महाकवि भारवि प्रणीत किरातार्जुनीय महाकाव्य के प्रथम सर्ग के श्लोक, अन्वय, प्रसङ्ग, संस्कृत एवं हिन्दी व्याख्या, हिन्दी अर्थ तथा व्याकरण-अलंकार टिप्पणी।
श्रियः कुरुणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुक्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ १ ॥
अन्वय --कुरुणाम् अधिपस्य श्रियः पालनीं प्रजासु वृत्तिं वेदितुं यम् अयुक्त, वर्णिलिङ्गी सः विदितः द्वैतवने युधिष्ठिरं समाययौ ॥१॥
सन्दर्भ --कविकुलमौलिमुकुटमणिना महाकविना भारविना प्रणीतस्य अर्थगौरवार्थं प्रथितस्य किरातार्जुनीयमहाकाव्यस्य प्रथमसर्गात् समुद्धृतमिदम्पद्यम् ।
प्रसङ्ग --पद्येऽस्मिन् महाकविना भारविना कुरुराजदुर्योधनस्य शासनप्रणालीं विदित्वा प्रत्यागतस्य युधिष्ठिरदूतस्य वर्णनं विहितम् ।
संस्कृत व्याख्या --कुरुणां = कुरवः जनपदविशेषाः = कुरुनामधेयानां भूपतीनां वासस्थानानि तेषाम्, अधिपस्य = राज्ञः, दुर्योधनस्येत्यर्थः, श्रियः = राजलक्ष्म्याः, 'सम्पत्तिः श्रीश्च लक्ष्मीश्च' इत्यमरः, पालनीम् = पाल्यतेऽनयेति पालनी ताम् = पालनप्रणालीं, प्रजासु = जनेषु, 'प्रजा स्यात्सन्ततौ जने' इत्यमरः, वृत्तिं = व्यवहारं, वेदितुं = ज्ञातुं, यं = गुप्तचरं शबरम्, अयुक्त = न्ययोजयत्, नियुक्तमकरोदित्यर्थः, वर्णिलिङ्गी = वर्णः अस्यास्तीति वर्णी, तस्य लिङ्गमस्यास्तीति वर्णिलिङ्गी = कपटब्रह्मचारी, विदितः = ज्ञातसकलवृत्तान्तः, सः = पूर्वोक्तः, वनेचरः = वने चरतीति, वनेचरः = शबरः, द्वैतवने = एतदभिधेये कानने, 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः, युधिष्ठिरं = तदभिधेयं ज्येष्ठं पाण्डुतनयं, समाययौ = समागच्छत्।
हिन्दी व्याख्या --कुरुणाम् = कुरुजनपदों के, अधिपस्य = राजा (दुर्योधन) की, श्रियः = राजलक्ष्मी की, पालनीं = शासन-प्रणाली को, प्रजासु = प्रजा में, वृत्तिं = व्यवहार को, वेदितुं = जानने के लिए, यं = जिस (गुप्तचर) को, अयुक्त = नियुक्त किया (था), वर्णिलिङ्गी = ब्रह्मचारी के छद्म-वेश को धारण करने वाला, विदितः = समस्त वृत्तान्तों को ज्ञात करके, सः = वह, वनेचरः = गुप्तचर (किरात), द्वैतवने = द्वैतवन में, युधिष्ठिरं = युधिष्ठिर के पास, समाययौ = आया (पहुँचा) ॥१॥
हिन्दी अर्थ --कुरुदेश के राजा (दुर्योधन) की राजलक्ष्मी को प्रतिष्ठापित करने वाले प्रजापालन के व्यवहार को जानने के लिए (युधिष्ठिर ने) जिस वनेचर (किरात गुप्तचर) को नियुक्त किया था, ब्रह्मचारी का वेष धारण किया हुआ वह किरात (सभी समाचार को) जानता हुआ द्वैतवन में युधिष्ठिर के पास आया ॥१॥
टिप्पणी --इस सर्ग में ४४ वें श्लोक तक वंशस्थ छन्द है। इस छन्द में चार पाद होते हैं। चारों पादों में क्रमशः जगण, तगण, जगण और रगण होते हैं। महाकाव्य के लक्षण के अनुसार ४५ वें श्लोक से अर्थात् सर्गान्त में दूसरे छन्द हैं जो संस्कृतकृष्णाव्याख्या में दिखाये जायेंगे ॥१॥
कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः ।
न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥ २ ॥
अन्वय --कृतप्रणामस्य सपत्नेन जितां महीं महीभुजे निवेदयिष्यतः तस्य मनः न विव्यथे । हि हितैषिणः मृषा प्रियं प्रवक्तुं न इच्छन्ति ॥२॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --युधिष्ठिरम्प्रति सत्यवार्तां कथयतः दूतस्य चित्रमुपस्थापितमस्मिन् पद्ये महाकविना भारविना ।
संस्कृत व्याख्या --कृतप्रणामस्य = कृतः सम्पादितः, प्रणामः = अभिवादनं येन स तस्य, सपत्नेन = वैरिणा, 'वैरिसपत्नारिद्विषद्वेषणदुर्हदः' इत्यमरः, दुर्योधनेनेत्यर्थः, जितां = स्वायत्तीकृतां, महीं = पृथिवीं, महीभुजे = पृथ्वपिभतये, युधिष्ठिरायेत्यर्थः, निवेदयिष्यतः = कथयिष्यतः, तस्य = पूर्वोक्तस्य वनेचरस्य, मनः = चेतः, 'चित्तं तु चेतो हृदयं स्वान्तर्हृत् मानसं मनः' इत्यमरः, न = नहि, विव्यथे = दुःखं प्राप। हि = यतः, हितैषिणः = स्वामिहिताकाङ्क्षिणः, सेवका इति शेषः, मृषा = मिथ्या, 'मृषा मिथ्या च वितथे' इत्यमरः, प्रियं = कर्णमधुरं, वच इति शेषः, प्रवक्तुं = प्रकथयितुं, न = नहि, इच्छन्ति = काङ्क्षन्ति।
हिन्दी व्याख्या --कृतप्रणामस्य = प्रणाम करने वाले, सपत्नेन = शत्रु (दुर्योधन) के द्वारा, जितां = जीती गई, महीं = पृथ्वी को, महीभुजे = राजा (युधिष्ठिर) से, निवेदयिष्यतः = निवेदन करने वाले, तस्य = उस (वनेचर) का, मनः = मन, न = नहीं, विव्यथे = पीड़ित हुआ। हि = क्योंकि, (स्वामी का), हितैषिणः = कल्याण चाहने वाले, (सेवक), मृषा = झूठ, प्रियं = (कानों को) मीठा लगने वाले वचन, प्रवक्तुं = बोलने की, न = नहीं, इच्छन्ति = इच्छा करते हैं ॥२॥
हिन्दी अर्थ --प्रणाम करने वाले, शत्रु दुर्योधन के द्वारा जीती गई पृथ्वी को राजा युधिष्ठिर से निवेदित करने वाले उस वनेचर (गुप्तचर) का मन दुःखी नहीं हुआ, क्योंकि (स्वामी का) कल्याण चाहने वाले (सेवक) कानों को मीठा लगने वाले असत्य वचन बोलने की इच्छा नहीं करते हैं ॥२॥
टिप्पणी --‘महीं महीभुजे’ इत्यत्र ‘मही’ इत्यस्य सकृदावृत्त्या छेकानुप्रासः । तद्यथा साहित्यदर्पणे—‘छेको व्यञ्जनसङ्घस्य सकृत् साम्यमनेकधा’ इति । अत्र पूर्वसामान्यकथनस्योत्तरविशेषकथनेन समर्थनादर्थान्तरन्यासश्चालङ्कारः । तद्यथा साहित्यदर्पणे—‘सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः’ इति । ‘जतौ तु वंशस्थमुदीरितं जरौ’ इति लक्षणादत्र वंशस्थवृत्तम् ॥२॥
द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः ।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ॥ ३ ॥
अन्वय --सः द्विषां विघाताय विधातुम् इच्छतः भूभृतः रहसि अनुज्ञाम् अधिगम्य सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थाम् इति वाचम् आददे ॥३॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --पद्येऽस्मिन् भारविना युधिष्ठिरादिष्टस्य वनेचरस्य अर्थसम्पत्सम्भृता वाक् चित्रिता ।
संस्कृत व्याख्या --सः = शबरः, द्विषां = शत्रूणां, कौरवाणामित्यर्थः, विघाताय = संहरणाय, विधातुम् = उद्यमं कर्तुम्, इच्छतः = वाञ्छतः, भूभृतः = अधिपस्य, युधिष्ठिरस्येति, रहसि = एकान्ते, 'विविक्तविजनच्छन्ननिःशलाकास्तथारहः' इत्यमरः, अनुज्ञाम् = आदेशम्, अधिगम्य = सम्प्राप्य, सौष्ठवौदार्यविशेषशालिनीं = सुष्ठुभावः सौष्ठवं = शब्दसामर्थ्यम्, उदारस्य भावः औदार्यम् = अर्थसम्पत्, तयोः विशेषः, तेन शालते = शोभते इति सौष्ठवौदार्यविशेषशालिनी ताम्, विनिश्चितार्थां = विशेषतः, निश्चितार्था = प्रमाणतः समुद्रासितार्थाम्, इति = एवंविधां, वाचं = वाणीं, 'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः, आददे = व्याजहार।
हिन्दी व्याख्या --सः = वह (गुप्तचर), द्विषां = शत्रुओं (दुर्योधनादि कौरवों) के, विघाताय = विनाश के लिए, विधातुं = उद्यम करने के लिए, इच्छतः = इच्छा करने वाले, भूभृतः = राजा (युधिष्ठिर) की, रहसि = एकान्त में, अनुज्ञां = आज्ञा को, अधिगम्य = प्राप्तकर, सौष्ठवौदार्यविशेषशालिनीं = शब्दसौष्ठव और अर्थगाम्भीर्य गुणों से विशेष रूप से युक्त, विनिश्चितार्थाम् = प्रामाणिक, इति = ऐसी, वाचं = वाणी को, आददे = बोलने लगा ॥३॥
हिन्दी अर्थ --उस गुप्तचर ने शत्रुओं (दुर्योधनादि कौरवों) के विनाश के लिए उद्यम करने की इच्छा करने वाले राजा युधिष्ठिर की एकान्त में आज्ञा पाकर शब्दसौष्ठव और अर्थगाम्भीर्य गुणों से विशेष रूप से युक्त प्रामाणिक वाणी को बोलना शुरू किया ॥३॥
टिप्पणी --वकारस्य तकारस्यानेकधाऽऽवृत्त्या वृत्यनुप्रासोऽलङ्कारः । तद्यथा साहित्यदर्पणे—‘अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा । एकस्य सकृदप्येष वृत्यनुप्रास उच्यते’ इति । ‘जतौ तु वंशस्थमुदीरितं जरौ’ इति लक्षणादत्र वंशस्थवृत्तम् ॥३॥
क्रियासु युक्तैर्नृप ! चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥ ४ ॥
अन्वय --नृप ! क्रियासु युक्तैः अनुजीविभिः चारचक्षुषः प्रभवः न वञ्चनीयाः । अतः असाधु साधु वा क्षन्तुम् अर्हसि । हितं मनोहारि च वचः दुर्लभम् ॥४॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --'राजानो चारचक्षुष भवन्ति' अतः गुप्तचरैः कदापि न वञ्चनीयाः' इति प्रस्तौति महाकविर्भारविः वनेचरमुखात् ।
संस्कृत व्याख्या --नृप ! = राजन् ! युधिष्ठिर !!, क्रियासु = कृत्येषु, युक्तैः = नियुक्तैः, अनुजीविभिः = सेवकैः, 'सेवकार्थ्यनुजीविनः' इत्यमरः, चारचक्षुषः = चरन्ति इति चराः, त एव चाराः, चारा एव चक्षूंषि येषान्ते चारचक्षुषः = गुप्तचरनेत्राः, 'चरः स्पशः । चारश्च गूढ़पुरुषः' इत्यमरः, प्रभवः = स्वामिनः, न = नहि, वञ्चनीयाः = प्रतारणीयाः, अतः = अस्माद्धेतोः, असाधु = अप्रियम्, असुन्दरमित्यर्थः, साधु = प्रियं, श्रोत्रपेयमित्यर्थः, वा = अथवा, क्षन्तुं = सोढुम्, अर्हसि = शक्नोषि, शक्तोऽसि, हितं = कल्याणकरं, पथ्यमित्यर्थः, मनोहारि = चेतोऽनुकूलं, च = तथा, वचः = भाषितं, 'व्याहार उक्तिर्लपितं भाषितं वचनं वचः' इत्यमरः, दुर्लभं = लब्धुं दुष्करम् ।
हिन्दी व्याख्या --नृप ! = हे राजन्! (युधिष्ठिर !), क्रियासु = कार्यों में, युक्तैः = लगाये गये, अनुजीविभिः = सेवकों के द्वारा, चारचक्षुषः = गुप्तचर रूपी आँखों वाले, प्रभवः = प्रभु लोग अर्थात् राजा लोग, न = नहीं, वञ्चनीयाः = ठगे जाने चाहिए। अतः = इसलिए, असाधु = अप्रिय (अच्छा न लगे), वा = या, साधु = प्रिय (अच्छा लगे), क्षन्तुं = क्षमा करने के लिए, अर्हसि = समर्थ हैं। (क्योंकि) हितं = कल्याणकारक, च = और, मनोहारि = सुनने में अच्छा लगने वाला, वचः = वचन, दुर्लभम् = दुर्लभ (होता है) ॥४॥
हिन्दी अर्थ --हे राजन्! (युधिष्ठिर!) कार्यों में लगाये गये सेवकों के द्वारा गुप्तचररूपी आँखों वाले राजा लोग ठगे नहीं जाने चाहिए। अतः अप्रिय (अच्छा न लगे) या प्रिय (अच्छा लगे) क्षमा कर देने के लिए समर्थ हैं। (क्योंकि) हितकर (परिणाम सुखद) तथा मनोहर (श्रुतिसुखद) वचन दुर्लभ हैं ॥४॥
टिप्पणी --अत्र पूर्वकथनस्योत्तरकथनेन समर्थनादर्थान्तरन्यासोऽलङ्कारः । तद्यथा साहित्यदर्पणे—'सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति ॥४॥
स किं सखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किं प्रभुः ।
सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥ ५ ॥
अन्वय --यः अधिपं साधु न शास्ति, सः किं सखा, यः हितात् न संशृणुते, स किं प्रभुः, हि नृपेषु अमात्येषु च अनुकूलेषु सर्वसम्पदः सदा रतिं कुर्वते ॥५॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --नृपसचिवयोरैक्यं सम्पदि कल्पत इति वनेचरमुखात् प्रस्तौति महाकविः ।
संस्कृत व्याख्या --यः = सुहृदमात्यः, अधिपं = स्वामिनं राजानं, साधु = हितं, न = नहि, शास्ति = उपदिशति, सः = हितानुपदेष्टा, किं सखा = कुत्सितः सखा, दुरामात्य इत्यर्थः, यः = स्वामी, राजा, हितात् = हितोपदेशात्, न = नहि, संशृणुते = सम्यक् प्रकारेण, शृणोति, सः = प्रभु, किं प्रभुः = कुत्सितः स्वामी। हि = यस्माद्धेतोः, नृपेषु = राजसु, अमात्येषु = सचिवेषु, 'मन्त्री धीसचिवोऽमात्यः' इत्यमरः, च = तथा, अनुकूलेषु = अनुरक्तेषु, सर्वसम्पदः = सर्वाः सकलाः सम्पदः = श्रियः, सदा = सर्वदा, 'सर्वदा सदा' इत्यमरः, रतिम् = अनुरागं, कुर्वते = कुर्वन्ति।
हिन्दी व्याख्या --यः = जो (मित्र या मन्त्री), अधिपं = राजा को, साधु = अच्छा, न = नहीं, शास्ति = उपदेश देता, सः = वह, किं = कैसा (खराब), सखा = मित्र (है)। यः = जो (राजा), हितात् = हित से (मित्र या मन्त्री), न = नहीं, संशृणुते = अच्छी प्रकार नहीं सुनता अर्थात् बढ़िया राय नहीं मानता, सः = वह, किं = कैसा (खराब), प्रभुः = राजा (है)। हि = क्योंकि, नृपेषु = राजाओं, च = और, अमात्येषु = मन्त्रियों के, अनुकूलेषु = अनुकूल रहने पर, सर्वसम्पदः = सभी सम्पत्तियाँ, सदा = हमेशा, रतिं = प्रेम, कुर्वते = करती हैं अर्थात् अनुरक्त रहती हैं ॥५॥
हिन्दी अर्थ --जो मित्र या मन्त्री राजा या स्वामी को अच्छा उपदेश नहीं देता वह मित्र कैसा? अर्थात् खराब मित्र है। जो मित्र या मन्त्री से अच्छी प्रकार (हितवाणी) नहीं सुनता वह स्वामी या राजा कैसा? अर्थात् खराब राजा है। क्योंकि राजाओं और मन्त्रियों के अनुकूल रहने पर ही सभी सम्पत्तियाँ सदा अनुरक्त रहती हैं ॥५॥
टिप्पणी --अत्र कार्यकारणसमर्थनादर्थान्तरन्यासोऽलङ्कारः । तद्यथा— 'सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति ॥५॥
निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ ६ ॥
अन्वय --निसर्गदुर्बोधं भूपतीनां चरितं क्व? अबोधविक्लवाः जन्तवः क्व? निगूढतत्त्वं विद्विषां नयवर्त्म यन्मया अवेदि अयं तव अनुभावः ॥६॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --'वनेचरो भूत्वाऽप्यहं दुर्बोधं दुर्योधनचरितं ज्ञातुं युधिष्ठिरप्रभावादेव समर्थोऽभवम्' इति प्रस्तौति किरातमुखात् महाकविः ।
संस्कृत व्याख्या --निसर्गदुर्बोधं = निसर्गेण प्रकृत्या दुर्बोधं दुर्ज्ञेयं, भूपतीनां = राज्ञां, दुर्योधनादीनामिति, चरितं = चरित्रं, क्व = कुत्र, अबोधविक्लवाः = न बोधः अबोधस्तेन अज्ञानेन विक्लवाः पीडिताः, शून्या इत्यर्थः, ज्ञानशून्याः मूर्खा इति यावत्, जन्तवः = प्राणिनः, क्व = कुत्र सन्तीति शेषः, तथापीति शेषः, निगूढतत्त्वं = रहस्यसम्भृतं, विद्विषां = शत्रूणां कौरवाणामिति यावत्, नयवर्त्म = नयस्य राजनीतिः, वर्त्म अयनम्, 'अयनं वर्त्ममार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः, सन्धिविग्रहादिषाड्गुण्यप्रयोगः इति यावत्, 'संधिर्नाविग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः' इत्यमरः, यत् = यत्किमपि, मया = वनेचरेण, अवेदि = अवोधि, ज्ञातमित्यर्थः, अयं तव = भवतः युधिष्ठिरस्येत्यर्थः, अनुभावः = प्रभावः, 'अनुभावः प्रभावे च सतां च मतिनिश्चये' इत्यमरः, अस्तीति शेषः।
हिन्दी व्याख्या --निसर्गदुर्बोधं = स्वभाव से ही कठिनाई से ज्ञात होने योग्य, भूपतीनां = राजाओं का, चरितं = चरित्र, क्व = कहाँ तो, अबोधविक्लवाः = अज्ञान से उपहत अर्थात् ज्ञानशून्य, जन्तवः = प्राणी, (हमलोग), क्व = कहाँ तो? निगूढतत्त्वं = रहस्य से भरे हुए, विद्विषां = शत्रुओं (दुर्योधनादि कौरवों) की, नयवर्त्म = राजनीतिपद्धति, यत् = जो, मया = मेरे द्वारा, अवेदि = जानी गई, अयं = यह, तव = आप का ही, अनुभावः = प्रभाव (है) ॥६॥
हिन्दी अर्थ --स्वभाव से ही कठिनाई से ज्ञात होने योग्य कहाँ तो राजाओं का चरित्र और कहाँ अज्ञान से उपहत अर्थात् ज्ञान से रहित हम वनेचर ? रहस्य से भरे हुए आपके शत्रुओं (दुर्योधनादि) की राजनीति-पद्धति जो मेरे द्वारा जान ली गई, यह आप (युधिष्ठिर) का ही प्रभाव है ॥६॥
