श्लोक - 01
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति, यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रसन्नस्तनुभिरवतु, वस्ताभिरष्टाभिरीशः ॥1॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
प्रसंग
तत्र भवान् महाकविः कालिदासः प्रारिप्सितस्य ग्रन्थस्य निविघ्नतया परिपूर्णतायै, शिष्यशिक्षायै च 'रङ्गविघ्नोपशान्त्यर्थं नान्दीमादौ प्रयोजयेत्' इति नियमा-नुसारेण स्वोपास्यभगवच्छङ्करशरीरसंकीर्तनरूपां नान्दीमादौ समाचरन् प्राह-
अन्वय
स्रष्टुः द्या आया सृष्टिः, या विधिहुतं वहति, या हविः, या च होत्री:,ये द्वे कालं विधत्तः, या श्रुतिविषयगुणा या विश्वं व्याप्य स्थिता, यां सर्ववीजप्रकृतिः इति आहुः, यया प्राणिनः प्राणवन्तः, (ताभिः) प्रत्यक्षाभिः अष्टाभिः तनुभिः ईशः वः अवतु ।
व्याख्या
या सृष्टिरिति स्रष्टुः =
जगन्निर्माणकर्तुः परमात्मनः,,
या तनुः आद्या =
सर्वप्रथमा सृष्टिः=निर्माणकार्य जलरूपम् ।,तथा च श्रुतिः -'अद्भ्यः संभृतः पृथिव्यै' (उत्तरामुवाक) 'अद्भ्यः सम्भूतः पृथिव्यैरसाच्च' (उत्तरनारायणम्) इत्यादिका। भगवता मनुनापि प्रोक्तम्-
'अप एवं ससंर्गादौ तामु वीर्यमपामृजत् ।
तदण्डमभवद् हैमं सहस्रांशुसमप्रभम्।'
या भगवतः शङ्करस्य तनुः = मूर्तिः अग्निस्वरूपा,
विधिहुतम् = शास्त्रोक्ततया-प्रक्रियया होमकृतम्,
वहति = तां तां देवतां होमकृतं वस्तु, वहति= प्रापयति, तथाचोक्तमकमप्यभियुक्तैः 'अग्नौ प्रस्ताहुतिः सम्यगादिव्यमुपतिष्ठते',
या च भगवतः शङ्करस्य तनुः हविः = हवनीयद्रव्यस्वरूपा,
या च तनुः = शरीरम्,
होत्री = हवनकर्त्री, यजमानस्वरूपा, ये भगवतः शङ्करस्य द्वे मूर्ती सूर्यचन्द्रस्वरूपे शरीरे,
कालम् = अहोरात्रस्वरूपम्,
विधत्तः = निष्पादयतः क्रमशः,
सूर्यचन्द्रमसोः = दिनरात्र्योः निष्पादकत्वात्,
श्रुतेः = श्रवणस्य,
विषय = शब्दः एव गुणो यस्या सा तथा विधा आकाशस्वरूपा, आकाशस्य शब्दगुणत्वं हि सर्वत्रप्रसिद्धम्, उक्तञ्चापि 'आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः ।' इति । या आकाशस्वरूपा तनुः विश्वमीश्विलंजगत् ,
व्याप्य = व्याप्तं कृत्वा, स्थिता वर्तते। तथा च श्रुतिः 'ईशावास्यमिदं सर्व यत्किञ्चज्जगत्यां जगत् ।' इति । आकाशस्य सर्वव्याकत्वं प्रख्यातमपि ।,
यां भगवतस्तनुम्, सर्वबीजप्रकृतिः सर्वेषाम् धान्यादिकानां सस्यानाम्, बीजानो, प्रकृतिः ,
प्रकृतिः = कारणमित्याहुः। पृथिवीस्वरूपा। पृथिव्यामेव सस्यादिकानाम् उत्पतिर्भवति ।,
यया च भगवतः शङ्करस्य वायुरूपया तन्वा,सर्वे
प्राणिनः = जीवाः, प्राणवन्तः, प्राणयुक्ताः जीविताः भवन्ति । प्राणानामपि वायुविशेषरूपत्वात् । कुक्षिस्थभुक्तपीतान्नपानीयपाकोपयोगी तनुतरवायुविशेष एव प्राण इत्यभिधीयते,
ताभिः = पूर्वोक्ताभिः जलाग्निहवियजमान सूर्यचन्द्राकाशपृथिवीप्राणस्वरूपाभिरष्टाभिः =,
अष्टसंख्याकाभिः प्रत्यक्षाभिः - अस्माकमिन्द्रियैः ग्राह्याभिः,
तनुभिः = शरीरैः,
प्रसन्नः = प्रसन्नतां गतः,
ईशः = भगवान् शङ्करः,
वः = युष्मानवतु रक्षतात्,
टिप्पणी
अस्मिन्छ्लोके स्रग्धरावृत्तम् । अम्नैर्यानां त्रयेण त्रिमुनियतियुता साग्धरा कीर्तितेयम् ।' इति हि स्रग्धरालक्षणम् ।
हिन्दी अर्थ
ईश्वर की जो मूर्ति जगत् स्रस्टा की जलमयी, आद्य सृष्टि,ईश्वर की जो अग्निमयी मूर्ति, विधिपूर्वक हवन की गयी सामग्री, जिस देवता को उद्दिष्ट करके हवन किया जाता है उस देवता तक पहुँचाती है, ईश्वर की जो मूर्ति स्वयं यजमान स्वरूपा है, ईश्वर की जो सूर्य तथा चन्द्रस्वरूपमूर्तियाँ क्रमशः दिन तथा रात को प्रवर्तित करती हैं, ईश्वर की जो आकाश स्वरूपमूर्ति श्रोतेन्द्रिय के विषयभूत शब्द का आश्रय तथा सम्पूर्ण विश्व में व्याप्त होकर स्थित है। ईश्वर के जिस पृथ्वीस्वरूप मूर्ति को विद्वानों ने सम्पूर्ण बीजों का कारण बताया है,तथा परमात्मा की जिस वायुस्वरूपामूर्ति सो सभी प्राणी जीवित रहते हैं,इस स्तुति से प्रसन्न होकर भगवान शंङ्कर उपर्युक्त आपने आठ प्रत्यक्ष शरीरों के द्वारा आप सबों की रक्षा करें।
श्लोक - 02
आपरितोषाद्विदषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।। 2।।
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग
अस्मिन् श्लोके महाकविना अभिनयसाफल्यस्य काठिन्यं प्रतिपादितम्। अनेन नाटकाभिनये कुशीलवैः सावधानैर्माव्यमिति सूचितम् । अतएव विद्वद्भिरेव मयाकृतोऽभिनय: परीक्षणीयः, तेषां सन्तोष एवाभिनयचारुत्वस्य काण्ठेति सूत्रधारस्याभिप्रायः।
अन्वय
विदुषाम् आपरितोषात् प्रयोगविज्ञानम्, साधु न मन्ये, बलवदपि शिक्षिताम्,आत्मनि, आत्मनि, चेतः अप्रत्ययं भवति।
व्याख्या
विदुषाम् = पण्डिताम्, नाट्यतत्त्वाभिज्ञानाम्,
आपरितोषात् = पूर्णतया सन्तोषप्राप्तिकालं यावत,यावत् कालपर्यन्तं नाट्यतत्वाभिज्ञा: विद्वांस। पूर्णरूपेणसन्तोषं नह्यनुभवन्ति तावत् कालं यावत्, अहं प्रयोगविज्ञानम् अड्गिक-कायिकादिसात्विकाभिनयरूपस्य प्रयोगस्य ,
विज्ञानं = विशिष्टज्ञानम्,
साधु = उत्कृष्टम्,
न = नहि,
मन्ये = स्वीकरोमि ।
बलवदपि = सुदृढतया प्रयासपूर्वकम् अपि,
शिक्षितानाम् = प्रशिक्षितानाम्,नटानाम्,
आत्मनि = स्वस्मिन्,
चेतः = अन्तःकरणम्,
अप्रत्ययम् = अविश्वस्तं भवति।मयाकृतोऽभिनयः विदुषां सन्तोषावहो भविष्यति न वेति, चिन्तैव अप्रत्यस्य हेतुः ।
टिप्पणी
अतएवात्र पर्यायोक्तिरलंकार:।
हिन्दी अर्थ
जिससे विद्वानों को पूर्ण रूप से परितोष नहीं होता है, उस नाट्य कौशल को मैं सफल नहीं मानता । बहुत अधिक प्रशिक्षित भी अभिनेता को अपने मन में सफल अभिनय के विषय में अविश्वास बना रहता है ।
श्लोक - 03
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः ।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ 3॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
प्रसंग
अस्मिञ्छलोके दिवसानां चत्वारि विशेषणानि उपात्तानि सन्ति। एभिः सर्वैः विशेषणैः ग्रीष्मर्तोः प्रारम्भ कालस्य चित्रम् समुपस्थितं भवति ।
अन्वय
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाता:, प्रच्छायसुलभनिद्राः परिणामरमणीयाश्च दिवसाः ॥
