शकुन्तलायाश्चरित्रचित्रणम्
1. कण्वस्य पोषितापुत्री शकुन्तला-
अभिज्ञान शाकुन्तलस्य नायिका शकुन्तला वस्तुतो राजर्षेः एव पुत्र्यासीत् । कदाचिदुग्रतपा राजर्षिः विश्वामित्र उग्रं तपश्चचार । तेन भयाक्रान्तो देवराज इन्द्रो नियमविघ्नकारिणी मेनका नाम दिव्याङ्गना तस्य सविधे प्रेषयामास । वसन्ततौं समागते तस्या उन्मादकं रूपं विलोक्य राजर्षिविश्वामित्रः तस्या रूपपाशे निबद्धो बभूव । तस्य फलरूपेण विश्वामित्रात्मा शकुन्तला येनकायां जन्म लेभे । तथा चाहानसूया राजानं दुष्यन्तमभिज्ञानशाकुन्तलस्य प्रथमाङ्के'अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः ।' तं सख्याः प्रभवमवगच्छ । 'पुरा किल तस्य राजर्षे रुग्रे तपसि वर्तमानस्य कथमपि जातशङ्क: देवैः मेनका नाम भप्सरा: नियमविघ्नकारिणी प्रेषिता । इति ।'
बालब्रह्मचारी महर्षिः कण्वस्तु मेनकया परित्यक्तायाः शकुन्तलाया: शरीरादि सम्वर्द्धनादेव पितासीदिति प्राहानसूया राजानं दुष्यन्तम् । तथाहि-'उज्झितायाः पुनः शरीरसंवर्द्धनादिभिः पुनस्तातकण्वोऽपि सस्याः पितेति ।'
2. रूपवतीनाम् सर्वथा प्रत्यादेशस्वरूपा शकुन्तला -
शकुन्तला रूपवतीनाम् सर्वथा प्रत्यादेशस्वरूपा वर्त्तते । तस्य अनिन्द्यं सौन्दर्य समवलोक्य सहसैवावलोक्य राजा दुष्यन्तः प्राह-
'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्यः ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः॥।
वल्कलवस्त्रधारिण्यास्तस्याः सामन्यसुन्दरीभ्यो रूपलावण्यमधिकमाकर्षकं वर्तते इति प्राह राजा दुष्यन्तः । सः वक्ति-वल्कलवस्त्रधारिणी तामवलोक्य-
'सरसिजमनुविद्धं शैवलेनापि रम्यम्, मलिनमपि हिमांशोर्लक्ष्मलक्ष्मी तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥' ॥
येन जीवने शकुन्तला नावलोकिता तस्य नेत्रे विफले एवास्तः इति प्रतिप्रतिपादयन् राजा दुष्यन्तः प्राह–'सखे ! माधव्य ! अनाप्तचक्षुःफलोऽसि' शकुन्तलायाः लावण्यराशेर्वर्णनं कुर्वता राज्ञा संतोषो नानुभूयते ।स वक्ति-विदूषकस्य समक्षम्
'अनाघ्रातं पुष्पं किसलयमळूनं कररुहै;
रनाविद्धं रत्नं मधुनवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं;
न जाने भोक्तारं कमिहसमुपस्थास्यति भुवि ।'
3. प्राकृतप्रिया शकुन्तला
शकुन्तलायाः पालनं तपोबनेऽभवत् । एतस्यैव फलमास्ते यत् सा तपोवनस्य वृक्षान्, लताः, हरिणान्, पक्षिणश्च स्वबान्धवरूपेण मनुते । प्रकृतेरुपादानैस्सह तस्या अभेदसम्बन्धो वर्त्तते ।
अतएव सा मनसा स्नेहेन सखीभ्यां साकम् आम्रवृक्षाणां सेचनम् करोति । स्नेहातिरेकादेव हेतोः शकुन्तलया नवमल्लिकाया नाम वनतोषिणी कृता। तथा चाहानसूया शकुन्तलाम्-'त्वया कृतनामधेया वनतोषिणीति नवमल्लिका।' इति । शकुन्तला माधवीलतायाः सेचनम् तु तदा विस्मरिष्यति या सा आत्मानमपि नहि संस्मरेत् । यतः सा माधवीलताम् स्वभगिनीं मनुते आतस्याम् सोदरस्नेहात् सा तामतिमात्रम् सिञ्चति । तथा चाह शकुन्तला- 'यतो भगिनी मे भवति ततः किमिति न सिञ्चामि ?' इति ।
प्रकृतिप्रिया शकुन्तला यदा स्वपतिगृहाय प्रस्थानं करोति तदा कृतपुत्रः मृगपोतकः तस्याः पन्थानमवरुणद्धि । तथा चाह महर्षिः कण्वः
'यस्य त्वया व्रणविरोपणमिङगुदीनाम्
तैलं न्यषिञ्चत मुखे' कुशसूचविद्धे ।
श्यामाकमुष्टिपरिवद्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥
इति ।
