रघुवंशम् - प्रथम सर्ग

चन्द्र देव त्रिपाठी 'अतुल'
0
रघुवंशम् महाकाव्य — प्रथम सर्ग

रघुवंशम् महाकाव्य — प्रथम सर्ग

महाकवि कालिदासकृत रघुवंशम् महाकाव्य के प्रथम सर्ग के श्लोक, अन्वय, शब्दार्थ, सन्दर्भ, प्रसङ्ग, संस्कृत व्याख्या, हिन्दी व्याख्या, हिन्दी अर्थ एवं टिप्पणी।

श्लोक 01

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।।1।।

अन्वय

वागर्थौ इव सम्पृक्तौ जगतः पितरौ पार्वतीपरमेश्वरौ वागर्थप्रतिपत्तये (अहं) वन्दे ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

महाकविः कालिदासः रघुवंशाख्यं महाकाव्यं चिकीर्षुः सर्वप्रथमं ग्रन्थनिर्विघ्नपरिसमाप्त्यर्थं स्वशिष्यशिक्षायै च ग्रन्थादौ नमस्कारात्मकं मङ्गलश्लोकं प्रस्तौति ।

संस्कृत व्याख्या

वागर्थौ = वाचकवाच्यौ, इव यथा, सम्पृक्तौ नित्यमिलितौ, शब्दार्थयोर्नित्यसम्बन्धत्वादिति भावः, जगतः = लोकस्य, पितरौ-माता = जननी, पिता = जनकः चेति, पितरौ = जनकौ, पार्वतीपरमेश्वरौ-पार्वती = भवानी, परमेश्वरश्च = शङ्करश्च, पार्वतीपरमेश्वरी = गौरीशिवौ, वागर्थप्रतिपत्तये वाचकवाच्ययथार्थज्ञानाय, अहं कालिदास इति शेषः, वन्दे = अभिवादये । अत्रानुष्टुव्वृत्तम् । तद्यथा- "श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः" । अत्रोपमाऽलङ्कारः । तद्यथा- "साम्यं वाच्यमवैधर्म्य वाक्यैक्य उपमा द्वयोः" ।

हिन्दी व्याख्या

वागर्थौ इव = शब्द और अर्थ की तरह, सम्पृक्तौ = मिले हुए, जगतः = संसार के, पितरौ = माता-पिता, पार्वतीपरमेश्वरौ = पार्वती एवं शंकर को, वागर्थप्रतिपत्तये = शब्द एवं अर्थ के ज्ञान के लिए, वन्दे = मैं (कालिदास) प्रणाम करता हूँ ।

हिन्दी अर्थ

शब्द और अर्थ की तरह नित्य मिले हुए संसार के माता-पिता पार्वती-शिव को शब्द और अर्थ के यथार्थ ज्ञान के लिए मैं (कालिदास) प्रणाम करता हूँ ॥1॥

टिप्पणी

-

श्लोक 02

क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।।2।।

अन्वय

सूर्यप्रभवः वंशः क्व, अल्पविषया मतिः क्व च, (अहं) दुस्तरं सागरम् मोहात् उडुपेन तितीर्षुः अस्मि ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन सूर्यकुलोत्कर्षं प्रदर्शयन् स्वगौरवं परिहरति ।

संस्कृत व्याख्या

सूर्यप्रभवः वंशः क्व, सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः । अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व । द्वौ क्व शब्दौ महदन्यतरं सूचयतः । सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः । तथा च तद्विषयप्रबन्धनिरूपणं तु दूरापास्तमिति भावः । दुस्तरं तरितुमशक्यम्, सागरं मोहादज्ञानादुडुपेन प्लवेन । तितीर्षुस्तरीतुमिच्छुरस्मि भवामि । तरतेः सन्नन्तादुप्रत्ययः । अल्पसाधनैरधिकारम्भो न सुकर इति भावः । इदं च वंशोत्कर्षकथनं स्वप्रबन्धमहत्त्वार्थमेव ।

