द्रौपदी के द्वारा कही गयी) वाणी गुणग्राही आप (युधिष्ठिर) को भी प्रिय होनी (रुचनी) चाहिए । गुणग्राही विद्वान् लोग वचन के विषय में वक्ताविशेष (स्त्री-पुरुष) के विषय में निरीह होते हैं अर्थात् 'वक्ता किस प्रकार का है' यह नहीं देखते अपितु उसके गुणों को देखते हैं ॥५॥
टिप्पणी --अत्र सामान्येन विशेषसमर्थनादर्थान्तरन्यासोऽलङ्कारः । तद्यथा साहित्यदर्पणे—'सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति ॥५॥
चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमा गता ।
कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति ॥ ६ ॥
अन्वय --नृप ! चतसृषु अपि विद्यासु निरूढिम् आगता विवेकिनी ते मतिः कथं करिणी पङ्कम् इव विपर्ययम् एत्य अवसीदति ॥६॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --युधिष्ठिरमतिः सदसद्विवेकशीला कथं क्षयतीति भीमः प्रतिपादयति ।
संस्कृत व्याख्या --नृप ! = हे राजन् !, चतसृषु = चतुस्संख्याकेषु, 'आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती' इत्येताः चतस्रो विद्याः, एतासु, अपि, विद्यासु, निरूढिं = ख्यातिम्, आगता = उपेता, विवेकिनी = सदसद्विवेकशीला, ते = तव, युधिष्ठिरस्येति यावत्, मतिः = बुद्धिः, कथं = कस्मात् कारणात्, करिणी = हस्तिनी, 'करिणी धेनुका वशा' इत्यमरः, पङ्कं = कर्दमं, 'निषरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ' इत्यमरः, इव = यथा, विपर्ययं = व्यत्यासं, 'स्याद् व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये' इत्यमरः, एत्य = गत्वा, अवसीदति = नाशं गच्छति क्षयतीत्यर्थः ।
हिन्दी व्याख्या --नृप ! = हे राजन् !, चतसृषु = चारों, अपि = भी, विद्यासु = विद्याओं में, निरूढिं = ख्याति को, आगता = प्राप्त की हुई, विवेकिनी = सत् और असत् का विचार (भेद) करने वाली, ते = तुम्हारी (आप युधिष्ठिर की), मतिः = बुद्धि, कथं = कैसे, करिणी = हथिनी की, इव = तरह, पङ्कम् = दलदल की, इव = तरह, विपर्ययम् = अविवेक को, एत्य = प्राप्त कर, अवसीदति = कष्ट पा रही है (नष्ट हो रही है) ॥६॥
हिन्दी अर्थ --हे राजन् ! (युधिष्ठिर !) चारों ही विद्याओं में ख्यातिप्राप्त की हुई सत् और असत् का निश्चय (भेद) करने वाली आप की बुद्धि दलदल को प्राप्त हथिनी की तरह अविवेक (विपर्यास) को प्राप्त कर नष्ट हो रही है ॥६॥
टिप्पणी --मतिः विपर्ययमेत्य करिणी पङ्कमिवेत्यत्रोपमाऽलङ्कारः । तद्यथा साहित्यदर्पणे—'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥६॥
विधुरः किमतः परं परैरवगीतां गमिते दशामिमाम् ।
अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्तिपौरुषम् ॥ ७ ॥
अन्वय --त्वयि परैः इमाम् अवगीतां दशां गमिते सुरैः अपि सम्भावितवृत्तिपौरुषं यद् अवसीदति, अतः परं किं विधुरम् ? ॥७॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --दुरवस्थाधिगतयुधिष्ठिरस्य देवप्रशंसितपौरुषं नश्यतीति उपालभते भीमो युधिष्ठिरम् ।
संस्कृत व्याख्या --त्वयि = भवति युधिष्ठिरे इति यावत्, परैः = शत्रुभिः कौरवैः, इमाम् = एषां, अवगीतां = गर्हितां, दशाम् = अवस्थां, गमिते = प्रापिते, सतीति शेषः, सुरैः = देवैः, अपि, सम्भावितवृत्तिपौरुषं = सम्भाविता वृत्तिः यस्मिंस्तत् सम्भावितवृत्तिः = सत्कृतव्यापारं, पौरुषं पुरुषाकारः, यत्, अवसीदति = नश्यति, अतः परम् = अतोऽधिकं, किम् = किमिति वितर्के, विधुरं = प्रविश्लेषः, कष्टमित्यर्थः । न किमपीत्यर्थः ।
हिन्दी व्याख्या --त्वयि = आप (युधिष्ठिर) के, परैः = शत्रुओं (कौरवों) द्वारा, इमां = इस, अवगीतां = निन्दित, दशां = अवस्था को, गमिते = प्राप्त कराये जाने पर, सुरैः = देवताओं के द्वारा, अपि = भी, सम्भावितवृत्ति = सम्मानित (आपका) व्यवहार वाला, पौरुषं = पौरुष, यत् = जो, अवसीदति = नष्ट हो रहा है, अतः परं = इससे बढ़कर, किं = क्या, विधुरं = कष्ट (हो सकता है?) ॥७॥
हिन्दी अर्थ --आप युधिष्ठिर के शत्रुओं (कौरवों) द्वारा इस गर्हित अवस्था को प्राप्त कराये जाने पर देवताओं के द्वारा भी प्रशंसित (सम्मानित) आपका पौरुष जो नष्ट हो रहा है, इससे बढ़कर कौन कष्ट है (हो सकता है?) अर्थात् कोई भी नहीं ॥७॥
टिप्पणी --अत्र वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । तद्यथा- 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गन्निगद्यते' इति ॥७॥
द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।
न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः ॥ ८ ॥
अन्वय --भूतिम् इच्छता सुमेधसा गुरुः अस्वन्ततरः द्विषताम् उदयः सुमर्षणः । फलसम्पत्प्रवणः महान् अपि परिक्षयः न ॥८॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --फलसम्पदुन्मुखः शत्रुविनाशः न उपेक्ष्य इति उपदिशति भीमः ।
संस्कृत व्याख्या --भूतिम् = ऐश्वर्यं, 'विभूतिर्भूतिरैश्वर्यम्' इत्यमरः, इच्छता = काङ्क्षता, सुमेधसा = शोभना मेधा यस्य सः, तेन सुमेधसा = बुद्धिमता, गुरुः = महान्, अस्वन्ततरः = क्षयगामी, द्विषतां = रिपूणां कौरवाणामित्यर्थः, उदयः = उन्नतिः, सुमर्षणः = सुखेन सोढुं शक्यते । महान् = गुरुः, अपि, फलसम्पत्प्रवणः = फलसम्पद्गामी, सुपरिणामगामीत्यर्थः, परिक्षयः = अवनतिः, न = नहि, उपेक्ष्य इति शेषः ।
हिन्दी व्याख्या --भूतिम् = ऐश्वर्य को, इच्छता = चाहने वाले, सुमेधसा = मेधावी पुरुष के द्वारा, गुरुः = महान्, अस्वन्ततरः = क्षय की ओर उन्मुख, द्विषताम् = शत्रुओं का, उदयः = उदय (उन्नति), सुमर्षणः = सरलतापूर्वक (बिना कष्ट के) सहन करने योग्य (है)। (लेकिन) महान् = बड़ा, अपि = भी, फलसम्पत्प्रवणः = फलसम्पदा की ओर उन्मुख (शत्रुओं का), परिक्षयः = विनाश, न = नहीं (सरलतापूर्वक सहन करने योग्य है) ॥८॥