टिप्पणी --‘क्व भूपतीनां चरितं क्व जन्तवः’ इत्यत्रातिवैधर्म्यात् विषमालङ्कारः । तद्यथा साहित्यदर्पणे—‘विरूपयोः सङ्घटना या च तद्विषमं मतम्’ इति । अत्र वंशस्थवृत्तम् ॥६॥
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः ।
दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥ ७ ॥
अन्वय --नृपासनस्थः अपि सुयोधनः वनाधिवासिनः भवतः पराभवं विशङ्कमानः दुरोदरच्छद्मजितां जगतीं नयेन जेतुं समीहते ॥७॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --द्यूतच्छलाधिगतां पृथ्वीं वशीकर्तुं समीहते दुर्योधनः वनवासिनो भवतो युधिष्ठिरात् पराजयशङ्क्येति निवेदयति किरातः ।
संस्कृत व्याख्या --नृपासनस्थः = नृपस्य राज्ञः, आसने पीठे, स्थितः आसीनः, राजसिंहासनस्थ इत्यर्थः, अपि, सुयोधनः = सुखेन युध्यत इति सुयोधनः दुर्योधनः, वनाधिवासिनः = वनं काननम्, अधिवसतीति वनाधिवासी तस्मात् वनाधिवासिनः कानननिवासिनः, भवतः = त्वतः, युधिष्ठिरादिति शेषः, पराभवं = पराजयं, विशङ्कमानः = विशेषेण शङ्कमानः सन्देहेन ईक्षमाणः, दुरोदरच्छद्मजितां = दुष्टमुदरमस्येति दुरोदरं तस्य छद्मना जितां तां दुरोदरच्छद्मजितां = द्यूतकपटर्जितां, 'दुरोदरं द्यूतकारौ द्यूते दुरोदरम्' इत्यमरः, 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरश्च, जगतीं = पृथ्वीं, नयेन = नीत्या, नीतिपद्धत्येति यावत्, जेतुं = निर्णीकर्तुं, समीहते = काङ्क्षति, प्रयतते इत्यर्थः।
हिन्दी व्याख्या --नृपासनस्थः = राजगद्दी पर स्थित, अपि = भी, सुयोधनः = दुर्योधन, वनाधिवासिनः = वन में रहने वाले अर्थात् वनवासी, भवतः = आप से (युधिष्ठिर से), पराभवं = पराजय की, विशङ्कमानः = विशेष शङ्का करता हुआ, दुरोदरच्छद्मजितां = द्यूतक्रीडारूप कपट से जीती गई, जगतीं = पृथ्वी को, नयेन = नीति से, जेतुं = जीतने की, समीहते = इच्छा कर रहा है अर्थात् चेष्टा कर रहा है ॥७॥
हिन्दी अर्थ --राजसिंहासन पर स्थित होता हुआ भी दुर्योधन वन में रहने वाले अर्थात् वनवासी आप (युधिष्ठिर) से पराजय की विशेष शङ्का करता हुआ द्यूतक्रीडारूप कपट से जीती गई पृथ्वी को राजनीति से जीतने की इच्छा कर रहा है अर्थात् प्रयास कर रहा है ॥७॥
टिप्पणी --अत्र ‘दुरोदरच्छद्मजितां’ पूर्वकथनमइदं ‘नयेन’ उत्तरकथनेन हेतुनिर्देशपूर्वकं समर्थितमत एव काव्यलिङ्गमलङ्कारः । तद्यथा- साहित्यदर्पणे ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गन्निगद्यते’ इति ॥७॥
तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः ।
समुन्नयन् भूतिमनार्यसङ्गमाद् वरं विरोधोऽपि समं महात्मभिः ॥ ८ ॥
अन्वय --तथापि जिह्मः स भवज्जिगीषया गुणसम्पदा शुभ्रं यशः तनोति । भूतिं समुन्नयन् महात्मभिः समं विरोधः अपि अनार्यसङ्गमाद् वरम् ॥८॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --युधिष्ठिरं भवन्तं जेतुकामः कुटिलोऽपि दुर्योधनः गुणैः यशस्तनोतीति प्रस्तौति वनेचरमुखात् महाकविः ।
संस्कृत व्याख्या --तथापि = शङ्कितोऽपि, जिह्मः = कुटिलः, सः = पूर्वोक्तो दुर्योधनः, भवज्जिगीषया = भवन्तं त्वां, जेतुमिच्छया, स्वगुणैः भवन्तं युधिष्ठिरमाक्रमितुमिच्छया, गुणसम्पदा = गुणानां दयादानदाक्षिण्यादीनां, सम्पदा लक्ष्म्या, शुभ्रं = शुक्लं, 'शुक्लशुभ्रशुचिश्वेतविशदश्वेतपाण्डराः' इत्यमरः, यशः = कीर्ति, 'यशः कीर्तिः समज्या च' इत्यमरः, तनोति = विस्तारयति । भूतिं = विभूति, 'विभूतिर्भूतिरैश्वर्यम्' 'भूतिर्भस्मनि सम्पदि' इत्यमरः, समुन्नयन् = उन्नतिं प्रापयन्, महात्मभिः = साधुपुरुषैः, समं = सह, विरोधः = वैरम्, अपि, अनार्यसङ्गमात् = नीचसंसर्गाद्, वरं = ईषत्प्रियः, श्रेष्ठ इत्यर्थः, 'देवादृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये' इत्यमरः।
हिन्दी व्याख्या --तथापि = फिर भी, जिह्मः = कुटिल, सः = वह (दुर्योधन), भवज्जिगीषया = आप (युधिष्ठिर) को जीतने की इच्छा से, गुणसम्पदा = (दया, दान, दाक्षिण्यादि) गुणों की लक्ष्मी के द्वारा, शुभ्रं = स्वच्छ, यशः = यश को, तनोति = फैला रहा है। भूतिं = ऐश्वर्य को, समुन्नयन् = उन्नति को प्राप्त कराता हुआ, महात्मभिः = महात्माओं के, समं = साथ, विरोधः = विरोध, अपि = भी, अनार्यसङ्गमात् = दुष्ट जनों की संगति से, वरं = कुछ अच्छा है अर्थात् श्रेष्ठ है ॥८॥
हिन्दी अर्थ --फिर भी कुटिल दुर्योधन आप (युधिष्ठिर) को जीतने की इच्छा से दया, दान, दाक्षिण्यादि गुणों की सम्पत्ति के द्वारा अपने श्वेत यश को फैला रहा है। ऐश्वर्य को उन्नति को प्राप्त कराता हुआ महात्माओं के साथ विरोध भी दुष्टजनों की संगति से कुछ अच्छा है अर्थात् श्रेष्ठ है ॥८॥
टिप्पणी --अत्र पूर्वकथनस्य हेतुनिर्देशपूर्वकमुत्तरकथनेन समर्थनात् काव्यलिङ्गानुप्रणितोऽर्थान्तरन्यासोऽलङ्कारः । वंशस्थवृत्तञ्चात्र ॥८॥
कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना ।
विभज्य नक्तन्दिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥ ९ ॥
अन्वय --कृतारिषड्वर्गजयेन अगम्यरूपाम् मानवीं पदवीं प्रपित्सुना अस्ततन्द्रिणा तेन पौरुषं नक्तं दिवं विभज्य नयेन वितन्यते ॥९॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --दुर्योधनेन नयेन स्वीयं पौरुषं विस्तार्यत इति प्रस्तौति वनेचरः ।
संस्कृत व्याख्या --कृतारिषड्वर्गजयेन = षण्णां वर्गः षड्वर्गः, अरीणां षड्वर्गः अरिषड्वर्गः, तस्य जयः अरिषड्वर्गजयः, कृतः अरिषड्वर्गजयः येन तेन कृतारिषड्वर्गजयेन = जित-काम-क्रोध-मद-मोह-लोभ-मात्सर्यारिपुषड्वर्गेण, अगम्यरूपां = पुरुषदुर्लध्यां, मानवीं = मनोरियम्यानवी तां = मनुनिर्दिष्टां, पदवी = सरणिम्, 'अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः । सरणिः पद्धतिः पद्या वर्तन्त्येकपदीति च' इत्यमरः, प्रजापरिपालनस्येति शेषः, प्रपित्सुना = लब्धुकामेन, अस्ततन्द्रिणा = अस्ता तन्द्रिः आलस्यं यस्य तेन अस्ततन्द्रिणा = विगतालस्येन, तेन = दुर्योधनेन, पौरुषं = पुरुषकारः, पुम्भाव इत्यर्थः, नक्तं दिवं = दिवानिशं, विभज्य = विभागं कृत्वा, इदं कर्म अस्मिन्समये कर्तव्यमिदं न कर्तव्यमिति विभागं कृत्वा, नयेन = राजनीति्या, वितन्यते = विस्तार्यते।
हिन्दी व्याख्या --कृतारिषड्वर्गजयेन = (काम, क्रोध, मद, मोह, लोभ, मात्सर्य) छह प्रकार के आन्तरिक शत्रुओं को जीतने वाले, अगम्यरूपां = सामान्यजन द्वारा अप्राप्त, मानवीं = मनु द्वारा निर्दिष्ट, पदवीं = (प्रजापरिपालन की) सरणि को, प्रपित्सुना = प्राप्त करने की इच्छा वाले, अस्ततन्द्रिणा = आलस्य रहित (अस्त हो गई है तन्द्रा जिसकी, ऐसा), तेन = उस (दुर्योधन) के द्वारा, पौरुषं = पौरुष, नक्तं = रात, दिवं = दिन का, विभज्य = विभाजन करके, नयेन = नीति के द्वारा, वितन्यते = विस्तारत किया जा रहा है ॥९॥
हिन्दी अर्थ --(कामक्रोधादि) छह प्रकार के आन्तरिक शत्रुओं को जीतने वाले, सामान्य जन के द्वारा अप्राप्त, मनु द्वारा निर्दिष्ट (प्रजा-परिपालन) सरणि को प्राप्त करने की इच्छा वाले आलस्य रहित दुर्योधन द्वारा रात-दिन का विभाजन करके नीति के द्वारा पौरुष विस्तारत किया जा रहा है ॥९॥
टिप्पणी --अत्र द्वितीयचरणे 'प' इत्यस्य, तृतीयचतुर्थचरणयोः 'त न' इत्यनयोरसकृदावृत्त्या वृत्यनुप्रासः । तद्यथा साहित्यदर्पणे— 'अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा । एकस्य सकृदप्येष वृत्यनुप्रास उच्यते' इति ॥९॥
सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः ।
स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥ १० ॥
अन्वय --गतस्मयः स सन्ततम् अनुजीविनः प्रीतियुजः सखीन् इव सुहृदश्च बन्धुभिः समानमानान् बन्धुतां कृताधिपत्याम् इव साधु दर्शयते ॥१०॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --दुर्योधनस्य सेवकमित्राद्याश्रितजनान् प्रति सद्व्यवहारान् विवेचयति वनेचरमुखात् महाकविर्भारविः ।
संस्कृत व्याख्या --गतस्मयः = गतदर्पः, गतः स्मयः यस्य स गतस्मयः, 'दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयोमदः' इत्यमरः, सः = पूर्वोक्तो दुर्योधनः, सन्ततं = निरन्तरं, 'सततानारताश्रान्तसन्तताविरतानिशम्' इत्यमरः, अनुजीविनः = आश्रितान्, सेवकानित्यर्थः, प्रीतियुजः = प्रेमसम्भृतान्, सखीन् = मित्राणि, इव = यथा, सुहृदः = मित्राणि, शोभनं हृदयं येषान्ते सुहृदः सखीनित्यर्थः, च = तथा, बन्धुभिः = बान्धवैः स्वजनैरित्यर्थः, समानमानान् = समसत्कारान्, बन्धुतां = स्वजनतां सगोत्रत्वमित्यर्थः, कृताधिपत्यां = कृतमाधिपत्यं यस्यास्तां कृताधिपत्यां = सम्पादितस्वाम्यम्, इव = यथा, साधु = सुन्दरं, सम्यग्रीत्येतिभावः, दर्शयते = प्रकटयति।
हिन्दी व्याख्या --गतस्मयः = गर्वरहित, सः = वह (दुर्योधन), सन्ततं = निरन्तर, अनुजीविनः = अनुचरों को, प्रीतियुजः = प्रीतिपात्र, सखीन् = मित्रों के, इव = समान, च = और, सुहृदः = मित्रों को, बन्धुभिः = भाइयों के, समानमानान् = समान सम्मान वाला, (च = और), बन्धुतां = भ्रातृत्व को, कृताधिपत्यां = प्राप्ताधिपत्य स्वामित्व के, इव = समान (अर्थात् भाइयों को स्वामी के जैसा अर्थात् अपने जैसे), साधु = सुन्दर रूप से (व्यवहार), दर्शयते = प्रदर्शित कर रहा है ॥१०॥
हिन्दी अर्थ --गर्वरहित दुर्योधन हमेशा सेवकों को प्रीतिपात्र मित्रों की तरह, मित्रों को भाइयों की तरह समान मानवाला और भ्रातृत्व को प्राप्ताधिपत्य स्वामित्व के समान अर्थात् भाइयों को स्वामी जैसा अर्थात् अपने जैसा सम्यक् रीति से व्यवहार प्रदर्शित कर रहा है ॥१०॥
टिप्पणी --अत्र नकारस्यासकृदावृत्त्या वृत्यनुप्रासः। अत्रोपमाऽलङ्कारः । तद्यथा- 'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥१०॥
असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।
गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्य त्रिगणः परस्परम् ॥ ११ ॥
अन्वय --यथायथं विभज्य समपक्षपातया भक्त्या असक्तम् आराधयतः अस्य त्रिगणः गुणानुरागात् सख्यम् ईयिवान् इव परस्परं न बाधते ॥११॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --कालं विभज्य कार्यं कुर्वतोऽनासक्तस्य दुर्योधनस्य धर्मार्थकामाः परस्परं विरोधका न भवन्तीति प्रस्तौति वनेचरः ।
संस्कृत व्याख्या --यथायथं = यथायोग्यं, स्वसमयानुसारमित्यर्थः, विभज्य = विभागं विधाय, धर्मस्य अर्थस्य कामस्य च क उचितकालः इति विविच्येति यावत्, समपक्षपातया = पक्षे पातः पक्षपातः, समः पक्षपातः यस्यां तया, समपक्षपातया = समानदृष्ट्या, भक्त्या = अनुरागेण, असक्तम् = अनासक्तम्, आराधयतः = सेवमानस्य, अस्य = एतस्य दुर्योधनस्य, त्रिगणः = धर्मार्थकामत्रिवर्गः, गुणानुरागात् = गुणानां दयादानदाक्षिण्यादिगुणानां दुर्योधनस्येति शेषः, अनुरागात् प्रेम्णः, सख्यं = मित्रताम्, ईयिवान् = उपगतवान्, इव = यथा, परस्परम् = अन्योन्यं, न = नहि, बाधते = विघ्नरूपो भवति। धर्मार्थकामाः दुर्योधनस्य मिथः सहायाः भवन्तीति भावः।
हिन्दी व्याख्या --यथायथं = स्वसमयानुरूप, विभज्य = विभाजन करके, समपक्षपातया = समान दृष्टिवाली, भक्त्या = भक्ति से, असक्तम् = आसक्तिरहित भाव से, आराधयतः = सेवन करते हुए, अस्य = इस (दुर्योधन) का, त्रिगणः = त्रिवर्ग अर्थात् धर्म, अर्थ और काम, गुणानुरागात् = (दुर्योधन में स्थित दया-दान-दाक्षिण्य) गुणों के साथ अनुराग होने से, सख्यम् = मित्रता को, ईयिवान् = प्राप्त हुआ, इव = मानो, परस्परं = एक दूसरे को, न = नहीं, बाधते = बाधित करता अर्थात् बाधक होता ॥११॥
हिन्दी अर्थ --स्वसमयानुरूप विभाजन करके समान दृष्टिवाला भक्ति से आसक्ति रहित भाव से सेवन करते हुए उस दुर्योधन का धर्म, अर्थ और काम अर्थात् त्रिवर्ग, दुर्योधन में स्थित दया-दान-दाक्षिण्य गुणों के साथ अनुराग होने से मैत्रीभाव को प्राप्त हुआ सा एक दूसरे को बाधित नहीं होता ॥११॥
टिप्पणी --अत्र 'त्रिगणः गुणानुरागात् सख्यमीयिवान् इव' इति सम्भावनादुत्प्रेक्षाऽलङ्कारः। तद्यथा साहित्यदर्पणे— 'भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परेण यत्' इति ॥११॥
निरत्ययं साम न दानवर्जितं न भूरिदानं विरहय्य सत्क्रियाम् ।
प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥ १२ ॥
अन्वय --तस्य निरत्ययं साम दानवर्जितं न प्रवर्तते । भूरिदानं सत्क्रियां विरहय्य न (प्रवर्तते), विशेषशालिनी सत्क्रिया गुणानुरोधेन विना न (प्रवर्तते) ॥१२॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --दुर्योधनस्य सामदानयोर्वर्णनं करोति वनेचरः युधिष्ठिरम्प्रति ।
संस्कृत व्याख्या --तस्य = पूर्वोक्तस्य दुर्योधनस्य, निरत्ययं = निरतिक्रमम्, अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डे इत्यमरः, साम = सान्त्वं, 'साम सान्त्वम्' इत्यमरः, दानवर्जितं = दानरहितं, न = नहि, प्रवर्तते = भवति। भूरि = प्रचुरं, दानम् = अर्थत्यागः, सत्क्रियां = सत्कारं, विरहय्य = त्यक्त्वा, न = नहि, प्रवर्तते = भवति, विशेषशालिनी = वैशिष्ट्यसम्पन्ना, महत्त्वम्येति यावत्, सत्क्रिया = सत्कारः, गुणानुरोधेन = गुणानां दयादानादीनामनुरोधेन अनुवर्तनेन, 'अनुरोधोऽनुवर्तनम्' इत्यमरः, विना = अन्तरा, 'पृथक विनान्तरेणर्तें हिरुङ्नाना च वर्जने' इत्यमरः, न = नहि, प्रवर्तते = भवति। गुणसंयुक्तेषु मानवेषु दुर्योधनस्यादरो दानञ्चेति भावः।
हिन्दी व्याख्या --तस्य = उस (दुर्योधन) का, निरत्ययं = बाधारहित, साम = सामनीति, दानवर्जितं = दान से रहित, न = नहीं, प्रवर्तते = होता। भूरिदानं = (उसका) अत्यधिक दान, सत्क्रियां = सत्कार को, विरहय्य = छोड़कर, न = नहीं, प्रवर्तते = होता। विशेषशालिनी = विशेषता-समन्वित, सत्क्रिया = सत्कार, गुणानुरोधेन = गुणों के अनुराग, विना = विना, न = नहीं, प्रवर्तते = होता। (अर्थात् दुर्योधन की सामनीति दानसहित होती है, दान ससम्मान होता है तथा सम्मान गुणी का होता है, गुणरहित का नहीं) ॥१२॥
हिन्दी अर्थ --उस दुर्योधन की निर्वाध सामनीति दानरहित नहीं होती। उसका अत्यधिक दान सत्काररहित भी नहीं होता। वैशिष्ट्य-संयुक्त-सत्कार गुणों के अनुराग बिना नहीं होता। अर्थात् दुर्योधन की सामनीति दानसहित होती है, दान ससत्कार होता है तथा सत्कार गुणी का होता है गुणरहित का नहीं ॥१२॥
टिप्पणी --अत्र पूर्वपूर्वविशेषणतयाऽन्योन्यस्य स्थापनादेकावल्यलङ्कारः तद्यथा— 'स्थाप्यतेऽपोह्यते वापि यथापूर्वं परम्परम् । विशेषणतया यत्र वस्तु सैकावली द्विधा' ॥१२॥
वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः ।
गुरुपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥ १३ ॥
अन्वय --वशी सः वसूनि वाञ्छन् न, मन्युना न, निवृत्तकारणः स्वधर्म एव इति गुरुपदिष्टेन दण्डेन रिपौ सुतेऽपि वा धर्मविप्लवं निहन्ति ॥१३॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --जितेन्द्रियेण दुर्योधनेन दण्डेन धर्मविप्लवो दूरीक्रियते इति प्रस्तौति वनेचरमुखात् महाकविर्भारविः ।
संस्कृत व्याख्या --वशी = जितेन्द्रियः, सः = पूर्वोक्तो दुर्योधनः, वसूनि = धनानि, वाञ्छन् = काङ्क्षन्, न = नहि, मन्युना = क्रोधेन, न = नहि, निवृत्तकारणः = निवृत्तं निर्गतं, कारणं निमित्तं यस्मात् सः, स्वधर्म एव = अयं नृपधर्म एव, इदं मम कर्तव्यम्, अयं निजधर्म, इति जानन्, गुरुपदिष्टेन = गुरुभिः नारदम्मन्वादिभिः श्रेष्ठैः, उपदिष्टेन प्रतिपादितमतानुसारेण, दण्डेन = दण्डनीत्या, रिपौ = शत्रौ, वैरिणि इत्यर्थः, सुते = पुत्रविषये, अपि, वा = अथवा, धर्मविप्लवं = धर्मडमरं, 'डिम्बे डमरविप्लवौ' इत्यमरः, अधर्ममित्यर्थः, निहन्ति = निवारयति।
हिन्दी व्याख्या --वशी = जितेन्द्रिय, सः = वह (दुर्योधन), वसूनि = धनों को, वाञ्छन् = चाहता हुआ, न = नहीं, मन्युना = क्रोध से, न = नहीं, निवृत्तकारणः = (अपितु लोभ-क्रोधादि) कारणों से रहित हो, स्वधर्मः = (यह) मेरा धर्म, एव = ही (है), इति = इस प्रकार, गुरुपदिष्टेन = (श्रेष्ठ मनु, नारदादि) गुरुओं के द्वारा उपदिष्ट (प्रतिपादित), दण्डेन = दण्डनीति से, रिपौ = शत्रु (के विषय) में, वा = या, सुते = पुत्र (के विषय) में, अपि = भी, धर्मविप्लवं = धर्म-विप्लव (अधर्म) को, निहन्ति = नष्ट (दूर) करता है ॥१३॥
हिन्दी अर्थ --जितेन्द्रिय वह दुर्योधन धनों को चाहता हुआ नहीं, क्रोध से नहीं, अपितु लोभक्रोधादि कारणों से रहित हो 'यह मेरा धर्म ही है' ऐसा श्रेष्ठ मनु, नारद याज्ञवल्क्यादि गुरुओं के द्वारा प्रतिपादित दण्डनीति से शत्रु के विषय में या पुत्र के विषय में भी धर्मविप्लव को नष्ट करता है अर्थात् अधर्म को दूर करता है ॥१३॥
टिप्पणी --अत्र 'न' इत्यस्यासकृदावृत्त्या वृत्यनुप्रासः । तद्यथा साहित्यदर्पणे— 'अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा । एकस्य सकृदप्येष वृत्यनुप्रास उच्यते' इति ॥१३॥
विधाय रक्षां परितः परेतरानशङ्किताकारमुपैति शङ्कितः ।
क्रियापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ॥ १४ ॥
अन्वय --शङ्कितः परितः परेतरान् रक्षां विधाय अशङ्किताकारम् उपैति । क्रियापवर्गेषु अनुजीविसात्कृताः सम्पदः अस्य कृतज्ञतां वदन्ति ॥१४॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --स्वसुरक्षार्थं सावधानेन दुर्योधनेनानुचरेभ्यः सम्पदो दत्ता इति वनेचरमुखात् प्रस्तौति महाकविर्भारविः ।
संस्कृत व्याख्या --शङ्कितः = शङ्कायुक्तः अविश्वस्त इत्यर्थः, दुर्योधन इति शेषः, परितः = अभितः, परेतरान् = आत्मीयान्, विश्वस्तजनानित्यर्थः, रक्षान् = रक्षकान्, विधाय = कृत्वा, अशङ्किताकारं = शङ्कारहिताकृतिम्, उपैति = प्राप्नोति, प्रकटयतीत्यर्थः, क्रियापवर्गेषु = कार्यान्येषु, अनुजीविसात्कृताः = अनुचरेभ्यो दत्ताः, सम्पदः = श्रियः, 'सम्पत्तिः श्रीश्च लक्ष्मीश्च' इत्यमरः, अस्य = एतस्य, दुर्योधनस्येत्यर्थः, कृतज्ञतां = कृतं जानातीति कृतज्ञः तस्य भावः कृतज्ञता, तामुपकारभावं, वदन्ति = सूचयन्ति।
हिन्दी व्याख्या --शङ्कितः = शङ्कित (अविश्वस्त) दुर्योधन, परितः = चारों ओर से, परेतरान् = आत्मीयों को, रक्षान् = रक्षकों के रूप में, विधाय = रखकर (बनाकर), अशङ्किताकारं = शङ्का से रहित आकृति को, उपैति = प्राप्त होता (प्रकट करता) है। अर्थात् सन्देहरहित आकार दिखाता है। क्रियापवर्गेषु = कार्यों के अन्त में, अनुजीविसात्कृताः = अनुचरों को दी गई, सम्पदः = सम्पत्तियाँ, अस्य = इस (दुर्योधन) की, कृतज्ञतां = कृतज्ञता को, वदन्ति = कहती (सूचित करती) हैं ॥१४॥
हिन्दी अर्थ --शङ्का से युक्त दुर्योधन चारों ओर से आत्मीय जनों को रक्षकों के रूप में नियुक्त कर शङ्कारहित आकृति को प्रकट करता है अर्थात् सन्देह रहित आकार दिखाता है। कार्यों के अन्त में अनुचरों को दी गई सम्पत्तियाँ दुर्योधन की कृतज्ञता को प्रकट करती हैं ॥१४॥
टिप्पणी --अत्र ‘र त’ इत्यनयोरसकृदावृत्त्या वृत्यनुप्रासः । अत्र वंशस्थवृत्तञ्च ॥१४॥
अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः ।
फलन्त्युपायाः परिबृंहितायतीरुपैत्य सङ्घर्षमिवार्थसम्पदः ॥ १५ ॥
अन्वय --तेन पदेषु सम्यक् विभज्य विनियोगसत्क्रियाः लम्भिताः उपायाः सङ्घर्षम् उपेत्य इव परिबृंहितायतीः अर्थसम्पदः अनारतं फलन्ति ॥१५॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --दुर्योधनेन सम्यग् विनियोजिताः सामाद्युपायाः सङ्घर्षं प्राप्ता इवार्थसम्पदः प्रसुवत इति प्रस्तौति वनेचरमुखात् महाकविः ।
संस्कृत व्याख्या --तेन = पूर्वोक्तेन दुर्योधनेन, पदेषु = उचितस्थानेषु वस्तुषु वा, 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः, सम्यक् = उचितप्रकारेण, विभज्य = विविच्य, विनियोगसत्क्रियाः = विनियोग एव सत्क्रिया येषान्ते विनियोगसत्क्रियाः = विनियोगसत्काराः, लम्भिताः = (उचित स्थानेषु) प्रयुक्ताः, उपायाः = सामदानदण्डभेदाख्याश्चत्वार उपायाः, 'भेदोदण्डः सामदानमित्युपायचतुष्टयम्' इत्यमरः, सङ्घर्षं = स्पर्धामन्योन्यमिति शेषः, उपेत्य = प्राप्य, इव = यथा, स्पर्द्धमाना इवेत्यर्थः, परिबृंहितायतीः = प्रवृद्धोत्तरकालाः, 'उत्तरकालः आयतिः' इत्यमरः, अर्थसम्पदः = अर्थसमृद्धीः, अनारतम् = अनिशं, 'सततानारताश्रान्तसन्तताविरतानिशम्' इत्यमरः, फलन्ति = जनयन्ति, प्रसुवत इत्यर्थः।
हिन्दी व्याख्या --तेन = उस (दुर्योधन) के द्वारा, पदेषु = (उचित) वस्तुओं में, सम्यक् = अच्छी प्रकार, विभज्य = विभाजन करके, विनियोगसत्क्रियाः = विनियोग के सत्कार को, लम्भिताः = प्राप्त कराये गये, उपायाः = सामादि चारों उपाय, सङ्घर्षम् = सङ्घर्ष को, उपेत्य = प्राप्त कर, इव = मानों, परिबृंहितायतीः = अतीव उन्नत भविष्यवाली, अर्थसम्पदः = सम्पत्तियों को, अनारतं = निरन्तर, फलन्ति = पैदा कर रहे हैं ॥१५॥
हिन्दी अर्थ --उस दुर्योधन के द्वारा उचित वस्तुओं में भली प्रकार विभाजन करके विनियोग के सत्कार को प्राप्त कराये गये सामादि चारों उपाय मानो सङ्घर्ष को प्राप्तकर अतीव उन्नत भविष्यवाली सम्पत्तियों को लगातार पैदा कर रहे हैं ॥१५॥
टिप्पणी --‘उपायाः सङ्घर्षम् उपेत्य इव’ इत्यत्र सम्भावनायामुत्प्रेक्षा । तद्यथा साहित्यदर्पणे—‘भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परेण यत्’ इति ॥१५॥
अनेकराजन्यस्थाश्वसङ्कुलं तदीयमास्थाननिकेतनाजिरम् ।
नयत्ययुग्मच्छदगन्धिराद्र्रतां भृशं नृपोपायनदन्तिनां मदः ॥ १६ ॥
अन्वय --अयुग्मच्छदगन्धिः नृपोपायनदन्तिनां मदः अनेकराजन्यस्थाश्वसङ्कुलं तदीयम् आस्थाननिकेतनाजिरं भृशम् आर्द्रतां नयति ॥१६॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --दुर्योधनस्य महावैभवं प्रदर्शयति महाकविः वनेचरमुखात् ।
संस्कृत व्याख्या --अयुग्मच्छदगन्धिः = विषमच्छदगन्धिः, सप्तपर्णपुष्पसुरभिरित्यर्थः, नृपोपायनदन्तिनां = अधिपोपहारभूतानां दन्तिनां = गजानां, मदं = दानं, गजानां गण्डस्थलनिःसृतदानजलमित्यर्थः, अनेकराजन्यस्थाश्वसङ्कुलम् = अनेकेषाम् असङ्ख्यानां, राजन्यानां = भूपतीनां, रथैः = स्यन्दनैः, अश्वैश्च = घोटकैश्च, सङ्कुलं = व्याप्तं, तदीयं = तत्सम्बन्धि, दुर्योधनस्येत्यर्थः, आस्थाननिकेतनाजिरम् = आस्थानस्य निकेतनमास्थाननिकेतनं तस्य अजिरं = सभागृहाङ्गणं, 'समज्यापरिषदगोष्ठीसभासमितिसंसदः । आस्थानो क्लीबमास्थानम्' इत्यमरः, 'अङ्गणं चत्वराजिरे' इत्यमरश्च, भृशं = दृढमतिमात्रमित्यर्थः, आर्द्रतां = पङ्किलतां, नयति = विदधाति ।
हिन्दी व्याख्या --अयुग्मच्छदगन्धिः = छितवन फूल की सुगन्धि वाला, नृपोपायनदन्तिनां = राजाओं द्वारा उपहारस्वरूप लाये गये हाथियों का, मदः = मदजल (गण्डस्थल से निकला हुआ दानजल), अनेकराजन्यस्थाश्वसङ्कुलं = अनेक राजाओं के रथों एवं अश्वों से व्याप्त, तदीयं = उस (दुर्योधन) के, आस्थाननिकेतनाजिरं = सभागृह के आँगन को, भृशं = अत्यधिक, आर्द्रतां = गीला, नयति = बना रहा है ॥१६॥
हिन्दी अर्थ --छितवन-फूल की सुगन्धिवाला, राजाओं के द्वारा उपहार रूप लाये गये हाथियों के गण्डस्थल से निकला हुआ दानजल अनेक राजाओं के रथों एवं घोड़ों से व्याप्त दुर्योधन के सभागृह के आँगन को अत्यन्त गीला बना रहा है ॥१६॥
टिप्पणी --अत्र नकारस्यासकृदावृत्त्या वृत्यनुप्रासः । दुर्योधनस्य महासमृद्धिवर्णनादत्रोदात्तमलङ्कारः । तद्यथा साहित्यदर्पणे—'लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते । यद्वापि प्रस्तुतस्याङ्गं महतां चरितम्भवेत्' इति ॥१६॥
सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः ।
वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन् कुरवश्चकासति ॥ १७ ॥
अन्वय --चिराय तस्मिन् क्षेमं वितन्वति अदेवमातृकाः कुरवः अकृष्टपच्या इव कृषीवलैः सुखेन लभ्याः सस्यसम्पदः दधतः चकासति ॥१७॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --दुर्योधनशासने कुरूणां सस्यसम्पदां प्रस्तौति वनेचरः ।
संस्कृत व्याख्या --चिराय = चिररात्राय, 'चिराय चिररात्राय' इत्यमरः, दीर्घकालपर्यन्तमिति यावत्, तस्मिन् = पूर्वोक्ते दुर्योधने, क्षेमं = कल्याणं, प्रजानामिति शेषः, वितन्वति = विस्तारयति, अदेवमातृकाः = नदीमातृकाः, कुल्यादिसिञ्चिता इत्यर्थः, 'देशो नद्यम्बुवृष्ट्यम्बुसम्पन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम्' इत्यमरः, देवः पर्जन्यः माता येषान्ते देवमातृकाः, ते न भवन्तीति अदेवमातृकाः, कुरवः = कुरुजनपदविशेषाः, अकृष्टपच्याः = अकर्षणप्राप्त परिणामाः, अकृष्टेन पच्यन्त इति अकृष्टपच्याः, विना कर्षणमेव सस्यमुत्पाद्यत इत्यर्थः, कृषीवलैः = कृषकैः, 'क्षेत्राजीवः कर्षकश्च कृषकश्च कृषीबलः' इत्यमरः, सुखेन = अनायासेन, लभ्याः = प्राप्याः, लब्धुं शक्या इत्यर्थः, सस्यसम्पदः = फलसमृद्धीः, दधतः = धारयतः, चकासति = भ्राजन्ते।
हिन्दी व्याख्या --चिराय = चिरकाल तक, तस्मिन् = उस (दुर्योधन) के, क्षेमं = कल्याण को, वितन्वति = सम्पादित करते रहने पर, अदेवमातृकाः = बादलों द्वारा प्रदत्त जल पर अनाश्रित अर्थात् कृत्रिम कुल्यादि (नदी) के जल से सिञ्चित, कुरवः = कुरु जनपद, अकृष्टपच्याः = बिना जोते ही फलपरिपाक को प्राप्त, इव = सी, कृषीवलैः = कृषकों के द्वारा, सुखेन = अनायास ही, लभ्याः = प्राप्त, सस्यसम्पदः = सस्य-सम्पत्तियों को, दधतः = धारण करते हुए, चकासति = शोभित हो रहे हैं ॥१७॥
हिन्दी अर्थ --दीर्घकाल तक उस दुर्योधन के प्रजाकल्याण करते रहने पर पर्जन्यदेवता पर अनाश्रित अर्थात् कृत्रिम कुल्यादि (नदी) के जल से सिञ्चित कुरुजनपद बिना जोते ही फलपरिणाम को प्राप्त सी कृषकों के द्वारा अनायास ही प्राप्त सस्य-सम्पत्तियों को धारण करते हुए शोभित हो रहे हैं ॥१७॥
टिप्पणी --अकृष्टपच्या इवेत्यत्र सम्भावनायामुत्प्रेक्षाऽलङ्कारः । तद्यथा साहित्यदर्पणे—'भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना' इति ॥१७॥
उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया ।
स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ॥ १८ ॥
अन्वय --उदारकीर्तेः दयावतः अभिरक्षया प्रशान्तबाधम् उदयं दिशतः वसूपमानस्य अस्य गुणैः उपस्नुता मेदिनी वसूनि स्वयं प्रदुग्धे ॥१८॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --'दुर्योधनस्य दयादाक्षिण्यादिगुणैरुपस्नुता मेदिनी स्वयमेव वसूनि प्रदुग्धे' इति प्रतिपादयति वनेचरः ।
संस्कृत व्याख्या --उदारकीर्तेः = उदारा कीर्तयस्य स उदारकीर्तिस्तस्य = महायशस्विनः, 'यशः कीर्तिः समज्या च' इत्यमरः, 'उदारोदातृमहतोः' इत्यमरश्च, दयावतः = कारुणिकस्य, 'कारुण्यं करुणा घृणा । कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽपि' इत्यमरः, अभिरक्षया = अभितोरक्षणप्रबन्धेन, प्रशान्तबाधं = प्रशमितविघ्नमुपद्रवशून्यमित्यर्थः, उदयम् = उत्कर्षं, दिशतः = कुर्वाणस्य, सम्पादयत इत्यर्थः, वसूपमानस्य = कुबेरसदृशस्य, अस्य = एतस्य, दुर्योधनस्येत्यर्थः, गुणैः = दयादानदाक्षिण्यादिभिरान्तरिकगुणैः, उपस्नुता = द्राविता, मेदिनी = पृथिवी, वसूनि = धनानि, स्वयं = आत्मना, प्रदुग्धे = दुग्धते।
हिन्दी व्याख्या --उदारकीर्तेः = महायशस्वी, दयावतः = दयावान्, अभिरक्षया = सब ओर से रक्षा के द्वारा, प्रशान्तबाधं = बाधारहित, उदयं = उन्नति का, दिशतः = सम्पादन करते हुए, वसूपमानस्य = कुबेर के समान, अस्य = इस (दुर्योधन) के, गुणैः = दया, दाक्षिण्य आदि गुणों से, उपस्नुता = द्रवीभूत, मेदिनी = पृथ्वी, वसूनि = धनों को, स्वयं = खुद ही, प्रदुग्धे = दुह रही है ॥१८॥
हिन्दी अर्थ --महायशस्वी दयावान् सब ओर से रक्षा के द्वारा बाधारहित उत्कर्ष का सम्पादन करते हुए कुबेर के समान इस दुर्योधन के दयादाक्षिण्यादि गुणों से द्रवीभूत पृथ्वी स्वयमेव धनों को दुह रही है ॥१८॥
टिप्पणी --प्रस्तुतमेदिनीवर्णननाप्रस्तुतधेनुप्रतीतिहेतोः समासोक्तिरलङ्कारः । तद्यथा साहित्यदर्पणे—'समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः । व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः इति ॥१८॥
महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।
न संहतास्तस्य न भिन्नवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥ १९ ॥
अन्वय --महौजसः मानधनाः धनार्चिताः संयति लब्धकीर्तयः न संहताः न भिन्नवृत्तयः धनुर्भृतः असुभिः तस्य प्रियाणि समीहितुं वाञ्छन्ति ॥१९॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --'महाबलिनः धनुर्धराः तस्य दुर्योधनस्य प्रियाणि कर्तुमसुभिः वाञ्छन्ति' इति प्रस्तौति वनेचरः युधिष्ठिरम्प्रति ।
संस्कृत व्याख्या --महौजसः = महत् ओजः येषान्ते तथोक्ताः महौजसाः = विपुलबलाः, 'ओजो दीप्तौ बले' इत्यमरः, मानधनाः = मान एव धनम् येषान्ते तथोक्ताः मानिन इति भावः, धनार्चिताः = धनैः अर्चिताः वित्तसत्कृताः, संयति = युद्धे, लब्धकीर्तयः = लब्धाः कीर्तयः यैस्ते तथोक्ताः, उपार्जितयशसः, न = नहि, संहताः = संहतो गताः, स्वार्थहेतोरिति शेषः, न = नहि, भिन्नवृत्तयः = भिन्नाः वृत्तयः येषान्ते तथोक्ताः अभिन्नव्यवहाराः, दुर्योधनस्य सहाया एवेत्यर्थः, धनुर्भृतः = धनुर्धराः, असुभिः = प्राणैः, तस्य = पूर्वोक्तस्य दुर्योधनस्य, प्रियाणि = प्रेयांसि, अभीप्सितानीत्यर्थः, समीहितुं = कर्तुं, वाञ्छन्ति = कामयन्ते।