हिन्दी व्याख्या

सूर्यप्रभवः = सूर्य से उत्पन्न, वंशः = वंश, क्व = कहाँ, च = तथा, अल्पविषया = थोड़े से विषय को ग्रहण करने वाली, मतिः = मेरी बुद्धिः, क्व = कहाँ, दुस्तरम् = दुस्तर, दुर्लङ्घ्य, सागरम् = सागर को, मोहात् = मोहवश, अज्ञानवश, उडुपेन = छोटी नाव से, तितीर्षुः = तैरने का इच्छुक, अस्मि = हूँ ।

हिन्दी अर्थ

कहाँ तो सूर्यवंश और कहाँ मेरी सीमित बुद्धि, मैं अज्ञान से छोटी नाव के द्वारा दुस्तर सागर को पार करना चाहता हूँ ॥2॥

टिप्पणी

-

श्लोक 03

मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः ।।3।।

अन्वय

(अहं) मन्दः कवियशः प्रार्थी प्रांशुलभ्ये फले लोभात् उद्वाहुः वामनः इव उपहास्यतां गमिष्यामि ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन सूर्यवंशोत्कर्षं सूचयन् स्वगौरवं परिहरति ।

संस्कृत व्याख्या

अहमित्यध्याहार्यम्, मन्दः = मूढः, तथापीति शेषः, कवियशःप्रार्थी = कवीनां यशः कवियशः, तस्य प्रार्थी कवियशः प्रार्थी = काव्यकर्तृसमज्ञाभिलाषी, प्रांशुलभ्ये = प्रांशुना लभ्यस्तस्मिन् प्रांशुलभ्ये उन्नतपुरुषप्राप्ये, फले आम्रादौ, लोभात् लिप्सायाः, उद्वाहुः = उच्छ्रितौ बाहू यस्य स तथोक्तः, उद्वाहुः ऊर्ध्वभुजः, वामनः = खर्वः, इव यथा, उपहास्यताम् = उपहासयोग्यतां, गमिष्यामि = प्राप्स्यामि । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोपमा ।

हिन्दी व्याख्या

कवियशः = कवियों के यश का, प्रार्थी = अभिलाषुक, मन्दः = मैं मूर्ख (कालिदास), प्रांशुलभ्ये = लम्बी भुजाओं वाले व्यक्तियों से लक्ष्य (पाने योग्य), फले = फल के लिए, लोभात् = लालचवश, उद्वाहुः = ऊपर की ओर अपनी बाहु को उठाये हुए, वामनः इव = वामन (बौने) व्यक्ति की तरह, उपहास्यताम् = उपहास का पात्र, गमिष्यामि = होऊँगा ।

हिन्दी अर्थ

कवियों के यश को चाहने वाला मैं मूर्ख (कालिदास) लम्बे हाथों वाले (लम्बे पुरुषों) से तोड़ने योग्य फल के लिए लोभ से ऊपर की ओर बाहों को उठाये बौने (वामन) व्यक्ति की तरह हँसी का पात्र बन जाऊँगा ॥3॥

टिप्पणी

-

श्लोक 04

अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ।।4।।

अन्वय

अथवा पूर्वसूरिभिः कृतवाग्द्वारे अस्मिन् वंशे वज्रसमुत्कीर्णे मणौ सूत्रस्य इव मे गतिः अस्ति ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन कविः रघुवंशवर्णने स्वामवस्थाम्प्रतिपादयति ।

संस्कृत व्याख्या

अथवा पक्षान्तरे, पूर्वैः सूरिभिः कविभिर्वाल्मीक्यादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रबन्धरूपा या वाक् सैव द्वारं प्रवेशो यस्य तस्मिन्, अस्मिन् सूर्यप्रभवे वंशे कुले, जन्मनैकलक्षणः सन्तानो वंशवज्रेण मणिवेधकसूचीविशेषेण समुत्कीर्णे विद्धे मणौ रत्ने सूत्रस्येव मे मम गतिः संचारोऽस्ति । वर्णनीये रघुवंशे मम वाक्प्रसरोऽस्तीत्यर्थः ।