हिन्दी अर्थ --ऐश्वर्य की इच्छा करने वाले मेधावी पुरुष के द्वारा महान् क्षयोन्मुख शत्रुओं का उदय सरलतापूर्वक सहन करने योग्य है । (परन्तु) बड़ा भी फलसम्पदा की ओर उन्मुख (शत्रुओं का) विनाश सरलतापूर्वक सहन करने योग्य नहीं है ॥८॥
टिप्पणी --अत्र पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । तद्यथा- 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गन्निगद्यते' इति ॥८॥
अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ ९ ॥
अन्वय --कृती परस्य अचिरेण भूयसीं च क्षययुक्तिम् आत्मनः (क्षययुक्तिं) विपरीतां विगणय्य उपेक्षते, अन्यथा तत्प्रतिकारं कुरुते ॥९॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --युधिष्ठिरमुपदिशति भीमः प्रतिकारं विधातुम् ।
संस्कृत व्याख्या --कृती = कार्यकुशलः, 'वैज्ञानिकः कृतमुखः कृतो कुशल इत्यपि' इत्यमरः, परस्य = शत्रोः, अचिरेण = शीघ्रभाविनीं, भूयसीं = अत्यधिकां दुष्परिणामां, च = तथा, क्षययुक्तिं = क्षयस्य युक्तिं क्षययुक्तिं = विनाशयोगम्, आत्मनः = स्वस्य, च = तथा, विपरीतां = तत्प्रतिकूलां, विलम्बभाविनीमल्पीयसीं च, विगणय्य = निश्चित्य, उपेक्षते = नापेक्षते, अन्यथा = तत्प्रकृतिकूलावस्थायां, शत्रोः विलम्बभाविनीमल्प्याञ्च स्वस्य शीघ्रभाविनीं भूयसीं च क्षययुक्तिं निश्चित्य, तत्प्रतिकारं = तन्निरोधं, कुरुते = करोति ।
हिन्दी व्याख्या --कृती = कार्यकुशल (व्यक्ति), परस्य = शत्रु की, अचिरेण = शीघ्र, च = और, भूयसीं = ज्यादा होने वाली, क्षययुक्तिं = विनाशक्रिया को, (च = और) आत्मनः = अपनी, विपरीतां = इससे विपरीत अर्थात् देर से एवं अल्प विनाशक्रिया को, विगणय्य = समझकर, उपेक्षते = उपेक्षा करता है । अन्यथा = नहीं तो (लेकिन ऐसी दशा में न होने पर अर्थात् शत्रु की देर से तथा अल्प विनाशक्रिया को एवं अपनी शीघ्र तथा अधिक विनाशक्रिया को समझकर), तत्प्रतिकारम् = उसका प्रतिकार, कुरुते = करता है ॥९॥
हिन्दी अर्थ --कार्यकुशल पुरुष शत्रु की शीघ्र एवं अत्यधिक होने वाली विनाशक्रिया को और अपनी इससे विपरीत (देर से एवं अल्प विनाश क्रिया को) समझ कर अवहेलना करता है । नहीं तो (ऐसी दशा में न होने पर अर्थात् शत्रु की देर से तथा अल्प विनाशक्रिया को एवं अपनी शीघ्र तथा अधिक विनाश क्रिया को समझकर) उसका प्रतिकार करता है ॥९॥
टिप्पणी --पद्येऽस्मिन् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । तद्यथा 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गन्निगद्यते' इति ॥९॥
अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया ।
अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥ १० ॥
अन्वय --उदेष्यतीं द्विषतां प्रभुशक्तिम् अनीहया अनुपालयतां महीभुजां श्रियः जननिर्वादभयाद् इव अचिराद् अपयान्ति ॥१०॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --शत्रुप्रभावमुपेक्षमाणा राजानः श्रिया परिभूयन्ते इत्युपदिशति भीमः ।
संस्कृत व्याख्या --उदेष्यतीं = वर्द्धिष्यमाणां, द्विषतां = शत्रूणां, प्रभुशक्तिं = कोषदण्डोत्पन्नप्रभावम्, अनीहया = अनिच्छया, अनुपालयताम् = उपेक्षमाणानां, महीभुजां = नृपाणां, श्रियः = लक्ष्म्यः, सम्पतय इत्यर्थः, जननिर्वादभयात् = जनानां निर्वादस्तस्य भयात् जननिर्वादभयात् = लोकापवादभीतेः, 'अवर्णःक्षपनिर्वादपरीवादापवादवत्' इत्यमरः, 'भीतिर्भीः साध्वसं भयम्' इत्यमरश्च, इव = यथा, अचिरात् = शीघ्रम्, अपयान्ति = दूरीभवन्ति ।
हिन्दी व्याख्या --उदेष्यतीम् = उदय को प्राप्त करती हुई, द्विषतां = शत्रुओं की, प्रभुशक्तिं = प्रभुशक्ति की, अनीहया = अनिच्छा से, अनुपालयतां = अवहेलना करने वाले, महीभुजां = राजाओं की, श्रियः = लक्ष्मियाँ (सम्पत्तियाँ), इव = मानों, जननिर्वादभयात् = लोकापवाद के भय से, अचिरात् = शीघ्र ही, अपयान्ति = छोड़कर चली जाती हैं अर्थात् राजाओं का परित्याग कर देती हैं ॥१०॥
हिन्दी अर्थ --उदय को प्राप्त करती हुई शत्रुओं की प्रभुशक्ति की अनिच्छा से अवहेलना करने वाले राजाओं की सम्पत्तियाँ (लक्ष्मियाँ) मानो लोकापवाद के भय से शीघ्र ही दूर हो जाती हैं अर्थात् राजाओं को छोड़कर चली जाती हैं ॥१०॥
टिप्पणी --'जननिर्वादभयादिव' इत्यत्र सम्भावनायामुत्प्रेक्षालङ्कारः । तद्यथा साहित्यदर्पणे—'भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना' इति ॥१०॥
क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये ।
प्रणमन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ ११ ॥
अन्वय --क्षययुक्तम् अपि स्वभावजं शिवं धाम दधतं समृद्धये उत्थितम् अनपायम् नृपं प्रतिपच्चन्द्रम् इव प्रजाः प्रणमन्ति ॥११॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --क्षीणप्रभं प्रतिपच्चन्द्रमिव नृपं प्रजाः प्रणमन्ति इति प्रस्तौति भीमः ।
संस्कृत व्याख्या --क्षययुक्तं = क्षयेन युक्तस्तं क्षयुक्तं = क्षीणम्, अपि, स्वभावजं = प्रकृतिजं, शिवं = मङ्गलकरं, लोकाह्लादकमपि चन्द्रपक्षे, धाम = त्विषं, 'गृहदेहत्विट्प्रभावा धामनि' इत्यमरः, दधतं = वहन्तं, समृद्धये = वृद्धये, उत्थितं = प्रयासरतम्, वर्धिष्णुमिति चन्द्रपक्षे, अनपायं = निर्दोषं, नृपं = राजानं, प्रतिपच्चन्द्रम् = द्वितीयेंदुम्, इव = यथा, प्रजाः = जनाः, 'प्रजा स्यात् सन्ततौ जने' इत्यमरः, प्रणमन्ति = नमस्कुर्वन्ति ।
हिन्दी व्याख्या --क्षययुक्तं = नाशयुक्त (दुर्बल), अपि = भी, स्वभावजं = नैसर्गिक (स्वाभाविक), शिवं = कल्याणकर, धाम = तेज को, दधतं = धारण करने वाले, समृद्धये = समृद्धि के लिए, उत्थितं = प्रयासरत, अनपायं = निर्दोष, नृपं = राजा को, (क्षीणकला वाले निसर्गतः लोकानन्दकारी प्रभापुञ्ज को धारण करते हुए उत्तरकालीन कला प्राप्ति के लिए उत्सुक निष्कलङ्क) प्रतिपच्चन्द्रं = द्वितीया तिथि के चन्द्रमा की, इव = तरह, प्रजाः = प्रजाजायें, प्रणमन्ति = नमस्कार करती हैं ॥११॥