हिन्दी व्याख्या --महौजसः = महाबली, मानधनाः = मनस्वी, धनार्चिताः = (दुर्योधन द्वारा दिए) धन से सत्कृत, संयति = युद्ध में, लब्धकीर्तयः = कीर्ति को पाये हुए (विजयलक्ष्मी प्राप्त करने से), न संहताः = झुण्ड में नहीं चलने वाले, न भिन्नवृत्तयः = (स्वार्थरहित) अभिन्न व्यवहारवाले, धनुर्भृतः = धनुर्धर (भट), असुभिः = प्राणों से, तस्य = उस (दुर्योधन) का, प्रियाणि = प्रिय, समीहितुं = करने के लिए, वाञ्छन्ति = चाहते हैं ॥१९॥
हिन्दी अर्थ --महाबली, मानधनी, (दुर्योधन के द्वारा दिए गए) धन से सत्कृत युद्ध में (विजयलक्ष्मी को प्राप्त करने से) अर्जित यशवाले, झुण्ड में नहीं चलने वाले, (स्वार्थरहित) अभिन्न व्यवहार वाले धनुर्धर (वीर) अपने प्राणों से दुर्योधन के प्रिय (अभिलषित को) करने की इच्छा रखते हैं ॥१९॥
टिप्पणी --अत्र हेतुनिर्देशसमर्थनात् काव्यलिङ्गमलङ्कारः । तद्यथा साहित्यदर्पणे 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गन्निगद्यते' इति । साभिप्रायविशेषणैर्विशेष्यस्य पुष्टिः, अतोऽत्र परिकरश्चालङ्कारः । तद्यथा साहित्यदर्पणे—'उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः' इति ॥१९॥
महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः ।
महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः ॥ २० ॥
अन्वय --अशेषितक्रियः सः सच्चरितैः चरैः महीभृतां क्रियाः निःशेषं वेद । धातुः इव तस्य ईहितं महोदयैः हितानुबन्धिभिः फलैः प्रतीयते ॥२०॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --'दुर्योधनस्य कार्याणि फलैरेव प्रतीयन्त' इति प्रस्तौति वनेचरः ।
संस्कृत व्याख्या --अशेषितक्रियः = अशेषिताः क्रियाः येन स तथोक्तः अशेषितक्रियः = समापितकार्यः, सः = पूर्वोक्तो दुर्योधनः, सच्चरितैः = सतानि चरितानि येषान्ते, तैः सच्चरितैः = स्वच्छचरणैः, चरैः = चारैः, महीभृताम् = नृपाणां, क्रियाः = कृत्यानि, निःशेषं = निखिलं, वेद = जानाति। धातुः = ब्रह्मणः, इव = यथा, तस्य = पूर्वोक्तस्य दुर्योधनस्य, ईहितं = चेष्टितमभीप्सितमित्यर्थः, महोदयैः = विपुलाभ्युदयैः, हितानुबन्धिभिः = हितमनुबध्नन्ति इति हितानुबन्धिनः तैः हितानुबन्धिभिः = कल्याणान्तैः, फलैः = परिणामैः, प्रतीयते = ज्ञायते ।
हिन्दी व्याख्या --अशेषितक्रियः = सभी क्रियाओं को सम्पन्न करने वाला अर्थात् फलप्राप्ति तक कार्य करने वाला, सः = वह (दुर्योधन), सच्चरितैः = शुद्ध आचरण वाले (सच्चरित्र), चरैः = गुप्तचरों द्वारा, महीभृतां = राजाओं की, क्रियाः = क्रियाओं (कार्यों) को, निःशेषं = सम्पूर्ण रूप से, वेद = जान लेता है। (किन्तु) धातुः = ब्रह्मा की, इव = तरह, तस्य = उस (दुर्योधन) का, ईहितम् = अभीष्ट, महोदयैः = महान् उदय (उत्कर्ष) वाले, हितानुबन्धिभिः = कल्याणकारी, फलैः = परिणामों के द्वारा ही, प्रतीयते = जाना जाता है ॥२०॥
हिन्दी अर्थ --समाप्तिपर्यन्त कार्यों को सम्पादित करने वाला वह दुर्योधन स्वच्छ आचरणों वाले गुप्तचरों के द्वारा दूसरे राजाओं के सम्पूर्ण कार्यों को जान लेता है किन्तु इस दुर्योधन के कार्यों को ब्रह्मा की इच्छा की तरह समाप्ति के पश्चात् वृद्धिशाली अच्छे परिणाम वाले फलों से लोगों के द्वारा जाना जाता है अर्थात् उसके कार्यारम्भ को नहीं जान पाते हैं ॥२०॥
टिप्पणी --अत्र महीभृतां क्रियाज्ञाने दुर्योधनचराणां हेतुत्वेनोपस्थापनात् काव्यलिङ्गमलङ्कारः । तद्यथा- 'हेतुर्वाक्यपदार्थत्वे काव्यलिङ्गन्त्रिगद्यते' इति । ‘धातुरिवेहितं फलैः’ इत्यत्रोपमाऽलङ्कारः । तद्यथा—'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥२०॥
न तेन सज्यं क्वचिदुद्यतं धनुः कृतं न वा कोपविजिह्ममाननम् ।
गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ॥ २१ ॥
अन्वय --तेन क्वचित् सज्यं धनुः न उद्यतम्, आननं वा कोपविजिह्मं न कृतम् । गुणानुरागेण नराधिपैः अस्य शासनं माल्यम् इव शिरोभिः उह्यते ॥२१॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --भूपतिभिः दुर्योधनाज्ञा मस्तकैः सादरं धार्यत इति प्रस्तौति वनेचरः ।
संस्कृत व्याख्या --तेन = पूर्वोक्तेन दुर्योधनेन, क्वचित् = कुत्रापि, सज्यं = ज्यया सहितं यथा स्यात्तथा = गुणसहितं, 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः, आरोपितज्यमित्यर्थः, धनुः = कार्मुकं, न = नहि, उद्यतम् = प्रयतितं, हस्तविषयीकृतमित्यर्थः, वा = अथवा, आननं = वक्त्रं, 'वक्त्रास्यवदनं तुण्डमाननं लपनं मुखमित्यमरः, कोपविजिह्मं = कोपेन विशेषेण जिह्मं यथा स्यात्तथा कोपविजिह्मं = क्रोधवक्रं, न = नहि, कृतं = विहितं, गुणानुरागेण = दुर्योधनस्य दयादानदाक्षिण्यादिप्रेम्णा, माल्यपक्षे-सूत्रग्रथितेन, सौरभ्यगुणलोभेन, नराधिपैः = भूपतिभिः, अस्य = एतस्य दुर्योधनस्येत्यर्थः, शासनम् = आज्ञा, 'निदेशः शासनं च सः शिष्टिराज्ञा' इत्यमरः, माल्यं = माला, इव = यथा, शिरोभिः = मस्तकैः, उह्यते = धार्यते, स्वीक्रियत इत्यहार्थः।
हिन्दी व्याख्या --तेन = उस (दुर्योधन) के द्वारा, क्वचित् = कहीं भी, सज्यं = चढ़ी हुई प्रत्यञ्चा वाला, धनुः = धनुष, न = नहीं, उद्यतम् = (हाथ में) लिया गया, वा = अथवा, आननं = मुख को, कोपविजिह्मं = क्रोध से कुटिल (टेढ़ा), न = नहीं, कृतम् = किया गया। गुणानुरागेण = (दुर्योधन में स्थित दयादाक्षिण्यादि) गुणों के प्रेम के कारण, नराधिपैः = राजाओं के द्वारा, अस्य = इस (दुर्योधन) का, शासनं = शासन (आज्ञा), माल्यं = माला की, इव = तरह, शिरोभिः = मस्तकों से, उह्यते = धारण किया जाता है ॥२१॥
हिन्दी अर्थ --उस दुर्योधन के द्वारा कभी भी चढ़ी हुई डोरी वाला धनुष नहीं उठाया गया, अथवा मुख क्रोध के कारण टेढ़ा नहीं किया गया । दुर्योधन में स्थित दयादानदाक्षिण्यादि गुणों के प्रेम के कारण सूत्र में गुम्फित होने के कारण या सुगन्धलोलुपता के कारण राजाओं के द्वारा दुर्योधन का शासन माला की तरह मस्तकों से धारण किया जाता है ॥२१॥
टिप्पणी --‘शासनम्माल्यमिवोद्यत’ इत्यत्रोपमाऽलङ्कारः । तद्यथा साहित्यदर्पणे- 'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥२१॥
स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः ।
मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥ २२ ॥
अन्वय --इद्धशासनः स नवयौवनोद्धतं दुःशासनं यौवराज्ये निधाय पुरोधसा अनुमतः अखिन्नः मखेषु हव्येन हिरण्यरेतसं धिनोति ॥२२॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --युवराजपदे दुःशासनं नियुज्य दुर्योधनो यज्ञमातनोतीति प्रस्तौति वनेचरमुखात् महाकविर्भारविः ।
संस्कृत व्याख्या --इद्धशासनः = इद्धं दीप्तं, शासनं निर्देशः, यस्य स तथोक्तः, सः = पूर्वोक्तो दुर्योधनः, नवयौवनोद्धतं = नवयौवनं, तेनोद्धतस्तं = नवीनतारुण्य-समुल्लसितं, दुःशासनं = तदभिधेयमनुजम्, 'तारुण्यं यौवनं समे' इत्यमरः, युवराज्ये = युवराजपदे, निधाय = संस्थाप्य, पुरोधसा = पुरोहितेन, 'पुरोधास्तु पुरोहितः' इत्यमरः, अनुमतः = आदिष्टः, अनुज्ञात इत्यर्थः, अखिन्नः = अनलसः, मखेषु = यज्ञेषु, हव्येन = हविषा, हवनीयपदार्थैरित्यर्थः, हिरण्यरेतसं = हिरण्यं रेतो यस्य तं हिरण्यरेतसं = पावकं, धिनोति = प्रीणयति प्रसादयतीत्यर्थः ।
हिन्दी व्याख्या --इद्धशासनः = दीप्त आज्ञा वाला, सः = वह (दुर्योधन), नवयौवनोद्धतं = नयी जवानी से उद्धत (तेजोमय), दुःशासनं = दुःशासन को, यौवराज्ये = युवराज के पद पर, निधाय = रखकर (बैठाकर), पुरोधसा = पुरोहित से, अनुमतः = आदिष्ट, अखिन्नः = आलस्यरहित हो, मखेषु = यज्ञों में, हव्येन = हवनीय पदार्थों द्वारा, हिरण्यरेतसं = अग्नि को, धिनोति = प्रसन्न कर रहा है ॥२२॥
हिन्दी अर्थ --दीप्ताज्ञा वाला वह दुर्योधन नयी जवानी से उद्धत (तेजोमय) अपने अनुज दुःशासन को युवराज के पद पर बैठाकर पुरोहित से आदिष्ट हो आलस्यरहित होकर यज्ञों में घृतादि हवनीय पदार्थों से अग्नि को प्रसन्न कर रहा है ॥२२॥
टिप्पणी --अत्र 'यौव'-'शासन'-इत्यादीनां व्यञ्जनसङ्घस्य सकृत्साम्यमनेकेधा' इति ॥२२॥
प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधिमण्डलं भुवः ।
सचिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ॥ २३ ॥
अन्वय --सः प्रलीनभूपालं स्थिरायति आवारिधिभुवः मण्डलं प्रशासन् अपि त्वद् एष्यतीः भियः चिन्तयति एव । अहो बलवद्विरोधिता दुरन्ता ॥२३॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --सम्राडपि दुर्योधनो युधिष्ठिराद्बिभेतीति प्रस्तौति वनेचरो युधिष्ठिरम् ।
संस्कृत व्याख्या --सः = पूर्वोक्तो दुर्योधनः, प्रलीनभूपालं = प्रलीनाः भूपालाः यस्मिन् तत् प्रलीनभूपालं, शत्रुन्नृपरहितमित्यर्थः, स्थिरायति = स्थिरा आयतिः यस्य तत् = स्थाय्युत्तरकालं, आवारिधि = समुद्रपर्यन्तं, भुवः = धरायाः, मण्डलं = चक्रवालं, 'चक्रवालं तु मण्डलम्' इत्यमरः, प्रशासत् = आज्ञापयन्, अपि, शासको भवन्नपीत्यर्थः, त्वत् = त्वत्तः, भवतो युधिष्ठिरादिति भावः, एष्यतीः = आगमिष्यतीः, भियः = भयानि, भीतिकारणानीत्यर्थः, चिन्तयति = विचारयति, एव । अहो = इति विस्मये, बलवद्विरोधिता = बलवद्भिः शक्तिशालीभिः सह विरोधिता = शत्रुता, दुरन्ता = दुष्परिणामा भवतीति शेषः।
हिन्दी व्याख्या --सः = वह (दुर्योधन), प्रलीनभूपालं = लुप्त (शत्रु) राजाओं वाले, स्थिरायति = स्थायी उत्तरकालवाले, आवारिधि = समुद्र पर्यन्त, भुवः = पृथ्वी के, मण्डलं = मण्डल का, प्रशासन् = प्रशासन करता हुआ, अपि = भी, त्वत् = आपसे, एष्यतीः = मिलने वाले, भियः = भयों (भयकारणों) को, चिन्तयति एव = सोचता ही रहता है। अहो ! = अहा !, बलवद्विरोधिता = बलवान् के साथ शत्रुता, दुरन्ता = बुरे परिणाम वाली (होती है) ॥२३॥
हिन्दी अर्थ --वह दुर्योधन लुप्त (शत्रु) राजाओं वाले, स्थायी उत्तरकाल वाले समुद्र पर्यन्त पृथ्वीमण्डल का शासन करते रहने पर भी आप (युधिष्ठिर) से प्राप्त होने वाले भयकारणों को सोचता रहता है । अहो ! शक्ति-सम्पन्न मनुष्य के साथ शत्रुता बुरे परिणाम वाली होती हैं ॥२३॥
टिप्पणी --अत्र 'अहो ! दुरन्ता बलवद्विरोधिता' इति सामान्यकथनेन पूर्वविशेषकथनस्य समर्थनादर्थान्तरन्यासोऽलङ्कारः । तद्यथा साहित्यदर्पणे— 'सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति ॥२३॥
कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः ।
तवाभिधानाद् व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥ २४ ॥
अन्वय --कथाप्रसङ्गेन जनैः उदाहृतात् तवाभिधानात् दुःसहात् मन्त्रपदात् अनुस्मृताखण्डलसूनुविक्रमः नताननः उरग इव स व्यथते ॥२४॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --'वार्ताक्रमे भवतो नाम श्रुत्वार्जुनपराक्रमं संस्मरन् दुर्योधनः अतीव व्यथते' इति प्रस्तौति वनेचरो युधिष्ठिरम्प्रति ।
संस्कृत व्याख्या --कथाप्रसङ्गेन = वार्तावालापक्रमेण, जनैः = लोकैः, उदाहृतात् = उदीरितात्, दुःसहात् = दुःखेन सोढुमशक्यात्, तव = भवतः युधिष्ठिरस्य, अभिधानात् = अभिधेयात्, अनुस्मृताखण्डलसूनुविक्रमः = आखण्डलसूनुः इन्द्रतनयः अर्जुन इत्यर्थः तस्य विक्रमः पराक्रमः, अनु पश्चात् स्मृतः ध्यातः इन्द्रतनयार्जुनपराक्रमः येन स तथोक्तः, नताननः = नतं नमितमाननं वक्त्रं येन स तथोक्तः, अधोमुख इत्यर्थः, सः = पूर्वोक्तो दुर्योधनः; (सर्पपक्षे) कथाप्रसङ्गेन जनैः = विषवैद्यैः श्रेष्ठजनैः, 'कथाप्रसङ्गो वार्तायां विषवैद्येऽपि वाच्यवत्' इति विश्वः, उदाहृतात् = उदीरितात्, तवाभिधानात् = तश्च वश्च तवौ तार्क्ष्यवासुकी तयोः अभिधानात् नामधेयात्, दुःसहात् = मन्त्रोच्चारणात्, अनुस्मृताखण्डलसूनुविक्रमः = आखण्डलसूनोः इन्द्रानुजस्य विष्णोः विः पक्षी गरुडः तस्य क्रमः चरणविक्षेपः येन स तथोक्तः, नताननः = नमितफणः, उरगः = सर्पः, 'उरगः पन्नगः भोगी जिह्मगः पवनाशनः' इत्यमरः, इव = यथा, व्यथते = खिद्यते, कष्टमनुभवतीत्यर्थः।
हिन्दी व्याख्या --कथाप्रसङ्गेन जनैः = वार्ता के प्रसंग से लोगों द्वारा (सर्पपक्ष में विषवैद्यों में श्रेष्ठ लोगों द्वारा), उदाहृतात् = उच्चारित, तवाभिधानात् = आप (युधिष्ठिर) के नाम से (सर्पपक्ष में- तार्क्ष्य एवं वासुकि के नाम से पूर्ण), दुःसहात् = दुःख से सहने योग्य, मन्त्रपदात् = मन्त्र के पद से, अनुस्मृताखण्डलसूनुविक्रमः = इन्द्रपुत्र अर्जुन के विक्रम को याद करने वाला (सर्पपक्ष में-इन्द्र के छोटे भाई विष्णु के पक्षी गरुड़ के चरणक्षेप का स्मरण करने वाले), नताननः = नीचे किये हुए मुखवाला (सर्पपक्ष में-फण को नीचा करने वाले), उरगः = सर्प की, इव = भाँति, सः = वह (दुर्योधन), व्यथते = पीड़ित होता है ॥२४॥
हिन्दी अर्थ --कथा (वार्ता) के प्रसङ्ग से लोगों द्वारा उच्चारित दुःख से सहने योग्य आप (युधिष्ठिर) के नाम से इन्द्रपुत्र अर्जुन के विक्रम को याद करने वाला, नीचे किये हुए मुखवाला वह (दुर्योधन), विषवैद्यों में श्रेष्ठ लोगों के द्वारा उच्चारित तार्क्ष्य एवं वासुकि के नाम से पूर्ण (विषनिवारण-साधनभूत), दुःख से सहने योग्य मन्त्र के पद से इन्द्र के छोटे भाई विष्णु के पक्षी गरुड के चरण-क्षेप का स्मरण करने वाले, फण को नीचा करने वाले साँप की भाँति, अत्यन्त पीड़ित होता है ॥२४॥
टिप्पणी --अत्र श्लिष्टपदैः दुर्योधनस्य उरगस्येव चित्रणात् श्लेषानुप्राणितोपमाऽलङ्कारः । तद्यथा साहित्यदर्पणे ‘साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः’ इति ॥२४॥
तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् ।
परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः ॥ २५ ॥
अन्वय --तत् त्वयि जिह्मं कर्तुम् उद्यते तत्र विधेयम् उत्तरम् आशु विधीयताम् । परप्रणीतानि वचांसि चिन्वतां मादृशां गिरः प्रवृत्तिसाराः खलु ॥२५॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --'यत्किमपि भवता करणीयं तच्छीघ्रमेव करणीयम्' इति उपदिशति वनेचरः युधिष्ठिरम् ।
संस्कृत व्याख्या --तत् = तस्मात् कारणात्, त्वयि = भवति युधिष्ठिरे इत्यर्थः, जिह्मं = कपटं, कर्तुं = विधातुम्, उद्यते = प्रवृत्ते सतीति शेषः, तत्र = दुर्योधनविषये, विधेयं = करणीयम्, उत्तरम् = उपायः, आशु = क्षिप्रं, विधीयताम् = क्रियताम् । परप्रणीतानि = अन्योदीरितानि, वचांसि = वचनानि, 'व्याहारउक्तिर्लपितं भाषितं वचनं वचः' इत्यमरः, चिन्वतां = गवेषयतां, मादृशां = मत्सदृशाणां वार्ताहराणामित्यर्थः, गिरः = वाचः, 'गीर्वाग्वाणी सरस्वती' इत्यमरः, प्रवृत्तिसाराः = प्रवृत्तिः एव सारो यासां ताः प्रवृत्तिसाराः = वार्तामात्रसाराः, 'वार्ता प्रवृत्तिर्वृत्तान्तः उदन्तः स्यात्' इत्यमरः, खलु = निश्चयेन, भवन्तीति शेषः !