हिन्दी व्याख्या

अथवा = अथवा, पूर्वसूरिभिः = प्राचीन कवियों वाल्मीकि व्यासादि के द्वारा, कृतवाग्द्वारे = रचित ग्रन्थों के द्वारा, अस्मिन् = इस, वंशे = वंश में अर्थात् सूर्यवंश के वर्णन में, वज्रसमुत्कीर्णे = वज्र के द्वारा छेद किये गये, मणौ = मणि में, सूत्रस्य इव = सूत्र की तरह, मे = मेरी, गतिः = गति, प्रवेश, अस्ति = है ।

हिन्दी अर्थ

अथवा प्राचीन कवियों वाल्मीकि व्यासादि के द्वारा रचित रामायणादि ग्रन्थों के द्वारा सूर्यवंश का वर्णन कर दिये जाने पर सूर्यवंश के वर्णन में मेरा प्रवेश वज्र के द्वारा छेद किए गए मणि में सूत्र (धागे) की तरह है ॥4॥

टिप्पणी

-

श्लोक 05

सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ।।5।।

अन्वय

सः अहम् आजन्मशुद्धानाम् आफलोदयकर्मणाम् आसमुद्रक्षितीशानाम् आनाकरथवर्त्मनां 'रघूणामन्वयं वक्ष्ये' इति नवमश्लोकस्थेन वाक्यांशेन सहान्वयः ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन महाकविः रघुवंशनृपाणामाजन्मशुद्धादिगुणानां वर्णनमुपस्थापयति ।

संस्कृत व्याख्या

सः अहम् । 'रघूणामन्वयं वक्ष्ये' इत्युत्तरेण सम्बन्धः । किंविधानां रघूणामित्यत्रोत्तराणि विशेषणानि योज्यानि । आजन्मनः जन्मारभ्येत्यर्थः । शुद्धानाम् निषेकादिसर्वसंस्कारसंपन्नानामित्यर्थः । आफलोदयमाफलसिद्धेः कर्म येषां ते तथोक्तास्तेषाम् । प्रारब्धान्तगामिनामित्यर्थः । आसमुद्रं क्षितेरीशानाम् सार्वभौमाणामित्यर्थः । आनाकं रथवर्त्म येषां तेषाम् इन्द्रसहचारिणामित्यर्थः । अत्र सर्वत्राङोऽभिविध्यर्थत्वं द्रष्टव्यम् ।

हिन्दी व्याख्या

सः अहम् = वह मैं (कालिदास), आजन्मशुद्धानाम् = जन्म से ही निषेक आदि संस्कारों से संस्कृत, आफलोदयकर्मणाम् = कार्य की सिद्धिपर्यन्त प्रयत्नशील, आसमुद्रक्षितीशानाम् = समुद्रपर्यन्त पृथ्वी के अधिपति, आनाकरथवर्त्मनाम् = स्वर्ग तक रथ ले जाने वाले (रघुवंशीय राजाओं का वर्णन करूँगा) ।

हिन्दी अर्थ

वह (पूर्वोक्त) मैं (कालिदास) जन्म से ही निषेकादि संस्कारों से संस्कृत, कार्य की सिद्धिपर्यन्त प्रयत्नशील, समुद्रपर्यन्त पृथ्वी के अधिपति, स्वर्ग तक रथ ले जाने वाले रघुओं (रघुवंशजों) के कुल का वर्णन करूँगा ॥5॥

टिप्पणी

-

श्लोक 06

यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां यथाकालप्रबोधिनाम् ।।6।।

अन्वय

यथाविधिहुताग्नीनां यथाकामार्चितार्थिनां यथापराधदण्डानां यथाकालप्रबोधिनाम् ('रघूणामन्वयं वक्ष्ये' इति नवमपद्यस्थेन सहान्वयः) ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन महाकविः रघुवंशनृपाणामाजन्मशुद्धादिगुणानां वर्णनमुपस्थापयति ।