हिन्दी अर्थ --दुर्बल भी नैसर्गिक कल्याणकारी तेज को धारण करने वाले, उत्कर्ष के लिए निरन्तर प्रयासरत रहने वाले स्वभाव से ही लोकानन्दकारी प्रभापुञ्ज को धारण करते हुए, उत्तरकालीन कला प्राप्ति के लिए उत्सुक, निष्कलङ्क द्वितीया तिथि की चन्द्र की तरह प्रजायें नमस्कार करती हैं ॥११॥
टिप्पणी --नृपं प्रतिपच्चन्द्रमिवेति साम्यादुपमाऽलङ्कारः । तद्यथा- 'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥११॥
प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।
स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ १२ ॥
अन्वय --कृतपञ्चाङ्गविनिर्णयः नयः कोशदण्डयोः प्रभवः खलु । स विधेयपदेषु दक्षतां लोकः नियतिम् इव अनुरुध्यते ॥१२॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --नयः उत्साहमनुसरतीति उपदिशति भीमो युधिष्ठिरम् ।
संस्कृत व्याख्या --कृतपञ्चाङ्गविनिर्णयः = सम्पादितपञ्चाङ्गविनिश्चयः, सहायाः, साधनोपायाः, देशकालविभागः, विनिपातप्रतिकारः, सिद्धिश्चेति पञ्चाङ्गानि प्रथितानि राजनीतेः, नयः = राजनीतिः, कोशदण्डयोः = कोशः धनराशिः, दण्डः चतुरङ्गसैन्यन्तयोः, प्रभवः = उत्पत्तिस्थानं, 'स्याज्जन्महेतुः प्रभवः स्थानम्' इति कोषः, खलु = निश्चयेन । सः = नयः, विधेयपदेषु = कार्यवस्तुषु, दक्षतां = निपुणताम्, आलस्यरहितत्वमिति, लोकः = जनः, कृषिकार्यरतः इति, नियतिं = दैवं, 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः' इत्यमरः, इव = यथा, अनुरुध्यते = अनुगच्छति ।
हिन्दी व्याख्या --कृतपञ्चाङ्गविनिर्णयः = पाँच अङ्गों का विशेष रूप से निश्चय सम्पादित की गई, नयः = राजनीति, कोशदण्डयोः = कोश अर्थात् धनराशि तथा दण्ड अर्थात् चतुरङ्गिणी सेना को, प्रभवः = उत्पत्तिस्थान अर्थात् जन्म का हेतु, खलु = निश्चय ही (है)। सः = वह (राजनीति), विधेयपदेषु = कार्य-वस्तुओं में, दक्षतां = दक्षता (उत्साह) का, अनुरुध्यते = अनुसरण करती है, लोकः = मनुष्य (कृषक), नियतिं = प्रकृति (भाग्य) का, अनुरुध्यते = अनुसरण करता (है), इव = जैसे ॥१२॥
हिन्दी अर्थ --पाँच अङ्गों का विशेष रूप से निश्चय सम्पादित की गयी राजनीति कोश अर्थात् धनराशि और दण्ड अर्थात् चतुरङ्गिणी सेना का उद्भव स्थान है । वह राजनीति कार्यवस्तुओं में दक्षता (उत्साह) का अनुसरण करती है जिसप्रकार लोक अर्थात् कृषक नियति (भाग्य) का अनुसरण करता है ॥१२॥
टिप्पणी --अत्र नयदक्षतयोः लोकनियत्योः साम्यादुपमाऽलङ्कारः । तद्यथा साहित्यदर्पणे—'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥१२॥
अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः ।
विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥ १३ ॥
अन्वय --अभिमानवतः प्रियम् उच्चैः पदम् आरुरुक्षतः मनस्विनः आत्मपौरुषं विनिपातनिवर्तनक्षमम् आलम्बनम् मतम् ॥१३॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --मनस्विनः पौरुषमेवैकमलम्बनमित्युपदिशति भीमः ।
संस्कृत व्याख्या --अभिमानवतः = मानधनस्य, स्वाभिमानिन इत्यर्थः, प्रियम् = अभीष्टम्, उच्चैः = उन्नतं, महदिति यावत्, पदं = स्थानं, 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः, राज्यावाप्तिरूपमिति यावत्, आरुरुक्षतः = आरोढुमिच्छतः, मनस्विनः = उत्साहिनः, धैर्ययुक्तस्येति, आत्मपौरुषं = स्वपुरुषार्थः, विनिपातनिवर्तनक्षमम् = अवनतिनिवारणसमर्थम्, आलम्बनं = साधनमाधारो वा, मतम् = इष्टं, कथितमिति यावत् ।
हिन्दी व्याख्या --अभिमानवतः = स्वाभिमानी (का), प्रियं = प्रिय, उच्चैः = उच्च, पदं = पद को, आरुरुक्षतः = चढ़ने की इच्छा रखने वाले (आकांक्षा वाले), मनस्विनः = मनस्वी पुरुष का, आत्मपौरुषं = आत्मपौरुष (अपना पुरुषार्थ), विनिपातनिवर्तनक्षमं = अवनति को निवारण करने में समर्थ, आलम्बनं = आधार, मतम् = माना गया है ॥१३॥
हिन्दी अर्थ --स्वाभिमानी, प्रिय (अभीप्सित) उच्च पद पर (राज्याप्तिरूप) चढ़ने की आकांक्षा करने वाले मनस्वी (वीरपुरुष) का अपना पौरुष ही अवनति (बाधाओं) को निवारण करने में एकमात्र सक्षम है ऐसा मत है ॥१३॥
टिप्पणी --पद्येऽस्मिन् अर्थापत्तिरलङ्कारः । तद्यथा साहित्यदर्पणे—'दण्डापूपिकान्यायार्थागमोऽर्थापत्तिरिष्यते' इति ॥१३॥
विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥ १४ ॥
अन्वय --विपदः अविक्रमम् अभिभवन्ति, आपदुपेतम् आयति रहयति, निरायतेः लघुता नियता, अगरीयान् नृपश्रियः पदं न ॥१४॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --पौरुषविहीनो राजश्रियं न लभते इत्युपदिशति भीमः ।
संस्कृत व्याख्या --विपदः = आपदः, अविक्रमं = पराक्रमरहितं, जनमिति शेषः, पौरुषरहितमित्यर्थः, अभिभवन्ति = आक्रामन्ति । आपदुपेतं = विपद्गतं, जनमिति शेषः, आयतिः = उत्तरकालः, 'उत्तरकालः आयतिः' इत्यमरः, रहयति = जहाति । निरायतेः = उत्तरकालहीनस्य, लघुता = अगुरुता, नियता = सुनिश्चिता । अगरीयान् = गुरुताहीनः, तेजोविहीन इत्यमरः, नृपश्रियः = राजलक्ष्म्याः, पदं = स्थानं, न = नहि, भवितुं शक्नोतीति शेषः ।
हिन्दी व्याख्या --विपदः = विपत्तियाँ, अविक्रमम् = पौरुष से रहित व्यक्ति को, अभिभवन्ति = आक्रान्त कर लेती हैं । आपदुपेतं = विपत्तिग्रस्त मनुष्य को, आयतिः = उत्तरकालीन अभ्युदय, रहयति = छोड़ देता है । निरायतेः = उत्तरकालीन अभ्युदय से रहित मनुष्य की, लघुता = छोटापन (प्रभावहीनता), नियता = निश्चित है । अगरीयान् = प्रभावहीन (गौरवरहित) मनुष्य, नृपश्रियः = राजलक्ष्मी के, पदं = पद को, न = नहीं (प्राप्त करता) ॥१४॥
हिन्दी अर्थ --विपत्तियाँ पौरुष से रहित व्यक्ति को आक्रान्त कर लेती है । विपत्तिग्रस्त मनुष्य को उत्तरकालीन अभ्युदय छोड़ देता है । उत्तरकालीन अभ्युदय से रहित मनुष्य की प्रभावहीनता निश्चित है । प्रभावहीन मनुष्य राजलक्ष्मी के पद को नहीं प्राप्त करता ॥१४॥
