शार्ङ्गरव और शारद्वत का चरित्र-चित्रण
अभिज्ञानशाकुन्तलम् में शार्ङ्गरव और शारद्वत के व्यक्तित्व, गुरुभक्ति, तपस्वी जीवन, विचारधारा तथा नाट्यगत भूमिका का विश्लेषण।
शार्ङ्गरव एवं शारद्वत का चरित्र-चित्रण (हिन्दी में)
अभिज्ञानशाकुन्तल के ये दोनों पात्र महर्षि कण्व के शिष्य हैं। ये दोनों वयस्क प्रतीत होते हैं, इसीलिए महर्षि इन्हें पुकारते हुए इनके नाम के आगे ‘मिश्र’ शब्द का प्रयोग करते हैं। कण्व महर्षि के ही शब्दों में— ‘क्व नु ते शार्ङ्गरव शारद्वत मिश्राः ?’ किन्तु इन दोनों में भी शार्ङ्गरव बड़े प्रतीत होते हैं और शारद्वत छोटे। इसीलिए शार्ङ्गरव ही शकुन्तला को पतिगृह पहुँचाने वाले दल का नेतृत्व करता है। इसी के माध्यम से महर्षि कण्व राजा दुष्यन्त के लिए अपना सन्देश प्रेषित कराते हैं।
शार्ङ्गरव तथा शारद्वत इन दोनों कण्व शिष्यों में गुरु की भक्ति कूट-कूट कर भरी है। ये दोनों तपस्वी होने के साथ-साथ व्यवहाराभिज्ञ भी हैं, इसीलिए शकुन्तला को पहुँचाने जाते हुए महर्षि कण्व से कहते हैं— ‘भगवन् ! ओदकान्तं स्निग्धोऽनुगम्यते इति श्रूयते। तदिदं सरस्तीरम् अत्र नः सन्दिश्य प्रतिगन्तुमर्हसि।’
ये दोनों जब राजदरबार में पहुँचते हैं तो हाथ उठाकर प्रणाम करने वाले राजा को आशीर्वाद देते हुए कहते हैं— ‘स्वस्ति देवाय।’
शार्ङ्गरव तथा शारद्वत इन दोनों कण्व शिष्यों के विचारों में भिन्नता है। शार्ङ्गरव एकान्त में रहने का अभ्यासी है। वह नगर को आग लगे हुए भवन के समान मानता है। वह कहता है—
‘महाभागः कामं नरपतिरभिन्नस्थिति रसौ,
न कश्चिद् वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत् परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥’
किन्तु शारद्वत ऐसा न सोचकर कुछ दूसरे ही प्रकार से सोचता है। उसके मन में नागरिकों के प्रति अपवित्रता की भावना अधिक है। वह कहता है—
‘अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगतिः जनमिह सुखसङ्गिनमवैमि ॥’
शार्ङ्गरव तथा शारद्वत जब राजा के दरबार में पहुँचते हैं, उस समय राजा के द्वारा शकुन्तला के साथ अपने विवाह की बात नहीं स्वीकार किए जाने पर शार्ङ्गरव क्रुद्ध होता है और वार्तालाप के प्रसङ्ग में राजा को चोर कहते हुए कहता है—
‘कृतावमर्शामनुमन्यमानः सुतां त्वयानाम मुनिर्विमान्यः ।
मुष्टं प्रतिग्राह्यता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥’
राजा के द्वारा शकुन्तला के साथ अपने विवाह की बात नहीं स्वीकार किए जाने पर शार्ङ्गरव यहाँ तक कहता है— ‘मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तानाम् ॥’
किन्तु शारद्वत का स्वभाव शार्ङ्गरव की अपेक्षा अधिक शान्त है। वह शकुन्तला से कहता है कि तुम ऐसा कोई उत्तर दो कि राजा तुम पर विश्वास करें—
‘शार्ङ्गरव विरम त्वमिदानीम्, शकुन्तले ! वक्तव्यमुक्तमस्माभिः ।
सोऽयमत्रभवानेवमाह दीयतामस्मै प्रत्ययप्रतिवचनम् ।’