संस्कृत व्याख्या

यथाविधिहुताग्नीनां विधिमनतिक्रम्य यथाविधि, यथाविधि हुताः अग्नयो यैस्ते तेषां यथाविधिहुताग्नीनां वेदविहितविधिनानुकूलकृतहोमानां, यथाकामार्चितार्थिनां काममनतिक्रम्य यथाकामम्, यथाकाममर्चिताः अर्थिनो यैस्ते तेषाम् इच्छानुसारपूजितयाचकानां, यथापराधदण्डानाम् अपराधमनतिक्रम्य यथापराधं, यथापराधं दण्डो येषान्ते तेषां यथापराधदण्डानाम् आगमानुरूपदण्डानां, यथाकालप्रबोधिनां कालमनतिक्रम्य यथाकालं, यथाकालं प्रबोधिनस्तेषां यथाकालप्रबोधिनाम् अवसरेऽवधानवतां रघूणामन्वयं वक्ष्ये इत्यग्रेण सह सम्बन्धः । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

यथाविधिहुताग्नीनाम् = वेदविहितविधानुरूप हवन करने वाले, यथाकामार्चितार्थिनाम् = इच्छानुसार याचकों को दान देने वाले, यथापराधदण्डानाम् = दोष के अनुसार दण्ड देने वाले, यथाकालप्रबोधिनाम् = उचित अवसर पर जाग जाने वाले (सावधान होने वाले) ।

हिन्दी अर्थ

वेदविहित विधानानुरूप हवन करने वाले, इच्छानुसार याचकों को दान देने वाले, दोष के अनुसार दण्ड देने वाले और उचित अवसर पर सावधान होने वाले (रघुओं के कुल का मैं वर्णन करूँगा) ॥6॥

टिप्पणी

-

श्लोक 07

त्यागाय सम्भृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ।।7।।

अन्वय

त्यागाय सम्भृतार्थानां, सत्याय मितभाषिणां, यशसे विजिगीषूणां, प्रजायै गृहमेधिनां (रघूणामन्वयं वक्ष्ये इत्यग्रेण सह सम्बन्धः) ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन महाकविः रघुवंशनृपाणामाजन्मशुद्धादिगुणानां वर्णनमुपस्थापयति ।

संस्कृत व्याख्या

त्यागाय सत्पात्रे विनियोगस्त्यागस्तस्मै, संभृतार्थानां संचितधनानाम्, न तु दुर्व्यापाराय, सत्याय मितभाषिणां मितभाषणशीलानाम्, न तु पराभवाय, यशसे कीर्तये, विजिगीषूणां विजेतुमिच्छूनाम्, न त्वर्थसंग्रहाय, प्रजायै सन्तानाय गृहमेधिनां दारपरिग्रहाणां, न तु कामोपभोगाय । एभिर्विशेषणैः परोपकारित्वं सत्यवचनत्वं यशःपरत्वं पितृणां शुद्धत्वं च विवक्षितानि ।

हिन्दी व्याख्या

त्यागाय = त्याग के लिए (दान देने के लिए), सम्भृतार्थानाम् = संचित धन वाले (धन बटोरने वाले), सत्याय = सत्य के लिए, मितभाषिणाम् = कम बोलने वाले, यशसे = यश के लिए, विजिगीषूणाम् = विजय की इच्छा करने वाले, प्रजायै = सन्तान के लिए, गृहमेधिनाम् = स्त्रीपरिग्रह करने वाले (विवाह करने वाले न कि भोग-विलास के लिए) ।

हिन्दी अर्थ

दान (त्याग) के लिए धन बटोरने वाले, सत्य के लिए कम बोलने वाले, यश के लिए विजय की इच्छा करने वाले, सन्तान के लिए स्त्री-सम्भोग करने वाले (रघुओं के कुल का मैं वर्णन करूँगा) ॥7॥

टिप्पणी

-

श्लोक 08

शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्द्धक्ये मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ।।8।।

अन्वय

शैशवे अभ्यस्तविद्यानां, यौवने विषयैषिणां, वार्द्धके मुनिवृत्तीनाम् अन्ते योगेन तनुत्यजां (रघूणाम् अन्वयं वक्ष्ये इत्यग्रेण सह सम्बन्धः) ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन महाकविः रघुवंशनृपाणामाजन्मशुद्धादिगुणानां वर्णनमुपस्थापयति ।