टिप्पणी --अत्र पूर्वपूर्वस्योत्तरोत्तरादिकं प्रति कारणत्वात् कारणमालाऽलङ्कारः । तद्यथा—'यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता, तदा कारणमाला स्यात्' इति ॥१४॥
तदलं प्रतिपक्षममुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ १५ ॥
अन्वय --तत् उन्नतेः प्रतिपक्षं व्यवसायवन्ध्यताम् अवलम्ब्य अलम् । पराक्रमाश्रयाः समृद्धयः विषादेन समं न निवसन्ति ॥१५॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --पराक्रमाश्रयाः समृद्धयो भवन्तीत्युपदिशति भीमः ।
संस्कृत व्याख्या --तत् = तस्माद्धेतोः, उन्नतेः = समृद्धेः, अभ्युदयस्येत्यर्थः, प्रतिपक्षं = विघ्नं, शत्रुमित्यर्थः, व्यवसायवन्ध्यताम् = उद्यमहीनताम्, अवलम्ब्य = अवलम्बनं विधाय, साधनं मत्वेत्यर्थः, अलम् = मा, 'मास्म माऽलं च वारणे' इत्यमरः, प्रयोजनरहितमिति शेषः । पराक्रमाश्रयाः = पराक्रमः आश्रयो यासां ताः शौर्यविषया इति, पुरुषार्थावलम्बा इत्यर्थः, समृद्धयः = सम्पदः, विषादेन = निरुद्यमेन, समं = साकं, न = नहि, निवसन्तीति शेषः ।
हिन्दी व्याख्या --तत् = इसलिए, उन्नतेः = उन्नति के, प्रतिपक्षं = विरोधी (अवरोधक), व्यवसायवन्ध्यताम् = उद्यमहीनता का, अवलम्ब्य = सहारा लेना, अलं = व्यर्थ है । पराक्रमाश्रयाः = पुरुषार्थ पर आश्रित, समृद्धयः = समृद्धियाँ, विषादेन = उत्साहरहित के, समं = साथ, न = नहीं, निवसन्ति = रहती हैं ॥१५॥
हिन्दी अर्थ --इसलिए उन्नति (उत्कर्ष) के विरोधी या अवरोधक उद्यमहीनता का सहारा लेना व्यर्थ है । पौरुष पर आश्रित सम्पत्तियाँ उत्साहरहित के साथ नहीं रहतीं अर्थात् राजलक्ष्मी की प्राप्ति के लिए पुरुषार्थ ही एकमात्र साधन है ॥१५॥
टिप्पणी --अत्रार्थान्तरन्यासोऽलङ्कारः । तद्यथा साहित्यदर्पणे—'सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति ॥१५॥
अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृत्तिना ।
धृतराष्ट्रसुतेन सुत्यजाश्चिरमास्वाद्य नरेन्द्रसम्पदः ॥ १६ ॥
अन्वय --अथ अवधिः प्रतीक्ष्यते चेत्, आविष्कृतजिह्मवृत्तिना धृतराष्ट्रसुतेन नरेन्द्रसम्पदः चिरम् आस्वाद्य कथं सुत्यजाः ॥१६॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --चिरशासितां महीं दुर्योधनः सुखेन न दास्यतीति प्रस्तौति भीमः ।
संस्कृत व्याख्या --अथ = अनन्तरं, अवधिः = त्रयोदशवर्षमितकालः, प्रतीक्ष्यते = प्रतीक्षा क्रियते, चेत् = यदि, तर्हीति शेषः, आविष्कृतजिह्मवृत्तिना = आविष्कृतः प्रकटीकृतः, जिह्मः कुटिलः, वृत्तिः व्यवहारो येन स तेन, प्रदर्शितकुटिलव्यवहारेणेत्यर्थः, धृतराष्ट्रसुतेन = धृतराष्ट्रस्य तदभिधेयस्य राज्ञः, सुतेन पुत्रेण, दुर्योधनेनेत्यर्थः, नरेन्द्रसम्पदः = नरेन्द्रस्य नृपतेः, सम्पदः सम्पत्तौः, चिरं = बहुकालं यावत्, आस्वाद्य = स्वादित्वा, कथं = केन प्रकारेण, सुत्यजाः = सुखेन त्यक्तुं योग्याः । केनापि प्रकारेण सुखं न त्यक्तुं योग्या इत्यर्थः ।
हिन्दी व्याख्या --अथ = अनन्तर, चेत् = अगर, अवधिः = समय की (तेरह वर्ष रूप), प्रतीक्ष्यते = प्रतीक्षा की जाती है, (तो), आविष्कृतजिह्मवृत्तिना = कुटिल व्यवहार को प्रकट करने वाले, धृतराष्ट्रसुतेन = धृतराष्ट्र के पुत्र (दुर्योधन) द्वारा, नरेन्द्रसम्पदः = राज्य-सम्पत्तियाँ, चिरं = बहुत काल तक, आस्वाद्य = आस्वादन करके, कथं = कैसे, सुत्यजाः = सुखपूर्वक छोड़ने (त्याग करने) योग्य (होंगी) ॥१६॥
हिन्दी अर्थ --इसके बाद अगर तेरह वर्ष रूप समय की प्रतीक्षा की जाती है तो कुटिल व्यवहार को प्रदर्शित करने वाले धृतराष्ट्र के पुत्र दुर्योधन के द्वारा राज्यसम्पत्तियाँ बहुतकाल तक आस्वादन करके कैसे छोड़ने योग्य होंगी अर्थात् किसी भी प्रकार नहीं ॥१६॥
टिप्पणी --अत्रार्थापत्तिरलङ्कारः । तद्यथा साहित्यदर्पणे—'दण्डापूपिकान्यायार्थागमोऽर्थापत्तिरिष्यते' इति ॥१६॥
द्विषता विहितं त्वयाऽथवा यदि लब्ध्वा पुनरात्मनः पदम् ।
जननाथ तवानुजन्मनां कृतमाविष्कृतपौरुषैर्भुजैः ॥ १७ ॥
अन्वय --अथवा द्विषता विहितं पुनः आत्मनः पदं त्वया लब्ध्वा यदि, जननाथ ! तव अनुजन्मनाम् आविष्कृतपौरुषैः भुजैः कृतम् ॥१७॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --अवधौ पूर्णे सति अधिगते राज्ये पाण्डवभुजबिलं न्यक्Filtered करोति भीमः इति प्रस्तौति महाकविः ।
संस्कृत व्याख्या --अथवा = वा, द्विषता = वैरिणा दुर्योधनेनेत्यर्थः, विहितं = दत्तं, पुनः = पश्चात् द्वितीयावस्थायामवधौ समाप्ते सतीत्यर्थः, आत्मनः = निजस्य, पदं = स्थानं, राज्यमिति यावत्, त्वया = भवता, युधिष्ठिरेणेति, लब्ध्वा = प्राप्स्यते, यदि = चेत्, जननाथ ! = हे नरपति!, तव = ते युधिष्ठिरस्येति, अनुजन्मनां = भीमार्जुननकुलसहदेवानुजानाम्, आविष्कृतपौरुषैः = आविष्कृतं प्रदर्शितं, पौरुषं पराक्रमो यैः तैस्तथोक्तैः प्रदर्शितपुरुषार्थैः, भुजैः = बाहुभिः, 'भुजबाहू प्रवेष्टोः दोः' इत्यमरः, कृतम् = अलम् ।
हिन्दी व्याख्या --अथवा = या, द्विषता = शत्रु (दुर्योधन) के द्वारा, विहितं = अर्पित, पुनः = फिर से, आत्मनः = अपना, पदं = राजपद, त्वया = आप के (तुम्हारे) द्वारा, लब्ध्वा = प्राप्त किया गया (जायेगा), यदि = अगर, (तो), जननाथ ! = हे राजन्! तव = तुम्हारे (आप युधिष्ठिर के), अनुजन्मनां = अनुजों की, आविष्कृतपौरुषैः = पौरुष प्रकट करने वाली, भुजैः = भुजायें, कृतम् = व्यर्थ हैं ॥१७॥
हिन्दी अर्थ --अथवा शत्रु (दुर्योधन) के द्वारा अर्पित अपना राजस्थान यदि पुनः आपके द्वारा प्राप्त किया जायेगा (तो) आपके अनुजों की पौरुष (पराक्रम) प्रदर्शित करने वाली भुजायें व्यर्थ हैं ॥१७॥
टिप्पणी --'आविष्कृतपौरुषैः भुजैः' इत्यत्र परिकरालङ्कारः । तद्यथा साहित्यदर्पणे—'उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः' इति ॥१७॥
मदसिक्तमुरैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः ।
लघयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्वतः ॥ १८ ॥