व्याख्या
सुभगः = अतिमनोहरः,
सलिलेषु = जलेषु,
अवगाहः = मज्जनं, येषु तथाविधा,ग्रीष्मर्तौः शीतबाधाभावात् जलेषु स्नानं रुचिकरं भवति ।,
पाटलानाम् = पाटलनामकानाम् पुष्पाणाम्,
संसर्गेण = सम्बन्धेन,
सुरभिः = सौगन्ध्यसमन्वितः,
वनवातः = वनानामरण्यानां,
वातः = वायुः,
येषां तथाविधाः,
प्रच्छाये = सान्द्रछायायुक्ते,
सुलभाः = अनायासलभ्या,
निद्रायेषु = तथाविधाः,
परिणामे = सायंकाले समागते,
रमणीयाः = मनोहराः,
ये ते तथा विधाः दिवसाः = दिनानि सन्ति
टिप्पणी
एतादृशं सर्वगुणसम्पन्नं ग्रीष्मर्तुमधिकृत्य भवत्या गानं कर्तव्यम् । एभिःश्लोकगतैर्चतुर्भिः विशेषणैः नाटकाभिनयजन्यखेदापनोदनं सुकरमिति व्यज्यते । अतएव परिकरालङ्कारः । तथा च परिकरलक्षणम्- 'उक्तिविशेषणैः साभिप्रायैः परिकरो मतः ।' इति ।
ग्रीष्मर्तोः स्वभाववर्णनाच्चात्र स्वभावोत्यलङ्कारः । तथा चोक्तं काव्यादर्शकारेण-'नानावस्थं पदार्थानां रूपं साक्षाद् विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्मता ।। इति ।।
अत्रार्या जातिः । तथा चार्यालक्षणपूर्वमेवोक्तम् ।।
हिन्दी अर्थ
जल में स्नान करना अत्योन्त मनोहर लगता है। गुलाब के सम्पर्क से वन की वायु सुगन्धित हो गयी है, घनी छाया में अनायास ही नींद लग जाती है तथा ढलने पर दिन अच्छे लगते हैं।
श्लोक - 04
ईषदीषच्चुम्बितानि भ्रमरैः पश्य सुकुमारकेसरशिखानि ।
अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥ 4॥
(ईवदीषच्चुम्बिआई भमरेहि उह सुउमारकेसरतिहाई ।
ओदंस अंति दअमाणा पमदाओ सिरीसकुसुमाई ॥)
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
प्रसंग
एष नटी ग्रीष्मर्तुमधिकृत्य सूत्रधारस्याज्ञया गानं करोति। ग्रीष्मर्तावेव शिरीषकुसुमानि विकसितानि भवन्ति। रुपयौवनशालिन्यो युवतयः शिरीषकुसुमाराणां कर्णाभरणं कुर्वन्तीति वर्णयति नटी। तथा हि-
अन्वय
दयमाना प्रमदाः भ्रमरैः ईषत्- ईषत् चुम्बितानि सुकुमारकेशरशिखानि शिरीषकुसुमानि अवतंसयन्ति, पश्य।
व्याख्या
दयमानाः = दयायुक्ताः सुकुमाराणामपि पुष्पाणाम् कर्णाभरणकरणत्वात् दयायुक्त्वं,
प्रमदाः = रूपयौवनशालिन्यो युवतयः प्रकृष्टम् अदयुक्ताः,
भ्रमरैः = षट् पदैः,
ईषदीषत् = अल्पमल्पम्,
चुम्बितानि = संस्पृष्टानि,
सुकुमारकेसरशिखानि = सुकुमाराः,
केसराणाम् = मरन्दानाम् शिखा येषां तानि तथाविधानि,
शिरीषाणाम् = शिरीषवृक्षाणाम्,
कुसुमानि = पुष्पाणि,
अवतंसयन्ति = करणाभरणं कुर्वन्ति,
इति पश्य = अवलोकय, दृश्यस्यातिमनोज्ञत्वात् द्रस्टुं प्रेरण
टिप्पणी
यस्मात् कारणात् शिरीषकुसुमानिसुकुमाराणि सन्ति अतएव दयमानाः सत्यः प्रमदाः अवतंसयन्तीति हेतु-हेतुमद्भावात् काव्यलिङ्गालङ्कारः । तथा चोक्तं साहित्यदर्पणकारेण -
'हेतोर्वाक्यपदार्थत्वं काव्यलिङ्गमुदाहृतम्।' इति ।
इयमुङ्गाथानाम जातिः तथा चोक्तं पिङ्गले-
'पुम्बद्धे उत्तद्धे मता तीसपत्ति सुभअ संमणिआ । सो उग्गारो बुत्तो पिङ्घलक इदिट्टसट्टि मत्तङ्गो ।।'
हिन्दी अर्थ
देखो, भ्रमरों ने धीरे धीरे जिनके कोमल किंजल्क के पराग को चूस लिया है, उन शिरीष पुष्पों को दयायुक्त रूपयौवनशालिनी युवतियाँ अपना कर्णभूषण बना रहीं ।
श्लोक - 05
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ।। 5
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
प्रसंग
अयमाशयो यत् येन प्रकारेणातिशयजवशालीमृगः राजानं दुष्यन्तम् अतिदूरं धावयामास स्वस्थानात् तेनैव प्रकारेण तव मनोहरगीतरागपञ्चरगतं में चित्तम् किंकर्व्यविमूढं सञ्जातम्।
अन्वय
अतिरंहसा सारङ्गेण राजा दुष्यन्त इव एष (अहम्) तव हारिणा गीतरागेण प्रसभं हृत: अस्मि ।
व्याख्या
अतिरंहसा = अतीव वेगयुक्तेन,
सारङ्गेण = मृगेण,
राजा दुष्यन्त इव = दुष्यन्तनामकनृपसदृशः,
एषोऽहम् = अयमहम्,
तव = भवत्याः नट्याः,
हारिणा = मनोहारिणा,
गीतरागेण = गीतस्वरेण,
प्रसभम् = बलात्,
हृतः = आसक्तचित्तोऽस्मि सञ्जातः
टिप्पणी
अत्र श्रौत्युपमालंकार: ।
हिन्दी अर्थ
जिस तरह राजा दुष्यन्त को अत्यन्त वेगशाली मृग अत्यन्त दूर पहुँचा दिया उसी तरह से तुम्हारे मनोहर गीत की राग से मेरा चित्त उसी में आसक्त होकर किंकर्तव्यविमूढ़ हो गया था ।
श्लोक - 06
कृष्णसारे ददच्चक्षस्त्वयि चाधिज्यकार्मुके।
मृगानुसारिणं साक्षात् पश्यामीव पिनाकिनम् ॥ 6॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति।
प्रसंग
कृष्णसारे अधिज्यकार्मुके त्वयि च ददत्
अन्वय
कृष्णसारे अधिज्यकार्मुके त्वयि च ददत् चक्षुः (अहम् ) मृगानुसारिणम् साक्षात् पिनाकिनम् इव (त्वम् पश्यामि) ॥
व्याख्या
कृष्णसारे = पलायमाने मृगविशेषे,
अधिज्यकार्मुके = ज्याम् गुणमधिकृत्य वर्तते इति अधिज्यम्, अधिज्यम्,
कार्मुकं = धनुः यस्य तथा विधे,
त्वयि = भवति दुष्यन्ते च समकालमेवाहम्,
ददच्चक्षुः = अवलोकयन्, एकस्य चक्षुषः समकालमेवानेकत्र विद्यमानत्वादत्र विशेषालङ्कारः ।
मृगम् = हरिणम्,
अनुसरति = अनुधावतीति मृगानुसारीतम् मृगानुसारिणम् साक्षात् प्रत्यक्षम्,
पिनाकिनम् = पिनाकनामकम् धनुर्यस्याग्रसोऽपिनाकी तम् पिनाकिनम् = शङ्करमिव,
पश्यामि = अवलोकयामि
टिप्पणी
अत्र प्रताप्रकृतयोः, दुष्यन्तशिवयोस्तादात्म्यसम्बन्धस्य सम्भाव्यमानत्वादुप्रेक्षालङ्कारः। भवेत् सम्भावनोत्प्रेक्षा' इति हि उत्प्रेक्षालङ्कारस्य लक्षणम् ॥
हिन्दी अर्थ
इस कृष्णसार मृग तथा धनुष पर डोरी चढ़ाए हुए आपको देखकर लगा साक्षात् भगवान् शङ्कर मृग का अनुसरण कर रहे हों ।।
श्लोक - 07
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्द्धेन प्रविष्ट: शरपतनभयाद् भूयसा पूर्वकायम् ।
शष्पैरर्द्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा,
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति । 7
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
प्रसंग
अस्मिञ्छ्लोके राजादुष्यन्तः पलायमानत्य मृगस्य स्वभावं वर्णयन् सूतं वक्ति –
अन्वय