शकुन्तलायाः विरहपर्युत्सुकाः तपोवनस्य पादपाः पशवः पक्षिणश्च विषण्णा भवन्ति । तथा चाह प्रियम्वदा शकुन्तला-
'उद्गीर्ण दर्भकवला परित्यक्तनर्तना च मयूरी।
अपसृतपाण्डुपत्रा मुञ्चन्ति अश्रु इव लताः ॥
इति ।
पतिगृहं प्रयान्ती शकुन्तलामधिकृत्य महर्षिः कण्वः तपोवनस्य वृक्षानुद्दिश्य महर्षिः कण्वः प्राह-
'पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या,
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवान् ।
आदौ वः कुसुमप्रवृत्तिसमये यस्याः भवत्युत्सवः,
सेयं याति शकुन्तला पतिगृहे सर्वैरनुज्ञायताम् ॥
इति ।
4. सौशील्यगुणसम्पन्ना शकुन्तला-
अखिलेऽस्मिन्नभिज्ञानशाकुन्तले शकुन्तमितभाषित्वम् तु तस्याः प्रधानो गुणआभाति । प्रायेण तस्याः अधिका अभिव्यक्तयः लाया: व्याहारव्यवहारयोः क्वापि औद्धत्यं नावलोक्यते, सर्वदा सा संयताऽयाति । मितभाषित्वम् तु तस्याः प्रधानो गुणआभाति। प्रायेण तस्याः अधिका अभिवक्तयः सहयोगिनामेव मुखेन भवन्ति इत्यवलोक्यते । यत्र क्वापि तस्या मनोगताभिप्रायानुकूलम् प्रियम्बदा-नसूया-गौतमी-कश्यपादित्यादिकाः वदन्ति, तत्र सा मौनमेवाकलयति, स्वयमेव किमपि नहि वदामीति तस्याः शीलस्य सीमा ।
5. पूज्यानां समादरकारिणी शकुन्तला -
शकुन्तला सर्वत्रात्मच्छन्द्वाचरणं वारयति सा सर्वदा सर्वत्र च गुरुजनानां पारतन्त्र्यमनुभवति। प्रथमाङ्के गुरुजनत्मनः प्राभविष्यम् । ' यदा परस्पर कामासक्ती शकुन्तला-दुष्यन्ती रहसि विहाय संख्यौ पारतन्त्र्यमनुभूयैवं विप्रयुक्ता भवति ।' तथा च सा---'नैतं जनं पर्याहरिष्यम् यद्यात्मनः प्राभविष्यम्। यदा परस्परं कामासक्तौ शकुन्तला-दुष्यन्तौ रहसि विहाय सख्यौ निर्गच्छतः तदा दुष्यन्तेन-
'कि शीकरैः क्लमविमर्दिभिरार्द्रवातम्,
संचालयामि नलिनीदलतालवृन्तम् ।
अङ्के निधाय चरणावृत पदलताम्रौ
संवाहयामिकभोरु यथा सुखं ते।।
'इति चाटुक्त्यानुनीयमाना मा वक्ति
'न माननीयेषु जनेषु आत्मानमपराधयिष्यामि ।'
इति ।
दुर्वाससः शापग्रस्तेन दुष्यन्तेन प्रत्याख्यातामपि शकुन्तलाम् विहाय यदा गौतमी शार्ङ्गरव शारद्वतमिश्राः स्वाश्रमाय प्रस्थानम् कुर्वन्ति तदा शकुन्तला तेषामनुगमनम् करोति । तां तथा कुर्वन्ती प्रेक्ष्य----'आः पुरोभागिनि ! किमिदं स्वातन्त्र्यमवलम्बते ?'
इति कुद्धः शार्ङ्गरवो यदा वक्ति तदा सा वेपते, किमप्यनुक्त्वा तत्रैव स्थिता भवति । सा जानाति यत् पुनः तेषामनुगमनम् गुरुजनानामवमाननायैव भविष्यतीति ।
सप्तमाङ्केऽपि दुष्यन्तेन सङ्गता सा कश्यपादित्योः समक्षम् दुष्यन्तेन सार्क नहि जिगमिपाति इति तस्याः महती गुरुजनेषु श्रद्धा दृश्यते ।
6. विनयवती शकुन्तला-
शकुन्तला सर्वथा विनयाचरणं तृतीयांके सहसा दुष्यन्तो तस्याः चैलाञ्चलं गृह्णाति तदा सा वक्ति- 'पौरव ! रक्षरक्ष विनयम् ।' इति । विनयाचरणादेव सा कदापि सख्योरुपरि क्रुद्धा नहि भवति । प्रियम्वदानसूयाभ्याम् तस्याः मनोनुकूले सम्पादितेऽपि राजनि सा लज्जाविनयवारिता सती वक्ति- 'हला ! अलं वाम् अन्तःपुरविरहपर्युत्सुकेन राजर्षिणा उपरुद्धेन ।' इति ।
7. पातिव्रत्यपरायणा शकुन्तला-
भारतीय पतिव्रतानां नारीणाम् आदर्शभूता शकुन्तला सम्पूर्णे शाकुन्तले पातिव्रत्यपरायणा प्रतीयते । पतिव्रतानामेकः पतिरेव परादेवता भवति लोके । पत्युरेवानुरञ्जनम्, तस्य मनोनुकूलाचरणञ्च पतिव्रतानामेकम् कर्म।