हिन्दी व्याख्या --तत् = इसलिए, त्वयि = आप (के प्रति) में, जिह्मं = कुटिल (कपट), कर्तुं = करने के लिए, उद्यते = तैयार, तत्र = वहाँ (दुर्योधन के विषय मे), विधेयं = करने योग्य, उत्तरं = उपाय, आशु = शीघ्र, विधीयताम् = करना चाहिए। परप्रणीतानि = दूसरों के द्वारा कहे हुए, वचांसि = वचनों का, चिन्वतां = चयन करने वाले, मादृशां = हमलोगों जैसे सन्देशवाहकों की, गिरः = वाणियाँ, खलु = निश्चय ही, प्रवृत्तिसाराः = वृत्तान्तों के सारमात्र ही, भवन्ति = होती हैं ॥२५॥
हिन्दी अर्थ --इसलिए आप (युधिष्ठिर) के प्रति कपट करने के लिए उद्यत दुर्योधन के विषय में उचित उपाय शीघ्र करना चाहिए। दूसरों के द्वारा कहे हुए वचनों को चयन करने वाले हमलोगों जैसे संदेशवाहकों की वाणियाँ निश्चय ही वृत्तान्तों की सारमात्र ही हैं ॥२५॥
टिप्पणी --अत्र सामान्येन विशेषसमर्थनादर्थान्तरन्यासोऽलङ्कारः । तद्यथा साहित्यदर्पणे—‘सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति ॥२५॥
इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसन्निवासिनाम् ।
प्रविश्य कृष्णासदनं महीभुजा तदाचचक्षेऽनुजसन्निधौ वचः ॥ २६ ॥
अन्वय --वनसन्निवासिनां पत्यौ इति गिरम् ईरयित्वा आत्तसत्क्रिये गते अथ महीभुजा कृष्णासदनं प्रविश्य अनुजसन्निधौ तद् वचः आचचक्षे अथवा महीभुजा सदनं प्रविश्य अनुजसन्निधौ तद् वचः कृष्णां आचचक्षे ॥२६॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --गते किरातदूते युधिष्ठिरेण द्रौपदीभवनम्प्रविश्यानुजान् प्रति सर्वं कथितमिति प्रस्तौति महाकविर्भारविः ।
संस्कृत व्याख्या --वनसन्निवासिनां = काननौकसां, पत्यौ = प्रभौ, नायक इत्यर्थः, 'स्वामी त्वीश्वरः पतिगीशिता, अधिभूर्नायको नेता प्रभुः' इत्यमरः, इति = इत्थं, गिरं = वाणीं, 'ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती' इत्यमरः, ईरयित्वा = कथयित्वा, आत्तसत्क्रिये = आत्ता प्राप्ता, सत्क्रिया सत्कारः येन स तथोक्तस्तस्मिन्, लब्धपारितोषिक इत्यर्थः, गते = याते, अथ = अनन्तरं, महीभुजा = भूपालन युधिष्ठिरेणेत्यर्थः, कृष्णासदनं = कृष्णायाः द्रौपद्याः, सदनं गृहं, प्रविश्य = आसाद्य, अनुजसन्निधौ = अनुजानाम् अवरजानां भीमार्जुनादीनामिति यावत् सन्निधौ समीपे, तत् = वनेचरकथितं, वचः = वचनम्, आचचक्षे = भणितम् । (पाठान्तरे 'कृष्णां सदनं'— सदनं प्रविश्य अनुजसन्निधौ कृष्णां तत् वचः आचचक्षे)।
हिन्दी व्याख्या --वनसन्निवासिनां = वनवासियों के, पत्यौ = स्वामी के, इति = ऐसी, गिरं = वाणी के, ईरयित्वा = कहकर, आत्तसत्क्रिये = पारितोषिक प्राप्त करने पर (और), गते = चले जाने पर, अथ = इसके बाद, महीभुजा = राजा युधिष्ठिर के द्वारा, कृष्णासदनं = द्रौपदी के भवन में, प्रविश्य = प्रवेश कर, अनुजसन्निधौ = छोटे भाइयों के पास, तद् = वह, वचः = वचन, आचचक्षे = कहा गया। अथवा ('कृष्णां सदनं' ऐसा पाठ होने पर) महीभुजा = राजा युधिष्ठिर के द्वारा, सदनं = भवन में, प्रविश्य = प्रवेश कर, अनुजसन्निधौ = छोटे भाइयों के पास, कृष्णां = द्रौपदी से, तद् = वह, वचः = वचन, आचचक्षे = कहा गया ॥२६॥
हिन्दी अर्थ --वनवासियों के नायक के इसप्रकार वचन कहने और पारितोषिक प्राप्त कर चले जाने के बाद राजा युधिष्ठिर के द्वारा द्रौपदी के भवन में प्रवेश कर वह (वनेचर के द्वारा कथित) वचन छोटे भाइयों के पास कहा गया। ('कृष्णां सदनं' इस पाठान्तर की कल्पना कर यह अर्थ होगा)— राजा युधिष्ठिर के द्वारा भवन में प्रवेश कर वह (वनेचर के द्वारा कथित) वचन छोटे भाइयों के पास द्रौपदी से कहा गया ॥२६॥
टिप्पणी --अत्र हेतोर्वाक्यपदार्थत्वात् काव्यलिङ्गमलङ्कारः । तद्यथा साहित्यदर्पणे— 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गन्निगद्यते' इति ॥२६॥
निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्तस्य विनियन्तुमक्षमा ।
नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजा गिरः ॥ २७ ॥
अन्वय --ततः द्रुपदात्मजा द्विषतां सिद्धिं निशम्य ततस्तयाः अपाकृतीः विनियन्तुम् अक्षमा नृपस्य मन्युव्यवसायदीपिनीः गिरः उदाजहार ॥२७॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --वैरिकौरवाणां सिद्धिं श्रुत्वा द्रौपदी युधिष्ठिरं प्रबोधयतीत्युपस्थापयति ।
संस्कृत व्याख्या --ततः = तदनन्तरं, द्रुपदात्मजा = द्रुपदस्य आत्मजा कन्या, द्रौपदीत्यर्थः, द्विषतां = शत्रूणां, कौरवाणामित्यर्थः, सिद्धिं = सफलताम्, उन्नतिमित्यर्थः, निशम्य = श्रुत्वा, ततस्तयाः = कौरवेभ्यः आगताः प्राप्ता इत्यर्थः, अपाकृतीः = विकारान्, विनियन्तुं = निवारयितुम्, अक्षमा = असमर्था, नृपस्य = राज्ञो युधिष्ठिरस्य, मन्युव्यवसायदीपिनीः = मन्युः क्रोध, व्यवसायः उद्योगस्तौ दीपितुं शीलं यासां तास्तथोक्ताः, क्रोधांद्योगवर्द्धिनरित्यर्थः, गिरः = भारती, उदाजहार = उवाच।
हिन्दी व्याख्या --ततः = इसके बाद, द्रुपदात्मजा = द्रौपदी, द्विषतां = शत्रुओं (कौरवों) की, सिद्धिं = सिद्धि (वैभव) को, (युधिष्ठिर से), निशम्य = सुनकर, ततस्तयाः = उन (कौरवों) से प्राप्त, अपाकृतीः = दुःखों (विकारों) को, विनियन्तुं = रोकने में, अक्षमा = असमर्थ, नृपस्य = राजा (युधिष्ठिर) के, मन्युव्यवसायदीपिनीः = क्रोध और उद्योग को बढ़ाने वाली, गिरः = वाणी, उदाजहार = बोली ॥२७॥
हिन्दी अर्थ --उसके बाद द्रौपदी शत्रुओं (कौरवों) की समुन्नति (सफलता) को (राजा युधिष्ठिर से सुनकर उन (कौरवों) से प्राप्त दुःखों (विकारों) को रोकने में असमर्थ राजा (युधिष्ठिर) के क्रोध और उद्योग को बढ़ाने वाली वाणी बोली ॥२७॥
टिप्पणी --अत्र पूर्वार्द्धे तकारस्यासकृदावृत्त्या वृत्यनुप्रासः । तद्यथा साहित्यदर्पणे- 'अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा । एकस्य सकृदप्येष वृत्यनुप्रास उच्यते' इति ॥२७॥
भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥ २८ ॥
अन्वय --भवादृशेषु प्रमदाजनोदितम् अनुशासनम् अधिक्षेप इव भवति, तथापि निरस्तनारीसमयाः दुराधयः मां वक्तुं व्यवसाययन्ति ॥२८॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --मनोव्यथाप्रकटयन्त्याः द्रौपद्याश्चित्रमुपस्थापयति महाकविः ।
संस्कृत व्याख्या --भवादृशेषु = भवता युधिष्ठिरेण सदृशः तुल्यस्तेषु, इत्यत्र बुद्धिमत्तादिगुणविशिष्टत्वं ध्वन्यते, भवतुल्येषुपण्डितेष्वित्यर्थः, प्रमदाजनोदितम् = प्रमदा नारी एव जनः लोकस्तेन उदितं कथितम्, अनुशासनम् = उपदेशः, अधिक्षेप = प्रतिक्षेप, इव = यथा, भवति = अस्ति । तथापि = पुनरपि, वक्तुमनुचितं इति स्थितावपि, निरस्तनारीसमयाः = त्याजितस्त्रीजनाचाराः, 'समयः शपथाचारः' इत्यमरः, दुराधयः = दुष्टाः मानसीव्यथाः, 'पुंस्याधिर्मानसी व्यथा' इत्यमरः, मां = मां द्रौपदीमित्यर्थः, वक्तुं = भणितुं, व्यवसाययन्ति = प्रेरयन्ति।
हिन्दी व्याख्या --भवादृशेषु = आप जैसे बुद्धिमानों के प्रति, प्रमदाजनोदितं = नारिजनों द्वारा कथित, अनुशासनम् = उपदेश, अधिक्षेप = तिरस्कार, इव = सा, भवति = (होता) है। तथापि = फिर भी, निरस्तनारीसमयाः = नारीजन सुलभ शालीनता को नष्ट करनेवाली अर्थात् नारी के आचार को छोड़ देने वाली, दुराधयः = दुष्ट मनोव्यथायें, मां = मुझे, वक्तुं = बोलने के लिए, व्यवसाययन्ति = प्रेरित कर रही हैं ॥२८॥
हिन्दी अर्थ --(यद्यपि) आप (युधिष्ठिर) सदृश बुद्धिमानों के प्रति नारिजनों के द्वारा प्रतिपादित उपदेश तिरस्कार के समान है। फिर भी नारीजन सुलभ (शालीनतादि) व्यवहार को नष्ट करने वाली दुष्ट मनोव्यथायें मुझे कहने (बोलने) के लिए प्रेरित कर रही हैं ॥२८॥
टिप्पणी --अत्र अनुशासनमधिकक्षेप इवेत्युपमा। अत्र मानसीव्यथानां भाषणहेतुत्वेनोपस्थापनाच्च काव्यलिङ्गमलङ्कारः । तद्यथा साहित्यदर्पणे 'हेतुर्वाक्यपदार्थत्वे काव्यलिङ्गत्विगद्यते' इति ॥२८॥
अखण्डमाखण्डलतुल्यधामभिश्शिरं धृता भूपतिभिः स्ववंशजैः ।
त्वयात्महस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥ २९ ॥
अन्वय --आखण्डलतुल्यधामभिः स्ववंशजैः भूपतिभिः चिरम् अखण्डं धृता मही त्वया मदच्युता मतङ्गजेन स्रक् इव आत्महस्तेन अपवर्जिता ॥२९॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --स्ववंशजैर्नृपैश्चिरं शासिता पृथिवी त्वया युधिष्ठिरेण स्वचापलेन त्यक्तेति प्रस्तौति द्रौपदी ।
संस्कृत व्याख्या --आखण्डलतुल्यधामभिः = आखण्डलः = इन्द्रः तस्य धाम = त्विट् तस्य तुल्यं = सदृशं, धामानि = कान्तयो येषान्ते, तैस्तथोक्तै = इन्द्रसदृशकान्तिभिः, 'गृहदेहत्विट्प्रभावा धामानि' इत्यमरः, स्ववंशजैः = स्वकुलोद्भूतैः, भूपतिभिः = वसुधाधिपैः, पूर्वजर्भरतादिभिरित्यर्थः, चिरं = चिराय, अखण्डं = समग्रं, धृता = शासिता पालिता इति शेषः, मही = पृथिवी, त्वया = भवता युधिष्ठिरेणेति शेषः, मदच्युता = मदं दानजलं च्योतति इति मदच्युत् तेन दानजलवर्षिणा, मतङ्गजेन = हस्तिना, स्रक् = माला, इव = यथा, आत्महस्तेन = स्वकरेण, अपवर्जिता = परित्यक्ता।
हिन्दी व्याख्या --आखण्डलतुल्यधामभिः = इन्द्र के सदृश तेज वाले, स्ववंशजैः = अपने वंश में उत्पन्न, (भरतादि) भूपतिभिः = राजाओं के द्वारा, चिरं = बहुत काल तक, अखण्डं = अखण्ड रूप से, धृता = धारण की गयी (पालित), मही = पृथ्वी, त्वया = आप (युधिष्ठिर) के द्वारा, मदच्युता = मदजल बहाने वाले, मतङ्गजेन = हाथी के द्वारा, स्रक् = माला की, इव = तरह, आत्महस्तेन = अपने हाथ से (अपनी सूँड़ से), अपवर्जिता = फेंक दी गई ॥२९॥
हिन्दी अर्थ --इन्द्र के समान तेज वाले अपने वंश में उत्पन्न (भरतादि) राजाओं द्वारा बहुत काल तक अखण्ड रूप से पालित (शासित) पृथ्वी आप (युधिष्ठिर) के द्वारा मदजल बहाने वाले हाथी के द्वारा अपनी सूँड़ से फेंकी गयी माला की तरह अपने हाथ से फेंक दी गई ॥२९॥
टिप्पणी --अत्र युधिष्ठिरोपमेयस्य मतङ्गजोपमानेन साधर्म्यादुपमाऽलङ्कारः । तद्यथा—'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥२९॥
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि घ्नन्ति शठास्तथाविधान् असंवृताङ्गान्निशिता इवेषवः ॥ ३० ॥
अन्वय --ते मूढधियः पराभवं व्रजन्ति ये मायाविषु मायिनः न भवन्ति । हि शठाः तथाविधान् असंवृताङ्गान् निशिताः इषवः इव प्रविश्य घ्नन्ति ॥३०॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --शठे शाठ्यं समाचरेदिति ये न कुर्वन्ति ते मूर्खाः पराजयं प्राप्नुवन्ति इति प्रस्तौति द्रौपदी युधिष्ठिरम्प्रति ।
संस्कृत व्याख्या --ते, मूढधियः = मूढाः = मन्दाः, धियः = मतयो येषान्ते तथोक्ताः, कुण्ठितबुद्धय इति भावः, पराभवं = पराजयं, व्रजन्ति = गच्छन्ति, ये, मायाविषु = मायायुक्तेषु, कुटिलेष्विति भावः, मायिनः = मायायुक्ताः, कुटिला इति भावः, न = नहि, भवन्ति = सन्ति, हि = यतः, शठाः = धूर्त्ताः, 'निकृतस्त्वनृजुः शठः' इत्यमरः, तथाविधान् = कपटरहितान्, विवेकशून्यानिति यावत्, असंवृतान् = कवचारक्षितशरीरान्, निशिताः = तीक्ष्णाः, 'निशिततीक्ष्णशातानि तेजिते' इत्यमरः, इषवः = बाणाः, इव = यथा, प्रविश्य = अन्तःप्रवेशं विधाय, स्वजना इव आचरन्तः, घ्नन्ति = घातयन्ति स्वायत्तीकुर्वन्तीति भावः।
हिन्दी व्याख्या --ते = वे, मूढधियः = मन्दबुद्धि वाले, पराभवं = पराजय को, व्रजन्ति = जाते (प्राप्त करते) हैं, ये = जो, मायाविषु = मायावियों में, मायिनः = मायावी, न = नहीं, भवन्ति = होते हैं, हि = क्योंकि, शठाः = दुष्ट लोग, तथाविधान् = उस प्रकार के (कपट रहित) लोगों को, असंवृताङ्गान् = (कवचादि से) नहीं ढके हुए (रक्षित) शरीर वाले (लोगों) को, निशिताः = तीक्ष्ण, इषवः = बाणों की, इव = तरह, प्रविश्य = अन्दर प्रवेश करके अर्थात् स्वजन बनकर, घ्नन्ति = मारते हैं अर्थात् सारा रहस्य समझ कर नष्ट कर देते हैं ॥३०॥
हिन्दी अर्थ --वे मन्दमति पराजय को पाते हैं जो मायावियों में मायावी नहीं होते । क्योंकि दुष्ट व्यक्ति उस प्रकार के कपटरहित लोगों को, कवचादि से नहीं ढके गए शरीरवाले लोगों को तेज बाणों की तरह अन्दर प्रवेश करके अर्थात् स्वजन बनकर सारा रहस्य जानकर नष्ट कर देते हैं ॥३०॥
टिप्पणी --अत्र काव्यलिङ्गानुप्राणितोऽर्थान्तरन्यासोऽलङ्कारः । शठानामिषुभिः साधर्म्याच्चोपमाऽलङ्कारः । तद्यथा साहित्यदर्पणे—'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥३०॥
गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः ।
परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥ ३१ ॥
अन्वय --अनुरक्तसाधनः कुलाभिमानी त्वद् अन्यः कः इव नराधिपः गुणानुरक्तां कुलजां मनोरमाम् आत्मवधूम् इव श्रियं परैः अपहारयेत् ॥३१॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --त्यक्तराजश्रियं युधिष्ठिरमुपालभते द्रौपदी ।