और शार्ङ्गरव भी शारद्वत के विचारों का स्वागत करता है। राजा से तिरस्कृत शकुन्तला जब रोने लगती है तो शार्ङ्गरव कहता है कि इस प्रकार का अमर्यादित चांचल्य दुःखद ही होता है— ‘इत्थमप्रतिहतं चांचल्यं दहति।’ अतएव एकान्तमित्रता तो खूब अच्छी तरह से परीक्षा करने के पश्चात् ही करनी चाहिए। अज्ञात व्यक्ति के साथ किया हुआ प्रेम तो शत्रुत्व के ही रूप में परिणत होता है।
‘अतः परीक्ष्य कर्तव्यम् विशेषात् सङ्गतं रहः ।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥’
अन्त में विवाद को उपराम देते हुए शार्ङ्गरव राजा से कहता है कि हम लोगों ने अपने गुरु की आज्ञा का पालन कर लिया, अतएव अब तपोवन लौट रहे हैं। यह आपकी पत्नी है, इसे त्यागें अथवा स्वीकार करें, यह आप पर निर्भर करता है क्योंकि पति का ही पत्नी पर सब प्रकार का अधिकार होता है।
‘तदेषा भवतः पत्नी त्यजैनां गृहाण वा।
उपयन्तुर्हि दारेषु प्रभुता सर्वतोमुखी ॥’
शकुन्तला को छोड़कर जाते हुए गौतमी शार्ङ्गरव तथा शारद्वत का अनुगमन करती हुई शकुन्तला को देखकर उसकी भर्त्सना करता हुआ शार्ङ्गरव कहता है— ‘आः पुरोभागिनि ! किमिदं स्वातन्त्र्यमवलम्बसे।’
अतः इस तरह शार्ङ्गरव तथा शारद्वत दोनों गुरुभक्त तथा तपस्वी हैं। इसके साथ-साथ वे भारतीय धर्मशास्त्र के पूर्ण अभिज्ञ हैं।
शार्ङ्गरवशारद्वतयोश् चरित्रचित्रणम् (संस्कृत में)
अभिज्ञानशाकुन्तलस्य शार्ङ्गरवशारद्वतौ महर्षेः कण्वस्य शिष्यौ स्तः। इमौ उभावपि वयस्कौ प्रतीयेते। एतस्मादेव हेतोः महर्षिः कण्वः अनयोराह्वानकाले अनयोः मिश्रशब्देनाह्वानं करोति। तद्यथा— ‘क्व नु ते शार्ङ्गरव शारद्वत मिश्राः ?’ इति प्राह महर्षिः कण्वः। किन्तु अनयोरुभयोः शार्ङ्गरवः ज्येष्ठः, वार्तालापपटुः, मुखरः, प्रत्युत्पन्नमतिश्चाभाति।
शकुन्तलायाः पतिगृहप्रेषणकाले स्नेहवशः महर्षिः कण्वः तया साकं दूरं यावत् याति। तदा शार्ङ्गरवः समयोचितं कथयन् वक्ति— ‘भगवन् ! ओदकान्तं स्निग्धोऽनुगम्यते इति श्रूयते। तदिदं सरस्तीरम् अत्र नः सन्दिश्य प्रतिगन्तुमर्हसि।’ शार्ङ्गरव एव पतिगृहं गच्छन्त्याः शकुन्तलायाः नेतृदलस्य नेतृत्वं करोति। अस्यैव माध्यमेन महर्षिः कण्वो राज्ञे दुष्यन्ताय सन्देशं प्रेषयति।
यदा शार्ङ्गरवशारद्वतौ राज्ञो दुष्यन्तस्य सभायामुपस्थितौ भवतः, तदा ताभ्यां प्रणामकर्त्रे हस्तौ प्रोद्यतौ। तौ कथयतः— ‘स्वस्ति देवाय।’
यद्यपि शार्ङ्गरवशारद्वतावुभावेव कण्वमहर्षेः प्रियशिष्यौ स्तः, तथापि तयोः विचारेषु वैषम्यमपि वर्तते। शार्ङ्गरवः एकान्ते निवासकरणे अभ्यस्तो विद्यते। अतएव सः नगरमग्निप्रदीप्तभवनमिव मन्यते। सः वक्ति—
‘महाभागः कामं नरपतिरभिन्नस्थिति रसौ,
न कश्चिद् वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत् परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥’
किन्तु शारद्वतो नागरिकाणां विषये भिन्नप्रकारेणैव शोचति। तस्य मनसि नागरिकाणां विषयेऽपवित्रतायाः भावना प्रबला वर्तते। सः वक्त्यपि—