अनुपतति स्यन्दने , ग्रीवाभङ्गाभिरामं मुहुः बद्धदृष्टिः , शरपतनभयात् भूयसा पश्चार्द्धेन पूर्वकायम् प्रविष्टः, श्रमविकृतमुखभ्रंशिभि: अर्द्धाविलीढैः शष्पैः कीर्णवर्त्मा, उदग्रप्लुतत्वात् वियति बहुतरम्, उर्व्याम् च स्तोकम् प्रयाति ।
व्याख्या
अनु = पश्चात्,
पतति = आगच्छति
स्पन्दनं = रथे 'शताङ्ग: स्पन्दनो रथः ' इत्यमर:,
ग्रीवायाः = गलप्रदेशस्य
भङ्गेन = परिवर्तनेन,
अभिरामम् = मनोहरम्,
महु: = बारम्बारम्,
बद्धदृष्टि: = बद्धा योजिता दृष्टि: = नेत्रे येनाऽसौ,
शरस्य = बाणस्य,
पतनस्य = स्वशरीर संपातस्य भयात् = त्रासेन,
भूयसा = अत्यधिकम्
पश्चार्द्धेन = शारीरस्य पश्चात् भागेन,
पूर्वकायम् = शरीरस्य पूर्वार्धम्,
प्रविष्ट: = प्रवेशं कृत इवेति गूढोत्प्रेक्षा । मण्डलतां गत इवेत्यर्थः ।
श्रमेण = पलायनजन्येन परिश्रमेण,
विवृतम् = व्याप्तं यन्मुखम् वदनम् तस्मात्
भ्रंशिभि: = पतमानै,
अर्धं = अर्धभागं,
अवलीढम् = जग्धं
येषां तथाविधैः,
शाष्पै: = घासैः,
कीर्णम् = व्याप्तं,
वर्त्मं = मार्गं यस्यासौ,
उदग्रम = अत्युच्चम्,
प्लुतम् = प्लवनम्,
यस्य सः, तस्य भावः तस्मात्, उत्कटोत्पल्वनात् इति भावः ।
वियति = आकाशे,
बहुतरम् = अत्यधिकम्,
उर्व्याम् = पृथिव्याम्,
स्तोकम् = अस्यल्पम्,
प्रयाति = यातीति,
पश्य = विलोकय ।
टिप्पणी
अत्र मृगस्य स्वभावयाथात्म्यवर्णनात् स्वभावोक्तिरलड्वार: । तता चोक्तम् साहित्यदर्पणकारेण- ‘स्वभाववोक्तिर्दुरूहार्थं स्वक्रियावस्तु वर्णनम्।‘ इति
हिन्दी अर्थ
देखो पीछे आते हुए मेरे रथ को अपनी गर्दन मोड़़कर बार-बार देख रहा है। बाण गिरने के भय से इसका पिछला भाग, शरीर के अगले भाग में बहुत अधिक समा सा गया है, थक जाने के कारण मुँह खुल जाने से अर्धचर्वित घासों को रास्ते भर में बिखेरे हुए है तथा ऊँची-ऊँची छलांग के कारण यह आकाश में ही अधिक तथा पृथिवी पर कम चलता है ।
श्लोक - 08
मुक्तेषु रश्मिषु निरायतपूर्वकायाः,
स्वेषामपि प्रसरतां रजसामलङ्घ्याः।
निष्कम्पचामरशिखाश्च्युतकर्णभङ्गा,
धावन्ति वर्त्मनि तरन्ति नु वाजिनस्ते । 8
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
प्रसंग
साम्प्रतं सूतः रथाश्वानां रश्मीन् शिथिलीकृत्य तेषां वेगातिशयं वर्णयन् वक्ति यत्-
अन्वय
रमिश्षु मुक्तेषु निरायत्पूर्वकाया: प्रसरतां स्वेषां रजसाम् अपि अलङ्घ्याः, निष्कम्पचामरशिखाः च्युतकर्णभङ्गाः ते वाजिनः वर्त्मनि धावन्ति नु तरन्ति ।
व्याख्या
रश्मीषु = अभीषु,
मुक्तेषु = परिमुक्तेषु,
अश्वान् = यच्चेच्छवेगं गन्तुं परित्यक्तेषु,
निरायतः = अत्यन्तदीर्घ:,
पूर्वकायः = अग्रभागो
येषां ते
प्रसरताम् = प्रसृभराणाम्,
स्वेषाम् = स्वशफोत्थितनाम्,
रजसाम् = धूलीनाम् अपि
अलड्ध्याः,
अश्वानाम् वायोरप्यधिकवेगशालित्वात्,
निष्कम्पा: = निर्गतः कम्पः येषां ते तथाविधा:
चामरशिखाः = आयालाग्रभागा: येषां ते,
च्युता: = विगताः,
कर्णभड्गा: = श्रोत्रत्रुटयो येषां ते तथाविधा:,
ते = तव राज्ञो दुष्यन्तस्य,
वाजिन: = अश्वाः
वर्त्मनि = मार्गे,
धावन्ति = द्रुततरम् गच्छन्ति,
नु = अथवा,
तरन्ति = आकाशमार्गेषु संतरणं कुर्वन्ति
टिप्पणी
यदाश्वा अतिवेगेन धावन्ति तदा तेषामायालाग्रभागा: कम्परहिता: कर्णाश्च त्रुटिरहिताः भवन्ति । अत्राश्वानां द्रुतगते: स्वाभाविकत्ववर्णनात् स्वभावोक्तिरलंड्वार: । दृत्तत्वात्र वसन्ततिलकम् वसन्ततिलकं तभजाजगौग: । इति वसन्ततिलकावृत्तलक्षणम् ।।
हिन्दी अर्थ
लगाम ढीला कर देने पर अत्यन्त दीघं पूर्वंकाय वाले अपने खुर से उड़ी हुई धूलि से भी आगे ही रहते हैं । इनके आयाल निष्कम्प तथा कान त्रुटि रहित हो गए हैं । पता नहीं चलता है कि आपके ये घोड़े रास्ते में दौड़ रहै हैं अथवा आकाश में तैर रहे हैं ?
श्लोक - 09
यदालोके सूक्ष्मं ब्रजति सहसा तद्विपुलतां,
यदद्धा विच्छिन्नं भवति कृतसन्धानमिव तत्।
प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो-,
र्न मे दूरे किञ्चित् क्षणमपि न पार्श्वे रथजवात् ॥ 9
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
प्रसंग
अस्मिन् श्लोके राजा वर्णयति यत् रथस्यातिवेगयुक्तकस्यचनापि वस्तुनः तत्विकी प्रतीतिर्भवति। सर्वंमेव वस्तु अयथातथमेव प्रतीयते । तथाहि- यदालोके इति -
अन्वय
रथजवात् यत् आलोके सूक्ष्मं, तत् सहसां विपुलतां व्रजति; यत् अद्धा विच्छिन्नं तत् कृतसन्धानमिव भवति, यत् प्रकृत्या वक्रं तदपि नयनयोः समरेखं भवति। मे क्षणमपि किञ्चित् न दूरे न पार्श्वें ।
व्याख्या
यहाँ व्याख्या लिखें — उदाहरण स्वरूप कुछ वाक्य।
टिप्पणी
अस्मिन पद्ये शिखरिणी वृत्तम् । अस्य पद्यस्य द्वितीयपादे 'कृतसन्धाना मेव तत् इत्यत्र संभावनास्वात् उत्प्रेक्षालंकार: । 'भवेत्, संभावनोत्प्रेक्षा' इति हि उत्प्रेक्षालक्षणम् ।
हिन्दी अर्थ
रथ के वेग के कारण जो पहले प्रकाश में दूर से सूक्ष्म दिखता है वही शीघ्र ही बड़ा दिखने लगता है । जो वस्तुतः बीच से अलग है वहु जुड़ी हुई सी दीखती है, जो स्वभावत्तः टेढ़ी वस्तु है वह आँखों के सामने सीधी दीखती है । रथ के वेग के कारण कोई भी वस्तु क्षण भर भी ने तो मुझसे दूर रहती है और न तो नजदीक ही ।
श्लोक - 10
न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्
मृदुनि मृगशरीरे तूलराशाविवाग्निः।
क्व बत हरिणकानां जीवितं चातिलोलं,
क्व च निशितनिपाता वज्रसाराः शरास्ते ॥ 10
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
प्रसंग
अस्मिन् श्लोके राजानं हरिणमारणव्यापाराद् पराङ्मुखं कुर्वन् वैखानसो वक्ति यत् राजन् तव बाणाः अतीव भयङ्करा: सन्ति। एतेषां प्रयोग: मृगेषु नहि करणीयः। क्षत्रियाणां बाणास्तु शत्रूनेव व्यापाद्य सफलतां यान्ति। तथाहि-
अन्वय
तूल राशौ अग्निः इव, अस्मिन् मृदूनि मृगशरीरे अयम् बाणः न खलु न खल सन्निपात्यः। बत हरिणकानां अतिलोलं जीवितं क्व च, क्व च ते निशित निपाता: वज्रसाराः शराः।
व्याख्या
तूल राशौ=कर्पाससमूहे, अग्निः इव=पावकसदृशः, अस्मिन्=एतस्मिन्, मृदुनि=कोमले, मृगशरीरे=हरिणस्य काये, न खलु न खल=नहि, सन्निपात्यः=संप्रहरणीयः, बत=निश्चयेन, अतिलोलम्=अत्यन्त चञ्चलम्, जीवितम्=जीवनम्, निशितनिपाता:=तीक्ष्णाः सम्प्रहाराः, वज्रसाराः शराः=बलशाली बाणाः.