अन्वय --मृगाधिपः मदसिक्तमुखैः स्वयं हतैः करिभिः वर्तयते । तेजसा जगत् लघयन् महान् अन्यतः भूतिं न इच्छति खलु ॥१८॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --सिंहसमः तेजस्वी अन्यतः ऐश्वर्यं न काङ्क्षतीति प्रस्तौति भीमः ।
संस्कृत व्याख्या --मृगाधिपः = सिंहः, मदसिक्तमुखैः = मदेन सिक्तानि मुखानि येषां तैः मदसिक्तमुखैः = दानवारियुक्ताननैः, 'वक्त्रास्यवदनं तुण्डमाननं लपनं मुखम्' इत्यमरः, स्वयम् = आत्मना, हतैः = व्यापादितैः, करिभिः = गजैः, वर्तयते = जीवति । तेजसा = धाम्ना, पराक्रमेणेत्यर्थः, जगत् = भुवनं, लघयन् = लघुकुर्वन्, तृणवन्मन्यमान इत्यर्थः, महान् = तेजस्वी पुरुषः, अन्यतः = अपरात्, भूतिम् = ऐश्वर्यं, सम्पदमित्यर्थः, न = नहि, इच्छति = कामयते, खलु = निश्चयेन ।
हिन्दी व्याख्या --मृगाधिपः = सिंह, मदसिक्तमुखैः = मदस्राविमुखवाले, स्वयं = अपने द्वारा, हतैः = मारे गए, करिभिः = हाथियों से (को खाकर), वर्तयते = जीवन-यापन करता हैं या जीविका चलाता है । तेजसा = तेज (प्रभाव) से, जगत् = संसार को, लघयन् = छोटा बनाता हुआ अर्थात् आक्रान्त करता हुआ, महान् = बड़ा अर्थात् तेजस्वी, अन्यतः = दूसरे से, भूति = ऐश्वर्य को, न = नहीं, इच्छति = चाहता है, खलु = निश्चय ही ॥१८॥
हिन्दी अर्थ --सिंह मदस्राविमुखवाले अपने द्वारा मारे गए हाथियों को खाकर अपनी जीविका चलता है । निश्चय ही, अपने पराक्रम से महान् (वीर पुरुष) संसार को छोटा बनाता हुआ दूसरे से ऐश्वर्य की इच्छा नहीं करता ॥१८॥
टिप्पणी --अत्रार्थान्तरन्यासोऽलङ्कारः तद्यथा—'सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति ॥१८॥
अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः ।
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥ १९ ॥
अन्वय --अभिमानधनस्य गत्वरैः असुभिः स्थास्नु यशः चिचीषतः अचिरांशुविलास-चञ्चला लक्ष्मीः आनुषङ्गिकं फलं ननु ॥१९॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --स्वाभिमानिना गमनशीलप्राणैः स्थिरतरयशश्चिचीषा करणीयेति प्रस्तौति भीमो युधिष्ठिरम् ।
संस्कृत व्याख्या --अभिमानधनस्य = अभिमानो धनं यस्य तस्याभिमानधनस्य = स्वाभिमानार्थस्य, गत्वरैः = गमनशीलैः, असुभिः = प्राणैः, स्थास्नु = स्थिरतरं, यशः = कीर्तिं, 'यशः कीर्तिः समज्या च' इत्यमरः, चिचीषतः = चेतुं प्राप्तुमित्यर्थः इच्छतः, अचिरांशुविलासचञ्चला = अचिरम् अंशवो यस्याः सा अचिरांशु = विद्युत्, तस्याः विलासः तद्वच्चञ्चलाऽचिरांशुविलासचञ्चला = तडित्स्फुरणवच्चपला, लक्ष्मीः = राजश्रीः, आनुषङ्गिकम् = अनुषङ्गादागतं, सहसा प्राप्तमित्यर्थः, फलं = परिणामो, ननु = निश्चयेन ।
हिन्दी व्याख्या --अभिमानधनस्य = स्वाभिमानरूप धनवाले, गत्वरैः = गमनशील, असुभिः = प्राणों के द्वारा, स्थास्नु = स्थायी, यशः = यश को, चिचीषतः = चाहने वाले (पुरुष का), अचिरांशुविलासचञ्चला = बिजली के विलास की तरह चञ्चल (थोड़ी देर तक टिकने वाली), लक्ष्मीः = सम्पत्ति, आनुषङ्गिकम् = आकस्मिक, फलं = फल (है), ननु = निश्चय ही ॥१९॥
हिन्दी अर्थ --स्वाभिमानरूप धन वाले गमनशील प्राणों के द्वारा स्थायी यश को चाहने वाले पुरुष का बिजली के विलास की तरह चपल लक्ष्मी निश्चय ही आकस्मिक फल है ॥१९॥
टिप्पणी --अत्रास्थिरप्राणैः स्थिरयशःप्राप्तिरतो न्यूनाधिकविनिमयात् परिवृत्तिरलङ्कारः । तद्यथा—'परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः' इति ॥१९॥
ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः ।
अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः ॥ २० ॥
अन्वय --जनः भस्मनां चयम् आस्कन्दति, ज्वलितं हिरण्यरेतसं न । अतः मानिनः अभिभूतिभयाद् असून् सुखम् उज्झन्ति, धाम न ॥२०॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --मानिनः प्राणान् सुखेन त्यजन्ति न तु स्वतेजांसि इति प्रस्तौति भीमः ।
संस्कृत व्याख्या --जनः = लोकः, 'लोकस्तु भुवने जने' इत्यमरः, भस्मनां = भूतीनां, चयं = पुञ्जम्, आस्कन्दति = पादादिना आक्रामति, दाहकत्वगुणरहितत्वादिति शेषः, ज्वलितं = दीप्तं, हिरण्यरेतसम् = अग्निं, न = नहि, दाहकगुणत्वादिति शेषः । अतः = अस्मात् कारणात्, मानिनः = मानयुक्ताः जनाः, अभिभूतिभयात् = पराभवभीतेः, असून् = प्राणान्, 'पुंसि भूम्न्यसवः प्राणाः' इत्यमरः, सुखम् = अनायासम्, उज्झन्ति = त्यजन्ति, धाम = तेजः, न = नहि ।
हिन्दी व्याख्या --जनः = लोक (संसार), भस्मनां = राख के, चयं = पुञ्ज को, आस्कन्दति = कुचल देता है, ज्वलितं = जलती हुई, हिरण्यरेतसम् = आग को, न = नहीं । अतः = इसलिए, मानिनः = स्वाभिमानी लोग, अभिभूतिभयात् = सम्मानहानि के भय से, असून = प्राणों को, सुखं = सुखपूर्वक, उज्झन्ति = त्याग देते हैं, धाम = तेज को, न = नहीं ॥२०॥
हिन्दी अर्थ --लोक (संसार) राख के पुञ्ज को कुचल देता है, जलती हुई आग को नहीं । इसलिए मनस्वी लोग सम्मानहानि के भय से प्राणों को सुखपूर्वक छोड़ देते हैं, तेज को नहीं ॥२०॥
टिप्पणी --अत्रार्थान्तरन्यासोऽलङ्कारः ॥२०॥
किमपेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ २१ ॥
अन्वय --मृगाधिपः किं फलम् अपेक्ष्य ध्वमतः पयोधरान् प्रार्थयते । महीयसः सा प्रकृतिः खलु, यया अन्यसमुन्नतिं न सहते ॥२१॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --वीरपुरुषः परोन्नतिं न सहते इति प्रस्तौति भीमः ।
संस्कृत व्याख्या --मृगाधिपः = मृगेन्द्रः (सिंहः), किं फलं = किम्प्रयोजनम्, अपेक्ष्य = लक्षीकृत्य, ध्वनतः = स्तनतः, पयोधरान् = मेघान्, प्रार्थयते = अभियाति, महीयसः = महतः पराक्रमिण इत्यर्थः, सा, प्रकृतिः = स्वभावः, खलु = निश्चयेन, यया = प्रकृत्या, अन्यसमुन्नतिम् = परोन्नतिं, न = नहि, सहते = सोढुं समर्थः ।