संस्कृत व्याख्या --अनुरक्तसाधनः = अनुरक्तं साधनं यस्य सः, अनुरक्तसाधनः = अनुकूलसहाययुक्तः, कुलाभिमानी = आत्मवंशमर्यादारक्षणतत्परः, त्वत् = त्वत्तः, भवत युधिष्ठिरात्, अन्यः = अपरः, कः नराधिपः = नरपतिः, स्यादिति शेषः, यः इति शेषः, गुणानुरक्तां = शीलसौन्दर्यादिगुणलुब्धां, कुलजां = प्रशस्तवंशोद्भूतां, मनोरमां = कमनीयाम्, आत्मवधूं = स्वभार्याम्, इव = यथा, गुणानुरक्तां = सन्धिविग्रहादिभिर्गुणैः अनुरागिणीं, कुलजां = कुलक्रमात् प्राप्तां, मनोरमां = चेतोहरां, श्रियं = लक्ष्मीं, परैः = शत्रुभिः कौरवैरित्यर्थः, अपहारयेत् = अपहरणं कारयेत् ।
हिन्दी व्याख्या --अनुरक्तसाधनः = अनुकूल साधनों (सहायकों) वाला, कुलाभिमानी = अपने कुल की मर्यादा पर अभिमान करने वाला, त्वद् = आप (युधिष्ठिर) से, अन्यः = इतर (दूसरा), कः इव = कौन ऐसा, नराधिपः = राजा (होगा), (यः = जो), गुणानुरक्तां = (सन्धिविग्रहादि) गुणों से अनुराग रखने वाली (स्थायित्व को प्राप्त), कुलजां = कुलक्रम से प्राप्त, मनोरमां = मन को आनन्दित करने वाली, श्रियं = राजलक्ष्मी को, गुणानुरक्तां = (शीलसौन्दर्यादि) गुणों से अनुराग रखने वाली, कुलजां = प्रशस्त कुल में जन्म लेने वाली, मनोरमां = चित्त को हरण करने वाली सुन्दर, आत्मवधूं = अपनी भार्या को, इव = तरह, परैः = शत्रुओं के द्वारा, अपहारयेत = अपहरण करा सकता है ॥३१॥
हिन्दी अर्थ --अनुकूल सहायकों वाला, कुल की मर्यादा पर अभिमान करने वाला, आप (युधिष्ठिर) से भिन्न दूसरा कौन होगा जो सौन्दर्यादि गुणों से अनुराग रखने वाली, प्रशस्त कुल में जन्म लेने वाली, सुन्दर अपनी भार्या के समान संधि-विग्रह इत्यादि गुणों के कारण स्थायित्व को प्राप्त, कुल परम्परा से प्राप्त मन को आनन्दित करने वाली राजश्री को शत्रुओं द्वारा अपहरण करा सकता है ॥३१॥
टिप्पणी --अत्र साभिप्रायविशेषणैर्विशेष्यस्य पुष्टित्वात् परिकरोऽलङ्कारः । तद्यथा साहित्यदर्पणे—'उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः' इति । अत्र च श्लेषानुप्राणितोपमाऽप्यलङ्कारः । तद्यथा—'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥३१॥
भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि ।
कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥ ३२ ॥
अन्वय --नरदेव ! एतर्हि मनस्विगर्हिते वर्त्मनि विवर्तमानं भवन्तम् उदीरितः मन्युः शुष्कं शमीतरुम् उच्छिखः अग्निः इव कथं न ज्वलयति ॥३२॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --दुरवस्थामापन्नमभवन्तं युधिष्ठिरं कथं क्रोधाग्निर्न ज्वलयतीति आक्षिपति द्रौपदी ।
संस्कृत व्याख्या --नरदेव ! = नराणां नरेशु वा देवः नरदेवस्तत्सम्बुद्धौ हे नृश्रेष्ठ ! युधिष्ठिर ! इति यावत्, एतर्हि = साम्प्रतं, मनस्विगर्हिते = मनस्विभिः गर्हितस्तस्मिन् मनस्विगर्हिते = स्वाभिमानिलोकनिन्दिते, वीरजनाधिक्षिप्ते इति यावत्, वर्त्मनि = मार्गे, 'अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः, विवर्तमानं = विशेषेण वर्तमानं संस्थितमिति, वैरिभिर्हितां दुःस्थितिमन्भवन्तमिति यावत्, भवन्तं = युधिष्ठिरम्, उदीरितः = प्रेरितः, स्फारीकृत इति यावत्, मन्युः = क्रोधः, शुष्कं = नीरसं, शमीतरुं = शमीद्रुमम्, उच्छिखः = उत्कीलः, उद्गतज्वालः, 'वह्नेर्द्वयोर्ज्वलकीलार्चिर्हेतिः शिखा स्त्रियाम्' इत्यमरः, 'घृणि ज्वाले अपि शिखे' इत्यमरश्च, उद्गता शिखा यस्य स उच्छिखः, अग्निः = वह्निः, इव = यथा, कथं = कस्माद्धेतोः, न = नहि, ज्वलयति = प्रज्वलयति, अग्निधर्मं प्रापयतीत्यर्थः।
हिन्दी व्याख्या --नरदेव ! = हे मनुष्य श्रेष्ठ ! (युधिष्ठिर), एतर्हि = इस समय, मनस्विगर्हिते = मनस्वियों द्वारा निन्दित, वर्त्मनि = मार्ग पर, विवर्तमानं = विशेष रूप से स्थित, भवन्तं = आप को, उदीरितः = प्रेरित (तेज किया हुआ), मन्युः = क्रोध, शुष्कं = सूखे हुए, शमीतरुं = शमी नाम वृक्ष को, उच्छिखः = ऊपर उठी हुई ज्वालाओं वाली, अग्नि = अग्नि की, इव = तरह, कथं = क्यों, न = नहीं, ज्वलयति = जला रहा है ॥३२॥
हिन्दी अर्थ --हे नरश्रेष्ठ! (युधिष्ठिर!) इस समय मनस्वियों द्वारा निन्दित या वीरजनों द्वारा तिरस्कृत पथ पर विशेष रूप से स्थित आप को तेज किया हुआ क्रोध सूखे हुए शमी नामक वृक्ष को ऊपर उठी हुई ज्वालाओं वाली अग्नि की तरह क्यों नहीं जला रहा है? ॥३२॥
टिप्पणी --अत्र तकारस्यासकृदावृत्त्या वृत्यनुप्रासः । मन्युरित्युपमेयस्याग्निना साधर्म्यादुपमाऽलङ्कारश्च । तद्यथा साहित्यदर्पणे—'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति ॥३२॥
अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ ३३ ॥
अन्वय --अवन्ध्यकोपस्य आपदां विहन्तुः देहिनः स्वयम् एव वश्याः भवन्ति । अमर्षशून्येन जन्तुना जातहार्देन जनस्य आदरः न, विद्विषा दरः न ॥३३॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --द्रौपदीमुखात् महाकविर्भारविः कोपयुक्तजनस्य महत्त्वं कोपरहितजनस्य निन्दां च प्रतिपादयति ।
संस्कृत व्याख्या --अवन्ध्यकोपस्य = न वन्ध्यः अवन्ध्यः = सफलः, कोपः = क्रोधः यस्य स तस्य, सफलामर्षस्य, 'कोपक्रोधामर्षरोषा' इत्यमरः, आपदां = विपदां, विहन्तुः = अपहन्तुः, निवारणक्षमस्य, देहिनः = शरीरिणः, स्वयमेव = अनायासमेव, वश्याः = प्रणेयाः, भवन्ति = जायन्ते, अमर्षशून्येन = क्रोधरहितेन, जन्तुना = प्राणिना, 'जन्तुर्जन्यशरीरिणः' इत्यमरः, जातहार्देन = हृदयस्य कर्म हार्दं, जातं हार्दं यस्मिन् स जातहार्दस्तेन उत्पन्नस्नेहेनेत्यर्थः, 'प्रेमा ना प्रियता हार्दं प्रेम स्नेहः' इत्यमरः, जनस्य = लोकस्य, आदरः = सम्मानः, न = नहि, विद्विषा = वैरिणा, दरः = भयं, 'दरस्त्रासो भीतिर्भीः साध्वसं भयम्' इत्यमरः, न भवति।
हिन्दी व्याख्या --अवन्ध्यकोपस्य = सफल क्रोधवाले, आपदां = विपत्तियाँ, विहन्तुः = नष्ट करने (रोकने) में समर्थ जन के, देहिनः = प्राणी, स्वयमेव = खुद ही, वश्याः = अधीन, भवन्ति = हो जाते हैं। अमर्षशून्येन = क्रोधरहित, जन्तुना = मनुष्य (प्राणी) से, जातहार्देन = उत्पन्न स्नेह से, जनस्य = मनुष्य का, आदरः = आदर, न = (उसके प्रति) नहीं (होता), विद्विषा = (उसकी) शत्रुता करने से, दरः = (उससे) डर (भी), न = नहीं (होता) ॥३३॥
हिन्दी अर्थ --सफल क्रोधवाले, आपत्तियों को नष्ट करने में समर्थ जन के अधीन प्राणी स्वयं ही हो जाते हैं। क्रोधरहित मनुष्य के उत्पन्न स्नेह से मनुष्य का आदर (उसके प्रति) नहीं होता और उसकी शत्रुता करने से (उनसे) भय भी नहीं होता ॥३३॥
टिप्पणी --अत्रोत्तराद्धे नकारजकारयोरसकृदावृत्त्या वृत्यनुप्रासः । तद्यथा साहित्यदर्पणे—'अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा । एकस्य सकृदप्येष वृत्यनुप्रास उच्यते' इति ॥३३॥
परिश्रमँल्लोहितचन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः ।
महारथः सत्यधनस्य मानसं दुनोति नो कच्चिदयं वृकोदरः ॥ ३४ ॥
अन्वय --लोहितचन्दनोचितः महारथः रेणुरूषितः पदातिः अन्तर्गिरि परिभ्रमन् अयं वृकोदरः सत्यधनस्य मानसं नो दुनोति कच्चित् ? ॥३४॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --दुरवस्थाधिगतो भीमो युधिष्ठिरमनः कथं न परितापयतीति प्रस्तौति द्रौपदी युधिष्ठिरम्प्रति ।
संस्कृत व्याख्या --लोहितचन्दनोचितः = रक्तचन्दनोचितः, रक्तचन्दनसमलङ्कृत इत्यर्थः, 'लोहितो रोहितो रक्तः' इत्यमरः, महारथः = रथारूढः, पूर्वं रक्तचन्दनसमलङ्कृतो रथारूढो भीम आसीत् परन्तुधुना, रेणुरूषितः = रेणुभिः रजोभिः, रूषितः गुण्ठितः, 'गुण्ठतरूषिते' इत्यमरः, पदातिः = पदगः, अन्तर्गिरि = गिरिषु अन्तः अन्तर्गिरि = पर्वतेषु, परिभ्रमन् = पर्यटन्, अयम् = एषः, वृकोदरः = वृकस्योदरमिवोदरं यस्य स वृकोदरः = भीमः, सत्यधनस्य = सत्यमेव धनं यस्य स तस्य, सत्यधनस्य = सत्यविभवस्य, भवतो युधिष्ठिरस्येति शेषः, मानसं = चेतः, 'चित्तन्तु चेतो हृदयं स्वान्तहन्मानसं मनः' इत्यमरः, नो = नहि, दुनोति = परितापयति, कच्चित् = किमु, 'कच्चित् कामप्रवेदने' इत्यमरः ।
हिन्दी व्याख्या --लोहितचन्दनोचितः = (पहले) लालचन्दन से अभ्यस्त अर्थात् शरीर में लगाए हुए लाल चन्दन के लेपवाला, महारथः = रथ पर बैठकर विहार करने वाला, (लेकिन आज) रेणुरूषितः = धूल से व्याप्त, पदातिः = पैदल चलने वाला, अन्तर्गिरि = एक पर्वत से दूसरे पर्वत पर, परिभ्रमन् = घूमता हुआ, अयं = यह, वृकोदरः = भीम, सत्यधनस्य = सत्यरूप धन वाले (आप युधिष्ठिर के), मानसं = मन को, नो = नहीं, दुनोति = संताप दे रहा है, कच्चित् = क्या ? ॥३४॥
हिन्दी अर्थ --(पहले) लाल चन्दन से लिप्त शरीर वाला, रथ पर बैठकर विहार करने वाला (परन्तु आज) धूल से व्याप्त शरीर वाला, पैदल चलने वाला, एक पर्वत से दूसरे पर्वत पर भ्रमण करता हुआ यह भीम सत्यरूप धनवाले (आप युधिष्ठिर) के मन को सन्ताप नहीं देता हैं क्या ? ॥३४॥
टिप्पणी --अत्र वृकोदरविशेष्यस्य साभिप्रायविशेषणकथनात् परिकरोऽलङ्कारः । तद्यथा, साहित्यदर्पणे—'उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः' इति ॥३४॥
विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः ।
स वल्कवासांसि तवाधुनाऽहरन् करोति मन्युं न कथं धनञ्जयः ॥ ३५ ॥
अन्वय --वासवोपमः यः उत्तरान् कुरून् विजित्य प्राज्यम् अकुप्यं वसु अयच्छत्, स धनञ्जयः अधुना तव वल्कवासांसि आहरन् कथं मन्युं न करोति ॥३५॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --'दुरवस्थाधिगतोऽर्जुनः युधिष्ठिरक्रोधं न जनयति किमु' इति आक्षिपति द्रौपदी युधिष्ठिरम् ।
संस्कृत व्याख्या --वासवोपमः = वासवः उपमा यस्य स तथोक्तः वासवोपमः = इन्द्रतुल्यः, 'वासवो वृत्रहा वृषा, वास्तोष्पति सुरपतिः' इत्यमरः, यः = अर्जुनः, उत्तरान् कुरून् = मेरुगिर्युत्तरस्थितान् कुरुनामधेयान् देशान्, विजित्य = जित्वा, प्राज्यं = प्रचुरम्, अकुप्यं = कुप्यं सुवर्णरजतभिन्नं ताम्रादि, कुप्याद् अन्यद् अकुप्यं हेमरूप्यात्मकं, 'अकुप्यं स्यात्कोशश्च हिरण्यञ्च हेमरूप्ये कृताकृते । ताभ्यां यदन्यत्तत्कुप्यम्' इति अमरः, वसु = धनम्, अयच्छत् = ददौ, सः = पूर्वोक्तो, धनञ्जयः = अर्जुनः, उत्तरकुरुजेता इत्यर्थः, अधुना = सम्प्रति, तव = भवतो युधिष्ठिरस्य, वल्कवासांसि = वृक्षत्वग्वसनानि, त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्', 'वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्' इत्यमरश्च, आहरन् = आनयन्, कथं = कस्माद्धेतोः, मन्युं = क्रोधं, न = नहि, करोति = जनयति ।
हिन्दी व्याख्या --वासवोपमः = इन्द्र के समान, यः = जो (अर्जुन), उत्तरान् कुरून् = उत्तर कुरु नामक जनपदों को, विजित्य = जीतकर, प्राज्यम् = प्रचुर, अकुप्यं = सोना-चाँदी रूप, वसु = धन, अयच्छत् = प्रदान किया, सः = वह, धनञ्जयः = अर्जुन, अधुना = इस समय, तव = तुम्हारे (युधिष्ठिर के), वल्कवासांसि = वल्कल वस्त्रों (वृक्ष के छालों) को, आहरन् = लाता हुआ (आपके), मन्युं = क्रोध को, कथं = क्यों, न = नहीं, करोति = (पैदा) करता है ॥३५॥
हिन्दी अर्थ --इन्द्र के समान जो अर्जुन मेरु के उत्तर में स्थित उत्तर कुरु नामक प्रदेशों को जीतकर प्रचुर सोना चाँदी रूप धन प्रदान किया, वह धन को जीतने वाला (धनञ्जय) अर्जुन इस समय आप (युधिष्ठिर) के वल्कल वस्त्रों (वृक्ष के छालों) को लाता हुआ (आप के) क्रोध को क्यों नहीं पैदा कर रहा है ॥३५॥
टिप्पणी --'कुरूनकुप्यं वसु वासवोपमः' इत्यत्र छेकानुप्रासः । तद्यथा साहित्यदर्पणे—'छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा' इति ॥३५॥
वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ ।
कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ॥ ३६ ॥
अन्वय --वनान्तशय्याकठिनीकृताकृती विष्वक् कचाचितौ अगजौ गजौ इव एतौ यमौ विलोकयन् त्वं कथं धृतिसंयमौ बाधितुं न उत्सहसे ॥३६॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --दुरवस्थाधिगतौ नकुलसहदेवौ पश्यन् कथं भवान् युधिष्ठिरः धैर्यसंयमौ न त्यजति इति द्रौपदी आक्षिपति ।
संस्कृत व्याख्या --वनान्तशय्याकठिनीकृताकृती = वनान्तः = अरण्यप्रदेशः एव, 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः, शय्या = शयनं, 'शय्यायां शयनीयवत् शयनम्' इत्यमरः, वनान्तशय्या तस्यां कठिनीकृते = कर्कशीकृते 'कर्कशं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्' इत्यमरः, आकृती = आकारौ 'आकारविङ्गिताकृती' इत्यमरः, ययोः तौ वनान्तशय्याकठिनीकृताकृती, विष्वक् = परितः, कचाचितौ = कचैः बालैः अचितौ = व्याप्तौ यौ तौ बालव्याप्तौ इत्यर्थः, 'चिकुरःकुन्तलो वालः कचः शिरोरुहः' इत्यमरः, अगजौ = न गच्छतीति अगः = पर्वतः, तस्मिन् जायत इति अगजः, तौ = पर्वतोत्पन्नौ 'शैलवृक्षनगावगौ' इत्यमरः, गजौ = करिणौ, इव = यथा, एतौ = इमौ, यमौ = युग्मजातौ, माद्रीसुतौ नकुलसहदेवौ इत्यर्थः, विलोकयन् = पश्यन्, त्वं = भवान्, युधिष्ठिरः इति भावः, कथं = कस्माद्धेतोः, धृतिसंयमौ = धृतिश्च संयमश्च धृतिसंयमौ = धैर्यसंयमौ, 'धृतिर्धारणधैर्ययोः' इत्यमरः, 'संयामसंयमौ' इत्यमरश्च, बाधितुं = त्यक्तुं, न = नहि, उत्सहसे = प्रवर्तसे ।