टिप्पणी
अत्र उत्तरार्द्धन सामान्यरूपेण अथन विशेषरूपस्यार्थस्य समर्थनादर्थान्तरन्यासनामकोऽलंकारः। तुलराशाविवाग्नि रित्यत्रोपमा। लोलजीवितटनात् विषमालंकारश्च। मालिनी नाम वृत्तम्।
हिन्दी अर्थ
कपास की ढेर पर अग्नि डालने के समान इस मृग के कोमल शरीर पर बाण का प्रहार नहीं करना चाहिए। कहाँ तो मृगशावकों का अत्यन्त चञ्चल जीवन और कहाँ तो तीक्ष्ण प्रहार वाले वज्र के समान बलशाली आपके बाण।
श्लोक - 11
तदाशु कृतसन्धानं प्रतिसंहर सायकम् ।
आर्त्तत्राणाय वः शस्त्रं न प्रहत्त्मनागसि ॥ 11॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
तत् कृतसन्धानम् सायकम् आशु प्रतिसंहर। वः शस्त्रं आर्त्तत्राणाय अनागसि प्रहृर्तुम् न।
व्याख्या
तत्= यस्मातकारणादयमाश्रममृगो वर्तते=कारणाद् मृगः वर्तते, तव बाणाः=अतिकठिनाः, दुःसहावज्रसाराश्च सन्ति, कृतसन्धानम्=कार्मुकारोपितम्, सायकम्=शरम्, आशु=शीघ्रम्, प्रतिसंहर=अवरोधय, वः=युष्माकम्, पौरवनृपतीनाम्, शस्त्रम्=प्रहरणम्, आर्ताणाम्=शरणागतानाम् जीवानाम्, त्राणाय्=संरक्षणाय, अनागसि=निरपराधे जीवे, प्रहर्तुम् न=प्रहारं कर्तुम् न भवति। अत्राप्य
टिप्पणी
अर्थान्तरन्यासलंकारः।
हिन्दी अर्थ
अतएव धनुष पर चढ़ाए हुए बाण को आप उतार लें। आपका शस्त्र तो शरणागत जीवों की रक्षा करने के लिए होता है, निरपराध जीवों को मारने के लिए नहीं।
श्लोक - 12
जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव
पुत्रमेवङ् गुणोपेतं चक्रवर्त्तिनमाप्नुहि ॥ 12॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
पुरोः वंशे यस्य जन्म (तस्य) तव इदं युक्तरूपम् एवं गुणोपेतम् चक्रवतिनम् पुत्रम् अवाप्नुहि।
व्याख्या
पुरोः=यथातिनामकस्य राज्ञः, वंशे=कुले, यस्य जन्म=उत्पत्तिः, तस्य तव=राज्ञो दुश्यन्तस्य, युक्तरूपम्=उचितमेव, एवम्=एतादृशं स्वसदृशमेवम्, गुणोपेतम्=सद्गुणैः समलंकृतम्, चक्रवतिनम्=सर्वगुणयुक्त चक्रवर्ती, पुत्रम्=तमयम्, अवाप्नुहि=प्राप्नुहि.
टिप्पणी
अत्र काव्यलिंगालङ्कारः, युक्तरूपत्वे पुरुवंशजननस्य कारणत्वात्।
हिन्दी अर्थ
जिसका जन्म पुरुवंश में हुआ उस आप जैसे राजा के लिए ऐसा ही करना उचित है। अपने ही समान गुणों से युक्त चक्रवर्ती पुत्र को प्राप्त करो।
श्लोक - 13
धर्म्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य ।
ज्ञास्यसि 'कियद्भजो मे रक्षति मौर्वीकिणाङ्क इति ।। 13 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
तपोधनानां प्रतिहतविघ्नाः धर्माः क्रियाः समवलोक्य मे मौवीं-किणाङ्कः भुजः कियद् रक्षति इति ज्ञास्यसि।
व्याख्या
तपोधनानाम्=तपांसि एव धनानि, येषां ते तपोधनाः=तपस्विनः, प्रतिहतविघ्नाः=प्रतिहताः दूरं वारिताः, विघ्नाः=अन्तरायाः, धर्माः=धार्मिक्यः, क्रियाः=कर्माणि, समवलोक्य=सम्यग्रूपेण निरीक्ष्य, मे=मम दुष्यन्तस्य, मौर्व्याः=ज्यायाः, किणस्य=आघातस्य, अङ्कः=चिल्लम्, यस्मिन्नसो भुजः=बाहुः, कियत्=कियन्मात्रायाम्, रक्षति=रक्षाकार्यं करोति, इति ज्ञास्यसि=इत्येतत् ज्ञास्यसि.
टिप्पणी
अत्र भुजो विशेषणस्य साभिप्रायत्वात् परिकरालङ्कारः।
हिन्दी अर्थ
तपस्वियों की विघ्नरहित धार्मिक क्रियाओं को देखकर आप जानेंगे कि धनुष की डोरी की रगड़ से चिह्नित आपकी भुजा कितनी रक्षा करती है।
श्लोक - 14
नीवारा: शुक-कोटरार्भक-मुख भ्रष्टास्तरूणामधः
प्रस्निग्धाः क्वचिदिङगुदीफलभिदः सूच्यन्त एवोपलाः
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिःष्यन्दरेखाङ्किताः । 14॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
तरूणाम् अध: शुककोटरार्भकमुखभ्रष्टाः, नीवारा: क्वचित्, इङगुदीफलभिदः प्रस्निग्धाः उपला: एव सूच्यन्ते, विश्वासोपगमात् अभिन्नगतयः मृगा:, शब्दं सहन्ते, वल्कलशिखानि: ष्यन्दरेखाङ्किताः तोयाधारपथाश्च दृश्यन्ते।
व्याख्या
तरूणाम्=वृक्षाणाम्, अध:=अधोभागे, शुकानाम्=शुकनामकपक्षिविशेषाः, कोटरार्भका:=कुलायेषु विद्यमाना: शिशवः, भ्रष्टाः=गलिता:, नीवारा:=तृणधान्यानि दृश्यन्ते, क्वचित्=कुत्रचित्, इङगुदीफलभिदः=इङगुदीनाम् फलभिदः फोड़ने वाले, प्रस्निग्धाः=चिक्कणा:, उपला:=प्रस्तरखण्डा:, विश्वासोपगमात्=विश्वस्त मृग की स्वाभाविक गति, अभिन्नगतयः=पूर्वबदेवास्थिता गतिः, शब्दं सहन्ते=रथध्वनि सुनते हैं, वल्कलशिखानि:=वल्कलों के अग्रभाग, ष्यन्दरेखाङ्किताः=चिह्नित, तोयाधारपथाश्च=जलाशयमार्ग.
टिप्पणी
अस्मिन्शलोके काव्यलिंगालङ्कार: समुच्चयस्वभावोक्तीनं दर्शयति।
हिन्दी अर्थ
यहाँ पर घोसलों में बैठे हुए शुकशावकों के मुख से नीवार वृक्षों के नीचे गिरे हुए हैं, तेलसित्त इंगुदी के फल को फोड़ने वाले पत्थर इसके तपोवन होने की सूचना देते हैं। विश्वस्त मृग अपनी स्वाभाविक गति से चलते हुए रथध्वनि को सुन रहे हैं और वल्कलों के अग्रभाग से चूने वाले जलों की रेखाओं से जलाशयों के मार्ग चिह्नित हैं।
श्लोक - 15
कूल्याम्भोभिः पवनचपलैः शाखिनो धौतमूलाः
भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन ।
एते चार्व्वागुपवनभूवि च्छिन्नदर्भाङ् कुरायां
नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति । 15॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
पवनचपलैः कूल्याम्भोभिः शाखिनः धौतमूलाः, आज्यधूमोद्गमेन किसलयरुचाम् रागः भिन्नः, च एते नष्टाशङ्का हरिणशिशवः, छिन्नदर्भाङ्कुराणाम् उपवनभूविः अर्वाक् मन्दमन्दं चरन्ति।
व्याख्या
पवनचपलैः=पवनेन चंचलकृतैः, कुल्यायाः=कृत्रिमक्षुद्रसरितः, अम्भोभिः=जलैः, शाखिनः=वृक्षाः, धौतमूलाः=प्रक्षालितमूलभागाः, आज्यधूमोद्गमेन=घृतधूमोत्पत्तेः कारणेन, किसलयरुचाम्=नवपल्लवानाम् कान्तिः, भिन्नः रागः=परिवर्तितवर्णः, एते=इमे, हरिणशिशवः=मृगपोतकाः, नष्टाशङ्का=भयरहिताः, छिन्नदर्भाङ्कुराणाम्=उत्पाटितकुशाङ्कुराणाम्, उपवनभूवि=उद्यानभूमौ, मन्दमन्दं चरन्ति=शनैः शनैः चरन्ति।
टिप्पणी
अस्मिन्शलोके उपमालंकारः तथा स्वाभावोक्तिः अलंकारः दृश्यते।
हिन्दी अर्थ
वायु के झोंके से चंचल बने हुए कृत्रिम नदी के जल से किनारे के वृक्षों की जड़ें धुल गयी हैं। होम के धूम से पल्लवों की कान्ति बदल-सी गयी है। निश्शंक ये मृगशिशु छिन्नदर्भाङ्कुर वाली उपवन की भूमि पर सामने ही धीरे-धीरे चर रहे हैं।
श्लोक - 16
शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ 16॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
इदम् आश्रमपदम् शान्तम्, बाहुः च स्फुरति, इह अस्य फलम् कुतः? अथवा भवितव्यानां द्वाराणि सर्वत्र भवन्ति।