‘अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगतिः जनमिह सुखसङ्गिनमवैमि ॥’
राज्ञो दुष्यन्तस्य सभायां गतौ शार्ङ्गरवशारद्वतौ तदा क्रुद्धौ भवतः, यदा राजा दुष्यन्तः शकुन्तलया साकं कृतं स्वकीयं पूर्वकालिकं परिणयं न स्वीकरोति। शार्ङ्गरवस्तं राजानं चौरशब्देनाभिधत्ते। सः वक्ति—
‘कृतावमर्शामनुमन्यमानः सुतां त्वयानाम मुनिर्विमान्यः ।
मुष्टं प्रतिग्राह्यता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥’
राजा शकुन्तलया साकं स्वकीयस्य पूर्वपरिणयस्यास्वीकारे शार्ङ्गरवमपि वक्ति— ‘मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तानाम् ॥’
किन्तु शारद्वतस्य विचारः शार्ङ्गरवापेक्षयाधिकः शान्तो वर्तते। सः शकुन्तलां वक्ति— यदस्माभिस्तु यद् वक्तव्यमासीत् तत्सर्वं कथितम्। अतएव त्वया तथाविधमुत्तरं देयं येन राजा विश्वस्तो भवेत्। तथाहि—
‘शार्ङ्गरव ! विरम त्वमिदानीम्, शकुन्तले ! वक्तव्यमुक्तमस्माभिः ।
सोऽयमत्रभवानेवमाह, दीयतामस्मै प्रत्ययप्रतिवचनम् ।’
शार्ङ्गरवोऽपि शारद्वतस्य कथनं समर्थयति। राज्ञा तिरस्कृता शकुन्तला यदा चेलाञ्चलेन मुखमाच्छाद्य रोदिति तदा शार्ङ्गरवो वक्ति यत् एतादृशमर्यादितं चापल्यम् दुःख एव परिगतं भवति। तथा च— ‘इत्थमप्रतिहतं चांचल्यं दहति।’ इति। अतएवैकान्तिकं मिलनं तु सम्यक् परीक्ष्यैव कर्तव्यम् भवति। अज्ञातः पुरुषः साकं कृतः स्नेहस्तु शत्रुता रूपेणैव परिणमते।
‘अतः परीक्ष्य कर्तव्यम् विशेषात् सङ्गतं रहः ।
अज्ञातहृदयेष्वेवं वैरी भवति सौहृदम् ॥’
अन्ते विवादं समापयन् शार्ङ्गरवो राजानं वक्ति यदस्माभिस्तु गुरोराज्ञा पालिता, पुनराश्रमं प्रति गम्यतेऽस्माभिः। इयं भवतः पत्नी वर्तते, इमां भवान् गृह्णातु त्यजतु वेति भवति निर्भरम्, यतः पत्युरेव पत्न्याः सर्वाधिकारो भवति।
‘तदेषा भवतः पत्नी त्यजैनां गृहाण वा।
उपयन्तुर्हि दारेषु प्रभुता सर्वतोमुखी ॥’
शकुन्तलां राजगृहे एव विहाय गच्छन्तीं गौतमी शार्ङ्गरवशारद्वतानाम् अनुगमनं कुर्वतीं शकुन्तलामवलोक्य तां भर्त्सयन् शार्ङ्गरवो वक्ति— ‘आः पुरोभागिनि ! किमिदं स्वातन्त्र्यमवलम्ब्यसे।’ इति। तन्मतानुसारेण स्त्रीस्वातन्त्र्यं नार्हति।
इत्थं शार्ङ्गरवशारद्वतावुभावेव गुरुभक्तौ कण्वमहर्षेः शिष्यौ, तपस्विनौ च स्तः। साकमेव तौ भारतीयधर्मशास्त्रस्याभिज्ञावपि विद्येते। वननिवासाभ्यस्तत्वात् नागरकावासस्ताभ्यां न रोचते। अतएव तौ नगरे गत्वा तत्रत्यानां जनानामाचरणं स्वमनोविरुद्धमनुभवतः। तयोर्मतानुसारेण स्वकर्तव्यस्य पालनं सर्वैरैव कर्तव्यम्। सर्वेषां मानवानां शास्त्रवश्यत्वात् शास्त्रं सर्वेषां मानवानां नियमं करोति। तेषां नियमानां पालनमेव कर्तव्यकोटावाटीकते। राज्ञः प्रत्यायाश्च अधिकाराः सीमिता एव भवन्ति। निस्सीमाधिकारानुभवः केनापि नहि करणीयः इति शार्ङ्गरवशारद्वतयोरभिप्रायः अभिज्ञानशाकुन्तलस्याध्ययनेन प्रतीयते।