हिन्दी व्याख्या --वनान्तशय्याकठिनीकृताकृती = वनप्रदेश रूपी शय्या से कठोर किए हुए आकारवाले (शरीरवाले), विष्वक् = चारों ओर, कचाचितौ = फैले हुए केशवाले, अगजौ = पर्वत में पैदा हुए, गजौ = दो हाथियों की, इव = तरह, एतौ = इन दोनों, यमौ = जुड़वे भाइयों (माद्रीपुत्र नकुल और सहदेव) को, विलोकयन् = देखते हुए, त्वं = तुम (आप युधिष्ठिर), कथं = क्यों, धृतिसंयमौ = धैर्य एवं संयम को, बाधितुं = छोड़ने के लिए, न = नहीं, उत्सहसे = तैयार होते हो ? ॥३६॥
हिन्दी अर्थ --वनप्रदेशरूपी शय्या से कठोर किये हुए शरीर (आकार) वाले चारों ओर फैले हुए केश वाले, पर्वत में पैदा हुए दो हाथियों के समान इन दोनों जुड़वे नकुल और सहदेव को देखते हुए आप क्यों धैर्य एवं संयम को छोड़ने के लिए तैयार नहीं होते ? ॥३६॥
टिप्पणी --अत्र नकुलसहदेवावुपमेयभूतौ अगजौ गजावुपमानभूतौ, तयोः साधर्म्यादुपमाऽलङ्कारः । तद्यथा साहित्यदर्पणे—'साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः' इति । अत्रानुप्रासोऽप्यलङ्कारः ॥३६॥
इमामहम्वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥ ३७ ॥
अन्वय --इमां तावकीं धियम् अहं न वेद । चित्तवृत्तयः विचित्ररूपाः खलु । परां भवदापदं विचिन्तयन्त्याः मम चेतः आधयः प्रसभं रुजन्ति ॥३७॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --युधिष्ठिरापदां विचिन्तयन्ती द्रौपदी दुःखिता भवतीति प्रतिपादयति ।
संस्कृत व्याख्या --इमाम् = एतां, तावकीं = त्वदीयां युधिष्ठिरसम्बन्धिनीमित्यर्थः, धियं = बुद्धि, अहं = द्रौपदी, न = नहि, वेद = जाने, चित्तवृत्तयः = चेतोव्यापाराः, विचित्ररूपाः = विचित्राणि रूपाणि यासां ताः विचित्ररूपाः = विविधप्रकाराः, खलु = निश्चयेन भवन्तीति शेषः, परन्विति शेषः, पराम = उत्कृष्टां, भवदापदं = भवतः युधिष्ठिरस्य, आपदं = विपदं, दुरवस्थामिति यावत्, विचिन्तयन्त्याः = भावयन्त्याः, मम = द्रौपद्याः, चेतः = मनः, आधयः = मानसीव्यथाः, 'पुंस्याधिर्मानसी व्यथा' इत्यमरः, प्रसभं = हठात्, 'प्रसभं तु बलात्कारो हठः' इत्यमरः, रुजन्ति = तापयन्ति ॥३७॥
हिन्दी व्याख्या --तावकीं = तुम्हारी (आप युधिष्ठिर की), इमां = इस (वर्तमान), धियं = बुद्धि को, अहं = मैं (द्रौपदी), न = नहीं, वेद = जानती। चित्तवृत्तयः = चित्तवृत्तियाँ, खलु = निश्चय ही, विचित्ररूपाः = विचित्ररूपों वाली (होती हैं)। (लेकिन) परां = उत्कृष्ट, भवदापदं = आपकी विपत्ति को, विचिन्तयन्त्याः = सोचती हुई, मम = मेरे, चेतः = मन को, आधयः = मानसिकव्यथायें, प्रसभं = हठात्, रुजन्ति = छिन्न-भिन्न कर (सन्ताप) दे रही हैं ॥३७॥
हिन्दी अर्थ --आपकी इस (वर्तमान) बुद्धि को मैं (द्रौपदी) नहीं जानती । चित्तवृत्तियाँ निश्चय ही विचित्र रूपों वाली होती है। (लेकिन) आपकी उत्कृष्ट विपत्ति को सोचती हुई मेरे मन को मानसिक व्यथायें हठात् छिन्न-भिन्न कर (संताप) दे रही हैं ॥३७॥
टिप्पणी --अत्र पूर्वार्द्धे सामान्यकथनेन उत्तरार्द्धगतविशेषस्य समर्थनादर्थान्तरन्यासोऽलङ्कारः तथा वंशस्थवृत्तम् ॥३७॥
पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भामधिशय्य स स्थलीं जहासि निद्रामशिवैः शिवारुतैः ॥ ३८ ॥
अन्वय --यः महाधनं शयनम् अधिरूढः स्तुतिगीतिमङ्गलैः पुरा विबोध्यसे, स अदभ्रदर्भां स्थलीम् अधिशय्य अशिवैः शिवारुतैः निद्रां जहासि ॥३८॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --युधिष्ठिरस्यातीतवैभवकालं साम्प्रतिकपराभवकालञ्चोपस्थापयति द्रौपदी ।
संस्कृत व्याख्या --यः = त्वं (भवान् युधिष्ठिरः), महाधनं = बहुमूल्यं, 'बहुमूल्यं महाधनम्' इत्यमरः, शयनं = शयनीयम्, अधिरूढः = समारूढः, स्तुतिगीतिमङ्गलैः = स्तुतयः गीतयश्च ता एव मङ्गलानि तैः स्तुतिगीतिमङ्गलैः = स्तवगानशुभपाठैः, 'स्तवः स्तोत्रं नुतिः स्तुतिः' इत्यमरः, पुरा = पूर्वस्मिन् काले, विबोध्यसे = प्रबोध्यसे, सः = तथोक्तः त्वं युधिष्ठिर इत्यर्थः, अदभ्रदर्भां = अदभ्राः दर्भाः यस्यां सा अदभ्रदर्भा तामदभ्रदर्भा = बहुलकुशाम्, 'अस्त्री कुशं कुथो दर्भः पवित्रम्' इत्यमरः, स्थलीम् = असंस्कृतां भूमिम्, अधिशय्य = शयित्वा, अशिवैः = अशुभैः, शिवारुतैः = शिवानां जम्बुकानां, रुतैः = स्वनैः, 'स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः' इत्यमरः, निद्रां = शयनं, 'स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि' इत्यमरः, जहासि = त्यजसि।
हिन्दी व्याख्या --यः = जो (आप युधिष्ठिर), महाधनं = महामूल्यवाली, शयनं = शय्या पर, अधिरूढः = लेटे (सोये) हुए, स्तुतिगीतिमङ्गलैः = स्तुति-गीतिरूप मङ्गलमय शब्दों द्वारा, पुरा = पुराने समय (शासनकाल) में, विबोध्यसे = जगाये जाते थे, सः = वह (आप युधिष्ठिर), अदभ्रदर्भाम् = अत्यधिक मात्रा में कुशों से व्याप्त, स्थलीं = स्वाभाविक भूमि पर, अधिशय्य = लेट (सो) कर, अशिवैः = अमङ्गलयुक्त, शिवारुतैः = सियारिनों की ('हुयाँ-हुयाँ' की) बोलियों से, निद्रां = नींद को, जहासि = त्यागते हैं ॥३८॥
हिन्दी अर्थ --पहले (अपने राज्यकाल में) जो आप युधिष्ठिर बहुमूल्य-शय्या पर सोये हुए (स्तुतिपाठकों द्वारा) स्तुति-गीतिरूप मङ्गलमय शब्दों द्वारा जगाए जाते थे वह आप अत्यधिक कुशों से व्याप्त स्वाभाविक (ऊबड़-खाबड़) भूमि पर लेटे हुए अमङ्गलमय सियारिनों के ('हुयाँ-हुयाँ' की) बोलियों से नींद को त्यागते हैं ॥३८॥
टिप्पणी --'अदभ्रदर्भां' 'अशिवैः शिवारुतैः' इत्यत्र व्यञ्जनसङ्घस्य सकृत्साम्यात् छेकानुप्रासः । तद्यथा साहित्यदर्पणे—'छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा' इति ॥ अमरकोष के आधार पर ‘तिरश्चां वाशितं रुतम्’ ऐसा पाठ होने पर पक्षियों के चहचहाने को ‘रुत’ या ‘वाशित’ कहा गया है । पर यहाँ महाकवि भारवि ने रुत का प्रयोग किया। ‘स्वन’ और ‘रव’ जन्तुओं की बोली के लिए प्रयुक्त हो सकते थे। इनके प्रयोग से छन्दोभङ्ग भी नहीं होता । मल्लिनाथ ने भी ‘रुतैः’ का अर्थ ‘वाशितैः’ किया है जो अमरसिंह के अर्थ को पुष्ट करता है पर अस्वाभाविक सा लगता है।
पुरोपणीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं परैति कार्यं यशसा समं वपुः ॥ ३९ ॥
अन्वय --नृप ! यत् एतत् पुरा द्विजातिशेषेण अंधसा रामणीयकम् उपनीतम्, अद्य वन्यफलाशिनः ते तद् वपुः यशसा समं परं कार्श्यं परैति ॥३९॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --वनवासियुधिष्ठिरस्य वपुषः यशसः च कार्यम्प्रस्तौति द्रौपदी ।
संस्कृत व्याख्या --नृप ! = हे राजन् !, यत् = (भवतः), एतत् = इदं (शरीरं), पुरा = अतीतकाले, शासके त्वयि इत्यर्थः, द्विजातिशेषेण = द्विजातिभिः भुक्तं तस्य शेषस्तेन द्विजातिशेषेण = ब्राह्मणभुक्तावशिष्टेन, 'द्विजात्यग्रजन्मभूदेववाडवाः । विप्रश्च ब्राह्मणः' इत्यमरः, अन्धसा = अन्नेन, 'भिक्षा स्त्री भक्तमन्धोऽन्नम्' इत्यमरः, रामणीयकं = मनोज्ञताम्, उपनीतम् = आसादितम्, अद्य = साम्प्रतं, वन्यफलाशिनः = काननोत्पन्नफलभोजिनः, ते = तव, तद् = पूर्वोक्तं, वपुः = गात्रं, 'गात्रं संहननं वपुः' इत्यमरः, यशसा = समज्या, 'यशः कीर्तिः समज्या च' इत्यमरः, समं = साकं, परम् = अतीव, कार्श्यं = कृशतायाः भावः कार्श्यं = कृशताम्, अणुतामित्यर्थः, परैति = उपैति ।
हिन्दी व्याख्या --नृप ! = हे राजन् ! यत् = जो (आपका), एतत् = यह (शरीर), पुरा = पहले (आपके राजा होने पर), द्विजातिशेषेण = ब्राह्मणों द्वारा भुक्त फिर शेष बचे हुए, अंधसा = अन्न से, रामणीयकं = रमणीयता को, उपनीतम् = प्राप्त कराया गया था, अद्य = आज, वन्यफलाशिनः = जंगली फलों को खाने वाले, ते = आपका, तद् = वह, वपुः = शरीर, यशसा = यश के, समं = साथ, परं = अत्यधिक, कार्श्यं = क्षीणता (कृशता) को, परैति = प्राप्त कर रहा है अर्थात् यश और शरीर दोनों ही क्षीण हो रहे हैं ॥३९॥
हिन्दी अर्थ --हे राजन् ! जो (आपका) यह (शरीर) पहले (आपके राजा रहने पर) ब्राह्मणों द्वारा भुक्त फिर शेष बचे हुए अन्न से रमणीयता को प्राप्त कराया गया था, आज जंगली फलों को खाने वाले आपका वह शरीर यश के साथ अत्यधिक क्षीणता को प्राप्त होता जा रहा है अर्थात् यश और शरीर दोनों साथ ही क्षीण होते जा रहे हैं ॥३९॥
टिप्पणी --अत्र यशोऽपि क्षीयते वपुरपि क्षीयत इति सहार्थस्य बलाद् एकं द्विवाचकम् अतः सहोक्तिरलङ्कारः । तद्यथा साहित्यदर्पणे—'सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः । सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत्' इति ॥३९॥
अनारतं यौ मणिपीठशायिनावग्जयद्राजशिरःस्रजां रजः ।
निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥ ४० ॥
अन्वय --अनारतं मणिपीठशायिनौ यौ राजशिरःस्रजां रजः अरञ्जयत्, ते तौ चरणौ मृगद्विजालूनशिखेषु बर्हिषां वनेषु निषीदतः ॥४०॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --राज्ञः वनवासिनश्च युधिष्ठिरस्य चरणयोर्वैशिष्ट्यमुपस्थापयति द्रौपदी ।
संस्कृत व्याख्या --अनारतम् = अविरतम्, 'सततानारताश्रान्तसन्तताविरतानिशम्' इत्यमरः, मणिपीठशायिनौ = रत्ननिर्मितपादासनस्थौ, 'रत्नम्मणिद्वयोरश्मजातौ मुक्तादिकेऽपि च' इत्यमरः, 'पीठमासनम्' इत्यमरश्च, यौ = चरणौ, राजशिरःस्रजां = राज्ञां शिरः राजशिरस्तेषु स्रजस्तासां राजशिरस्स्रजां = महीपमस्तकपुष्पमालानां, 'माल्यं मालास्रजौ मूर्ध्नि' इत्यमरः, रजः = परागः, अरञ्जयत् = समलङ्करोत्, ते = तव युधिष्ठिरस्येत्यर्थः, तौ = पूर्वोक्तौ, चरणौ = पादौ, 'पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्' इत्यमरः, मृगद्विजालूनशिखेषु = मृगाश्च द्विजाश्च मृगद्विजास्तैः आलूनाः शिखाः येषान्तेषु = हरिणविप्रच्छिन्नाग्रेषु, बर्हिषां = दर्भाणां, वनेषु = काननेषु, निषीदतः = अटतः भ्रमत इत्यर्थः ।
हिन्दी व्याख्या --अनारतं = निरन्तर, मणिपीठशायिनौ = मणिमय पादपीठ पर स्थित (आपके), यौ = जिन (दोनों चरणों) को, राजशिरःस्रजां = राजाओं के सिर के पुष्पमालाओं का, रजः = पराग, अरञ्जयत् = रञ्जित किया करता था, ते = तुम्हारे, तौ = वे दोनों, चरणौ = चरण, मृगद्विजालूनशिखेषु = मृगों एवं ब्राह्मणों द्वारा काटे हुए अग्रभाग वाले, बर्हिषां = कुशों के, वनेषु = वनों में, निषीदतः = स्थित रहते हैं अर्थात् चलते रहते हैं ॥४०॥
हिन्दी अर्थ --निरन्तर मणिमय पादपीठ पर स्थित आपके जिन (दोनों चरणों) को (पहले) राजाओं के मस्तक की पुष्पमालाओं का पराग सुशोभित करता था वे ही दोनों चरण (इस समय) मृगों एवं ब्राह्मणों (तपस्वियों) के द्वारा काटे हुए अग्रभाग वाले कुशों के वनों में चलते रहते हैं ॥४०॥
टिप्पणी --अत्र पूर्वार्द्धे जकारस्यासकृदावृत्त्या वृत्यनुप्रासः । तद्यथा साहित्यदर्पणे-'अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा । एकस्य सकृदप्येष वृत्यनुप्रास उच्यते' इति ॥४०॥
द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः ।
परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ॥ ४१ ॥
अन्वय --यद् इयं दशा द्विषन्निमित्ता, ततः मे मनः समूलम् उन्मूलयति इव । परैः अपर्यासितवीर्यसम्पदां मानिनां पराभवः अपि उत्सव एव ॥४१॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --'शत्रुभिरपराभूतबलधनानां मनस्विनां पराजयोऽप्युत्सवाय कल्पते' इति प्रस्तौति द्रौपदी मुखात् महाकविर्भारविः ।
संस्कृत व्याख्या --यत् = यस्माद्धेतोः, इयम् = एषा, दशा = अवस्था, द्विषन्निमित्ता = द्विषन्तो निमित्तं यस्याः सा तथोक्ता = रिपुविहिता, ततः = तस्माद्धेतोः, मे = मम द्रौपद्याः, मनः = चेतः, 'चित्तन्तु चेतो हृदयं स्वान्तर्हृन्मानसं मनः' इत्यमरः, समूलं = मूलेन सहितं यथा स्यात्तथा मूलसहितमित्यर्थः, उन्मूलयति = उत्पाटयति, इव = यथा। परैः = शत्रुभिः, अपर्यासितवीर्यसम्पदाम् = अपर्यासिता वीर्यसम्पत् येषान्तेषाम् = अपराभूतप्रभाव-सम्पत्तीनाम्, 'वीर्यं बले प्रभावे च' इत्यमरः, मानिनां = मानधनानां, पराभवः = पराजयः अपि, उत्सवः = महः, उन्नतिरिति भावः, 'उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः' इत्यमरः, एव = निश्चयेन ।
हिन्दी व्याख्या --यत् = जिस कारण से, इयं = यह, दशा = दशा (अवस्था), द्विषन्निमित्ता = शत्रु (दुर्योधनादि कौरव) रूप कारणों वाली (है), ततः = उसी कारण से, मे = मेरे (द्रौपदी के), मनः = मन को, समूलम् = समूल (जड़ सहित), उन्मूलयति = उखाड़ रही है, इव = मानो। परैः = शत्रुओं के द्वारा, अपर्यासितवीर्यसम्पदां = अपराजित बलरूप धनवाले, मानिनां = मनस्वियों का, पराभवः = पराजय, अपि = भी, उत्सव = उत्सव (उन्नति), एव = ही (है) ॥४१॥
हिन्दी अर्थ --जो यह दशा शत्रु दुर्योधनादि कौरव रूप कारणों वाली है, इसलिए मेरे मन को समूल उखाड़ रही है। शत्रुओं द्वारा अपराजित बलरूप धनवाले मानधनी पुरुषों के लिए पराजय भी उन्नति (उत्सव) ही (है) ॥४१॥
टिप्पणी --'समूलमुन्मूलयतीव मे मनः' इत्यत्र सम्भावनायामुत्प्रेक्षाऽलङ्कारः । तद्यथा—'भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना' इति । पद्यस्योत्तराद्धे चार्थान्तरन्यासोऽलङ्कारः ॥४१॥
विहाय शान्तिं नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् ।
व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥ ४२ ॥
