हेमाद्रि संकल्प
ॐ स्वस्तिश्रीसमस्त जगदुत्पत्ति स्थिति लयकारणस्य रक्षा-शिक्षा-विचक्षणस्य
प्रणत पारिजातस्य अशेषपराक्रमस्य श्रीमदनन्तवीर्यस्यादि नारायणस्य
अचिन्त्यापरिमितशक्त्या घ्रियमाणानां महाजलौध मध्ये परिभ्रताम् अनेक कोटि
ब्रह्मांडानामेकतमेव्यक्तमहदंकार पृथिव्यप्तेजो वायु-आकाशाद्या वरणैरावृते अस्मिन्
महति ब्रह्मांण्ड खण्डे आधार शक्ति श्री मदादिवाराह दंष्ट्राग्र विराजिते
कूर्मानन्त वासुकि-तक्षक-कुलिक-करकोटक-पद्म-महापद्म-शंखाद्यष्ट-महानागैर्ध्रियमाणे
ऐरावत-पुण्डरीक-वामन-कुमुदाञ्जन-पुष्पदन्त-सार्वभौम सुप्रतीकाष्ट दिग्गजो
परिप्रतिष्ठितानां अतल-वितल-सुतल-तलातल-रसातल-महातल-पाताल लोकानां उपरिभागे
भूर्लोक-भुवर्लोक-स्वर्लोक-महर्लोक-जनलोक-तपोलोक सत्यलोकाख्य सप्तलोकानां अधोभागे चक्रवाल
शैल महावलय नाग मध्यवर्तिनो महाकाल महाफणिराज शेषस्य सहस्त्र फणामणि मण्डल मण्डिते
दिग्दन्ति शुण्डादण्डो दण्डिते अमरावती शोकवती भोगवती सिद्धवती गान्धर्ववती काञ्ची
अवन्तिकावती यशोवतीति पुण्य पुरी प्रतिष्ठिते लोका लोकाचल वलयिते लवणेक्षु सुरा
सर्पिर् दधि क्षीरोदकार्णव परिवृते जम्बू प्लक्ष कुश क्रौञ्चशाकशाल्मलि
पुस्कराख्यसप्त द्वीपयुते इन्द्र-कांस्य-ताम्रगभस्ति नागसौम्य गन्धर्वचारण भारतेति
नवखण्ड मण्डिते सुवर्ण गिरि कर्णिकोपेत महासरोरुहाकार पंचाशत कोटियोजन विस्तीर्णे
भूमण्डले अयोध्या-मथुरा-माया-काशी-काञ्ची-अवन्तिका द्वारावतीति मोक्षदायिक
सप्तपुरी प्रतिष्ठिते सुमेरु निषध त्रिकूट रजत कूटाम्रकूट चित्रकूट हिमवत्
विन्ध्याचलानां महापर्वत प्रतिष्ठिते हरिवर्ष किंपुरुष भारतवर्षयोश्च दक्षिणे
नवसहस्त्र योजन विस्तीर्णे मलयाचल-सह्याचल-विन्ध्याचलानां उत्तरे
स्वर्णप्रस्थ-चण्डप्रस्थ-चान्द्रसूक्तावन्तक रमणक महारमणक पाञ्चजन्य सिंहल लंकेति
नवखण्ड मण्डिते गंगा भागीरथी गोदावरी क्षिप्रा यमुना सरस्वती नर्मदा तापी
चन्द्रभागा कावेरी पयोष्णी कृष्णा वेण्याभीमरथी तुंगभद्रा ताम्रपर्णी विशालाक्षी
चर्मण्वती वेत्रवती कौशिकी गण्डकी विश्वामित्री सरयू करतोय ब्रह्मानन्द महीत्यनेक
पुण्य नदी विराजिते भरतखण्डे भारतवर्षे जम्बूद्वीपे कूर्म भूमौ साम्यवती
कुरुक्षेत्रादिसमभूमौ आर्यावर्तान्तरगत ब्रह्मावर्तैकदेशे सकलजगत्स्रस्टुः परार्ध
द्वय जीविनो ब्रह्मणो द्वितीये परार्धे एकपंचाशत्तमे वर्षे प्रथममासे प्रथम पक्षे