हिन्दी व्याख्या --मृगाधिपः = सिंह, किं फलं = किस फल की, अपेक्ष्य = अपेक्षा करके, ध्वनतः = गरजते हुए, पयोधरान् = मेघों के प्रति, प्रार्थयते = गर्जन करता है । महीयसः = महान् पुरुष का, सा = वह, प्रकृतिः = स्वभाव, खलु = निश्चय ही (है), यया = जिससे, अन्यसमुन्नतिं = दूसरे की उन्नति को, न = नहीं, सहते = सहता है ॥२१॥
हिन्दी अर्थ --सिंह किस फल की अपेक्षा कर गर्जन करने वाले मेघों के प्रति गर्जन करता है । महापुरुष का वह निश्चय ही स्वभाव है, जिससे दूसरे की उन्नति को नहीं सहता है ॥२१॥
टिप्पणी --अत्रार्थान्तरन्यासोऽलङ्कारः ॥२१॥
कुरु तन्मतिमव विक्रमे नृप ! निर्धूय तमः प्रमादजम् ।
ध्रुवमेतदवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥ २२ ॥
अन्वय --नृप ! तत् प्रमादजं तमः निर्धूय विक्रमे एव मतिं कुरु । विद्विषां विपत्तयः त्वदनुत्साहहताः एतद् ध्रुवम् अवेहि ॥२२॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --अनवधानतोत्पन्नं मोहं परित्यज्य पौरुषं स्वीकृतमुपदिशति भीमः ।
संस्कृत व्याख्या --नृप ! = हे राजन् ! युधिष्ठिर ! तत् = तस्माद्धेतोः, प्रमादजम् = अनवधानोत्पन्नं, 'प्रमादोऽनवधानता' इत्यमरः, तमः = अज्ञानं, मोहम् इत्यर्थः, निर्धूय = विविद्य, विक्रमे = पराक्रमे, पौरुषे इत्यर्थः, मति = बुद्धि, कुरु = नियोजय, विद्विषां = रिपूणां दुर्योधनादिकौरवाणां, विपत्तयः = आपदः, त्वदनुत्साहहताः = न उत्साहः अनुत्साहः, तव अनुत्साहः, तेन हताः त्वदनुत्साहहताः = त्वन्निरुद्योगेन प्रतिबद्धः, 'मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः' इति कोषः, एतद् = इदं, ध्रुवं = निश्चितं, 'ध्रुवो भेदे क्लीबं तु निश्चिते शाश्वते त्रिषु' इति कोषः, अवेहि = विद्धि ।
हिन्दी व्याख्या --नृप ! = हे राजन् !, तत् = इसलिए, प्रमादं = प्रमाद (असावधानी) से उत्पन्न, तमः = मोह को, निर्धूय = छोड़कर, विक्रमे = पौरुष में, एव = ही, मति = बुद्धि, कुरु = करो अर्थात् बुद्धि का प्रयोग कीजिए । विद्विषां = शत्रुओं (दुर्योधनादि कौरवों) की, विपत्तयः = विपत्तियाँ, त्वदनुत्साहहताः = आपकी पौरुषहीनता से प्रतिबद्ध (हैं), अर्थात् शत्रु आपकी पौरुषहीनता के कारण सम्पत्ति का भोग कर रहे हैं, एतद् = इसे, ध्रुवं = निश्चय ही, अवेहि = समझिए ॥२२॥
हिन्दी अर्थ --हे राजन् ! (युधिष्ठिर !) इसलिए प्रमाद (असावधानी) से उत्पन्न मोह को छोड़कर पौरुष में बुद्धि का प्रयोग कीजिए । शत्रु (दुर्योधनादि कौरवों) की विपत्तियाँ आपकी पौरुषहीनता से प्रतिबद्ध हैं अर्थात् शत्रु आपकी पौरुषहीनता से सम्पत्तियों का भोग कर रहे हैं ॥२२॥
टिप्पणी --अत्र वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । तद्यथा साहित्यदर्पणे—'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गन्त्रिगद्यते' इति ॥२२॥
द्विरदानिव दिग्विभाविताञ्छ्रुतुरस्तोयनिधीनिवायतः ।
प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥ २३ ॥
अन्वय --दिग्विभावितान् आयतः चतुरः द्विरदान् इव तोयनिधीन् इव रणे शतमन्युतेजसः तव अनुजान् द्विषतां कः प्रसहेत ॥२३॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --इन्द्रसमबलिनः तवानुजान् पाण्डवान् सोढुं क समर्थ इति भीमः प्रस्तौति ।
संस्कृत व्याख्या --दिग्विभावितान् = दिक्षु आशासु, 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः, विभावितान् = प्रसिद्धान्, आयतः = आगच्छतः, चतुरः = चतुःसङ्ख्यकान्, द्विरदान् = गजान्, 'दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः दिग्गजानित्यर्थः, इव = यथा, तोयनिधीन् = समुद्रान्, इव = यथा, रणे = युद्धे, शतमन्युतेजसः = शतमन्योः इन्द्रस्य, तेजः पराक्रम इव तेजो येषान्ते तान् शक्रसमबलिन इत्यर्थः, तव = भवतः, अनुजान् = अवरजान्, भीमार्जुननकुलसहदेवाख्यानिति यावत्, द्विषतां = रिपूणां कौरवाणामिति भावः, मध्ये इति शेषः, कः = भटः, प्रसहेत = सोढुं क्षमेत ।
हिन्दी व्याख्या --दिग्विभावितान् = दिशाओं में प्रसिद्ध, आयतः = आते हुए, चतुरः = चार, द्विरदान् = दिग्गजों की, इव = तरह, रणे = युद्ध में, शतमन्युतेजसः = इन्द्र के समान बलवाले, तव = तुम्हारे (आपके), अनुजान् = (चार) छोटे भाइयों को, द्विषतां = शत्रुओं (कौरवों) के बीच, कः = कौन, प्रसहेत = सहने में समर्थ है अर्थात् कोई नहीं ॥२३॥
हिन्दी अर्थ --दिशाओं में प्रसिद्ध, आते हुए चार दिग्गजों के समान, चारों ओर से फैले हुए चार समुद्रों के समान युद्ध में इन्द्र के समान बलशाली आप के चारों अनुजों को शत्रुओं (कौरवों) के बीच में कौन (वीर) सहने में समर्थ है अर्थात् कोई नहीं ॥२३॥
टिप्पणी --अत्रोपमाऽलङ्कारः । तद्यथा—'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥२३॥
ज्वलतस्तव जातवेदसः सततं वैरकृतस्य चेतसि ।
विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥ २४ ॥
अन्वय --तव चेतसि सततं ज्वलतः वैरकृतस्य जातवेदसः शिवेतरा रिपुनारीनयनाम्बुसन्ततिः शमं विदधातु ॥२४॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --रिपुस्त्रीणामश्रुप्रवाहो युधिष्ठिरक्रोधाग्निं शमयतु इति भीमः प्रस्तौति ।
संस्कृत व्याख्या --तव = भवतो युधिष्ठिरस्य, चेतसि = हृदये, 'चित्तन्तु चेतो हृदयं स्वान्तर्हृन्मानसं मनः' इत्यमरः, सततं = निरन्तरं, 'सततानारताश्रान्तसन्तताविरतानिशम्' इत्यमरः, ज्वलतः = दहतः, वैरकृतस्य = शत्रुजनितस्य, जातवेदसः = अग्नेः, क्रोधाग्नेरिति, शिवेतरा = शुभेतरा, रिपुनारीनयनाम्बुसन्ततिः = रिपूणां नार्यः रिपुनार्यः तासां नयनानामम्बूनि तेषां सन्ततिः रिपुनारीनयनाम्बुसन्ततिः = वैरिदुर्योधनादिस्त्रीजनाश्रुप्रवाहः, शमं = शान्ति, विदधातु = करोतु ।
हिन्दी व्याख्या --तव = आप के, चेतसि = हृदय में, सततं = निरन्तर, ज्वलतः = जलते हुए, वैरकृतस्य = शत्रु (दुर्योधनादि) के द्वारा किये गए, जातवेदसः = क्रोधाग्नि की, शिवेतरा = अमङ्गलस्वरूप, रिपुनारीनयनाम्बुसन्ततिः = शत्रुओं की स्त्रियों की आँखों से गिरने वाली आँसुओं की परम्परा, शमं = शान्ति को, विदधातु = (प्रदान) करे ॥२४॥