अन्वय --नृप ! शान्तिं विहाय तत् धाम विद्विषां वधाय पुनः सन्धेहि, प्रसीद । निःस्पृहाः मुनयः शत्रून् अवधूय शमेन सिद्धिं व्रजन्ति भूभृतः न ॥४२॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --मुनीनां शान्तिमार्गं विहाय नृपतेजः अङ्गीकर्तुमुपदिशति द्रौपदी युधिष्ठिरम् ।
संस्कृत व्याख्या --नृप ! = हे राजन् !, शान्तिं = शमं, 'शपथस्तु शमः शान्तिः' इत्यमरः, विहाय = परित्यज्य, तत् = पूर्वकालिकं, प्रसिद्धं, धाम = तेजः, विद्विषां = शत्रूणां, दुर्योधनादिकौरवाणामित्यर्थः, वधाय = घाताय, 'घातोन्माथवधा अपि' इत्यमरः, पुनः = मुहुः, सन्धेहि = स्वीकुरु, प्रसीद = प्रसन्नो भव, निःस्पृहाः = निर्गताः स्पृहाः येभ्यस्ते निःस्पृहाः = इच्छारहिताः, 'इच्छा काङ्क्षा स्पृहेहा तृट् वाञ्छा लिप्सा मनोरथः' इत्यमरः, मुनयः = ऋषयः, शत्रून् = अरीन्, कामक्रोधादीन्, अवधूय = निर्जित्य, शमेन = शान्त्या, सिद्धिं = मुक्तिं, व्रजन्ति = गच्छन्ति, लभन्त इति भावः, भूभृतः = राजानः, न = नहि लभन्त इति शेषः ।
हिन्दी व्याख्या --नृप ! = हे राजन् ! (युधिष्ठिर!), शान्तिं = शान्ति को, विहाय = छोड़कर, तत् = उस (पुराने), धाम = तेज को, विद्विषां = शत्रुओं (दुर्योधनादि कौरवों) के, वधाय = वध के लिए, पुनः = फिर से, सन्धेहि = धारण कीजिए, प्रसीद = प्रसन्न हो जाइए। निःस्पृहाः = इच्छा से रहित, मुनयः = मुनि लोग, शत्रून् = शत्रुओं (कामक्रोधादि) को, अवधूय = जीतकर, शमेन = शान्ति से, सिद्धिं = सिद्धि (मुक्ति) को, व्रजन्ति = प्राप्त करते हैं (जाते हैं), भूभृतः = राजा लोग, न = नहीं ॥४२॥
हिन्दी अर्थ --हे राजन्! (युधिष्ठिर !) शान्ति को छोड़कर शत्रुओं (कौरवों) के वध के लिए उस (प्रसिद्ध) तेज को फिर से स्वीकार कीजिए, प्रसन्न होइए । इच्छारहित मुनिलोग (कामक्रोधादि) शत्रुओं को जीतकर शान्ति से सिद्धि (मुक्ति) को प्राप्त करते हैं; राजा लोग नहीं ॥४२॥
टिप्पणी --अत्रार्थान्तरन्यासोऽलङ्कारः । तद्यथा साहित्यदर्पणे— 'सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति ॥४२॥
पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् ।
भवादृशाश्चेदधिकुर्वते रतिं निराश्रया हन्त हता मनस्विता ॥ ४३ ॥
अन्वय --धामवतां पुरस्सराः यशोधनाः भवादृशाः सुदुस्सहम् ईदृशं निकारं प्राप्य रतिम् अधिकुर्वते चेत्, हन्त मनस्विता निराश्रया हता ॥४३॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --तेजस्विनां तव ईदृशः पराभवः खेदास्पदमित्याक्षिपति द्रौपदी युधिष्ठिरम् ।
संस्कृत व्याख्या --धामवतां = तेजस्विनां, पुरस्सराः = पुरः अग्रे सरन्ति गच्छन्तीति पुरस्सराः = अग्रेसराः, यशोधनाः = यशः कीर्ति एव धनं सम्पत् येषान्ते तथोक्ताः यशोधनाः = कीर्तिविभवाः, 'यशः कीर्तिः समज्या च' इत्यमरः, भवादृशाः = युधिष्ठिरसमाः, सुदुस्सहम् = अतीवदुस्सहं, कष्टदमित्यर्थः, ईदृशं = ईदृग्विधं, निकारं = विप्रकारं, 'निकारो विप्रकारः स्यात्' इत्यमरः, पराजयमित्यर्थः, प्राप्य = अवाप्य, रतिम् = अनुरागं, तृप्तिमित्यर्थः, अधिकुर्वते = स्वीकुर्वते, चेत् = यदि, हन्त = इति विषादे, मनस्विता = मनस्विधर्मः, अभिमानितेत्यर्थः, निराश्रया = निर्गतः आश्रयो यस्याः सा निराश्रया = निरालम्बा, हता = नष्टा ।
हिन्दी व्याख्या --धामवतां = तेजस्वियों में, पुरस्सराः = श्रेष्ठ (अग्रेसर), यशोधनाः = यशरूपी धनवाले, भवादृशाः = आप (युधिष्ठिर के) जैसे लोग, सुदुस्सहं = अत्यन्त दुःखपूर्वक सहने योग्य, ईदृशं = इस प्रकार के, निकारं = पराजय को, प्राप्य = प्राप्त कर, रतिं = प्रेम (सन्तोष) को, अधिकुर्वते = स्वीकार कर लेते हैं, चेत् = अगर (तो), हन्त = अतीव खेद है, मनस्विता = स्वाभिमानिता, निराश्रया = आश्रयरहित होकर, हता = मार डाली गई अर्थात् नष्ट हो गयी ॥४३॥
हिन्दी अर्थ --तेजस्वियों में अग्रेसर, यशरूपी धनवाले आप (युधिष्ठिर) जैसे लोग अत्यन्त दुःखपूर्वक सहने योग्य इस प्रकार के पराजय को प्राप्त कर अगर सन्तोष कर लें तो हाय ! स्वाभिमानिता आश्रयरहित होकर मार डाली गई अर्थात् नष्ट हो गई ॥४३॥
टिप्पणी --अत्रार्थान्तरन्यासोऽलङ्कारः । तद्यथा साहित्यदर्पणे—'सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति ॥४३॥
अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्मकार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥ ४४ ॥
अन्वय --अथ निरस्तविक्रमः चिराय क्षमाम् एव सुखस्य साधनं पर्येषि, लक्ष्मीपतिलक्ष्मकार्मुकं विहाय जटाधरः सन् इह पावकं जुहुधि ॥४४॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --यदि शान्तिरेव सुखसाधनन्तर्हि भवता युधिष्ठिरेण जटाधरो भूत्वा पावके हवनं करणीयमित्याक्षिपति द्रौपदी ।
संस्कृत व्याख्या --अथ = अनन्तरं, निरस्तविक्रमः = निरस्तः = प्रत्यादिष्टः, विक्रमः = पराक्रमो येन स तथोक्तः, 'प्रत्यादिष्टो निरस्तः स्यात्, प्रत्याख्यातो निराकृतः' इत्यमरः प्रत्यादिष्टपराक्रम इत्यर्थः, चिराय = चिरकालपर्यन्तं, क्षमां = शान्ति, 'क्षितिक्षान्त्योः क्षमा' इत्यमरः, एव = निश्चयेन, सुखस्य = शातस्य, 'शर्मशातसुखानि च' इत्यमरः, हर्षस्येति यावत्, साधनं = कारणमुपायमिति यावत्, पर्येषि = मन्यसे, तर्हीति शेषः, लक्ष्मीपतिलक्ष्मकार्मुकं = लक्ष्मीपतेः = नृपतेः, लक्ष्म = चिह्नभूतं, कार्मुकं = धनुः, 'लक्ष्मचिह्नप्रधानयोः' इत्यमरः, राजचिह्नशरासनमित्यर्थः, विहाय = त्यक्त्वा, जटाधरः = धरतीति धरः, जटानां धरः जटाधरः = जटाधारी, व्रतीति यावत्, सन्, इह = अत्र कानने, पावकं = हुताशनं, जुहुधि = होमं कुरु ।
हिन्दी व्याख्या --अथ = इसके बाद (इतने समय के बाद भी), निरस्तविक्रमः = पौरुषहीन होकर, चिराय = बहुत समय के लिए, क्षमाम् = क्षमा (शान्ति) को, एव = ही, सुखस्य = सुख का, साधनं = साधन, पर्येषि = समझते हो (तो), लक्ष्मीपतिलक्ष्मकार्मुकं = राजाचिह्न धनुष को, विहाय = छोड़कर, जटाधरः = जटाधारी, सन् = होते हुए, इह = यहाँ (इस वन में), पावकं = अग्नि में, जुहुधि = हवन करो ॥४४॥
हिन्दी अर्थ --इसके बाद भी यदि (आप) पौरुषहीन होकर बहुत समय के लिए शान्ति को सुख का साधन मानते हैं, तो राजचिह्न धनुष को छोड़कर जटायुक्त होकर यहाँ वन में ही अग्नि में हवन करें ॥४४॥
टिप्पणी --'लक्ष्मीपतिलक्ष्म' इत्यत्र छेकानुप्रासः । तद्यथा साहित्यदर्पणे—'छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा' इति । अत्र वंशस्थवृत्तम् । तद्यथा—'जतौ तु वंशस्थमुदीरितं जरौ' इति ॥४४॥
न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः ।
अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि ॥ ४५ ॥
अन्वय --परेषु निकृतिपरेषु भूरिधाम्नः ते समयपरिरक्षणं न क्षमम् । हि विजयार्थिनः क्षितीशाः अरिषु सोपधि सन्धिदूषणानि विदधति ॥४५॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --प्रतिज्ञापालनस्यासमीचीनत्वमुपदिशति द्रौपदी युधिष्ठिरम् ।
संस्कृत व्याख्या --परेषु = अपरेषु शत्रुकौरवेष्वित्यर्थः, निकृतिपरेषु = निकृतिः परं येषु तेषु निकृतिपरेषु = कुत्सिततत्परेषु, 'कुत्सितनिकृतिः शाठ्यम्' इत्यमरः, भूरिधाम्नः = भूरि धाम यस्य तस्य भूरिधाम्नः = भूयिष्ठतेजसः, ते = तव युधिष्ठिरस्येत्यर्थः, समयपरिरक्षणं = समयस्य = शपथस्य त्रयोदशवर्षवनवासरूपस्येत्यर्थः, परिरक्षणं = प्रतीक्षणं, न = नहि, क्षमं = युक्तम् । हि = यतः, विजयार्थिनः = जयकाङ्क्षिणः, क्षितीशाः = भूपालाः, अरिषु = शत्रुपु, सोपधि = सकपटं, सन्धिदूषणानि = श्लेषदोषान्, 'सन्धिः श्लेषे' इत्यमरः, विदधति = कुर्वन्ति, उत्पादयन्तीत्यर्थः ।
हिन्दी व्याख्या --परेषु = (शत्रु कौरवों) के, निकृतिपरेषु = अपकार में तत्पर रहने पर, भूरिधाम्नः = महातेजस्वी, ते = तुम्हारे (आप युधिष्ठिर के), समयपरिरक्षणं = (तेरह वर्षों तक वन में रहूँगा इस प्रकार की) प्रतिज्ञा (शपथ) का पालन, न = नहीं, क्षमम् = उचित है। हि = क्योंकि, विजयार्थिनः = विजय चाहने वाले, क्षितीशाः = राजा, अरिषु = शत्रुओं के विषय में, सोपधि = कपट से, सन्धिदूषणानि = सन्धि को दोषयुक्त, विदधति = बना देते हैं ॥४५॥
हिन्दी अर्थ --शत्रु (कौरवों) के अपकार में तत्पर रहने पर, महातेजस्वी आप युधिष्ठिर को (तेरह वर्ष तक वन में रहूँगा इस प्रकार की गई) प्रतिज्ञा की प्रतीक्षा (पालन) उचित नहीं है । क्योंकि विजय चाहने वाले राजा शत्रुओं के विषय में कपट द्वारा सन्धि को ही दोषयुक्त बना देते हैं या सन्धि में दोष उत्पन्न कर देते हैं ॥४५॥
टिप्पणी --अत्र पूर्वोक्तविशेषस्योत्तराद्धेसामान्येन समर्थनादर्थान्तरन्यासोऽलङ्कारः । तद्यथा साहित्यदर्पणे—'सामान्यं वा विशेषेण विशेषस्तेन वा यदि । कार्यं च कारणेनेदं कार्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति । अत्र पुष्पिताग्रावृत्तम् । तल्लक्षणं यथा—'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति ॥४५॥
विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलवसुमगाधे मग्नमापत्ययोधौ ।
रिपुतिमिरमुदस्योदीयमानं दिनादौ दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥ ४६ ॥
अन्वय --विधिसमयनियोगाद् अगाधे आपत्पयोधौ मग्नं दीप्तिसंहारजिह्मं शिथिलवसुं रिपुतिमिरम् उदस्य उदीयमानं त्वां दिनादौ दिनकृतमिव लक्ष्मीः भूयः समभ्येतु ॥४६॥
सन्दर्भ --महाकवि भारवि विरचित किरातार्जुनीयम् महाकाव्य के प्रथम सर्ग से उद्धृत।
प्रसङ्ग --'आपद्गतो युधिष्ठिरः पुनर्लक्ष्मीं प्राप्नोतु' इति मङ्गलं कामयते द्रौपदी ।
संस्कृत व्याख्या --विधिसमयनियोगात् = विधेः समयस्य च नियोगात् दैवकालवशादिति, 'दैवं दिष्टं भागधेयं भाग्यं स्त्रीनियतिर्विधिः' इत्यमरः, अगाधे = अतलस्पर्शे, 'अगाधम-तलस्पर्शम्' इत्यमरः, आपत्पयोधौ = आपत् एव पयोधिस्तस्मिन् आपत्पयोधौ = विपत्समुद्रागारे, पतनस्वरूपपश्चिमसागर इत्यर्थः, मग्नं = पतितं, दीप्तिसंहारजिह्मं = द्युतिसङ्कोचखिन्नं, दीप्तेः संहारेण जिह्मस्तं, शिथिलवसुं = क्षीणरश्मिम्, रिपुतिमिरं = शत्रुरूपान्धकारम्, 'अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः' इत्यमरः, उदस्य = अपाकृत्य, उदीयमानम् = उदयमधिगच्छन्तं, समुद्यन्त-मिति यावत्, दिनादौ = प्रातःकाले, दिनकृतं = दिवाकरम्, इव = यथा; (पक्षान्तरे) विधि-समयनियोगात् = भाग्यवैपरीत्याद्, अगाधे = दुस्तरे, आपत्पयोधौ = विपत्सागरे, मग्नं = निमज्जितं, दीप्तिसंहारजिह्मं = तेजस्सङ्कोचदुःखितं, राज्यच्युतादिति शेषः, शिथिलवसुं = धनहीनं, रिपुतिमिरं = शत्रुरूपान्धकारम्, उदस्य = अवधूय, नाशं कृत्वेति भावः, उदीयमानम् = अभ्युदयमधिगच्छन्तं, त्वां = भवन्तं युधिष्ठिरमित्यर्थः, दिनादौ = मङ्गलमयसमयप्रभाते, लक्ष्मीः = राजश्रीः, भूयः = मुहुः, समभ्येतु = भजतु समलङ्करोत्विति भावः।
हिन्दी व्याख्या --विधिसमयनियोगात् = दैववश या कालचक्र के नियम के कारण, अगाधे = अगाध (दुस्तर), आपत्पयोधौ = विपत्ति रूप सागर में, मग्नं = डूबे हुए, दीप्तिसंहारजिह्मं = प्रकाश के संकोच से मलिन, शिथिलवसुं = शिथिल किरणों वाले, रिपुतिमिरं = शत्रुतुल्य अन्धकार को, उदस्य = दूर करके, उदीयमानं = उगते हुए, दिनादौ = दिन के प्रारम्भ में, दिनकृतं = सूर्य की, इव = तरह; (युधिष्ठिर पक्ष में) विधिसमयनियोगात् = भाग्य एवं समय के नियम के प्रभाव से, अगाधे = अगाध (दुस्तर), आपत्पयोधौ = विपत्ति के सागर में, मग्नं = डूबे हुए, दीप्तिसंहारजिह्मं = प्रताप या तेज के नाश से खिन्न, शिथिलवसुं = नष्ट हुए धनवाले, रिपुतिमिरं = अन्धकार के समान शत्रु वर्ग का, उदस्य = समुत्सारण करके, दिनादौ = अनुकूल समय आ जाने पर, उदीयमानं = उदय को प्राप्त करते हुए, त्वां = तुझ (आप) युधिष्ठिर को, लक्ष्मीः = राजश्रीः, भूयः = फिर से, समभ्येतु = प्राप्त (वरण) करे ॥४६॥
हिन्दी अर्थ --दैववश या कालचक्र के नियम के कारण अगाध विपत्तिरूप समुद्र में डूबे हुए प्रकाशके संकोच से मलिन, शिथिल किरणों वाले शत्रु के समान अन्धकार को दूर करके दिन के आदि में अर्थात् प्रातः उदय होते हुए सूर्य की तरह भाग्य एवं समय के नियम के प्रभाव से अगाध विपत्ति के सागर में निमज्जित, प्रताप या तेज के न रहने से खिन्न, नष्ट हुए धनवाले (गतविभव) अन्धकार के समान शत्रुवर्ग का समुत्सारण कर अनुकूल समय आ जाने पर उदय को प्राप्त करते हुए आप युधिष्ठिर को फिर से राजलक्ष्मी वरण करे ॥४६॥
टिप्पणी --अत्र पूर्णोपमाऽलङ्कारः युधिष्ठिरमित्युपमेयस्य दिनकृदुपमानेन साधर्म्यात् । 'इवात्र वाचकः शब्दः । साधारणधर्मस्त्वत्र पदेषु दृश्यन्त एव । तल्लक्षणं यथा साहित्यदर्पणे—'सा पूर्णा यदि सामान्यधर्म औपम्यवाचि च । उपमेयं चोपमानं भवेद्वाच्यमिति' । अत्र मालिनीवृत्तम् । तल्लक्षणं यथा—'ननमयययुतेयं मालिनी भोगिलोकैः' इति ॥ महाकवि भारवि ने सर्ग का प्रारम्भ 'श्री' शब्द से किया है तथा अन्त 'लक्ष्मीः' शब्द से किया है । ये दोनों ही शब्द पर्यायवाची हैं । मङ्गल आदि, मध्य और अन्त में होना चाहिए इस परिपाटी के समर्थक महाकवि ने ऐसा किया है । ॥ इति प्रथमः सर्गः ॥