व्याख्या
इदम्=एतद् आश्रमपदम्, शान्तम्=सत्त्वगुणसम्पन्नत्वात् प्रमदादिकानाम् अनुपस्थितेः, बाहुः=दक्षिणबाहुः, स्फुरति=स्पन्दते, फलम् कुतः=केन प्रकारेण सम्भवम्?, अथवा=वा, भवितव्यानाम्=अवश्यम्भाविनाम्, द्वाराणि=साधनानि, सर्वत्र=सर्वेषु स्थानेषु भवन्ति।
टिप्पणी
अत्र अर्थान्तरन्यासालंकारः। छन्दः आर्या जातिः।
हिन्दी अर्थ
यह आश्रम तो अत्यन्त शान्त है, पर मेरी दाहिनी भुजा फड़क रही है। यहाँ इस शुभ संकेत का फल कैसे सम्भव हो सकता है? अथवा होनहार घटनाओं के मार्ग सर्वत्र अपने आप निकल ही आते हैं।
श्लोक - 17
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभि: ।। 17
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
यदि आश्रमवासिन, जनस्य इदं शुद्धान्तदुर्लभं वपुः (तर्हि) खलु वनलताभिः उद्यानलताः गुणैः दूरीकृताः।
व्याख्या
यदि=चेत्, आश्रमवासिनः=तपोवननिवासिनः, जनस्य=मनुष्यस्य, इदम्=मया पुरुतः एव दृश्यमानम्, शुद्धान्तदुर्लभम्=अन्तःपुरेष्वप्य अप्राप्यम्, दिव्यसौन्दर्ययुक्तत्वात्, वपुः=शरीरम्, खलु=नूनम्, वनलताभिः, उद्यानलताः=उपवने संरक्षकै: संरक्षिता, गुणैः दूरीकृताः=दूरवारिता, तिरस्कृता।
टिप्पणी
अत्र सम्भवद्वस्तुसम्बन्धरूपोनिदर्शनालंकारः। आर्या जातिः।
हिन्दी अर्थ
यदि आश्रमवासी लोगों का यह राजमहल में भी अप्राप्य मनोज्ञ शरीर है तो निश्वय ही बन की लताओं ने उद्यान की लताओं को अपने गुणों से तिरस्कृत कर दिया।
श्लोक - 18
इदं किलाव्याजमनोहरं वपु-
तपःक्षमं साधयितुं य इच्छति
ध्रुवं स नीलोत्पलपत्रधारया
शमीलतां छेत्तुमृषिर्व्यवस्यति ॥ 18
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
यः किल इदम् अव्याजमनोहरम् वपुः तपःक्षमं साधयितुम् इच्छति, सः ऋषिः, ध्रुवं, नीलोत्पलपत्रधारया, शमीलतां छेत्तुम् व्यवस्यति।
व्याख्या
यः=महर्षिः कण्वः, किल=निश्चयेन, इदम्=मया पुरोदृश्यमानम्, अव्याजमनोहरम्=निसर्गमनोज्ञम्, वपुः=शरीरम्, तप:-क्षमः=तपसोनुष्ठानयोग्यम्, साधयितुम्=सम्पादयितुम्, इच्छति=वाञ्छति, सः=तथा विधकार्यकारी, ऋषिः=महर्षिः कण्वः, ध्रुवम्=निश्चयरूपेण, नीलोत्पलपत्रधारया=नीलकमलदल की धार से, शमीलतां छेत्तुम् व्यवस्यति=कठिन शमीलता को काटने का प्रयास करता है।
टिप्पणी
अत्र बिम्बप्रतिविम्ब भावत्वात् असम्भवद्वस्तुसम्बन्धरूपो निदर्शनालंकारः। ध्रुवमिस्यत्र संभावनत्वादुत्प्रेक्षा, पूर्वाद्धे विरूपसंघटनात् विषमालंकारः।
हिन्दी अर्थ
जो महर्षि निसर्गसुन्दर शरीर को तपस्या के योग्य बनाना चाहते हैं, वे ऋषि निश्चय ही नीलकमलदल की धार से कठिन शमीलता को काटने का प्रयास करते हैं।
श्लोक - 19
इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे
स्तनयुगपरिणाहाच्छादिना वल्कलेन
वपुरभिनवमस्याः पुष्यति स्वां न शोभां
कुसुममिव पिनद्धं पाण्डुपत्रोदरेण ।। 19
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
इदम् अस्याः अभिनवम् वपुः स्कन्धदेशे, उपहितसूक्ष्मग्रन्थिना स्तनयुगपरिणाहाच्छादिना वल्कलेन पाण्डुपत्रोदरेण, पिनद्धं कुसुममिव स्वां शोभां न पुष्यति।
व्याख्या
इदम्=एतत्, सम्प्रतिमया विलोक्यमानम्, अस्याः=शकुन्तलायाः, अभिनवम्=नवीनम्, वपुः=शरीरम्, स्कन्धदेशे=अंसप्रदेशे, स्तनयुगपरिणाहच्छादिना=स्तनोः विस्तार को ढकने वाले वस्त्र से, वल्कलेन=मुनिवस्त्र से, स्वां शोभां न पुष्यति=उसकी शोभा नहीं बढ़ती, पाण्डुपत्रोदरेण पिनद्धम् कुसुममिव=पीले पत्तों से ढके हुए फूल की तरह।
टिप्पणी
अत्र श्रौत्युपमा, मालिनीवृत्तम्।
हिन्दी अर्थ
इसका नवीन जवानी का शरीर कन्धे पर छोटी गाँठ वाले तथा दोनों स्तन के विस्तार को ढकने वाले वल्कल वस्त्र के द्वारा उसी तरह से नहीं सुशोभित हो रहा है, जिस तरह पीले पत्तों से ढका हुआ पुष्प अपनी शोभा को नहीं धारण करता।
श्लोक - 20
सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीताम् ।। 20 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
शैवलेनापि अनुविद्धं सरसिजं रम्यम्, मलिनमपि हिमांशोः लक्ष्मीं तनोति। इयं तन्वी वल्कलेन अपि अधिकमनोज्ञा, हि मधुराणाम् आकृतीनाम् किमिव मण्डनं न।
व्याख्या
शैवलेन=जल्नील्या अपि, अनुविद्धम्=परिगतम्, सरसिजम्=कमलम्, रम्यम्=मनोहरम्, मलिनमपि=कच्चरमपि, हिमांशोः लक्ष्मीम्=चन्द्रमा की शोभा, तनोति=विस्तारयति, इयम्=शकुन्तला नाम्नी, तन्वी वल्कलेनापि=कृशाङ्गी वल्कल के द्वारा अधिक मनोहर प्रतीयते, हि मधुराणां मण्डनं नाकृतीताम्=सुन्दर आकृतिवालों के लिए सारी वस्तुएँ अलंकार बन जाती हैं।
टिप्पणी
अत्रोपमानुपमानयोरेकस्य सौन्दर्य-समानधर्मस्य वाक्यभेदेन प्रतिवस्तूपमालंकारः।
हिन्दी अर्थ
यद्यपि वल्कल इसके स्वरूप में बिल्कुल प्रतिकूल है फिर भी वह इसकी शोभा को बढ़ाता ही है। क्योंकि शैवाल से घिरा हुआ भी कमल मनोहर ही लगता है। काला कलंक भी चन्द्रमा की शोभा को बढ़ाता ही है। यह कृशाङ्गी भी वल्कल के द्वारा और अधिक सुन्दर लगती है। सुन्दर आकृतिवालों के लिए तो सारी वस्तुएँ ही अलंकार ही बन जाती हैं।
श्लोक - 21
कठिनमपि मृगाक्ष्या वल्कलं कान्तरूपं
मनसि रुचिभङ्गं स्वल्पमप्यादधाति
विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठं
निजमिव कमलिन्याः कर्कशः वन्तजालम् ।। 21 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
मृगाक्ष्याः कठिनम् अपि, कान्तरूपम् वल्कलम् विकचसरसिजाया: कमलिन्याः निजम् कर्कशम् वृन्तजालमिव मनसि स्वल्पम् अपि रुचिभङ्गम् न आदधाति।
व्याख्या
मृगाक्ष्याः=हरिणाक्ष्या:, मृगस्येव अक्षिणी सा, तस्याः=शकुन्तलायाः, कठिनम् अपि=रुक्षमपि, कान्तरूपम्=मनोज्ञम्, वल्कलम्=मुनिवस्त्रम्, विकच=विकसितम्, सरसिजम्=कमलपुष्पम्, कमलिन्याः=कमललताया:, स्तोकनिर्मुक्तकण्ठम्=स्तोकम्=स्वल्पम्, निर्मुक्तः=जलदुपरि उत्थितः, कण्ठः=गलप्रदेशः, कर्कशः=स्पर्शरूक्षम्, वृन्तजालम्=वृन्तसमूह मिव, मनसि स्वल्पम् अपि रुचिभङ्गम् न आदधाति=मन में थोड़ा-सा भी वैरस्थ्य नहीं उत्पन्न करता।
टिप्पणी
अत्र श्रौत्युपमा। मालिनी च वृत्तम्।
हिन्दी अर्थ
इस मृगनयनी का कठोर वल्कल भी मनोहर ही लगता है। जल से थोड़ा बाहर निकले हुए विकसित कमलपुष्प वाली कमललता के कर्कशवृत्तसमूह के समान वह मन में थोड़ा-सा भी वैरस्थ नहीं उत्पन्न करता है।
श्लोक - 22
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ।। 22 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