हिन्दी अर्थ --आप (युधिष्ठिर) के हृदय में लगातार जलते हुए शत्रु दुर्योधनादि से उत्पन्न क्रोधाग्नि की शान्ति अमङ्गलस्वरूप शत्रुस्त्रियों की आँखों से बहने वाली अश्रुधारा करे ॥२४॥
टिप्पणी --अत्र क्रोधविषयस्य निगरणेन जातवेदस इति विषयिणः प्रदर्शनात् अतिशयोक्तिरलङ्कारः । तद्यथा साहित्यदर्पणे—'सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते । भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्ययौ । पौर्वापर्यात्मकः कार्यहेत्वोः सा पञ्चधा ततः' इति ॥२४॥
इति दर्शितविक्रयं सुतं मरुतः कोपपरीतमानसम् ।
उपसान्त्वयितुं महीपतिर्दिरदं दुष्टमिवोपचक्रमे ॥ २५ ॥
अन्वय --इति दर्शितविक्रयं कोपपरीतमानसं मरुतः सुतं महीपतिः दुष्टं द्विरदम् इव उपसान्त्वयितुम् उपचक्रमे ॥२५॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --क्रोधाविष्टभीममनुनेतुमुपक्रमते युधिष्ठिरः इति महाकविः प्रस्तौति ।
संस्कृत व्याख्या --इति = पूर्वोक्तरीत्या, दर्शितविक्रियं = दर्शिता विक्रिया येन तं दर्शितविक्रियं = प्रदर्शितासाधुचेष्टितं, 'परिणामो विकारो द्वे समे विकृतिविक्रिये' इति कोषः, कोपपरीतमानसं = क्रोधाविष्टचित्तं, मरुतः = अनिलस्य, सुतं = पुत्रं, भीमसेनममित्यर्थः, महीपतिः = राजा युधिष्ठिर इति भावः, दुष्टं = मदोद्धतं, द्विरदं = गजम्, इव = यथा, उपसान्त्वयितुम् = अनुनेतुम्, उपचक्रमे = उद्यतोऽभूत् ।
हिन्दी व्याख्या --इति = इसप्रकार, दर्शितविक्रयं = (क्रोध से) अशोभन चेष्टाओं का प्रदर्शन करनेवाले, कोपपरीतमानसं = क्रोध से युक्त हृदय वाले, मरुतः = वायुदेव के, सुतं = पुत्र (भीम) को, महीपतिः = राजा (युधिष्ठिर), दुष्टं = मदमत्त (दुष्ट), द्विरद = हाथी की, इव = तरह, उपसान्त्वयितुम् = अनुनय द्वारा शान्त करने के लिए, उपचक्रमे = प्रयास करने लगे ॥२५॥
हिन्दी अर्थ --इसप्रकार अशोभन चेष्टाओं का प्रदर्शन करने वाले क्रोध से युक्त हृदय वाले वायु के पुत्र (भीम) को राजा (युधिष्ठिर) मदमत्त (दुष्ट) हाथी की तरह अनुनय द्वारा शान्त करने के लिए प्रयास करने लगे ॥२५॥
टिप्पणी --दुष्टद्विरदमरुत्सुतयोः साम्यादत्रोपमाऽलङ्कारः । तद्यथा साहित्यदर्पणे—'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥२५॥
अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥ २६ ॥
अन्वय --अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे आदर्श इव तव गिरां विस्तरे विमला मतिः अभिदृश्यते ॥२६॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --तव वाक्प्रपञ्चे अमला बुद्धिः परिलक्ष्यते इति प्रशंसति भीमं युधिष्ठिरः ।
संस्कृत व्याख्या --अपवर्जितविप्लवे = अपवर्जितो विप्लवो यस्य तस्मिन् अपवर्जितविप्लवे = बाह्यमलप्रभावरहिते, पक्षे-त्यक्तप्रमाणदोषे, शुचौ = शुभे, पक्षे-सुशब्दयुक्ते, हृदयग्राहिणि = मनोहरे, मङ्गलास्पदे = कल्याणस्थाने, पक्षे-शुभान्विते, आदर्श = दर्पणे, इव = यथा, तव = भवतः भीमस्येत्यर्थः, गिरां = वाणीनां, विस्तरे = प्रपञ्चे, विमला = निर्मला, मतिः = बुद्धिः, अभिदृश्यते = परिलक्ष्यते ।
हिन्दी व्याख्या --अपवर्जितविप्लवे = बाहरी मल के प्रभाव से अदूषित, शुचौ = स्वच्छ, हृदयग्राहिणि = प्रतिबिम्बग्राही, मङ्गलास्पदे = कल्याणकारी, आदर्श = दर्पण की, इव = तरह; अपवर्जितविप्लवे = प्रमाणबाधाओं से रहित, शुचौ = सुन्दर शब्दों से युक्त, हृदयग्राहिणि = मनोहारी, मङ्गलास्पदे = कल्याणकारी, तव = तुम्हारे (भीम के) गिरां विस्तरे = वाणियों के विस्तार में अर्थात् वाक्-प्रपञ्च में, विमला = निर्मल, मतिः = बुद्धि, अभिदृश्यते = दीख रही है ॥२६॥
हिन्दी अर्थ --बाहरी मल के प्रभाव से अदूषित स्वच्छ प्रतिबिम्बग्राही कल्याणकारी दर्पण की तरह प्रमाण बाधाओं से रहित सुन्दर शब्दों से युक्त मनोहारी कल्याणकारी तुम्हारे वाक्प्रपञ्च (वाणी-विस्तार) में निर्मल बुद्धि दीख पड़ती है । अर्थात् जिस प्रकार स्वच्छ दर्पण में आकृति स्पष्ट दीखती है वैसे ही तुम्हारी वाणी में स्वच्छ (स्पष्ट) बुद्धि दिखाई पड़ रही है ॥२६॥
टिप्पणी --'आदर्श इव तव गिरां विस्तरे' इत्यत्रोपमाऽलङ्कारः । तद्यथा- 'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥२६॥
स्फुटता न पदैरपाकृता न च स्वीकृतमर्थगौरवम् ।
रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥ २७ ॥
अन्वय --पदैः स्फुटता न अपाकृता, अर्थगौरवं च न स्वीकृतं, न गिरां पृथगर्थता रचिता, क्वचित् सामर्थ्यं न अपोहितम् ॥२७॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --भीमवचनं प्रशंसति युधिष्ठिरो मृदुवचनैः ।
संस्कृत व्याख्या --पदैः = सुप्तिङन्तैः कथनशब्दैरित्यर्थः, स्फुटता = स्पष्टता, न = नहि, अपाकृता = पृथक्कृता, अर्थगौरवम् = अर्थगुरुतां, च = तथा, न = नहि, स्वीकृतम् = अङ्गीकृतम्, इतीति शेषः, न = नहि, पदेषु अर्थगौरवं विभातीति भावः । गिरां = वाचां, 'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः, पृथगर्थता = भिन्नार्थता, रचिता = विहिता, क्वचित् = कुत्रचित्, सामर्थ्यं = परस्पराङ्गाक्षत्वं, न = नहि, अपोहितं = त्यक्तम् ।
हिन्दी व्याख्या --पदैः = पदों के द्वारा, स्फुटता = अर्थ की स्पष्टता, न = नहीं, अपाकृता = अलग नहीं की गयी है, च = और, अर्थगौरवं = अर्थगौरव, न = नहीं, स्वीकृतं = स्वीकृत किया गया है, न = ऐसा भी नहीं । गिरां = (अवान्तर) वाक्यों की, पृथगर्थता = भिन्नार्थता, रचिता = रचित (सम्पादित की गई) है अर्थात् पदों का भिन्न-भिन्न अर्थ प्रदर्शित है । क्वचित् = कहीं भी (वाणी में), सामर्थ्यं = सामर्थ्य (एक दूसरे के साथ आकाङ्क्षाभाव) को, न = नहीं, अपोहितं = छोड़ा गया है ॥२७॥