प्रथम दिवसे अह्नस्तृतीये यामे तृतीये मुहूर्ते रथन्तरादि द्वात्रिंशत् कल्पानां
मध्ये अष्टमे श्वेत वाराह कल्पे स्वायं भुवादि मन्वन्तराणां मध्ये सप्तमे वैवस्वत
मन्वन्तरे कृत त्रेता द्वापर कलिसंज्ञकानां चतुर्णां युगानां मध्ये वर्तमाने
अष्टाविंशतितमे कलियुगे प्रथमचरणे भारतवर्षे
भरत खण्डे जम्बू द्वीपे आर्यावर्तैकदेशे इन्द्रप्रस्थ क्षेत्रे ज्ञानयुग
प्रवर्तकानां महर्षि महेशयोगिवर्याणां परम आराध्य गुरुदेवैः अनन्त श्री विभूषितैः
जगत् गुरु ज्योतिष्पीठाधीश्वरैः श्रीमत् शंकराचार्य ब्रह्मानन्द सरस्वती महाभागैः
सम्पादित शत मुख कोटि होम महायज्ञ पावितायां भूमौ गंगा यमुनयोर्मध्य भागे योजन
व्यापि विस्तीर्णे क्षेत्रे ज्ञान युगीय वैदिक विश्व प्रशासनस्य राजधान्यां महर्षि
नगरे वेद-विज्ञान-विद्यापीठ परिसरे प्रभवादिषष्टि सम्वत्सराणां मध्ये..........
नाम वर्षे...........उत्तर सहस्त्र द्वयपरिमिते वैक्रमाब्दे उत्तर एकोनविंशति
शततमेशालिवाहन शकाब्दे.....आद्य शंकराचार्य संवत्सरे......युधिष्ठिर सम्वत्सरे
महर्षि
ज्ञानयुगीय......संवत्सरे.......रवौ....ऋतौ........मासे.....पक्षे......चन्द्रे.....सूर्ये...
देवगुरौ.....राशिस्थिते भौमे.... राशिस्थिते बुधे....... राशिस्थिते शुक्रे.....
राशिस्थिते शनौ..... राशिस्थिते राहौ..... राशिस्थिते केतौ....सर्वेषु ग्रहेषु
यथास्वं राशि स्थितेषु सत्सु एवं ग्रहगण विशिष्टायां शुभ पुण्यतिथौ
आत्म-अनावरणपूर्वक दैवीशक्ति जागरण द्वारा समस्त विश्व शान्त्यर्थ
श्रीमन्महर्षिवर्यस्य विश्वयोजनायाः शीघ्रं सम्पूर्त्यर्थं श्रुति-स्मृति
पुराणोक्त फल प्राप्त्यर्थं सर्वत्र यशोविजयलाभादि प्राप्त्यर्थं प्राप्त्य
लक्ष्म्याः चिरकाल संरक्षणार्थम् सर्वेषां विश्ववास्तव्यानां जनानाम्
आबालवृद्धानां आधिदैविकाधि भौतिक-आध्यात्मिक त्रिविधतापोप शमनार्थं सनातन धर्म प्रतिपादकानां
साङ्गानां सरहस्यानां श्रुति-स्मृति पुराणानां धार्मिक ग्रंथानां सर्वासां विद्यानां
च अभिवृद्ध्यर्थम् समस्तस्य विश्वस्य सर्व विध कल्याण संपादनार्थ समस्त विश्वस्य
नैरुज्य सम्पादनार्थ श्रौत-स्मार्त-कर्मानुष्ठान निरतै ब्राह्मणैः स्व-स्व कर्मणां
सम्यगनुष्ठानार्थं सर्वाभीष्ट संसिद्ध्यर्थम् सर्वविधि उत्तरोत्तर लाभार्थम् वैदिक
धर्म अभ्युत्थानार्थम् अमुक नाम गोत्रोत्पन्नोहं करिष्यमाणः कर्मणः निर्विघ्न
समाप्तये आराध्यदेवादि पूजनं करिष्ये ।