अधर: किसलयरागः, बाहू कोमलविटपानुकारिणौ, अङ्गेषु सन्नद्धम् यौवनम् कुसुममिव लोभनीयम्।
व्याख्या
अधरः=अधरोष्ठ:, किसलयस्य पल्लवस्य राग: इव लौहित्यमिव, बाहू=हस्तौ, कोमलयो: मृदुलयो:, विटपयोः=स्कन्धोर्ध्वशाखयोः, अनुकारिणौ=तत्समानौ, अङ्गेषु सन्नद्धम्=अवयवेषु संलग्नम्, यौवनम् कुसुममिव लोभनीयम्=यौवनावस्था पुष्पमिव चेतसः आकर्षक संजातम्।
टिप्पणी
अत्रोपमा। आर्या जातिः।
हिन्दी अर्थ
इसके अधरोष्ठ नवीन पल्लव के समान लाल हैं, दोनों भुजाएँ कोमल शाखाओं के समान हैं। पुष्पों के समान आकर्षक यौवन इसके शरीर में प्रकट हो गया है।
श्लोक - 23
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ 23 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
इयम् असंशयम् क्षत्रपरिग्रहक्षमा, यत् अस्याम् मे आर्यम् मनः अभिलाषि हि सन्देहपदेषु वस्तुषु सताम् अन्तःकरणप्रवृत्तयः प्रमाणम्।
व्याख्या
इयम्=शकुन्तला, असंशयम्=नूनम्, क्षत्रपरिग्रहक्षमा=क्षत्रियेण साकमुद् वाहयितुम् योग्या वर्तते, यत् अस्याम् मे आर्यम् मनः अभिलाषि=यस्मात् कारणात् अस्याम् मे चेतः सर्वथा संयमयुक्तः अभिलाषावान्, सन्देहपदेषु वस्तुषु सताम् अन्तःकरणप्रवृत्तयः प्रमाणम्=संशयग्रस्तेपु पदार्थेषु सज्जनानाम् चेतसः प्रवृत्तय एव प्रमाणं दर्शयन्ति।
टिप्पणी
अत्र सामान्येन विशेषसमर्थनात्मकः अर्थान्तरन्यासालंकारः। वंशस्थविलम् छन्दः।
हिन्दी अर्थ
चूँकि मेरा आर्यमन आभिलाषावान् है, अतएव निश्चय ही क्षत्रिय के द्वारा ब्याही जाने योग्य है। संशयास्पद वस्तुओं के विषय में सज्जनों के अन्तःकरण की प्रवृत्ति ही प्रमाण होती है। फिर भी इसके विषय में ठीक से जानकारी प्राप्त करूँगा।
श्लोक - 24
यतो यतः षट् चरणोऽभिवर्तते ततस्ततः प्रेरितवामलोचना
विवर्तितभ्रूरियमद्य शिक्षते भयादकामापि हि दृष्टिविभ्रमम् ॥ 24 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
हि षट्चरणः यतोयतः अभिवर्त्तते ततस्ततः प्रेरितवामलोचना विवर्तितभ्रूः इयम् अद्य भयात् अकामापि हि दृष्टिविभ्रमम् शिक्षते।
व्याख्या
हि=यतः, षट्चरणः=भ्रमरः, यतोयतः=यस्यां यस्यां दिशि, अभिवर्त्तते=अस्य मुखम् लक्ष्यीकृत्यायाति, ततस्ततः=तस्याम् तस्याम् दिशायाम्, प्रेरितवामलोचना=चलिते वामे नेत्रे, विवर्तितभ्रूरि=असकृत् परिवर्तिते भ्रुकुटी, इयम्=शकुन्तला, अद्य=इदानीम्, भयात् अकामापि हि दृष्टिविभ्रमम् शिक्षते=भयवशात् बिना इच्छा के भी कटाक्षपातक अभ्यसति।
टिप्पणी
अत्र विभावनालङ्कारः। वंशस्थविलम् वृत्तम्।
हिन्दी अर्थ
भ्रमर जिस-जिस ओर जाता है, उसी-उसी ओर यह अपने सुन्दर नेत्रों को घुमाती है। काम वासना से रहित भी शकुन्तला भयवशात् बिना इच्छा के ही आँखों को नचाना सीख रही है।
श्लोक - 25
चलापाङ्गां दृष्टि स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदुकर्णान्तिकचरः ।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती ॥ 25 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
मधुकर ! करं व्याधुन्वत्याः वेपथुमतीम् चलापाङ्गा दृष्टिं स्पृशसि, रहस्याख्यायी इव कर्णान्तिकचरः मृदु स्वनसि, रतिसर्वस्वमधरं पिबसि, वयं तत्वान्वेषात्, हताः त्वं खलु कृती।
व्याख्या
मधुकर=भ्रमर, करं=हस्तम्, व्याधुन्वत्याः=भ्रमरमपाकर्तुमितस्ततः प्रचालयन्त्याः, वेपथुमतीम्=भयभीत, चलापाङ्गा दृष्टिं स्पृशसि=बार-बार अपने हाथों से नेत्रों को स्पर्श करते हो, रहस्याख्यायीव=गृह्यार्थभाषी के समान, स्वनसि=मधुर गुज्जन करते हो, रतिसर्वस्वमधरं पिबसि=रतिसर्वस्व ओष्ठों का पान करते हो, वयं तत्त्वान्वेषात् हताः=हम तो तत्वावेषण के कारण भाग्य से छले गये हैं, त्वं खलु कृती=तुम धन्य हो।
टिप्पणी
अत्र उपमानाधिक्यं अलङ्कारः। शिखरिणी वृत्तम्।
हिन्दी अर्थ
भ्रमर ! तुम्हारे भय से भयभीत तथा बार-बार अपने हाथों से तुम्हें हटाने वाली शकुन्तला के नेत्रों को तुम बार-बार चूमते हो, गृह्यार्थभाषी के समान उसके कानों के समीप मधुर गुज्जन करते हो, उसके रतिसर्वस्व ओष्ठों का पान करते हो, इस तरह तुम धन्य हो, हम तो तत्वावेषण के कारण भाग्य से छले गये हैं।
श्लोक - 26
लोलां दृष्टिमितस्ततो वितुनते सभ्रूलताविभ्रमा।
माभुग्नेन विवर्तिता बलिमता मध्येन कम्रस्तनी
हस्ताग्रं विधुनोति पल्लवनिभं शीत्कारभिन्नाधरा
जातेयं भ्रमराभिलङ्घनभिया वाद्यैर्विना नर्त्तकी ॥ 26 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
कम्रस्तनी, इयम् सभ्रूलताविभ्रमाम्, लोलां दृष्टिम्, इतस्ततः वितनुते, आभुग्नेन, बलिमता मध्येन, विवर्त्तिता, शीत्कारभिन्नाधरः पल्लवनिभं हस्ताग्रं विधुनोति भ्रमराभिलंघनभिया, वाद्यैर्विना नर्तकी जाता ।
व्याख्या
कम्रस्तनी=मनोहर स्तन, लोलां दृष्टिम्=चञ्चल दृष्टि, इतस्ततः वितनुते=सर्व दिशाओं में घुमाती है, सभ्रूलताविभ्रमाम्=भ्रुवयोः विलास, आभुग्नेन बलिमता मध्येन=त्रिवलीयुक्त मध्यभाग सहित तिरछे, विवर्तिता=परिवर्तित, शीत्कारभिन्नाधरा=शीत्कारयुक्त खुले ओष्ठ, पल्लवनिभं हस्ताग्रं विधुनोति=पल्लवसदृश हाथों के अग्रभाग को हिलाती है, भ्रमराभिलङ्घनभिया=भ्रमर के काटने के भय से, वाद्यैर्विना नर्तकी=बाजों के बिना नर्तकी बन गयी।
टिप्पणी
शार्दूलविक्रीडितमात्र छन्दः।
हिन्दी अर्थ
सुन्दर स्तनों वाली यह शकुन्तला भूविलासों से युक्त अपनी चञ्चल दृष्टि को इधर-उधर घुमाती है, कुछ तिरछे त्रिवलीयुक्त मध्यभाग वाली शीत्कारयुक्त खुले ओष्ठों वाली यह पल्लव के सदृश अपने हाथों के अग्रभाग को हिलाती है तथा भ्रमर के काटने के भय से बाजों के बिना नर्तकी बन गयी है।
श्लोक - 27
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥ 27 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
दुर्विनीताम्, शासितरि, पौरवे, वसुमतीम् शासति। मुग्धासु तपस्विकन्यकाषु कः अविनयम् आचरति ?
व्याख्या
दुर्विनीताम् = दुष्टानाम्, शासितरि = प्रशासनकर्तरि, पौरवे = पुरुवंशीये राजनि, वसुमतीम् = पृथिवीम्, शासति = शासनं कुर्वति, मुग्धासु = स्वभावसरलासु, तपस्विकन्यासु = तपस्विनाम् बालासु, कः = जनः अविनीतः सन्, अविनयम् = दुष्टाचरणम्, आचरति = करोति। अस्मिन्श्लोके राजा दुष्यन्तो वक्ति यत् पुरुवंशीयाः राजानः दुष्टानां शास्तारः, तथापि कः अविनीताचरणं तपस्विनाम् कन्यासु करोति इति।
टिप्पणी
अत्र आर्या जातिः, छेकानुप्रासचालङ्कारः।
हिन्दी अर्थ
दुष्टों को दण्डित करने वाले पुरुवंशीय राजा के पृथिवी के प्रशासक होने पर भी कौन तपस्वियों की सरल स्वभाव वाली कन्याओं के साथ अविनीताचरण कर रहा है ?