हिन्दी अर्थ --(भीम के वाक्-प्रपञ्च में) पदों द्वारा अर्थ की स्पष्टता अलग नहीं की गई है और अर्थगौरव भी नहीं स्वीकृत किया गया है ऐसा भी नहीं । अवान्तर वाक्यों की भिन्नार्थता सम्पादित की गई है अर्थात् पदों का भिन्न-भिन्न अर्थ प्रदर्शित है, कहीं भी एक दूसरे के साथ आकाङ्क्षाभाव (सामर्थ्य) नहीं छोड़ा गया है । अर्थात् भीम की वाणी के पदों में स्पष्ट अर्थ हैं, अर्थों में गौरव है, पुनरुक्त नहीं हैं और एक दूसरे की अपेक्षा रखते हैं ॥२७॥
टिप्पणी --अत्र दीपकमलङ्कारः ॥२७॥
उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।
इदमीदृगनीदृगाशयः प्रसभा वक्तुमुपक्रमेत कः ॥ २८ ॥
अन्वय --बलाद् उपपत्तिः उदाहृता, अनुमानेन आगमः च न क्षतः । ईदृक् इदम् अनीदृगाशयः कः प्रसभं वक्तुम् उपक्रमेत ॥२८॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --भीमेन यदुक्तं तद् वक्तुं न कोऽपि क्षम इति युधिष्ठिरः प्रशंसति भीमम् ।
संस्कृत व्याख्या --बलात् = बलं पौरुषमाश्रित्य, उपपत्तिः = युक्तिः, उदाहृता = उपस्थापिता, अनुमानेन = युक्त्या, आगमः = शास्त्रं, न = नहि, क्षतः = उपेक्षितः, ईदृक् = क्षात्रोचितम्, इदम् = एतत् भीमकथनमिति, अनीदृगाशयः = क्षात्रोचिताभिप्रायविहीनः, कः = त्वदतिरिक्तोऽन्यः, प्रसभं = हठात्, 'प्रसभं तु बलात्कारो हठः' इति कोषः, वक्तुं = कथयितुम्, उपक्रमेत = उपस्थापयितुं क्षमेत ।
हिन्दी व्याख्या --बलात् = बल से अर्थात् पुरुषार्थ को आधार बनाकर, उपपत्तिः = युक्ति, उदाहृता = प्रदर्शित की गयी है, अनुमानेन = अनुमान के द्वारा, आगमः = शास्त्र, च = और, न = नहीं, क्षतः = नष्ट किया गया है अर्थात् शास्त्र का विरोध नहीं किया गया है । ईदृक् = ऐसा (क्षात्रोचित), इदं = यह (तुम्हारा कथन), अनीदृगाशयः = इस तरह के आशय से रहित, कः = (दूसरा) कौन, प्रसभं = हठपूर्वक, वक्तुं = बोलने के लिए, उपक्रमेत = प्रयास कर सकता है अर्थात् कोई नहीं ॥२८॥
हिन्दी अर्थ --बल अर्थात् पुरुषार्थ को आधार बनाकर युक्ति प्रदर्शित की गई है, अनुमान (युक्ति) द्वारा शास्त्र का विरोध नहीं किया गया है । (क्षात्रोचित) यह तुम्हारा वचन इस तरह के आशय से रहित तुम्हारे अलावा दूसरा कौन हठपूर्वक बोलने के लिए समर्थ है ॥२८॥
टिप्पणी --अत्रार्थापत्तिरलङ्कारः । तद्यथा साहित्यदर्पणे—'दण्डापूपिकान्यायार्थागमोऽर्थापत्तिरिष्यते' इति ॥२८॥
अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति ।
अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥ २९ ॥
अन्वय --तथापि मे हृदयं अवितृप्ततया निर्णयम् एव धावति, विधेयेषु विशेषसम्पदः सुखम् अवसाययितुं न क्षमाः ॥२९॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --भीमकथने सत्येऽपि मे मनः असन्तुष्टमिति प्रस्तौति युधिष्ठिरः ।
संस्कृत व्याख्या --तथापि = त्वया विमृश्य कथितेऽपि, मे = मम युधिष्ठिरस्य, हृदयं = मनः, अवितृप्ततया = असन्तुष्टतया, निर्णयं = निश्चयम्, एव, धावति = अनुगच्छति । विधेयेषु = सन्धिविग्रहयानासनादिकृत्येषु, विशेषसम्पदः = विशिष्टसम्पत्तयः, सुखं = सुखपूर्वकम्, अवसाययितुं = निजं रूपं प्रदर्शयितुं, न = नहि, क्षमाः = समर्थाः ।
हिन्दी व्याख्या --तथापि = फिर भी (तुम्हारे द्वारा निर्णय ले लेने पर भी), मे = मेरा, हृदयं = मन, अवितृप्ततया = असन्तुष्ट होने के कारण, निर्णयं = निर्णय (की ओर) को, एव = ही, धावति = दौड़ रहा (प्रवर्तित हो रहा) है । विधेयेषु = (सन्धिविग्रह आदि) कर्तव्यरूप अर्थों में, विशेषसम्पदः = विशेष सम्पत्तियाँ, सुखम् = सुखपूर्वक (अनायास), अवसाययितुं = अपना स्वरूप प्रदर्शित करने में, क्षमाः = समर्थ, न = नहीं हैं ॥२९॥
हिन्दी अर्थ --(तुम्हारे द्वारा निर्णय ले लेने पर भी) फिर भी मेरा मन असन्तुष्ट होने के कारण निर्णय की ओर ही दौड़ रहा है । सन्धिविग्रहादि कर्त्तव्यरूप अर्थों में विशिष्ट सम्पत्तियाँ सुखपूर्वक अपना स्वरूप प्रदर्शित करने में समर्थ नहीं है ॥२९॥
टिप्पणी --अत्र वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । तद्यथा साहित्यदर्पणे—'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गन्त्रिगद्यते' इति ॥२९॥
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ ३० ॥
अन्वय --क्रियां सहसा न विदधीत, अविवेकः आपदां परं पदम् । हि गुणलुब्धाः सम्पदः विमृश्यकारिणं स्वयम् एव वृणुते ॥३०॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के द्वितीय सर्ग से उद्धृत।
प्रसङ्ग --अविमृशितं कार्यं न करणीयमित्युपदिशति युधिष्ठिरः ।
संस्कृत व्याख्या --क्रियां = सन्धिविग्रहयानासनादिकृत्यं, सहसा = अतर्कितरूपेण, न = नहि, विदधीत = कुर्वीत । अविवेकः = अज्ञानम्, अविमृश्यकारित्वमित्यर्थः, परं = विशिष्टम्, आपदां = विपदां, पदम् = आस्पदं, कारणमित्यर्थः, अस्तीति शेषः । हि = यतः, गुणलुब्धाः = दयादाक्षिण्यादिगुणाभिलाषुकाः, 'लुब्धोऽभिलाषुकस्तृष्णक्' इत्यमरः, सम्पदः = लक्ष्म्यः, विमृश्यकारिणं = विमर्शशीलं जनं, स्वयमेव = स्वत एव, वृणुते = वरणं कुर्वन्ति, प्राप्नुवन्तीत्यर्थः ।
हिन्दी व्याख्या --क्रियां = सन्धिविग्रहादिरूपकार्य, सहसा = अचानक, न = नहीं, विदधीत = करना चाहिए, अविवेकः = अविवेक, आपदां = आपत्तियों का, परं = बहुत बड़ा, पदं = स्थान है । हि = क्योंकि, गुणलुब्धाः = गुणों पर अनुरक्त, सम्पदः = सम्पत्तियाँ, विमृश्यकारिणं = सोच-विचार कर कार्य करने वाले को, स्वयं = खुद, एव = ही, वृणुते = वरण करती हैं ॥३०॥
हिन्दी अर्थ --सन्धिविग्रहादिरूप कार्य अचानक नहीं करना चाहिए । अविवेक विपत्तियों का बहुत बड़ा कारण है । क्योंकि गुणों पर अनुरक्त सम्पत्तियाँ सोचविचार कर कार्य करने वाले मनुष्य का वरण खुद ही करती हैं ॥३०॥
टिप्पणी --अत्रार्थान्तरन्यासोऽलङ्कारः । तद्यथा साहित्यदर्पणे—'सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति ॥३०॥