श्लोक - 28
मानुषीभ्यः कथं नु स्यादस्य रूपस्य सम्भवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ 28 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
अस्य रूपस्य सम्भवः मानुषीभ्यः कथं नु स्यात्। प्रभातरलं ज्योतिः वसुधातलात् न उदेति।
व्याख्या
अस्य = शकुन्तलायाम् विद्यमानस्य, रूपस्य = दिव्यस्य लावण्यस्य, सम्भवः = उत्पत्तिः, मानुषीभ्यः = मानवीभ्यः, कथम् = केन प्रकारेण, नु = वितर्कार्थम्, स्यात् = संभवेत्। प्रभया = कान्त्या, तरलम् = चञ्चलम्, ज्योतिः = तेजः, वसुधातलात् = पृथिवीतः, न = नहि, उदेति = आविर्भवति। अस्मिन्श्लोके राजा दुष्यन्तो वक्ति यत् प्रभया चञ्चल सूर्यादिकां ज्योति पृथ्वी से नहीं उत्पन्न होती, तस्मात् दिव्यरूपयुक्त शकुन्तला मानुष्यरसम् सम्भाव्यते।
टिप्पणी
अत्र प्रतिवस्तूपमालङ्कारः, नाट्यालङ्कारः इत्यादि साहित्यदर्पणकर्ता द्वारा व्याख्यातम्।
हिन्दी अर्थ
सौन्दर्य की उत्पत्ति मानवी से कहाँ सम्भव है। प्रभा से चञ्चल बने हुए सूर्य, चन्द्रमा आदि की ज्योति पृथ्वी से नहीं आविर्भूत होती है।
श्लोक - 29
वैखानसं किमनया व्रतमाप्रदानाद्
व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमेव सदृशेक्षणवल्लभाभि-
राहो निवत्स्यति समं हरिणाङ्गनाभिः ।। 29 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
अनया आप्रदानात् मदनस्य व्यापाररोधि वैखानसं व्रतम् निषेवितव्यम्, समित्यादि-आहो सदृशेक्षणवल्लभाभिः हरिणाङ्गनाभिः समम् अत्यन्तमेव निवत्स्यति।
व्याख्या
अस्मिञ्छ्लोके राजा पृच्छति यत् इयम् शकुन्तला तावदेव कालं वैखानसं व्रतम् पालयति यावत्कालपर्यन्तम् अस्याः विवाहसंस्कारो नहि सम्पद्यते अथवा आजीवनमियं ब्रह्मचर्यव्रतस्य पालनं करिष्यति? अनया = युवयोः सख्या शकुन्तलया, आप्रदानात् = वराय प्रदानकालं यावत्, मदनस्य = कामदेवस्य, व्यापारम् = व्यवहारं, व्यापाररोधि = परिहरतीति, वैखानसम् = मुनिजनैः सेवितव्यम्, व्रतम् = नियमम्, निषेवितव्यम् = सेवनीयम्। आहो = 'आहो उहाहो किमुत विकल्पे।' इत्यादि। सदृशेक्षणे = समाने नेत्रे, वल्लभाभिः = प्रियाभिः, हरिणाङ्गनाभिः = हरिणीभिः, समम् = साकम्, अत्यन्तम् = आजीवनम्, निवत्स्यति = निवासं करिष्यति।
टिप्पणी
अत्र विशेषणानाम् साभिप्रायत्वात् परिकरालङ्कारः। उक्तं च साहित्यदर्पणे—'उक्तिविशेषणैः साभिप्रायैः परिकरो मतः।' इति। अत्र वसन्ततिलकम् वृत्तम्। 'उक्तं वसन्ततिलकम् तभजा जगौ गः'। इति हि वसन्ततिलकलक्षणम्।
हिन्दी अर्थ
यह आपकी सखी विवाह होने के पूर्व तक ही इस तरह ब्रह्मचर्य व्रत धारण किये रहेंगी या समान नेत्र होने से प्रिय हरिण की स्त्रियों के साथ बहुत दिनों तक (जन्म भर) निवास करेंगी।
श्लोक - 30
भव हृदय ! साभिलाषं सम्प्रति सन्देहनिर्णयो जातः ।
आशङ्कसे यदग्नि तदिदं स्पर्शक्षमं रत्नम् ।। 30 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
हृदय ! साभिलाषं भव, सम्प्रति सन्देहनिर्णयः जातः, यत् अग्निम् आशङ्कसे तदिदं स्पर्शक्षमं रत्नम्।
व्याख्या
अस्मिञ्छ्लोके दुष्यन्तो वक्ति यत् हे मन ! नूनम् शकुन्तला लप्स्यते, अतएव तस्याः प्राप्तेर अभिलाषां कुरु। इयम् तु मत्परिग्रहक्षमा वर्तते। हे हृदय = अन्तःकरण ! साभिलाषम् = शकुन्तलायाः प्राप्तेः अभिलाषायुक्तं भव। सम्प्रति = इदानीम्, सन्देहस्य निर्णयः = संशयस्य निश्चयः, जातः = समभवत्। तु= वस्तु शकुन्तलारूपं, अग्निम् = अग्निवत् दाहकम्, आशङ्कसे = संशयं कुरुषे, तदिदम् = शकुन्तलारूपम् स्त्रीरत्नं वस्तु, स्पर्शक्षमम् = स्पर्शयोग्यम्। रत्नम् = एलेन तुल्यम् ग्राह्यम् संरक्षणीयमुपभोग्यम् च। अतएवास्याः ग्रहणे किमपि पापं न, न विद्यते।
टिप्पणी
अस्य श्लोकस्य परार्द्धवाक्यार्थस्य पूर्वार्द्ध वाक्यार्थं प्रति हेतुत्वात् काव्यलिङ्गमलङ्कारः। अग्निम् रत्नमित्यादौ समासाभावात् व्यस्तरूपकम्। अत्र सुखस्य गम्यमानत्वात् प्राप्तिर्नाम मुखसन्धेरङ्गम्। हर्षोत्सुक्यादयश्च भावाः। आर्या जातिः।
हिन्दी अर्थ
हृदय ! अभिलाषा करो, अब तो संदेह का निर्णय हो गया। जिसे तुम समझते थे वह तो संग्राह्य रत्न है।
श्लोक - 31
अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्वस्थानादचलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ 31 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
मुनितनयाम् अनुयास्यन् सहसा, विनयेन वारितप्रसरः स्वस्थानात् अचलम् अपि गत्वेब पुनः प्रतिनिवृत्तः।
व्याख्या
अस्मिञ्छ्लोके दुष्यन्तः स्वमनसि शोचयति यत् अस्याः शकुन्तलायाः दर्शनौविलोभात् इमाम् गमनात् निवारयितुम् अनुगच्छन्नप्यहं मनसा विनयेन निवारितोऽभुवम्। अतएव कामिनाम् चित्तवृत्तिः चेष्टानुरूपिणी भवति। मुनेः = कण्वस्य महर्षेः, तनयाम् = पालितपुत्रीम् शकुन्तलाम्, दर्शनादिलोभाव गच्छन्तीमाम् अनुयास्यन् = अनुजिगमिषुः अहम्, सहसा = सपद्येव, विनयेन = जितेन्द्रियत्वात्, वारितप्रसरः = निषिद्धः, प्रसरः = आवेगो यस्य तथाभूतः अभूवम्। स्वस्थानात् = उपविष्टप्रदेशात्, अचलन्नपि = मनसा, गत्वा इव = गमनं कृत्वा इव, प्रतिनिवृत्तः = प्रत्यागतः।
टिप्पणी
अत्र भावाभिमानिनी क्रियोत्प्रेक्षा। अचलन्नपि गत्वेत्यत्र विरोधाभासश्च। आर्या जातिः।
हिन्दी अर्थ
शकुन्तला के पीछे जाने की इच्छा होने पर भी शिष्टाचार से रोक दिया गया। अपने स्थान से बिना चले ही जैसे जाकर लौट आया।
श्लोक - 32
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा-
दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
बद्धं कर्णशिरीषरोधि वदने घर्माम्भसा जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्द्धजाः ॥ 32 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
बाहू घटोत्क्षेपणात् स्रस्तांसौ, अतिमात्रलोहिततलौ, अद्यापि प्रमाणाधिकः, श्वासः स्तनवेपथुम् जनयति, वदने घर्माम्भसा कर्णशिरीषरोधि जालकम् बद्धम्, स्रंसिनि बन्धे च एकहस्तयमिताः मूर्द्धजाः पर्याकुलाः।
व्याख्या
अस्मिन् श्लोके राजा दुष्यन्तः शकुन्तलायाः शरीरस्थितेः वर्णनद्वारा प्रमाणयति यत् वृक्षसेचनक्रियया शकुन्तला अतीव श्रान्तिं गता वर्तते। बाहू = भुजौ, घटानाम् उत्क्षेपणात् = उत्थापनात्, स्रस्तौ = परिश्रान्ततया अनतौ असौ = स्कन्धौ, अतिमात्रलोहिततलौ = अत्यधिक रक्तवर्णो करतलौ, अद्यापि = इदानीमपि, प्रमाणाधिकः = स्वाभाविकादधिकः, श्वासः = निःश्वासः, स्तनवेपथुम् = स्तनों में कम्प, जनयति = उत्पादयति, घर्माम्भसा = स्वेदविन्दुना, जालकम् = विन्दु समूह, बद्धम् = संजातम्, स्रंसिनि बन्धे च एकहस्तयमिताः मूर्द्धजाः पर्याकुलाः = केश खुल जाने पर एक हाथ से समेटे गये बाल अस्त-व्यस्त।
टिप्पणी
अत्र शकुन्तलायाः श्रान्तत्वसमर्थनाय राज्ञानेकेपां कारणानामुपस्थापितत्वात् समुच्चयालङ्कारः। अत्र शार्दूलविक्रीडितम् वृत्तम्।
हिन्दी अर्थ
घड़ों के उठाने से दोनों कन्धे झुक गये हैं, दोनों हथेलियाँ बहुत लाल हो गयी हैं। जोर-जोर से श्वास चलने से अभी भी स्तनों में कम्प हो रहा है; स्वेदविन्दुओं के कारण कानों के आभूषणभूत शिरीष पुष्पों पर विन्दुओं का जाल रुका हुआ है। केश खुल जाने पर एक हाथ से समेटे गये बाल अस्त-व्यस्त हो गये हैं।
प्रथम अंक- श्लोक-33
वाचं न मिश्रयति यद्यपि मद्वचोभिः,
कर्णे ददात्यवहिता मयि भाषमाणे।
कामं न तिष्ठति मदाननसम्मुखीयं,
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ 33 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
यद्यपि मद्वचोभिः वाचं न मिश्रयति, मयि भाषमाणे कर्णे ददाति। कामं न तिष्ठति मदाननसम्मुखीयं, भूयिष्ठमन्यविषया न तु दृष्टिरस्याः।
प्रसंग
अस्मिञ्छ्लोके राजा दुष्यन्तः शकुन्तलायाः स्वं प्रत्यनुरागमनुमिन्वन् वक्ति यत् यद्यपीयं मया सह वार्तां नहि करोति अथापि इयम् मम वचांस्येव शृणोति, मम पराङमुखीत्वेनोपविष्टापीयं मामेवावलोकयति ।
व्याख्या
इयम् = शकुन्तला,
मद्वचोभिः = मम वचनैः, सह, लज्जातिशयत्वात्,
वाचम् = वचनम्,
न = नहि,
मिश्रयति = सम्मिश्रयति,
मया साकं वार्तालापं नहि करोतीति भावः,
अथापि, मयि = दुष्यन्ते,
भाषमाणे = वार्तालापे क्रियमाणे,
अवहिता = सावधानतया,
कर्णे ददाति = मम वचांसि शृणोति,
वचःसु अन्यमनस्का नहि भवतीत्यर्थः,
इयम् = शकुन्तला,
मदाननस्य = मम मुखस्य,
सम्मुखी = समक्षम्,
कामम् = पर्याप्तम्,
न = नहि,
तिष्ठति यद्यपि तु = किन्तु,
अस्याः शकुन्तलायाः दृष्टि: = दृक्, भूयिष्ठ सातिशयं यथा स्यात् तथा,
अन्यविषया = मद्भिन्नविषयिणी,
न = नहि भवति।
टिप्पणी
अत्र समुच्चयालङ्कारः। अनुरागोत्पतिरूपं कार्य प्रति कर्णप्रदानानन्यदर्शन रूपहेतुद्वयोपन्यासात् । अत्र वसन्ततिलकम् वृत्तम्'ज्ञेयं वसन्ततिलकं तभजा जगौ गः ।' इति हि वसन्ततिलकलक्षणम् ।
हिन्दी अर्थ
यद्यपि यह मुझसे बातें नहीं करती है, फिर भी मेरे बोलने पर वह सावधानी से मेरे बातों को सुनती है। यद्यपि यह मेरे सामने मुँह करके नहीं बैठती है, फिर भी उसकी दृष्टि मुझसे भिन्नविषयिणी नहीं है। अर्थात वह मुझको ही देखती है।
प्रथम अंक- श्लोक-34
तुरगखुरहतस्तथाहि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु ।
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ।। 34 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
तथाहि तुरगखुरहतः परिणतारुणप्रकाशः रेणुः शलभसमूह इव विटपविषक्तजलार्द्रवल्कलेषु आश्रमद्रुमेषु पतति।
व्याख्या
तथाहि = राजप्रत्यासत्तिरेव हेतोः,
तुरगाणाम् = अश्वानाम्,
खुरैः = शफैः,
हतः = क्षुण्णः,
परिणतः = अस्तमयोन्मुखः,
य: अरुणः = सूर्यः,
तस्य प्रकाशः इव = प्रकाशो यस्य सः तथाभूतः,
रक्तवर्ण = इत्यर्थः,
रेणुः = धूलिः,
'रेणुर्द्वयोः स्त्रियां = धूलिः इत्यमरः,
शलभानाम् = पतङ्गानाम्,
समूह इव = वृन्दमिव,
विटपेषु = वृक्षेषु,
विषक्तानि = संलग्नानि,
यानि, जलैः = तोयैः,
आर्द्राणि = क्लिन्नानि,
वल्कलानि = मुनिवस्त्राणि,
तेषु, तथा आश्रमद्रुमेधु = तपोवनस्य वृक्षेषु,
पतति = आपतति।
टिप्पणी
अस्मिञ्छ्लोके लुप्तोपमाश्रौत्युपमयोः संसृष्टि: । पुष्पिताग्रा नाम च वृत्तम् । 'अयुजि नयुगरेफतो यकारो, युजि च नजौ जरगाश्च पुष्पिताग्रा ।' इति पुष्पिताग्रायाः लक्षणम् ।।
हिन्दी अर्थ
क्योंकि घोड़ों के खुर से उड़ी हुई अस्ताचलाभिमुख सूर्य के प्रकाश के समान, सुखने के लिए वृक्षों पर फैलाए गये गीले वल्कलों तथा आश्रम के वृक्षों पर टिड्डीदल के समान गिर रही है।
प्रथम अंक- श्लोक-35
तीव्राघातादभिमुखतरुस्कन्धभग्नैकदन्त,
प्रौढाकृष्टव्रततिवलयासञ्जनाज्जातपाशः,
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथ
धर्मारण्यं विरुजति गजः स्यन्दनालोकभीतः ।। 35 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
तीव्राघाता अभिमुखतरुस्कन्धभग्नैकदन्तः, प्रौढाकृष्टव्रततिवलयासञ्जनाज्जातपाशः भिन्नसारङ्गयूथः, स्यन्दनालोकभीतः गजः, तपसः, मूर्तः विघ्न इव नः धर्मारण्यं विरुजति।
प्रसंग
रथं दृष्ट्वा भीतस्य पलायमानस्यातिवेगेन, कस्यचन वन्यहस्तिनो वर्णनमनेन श्लोकेनोपस्थापितम् ।
व्याख्या
तीव्रश्चासौ आघातः = कठोरप्रहारः,
अभिमुखस्य = सम्मुखे विद्यमानस्य,
तरो: = वृक्षस्य,
स्कन्धेन = प्रकाण्डेन,
भग्नः = त्रुटितः एकः दन्तः यस्य सः तथा भूतः,
प्रौढम् = अत्यन्तप्रवृद्धम्,
आकृष्टस्य = आक्षिप्तस्य,
व्रततीनाम् = लतानां,
यो हि वलयः = समूहः,
तस्य आसञ्जनात् = परिवेष्टनात्,
जातः = संजातः,
पाश: = बन्धनं यस्य तथा भूत:,
भिन्नम् = भय-भीतत्वात् पृथक् कृतम्,
सारङ्गानाम् = मृगाणाम्,
यूथः = समूहो येन सः तथाभूतः,
स्यन्दनस्य = रथस्य,
आलोकनेन = दर्शनेंन,
भीतः = भयभीतः,
तपसः = तपस्यायाः,
मूर्त्तः = शरीरधारी,
विघ्नः = प्रत्यवायः इव,
गजः = बन्यहस्ती,
धर्मारण्यम् = तपोवनम्,
विरुजति = पीडयति।
टिप्पणी
अत्र गजे मूर्तिमत्तपसो विघ्नत्वोत्प्रेक्षणात् उत्प्रेक्षालङ्कारः । ‘भवेत् सम्भावनोत्प्रेक्षा' इति उत्प्रेक्षालङ्कारस्य लक्षणम् । अत्र भयानको रसः, गजगतभयं स्थायिभावः । दुष्यन्तस्य सेनारथाद्यवलोकनम् विभावः । तथा चोक्तम्• अत्र मन्दाक्रान्ता -वृत्तम् । 'मन्दाक्रान्ताऽम्बुधिरसनगैर्मो भनौ गौ ययुग्मम् ।' इति ।
हिन्दी अर्थ
सामने के वृक्ष पर तीव्र आघात के कारण इसका एक दाँत टूट गया है। बहुत अधिक बढ़ी हुई लताओं के लिपट जाने से वे लताएँ इसका पाश बन गई हैं। इसके भय से जंगली मृग डरकर तितर-बितर हो गये हैं, रथ को देखकर तथा तपस्या के मूर्त विघ्न के समान यह हाथी तपोवन को पीड़ित कर रहा है।
प्रथम अंक- श्लोक-36
गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ 36 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य प्रथमाङ्कात समुद्धृतं अस्ति ।
अन्वय
शरीरम् पुरः गच्छति, प्रतिवातं नीयमानस्य केतोः चीनांशुकमिव, असंस्थितं चेतः पश्चात् धावति।
प्रसंग
अस्मिन् श्लोके राजा वर्णयति यत् यद्यपि अहम् अग्रे गच्छामि, तथापि मम व्यग्रम् मनः पश्चादेवाश्रमं प्रतियाति शकुन्तलां संस्मृत्य, तां द्रण्टुमिव-
व्याख्या
शरीरम् = देहः,
पुरः = अग्रे,
गच्छति = चलति,
किन्तु,
प्रतिवातम = वायोः विपरीतम्,
नीयमानस्य = उह्यमानस्य,
केतो: = ध्वजस्य,
चीनांशुकमिव = चीनदेशनिर्मितातिसूक्ष्मवस्त्रमिव,
असंस्थितम् = व्यग्रम्,
चेतः = अन्त:करणम्,
पश्नात् = पश्चभागमेव,धावति।
टिप्पणी
अत्रातिशयोक्तिरलकार: । अर्यां च जाति: ।
हिन्दी अर्थ
शरीर तो आगे जा रहा है, किन्तु प्रतिकृल वायु, वायु ले जाये जाने वाली ध्वजा की चीनवस्त्र निर्मित पताका के समान चंचल मन पीछे की ही ओर जा रहा है।