संस्कृत व्याख्या

शिशोर्भावः शैशवं बाल्यम् । तस्मिन् वयसि अभ्यस्तविद्यानाम् । एतेन ब्रह्मचर्याश्रमो विवक्षितः । यूनो भावो यौवनं तारुण्यम् । तस्मिन् वयसि विषयैषिणाम् भोगाभिलाषिणाम् । एतेन गृहस्थाश्रमो विवक्षितः । वृद्धस्य भावो वार्द्धकम् वृद्धत्वम् । तस्मिन् वार्द्धके वयसि मुनीनां वृतिरिव वृत्तिर्येषां तेषाम् । एतेन वानप्रस्थाश्रमो विवक्षितः । अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन तनुं देहं त्यजन्तीति तनुत्यजां देहत्यागिनाम् । एतेन भिक्ष्वाश्रमो विवक्षितः ।

हिन्दी व्याख्या

शैशवे = बाल्यावस्था में, अभ्यस्तविद्यानाम् = शास्त्रों का अभ्यास किये हुए, यौवने = युवावस्था में, विषयैषिणाम् = भोग-विलास की इच्छा करने वाले, वार्द्धके = वृद्धावस्था में, मुनिवृत्तीनाम् = मुनियों का आचरण करने वाले, अन्ते = अन्त में, योगेन = योग के द्वारा, तनुत्यजाम् = शरीर छोड़ने वाले, रघुवंशीय नृपों के कुल का मैं वर्णन करूँगा ।

हिन्दी अर्थ

बाल्यावस्था में शास्त्रों का अभ्यास किये हुए, युवावस्था में भोग-विलास की इच्छा करने वाले, वृद्धावस्था में मुनियों का आचरण करने वाले, अन्त में योग के द्वारा शरीर छोड़ने वाले (रघुओं के वंश का वर्णन करूँगा) ॥8॥

टिप्पणी

-

श्लोक 09

रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ।।9।।

अन्वय

तनुवाग्विभवः अपि सन् तद्गुणैः कर्णम् आगत्य चापलाय प्रचोदितः रघूणाम् अन्वयं वक्ष्ये ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन महाकविः रघुवंशनृपाणामाजन्मशुद्धादिगुणानां वर्णनमुपस्थापयति ।

संस्कृत व्याख्या

सः अहम् कालिदासः, सोऽहमिति पञ्चमश्लोकेन सह सम्बन्धः, तनुवाग्विभवः = वाचां विभवः वाग्विभवः, तनु वाग्विभवो यस्य सः तथाभूतः = अल्पज्ञः, अपि सन् भवन्, तद्गुणैः तेषां गुणैः = रघुगुणैः, कर्णम् श्रोत्रम्, आगत्य = प्राप्य, चापलाय चाञ्चल्याय, प्रचोदितः = प्रेरितः, सन् इति शेषः, रघूणां रघुवंशजानाम् अन्वयं = गोत्रं, वक्ष्ये = कथयिष्ये । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

तनुवाग्विभवः अपि = अल्पज्ञ होते हुए भी, सन् = होते हुए (थोड़ा जानने वाला) भी मैं कालिदास, तद्गुणैः = उन गुणों के, कर्णम् = कानों में, आगत्य = आकर, चापलाय = चपलता के द्वारा, अर्थात् उन गुणों के कानों में पड़ने से उत्पन्न चपलता द्वारा, प्रचोदितः = प्रेरित होकर, रघूणाम् = रघुवंशीय नृपों के, अन्वयम् = कुल का, अहं वक्ष्ये = मैं (कालिदास) वर्णन करूँगा ।

हिन्दी अर्थ

थोड़ा जानने वाला भी मैं (कालिदास) रघुवंशियों के गुणों के कान में पड़ने से उत्पन्न चञ्चलता द्वारा प्रेरित होकर उनके वंश का वर्णन करूँगा ॥9॥

टिप्पणी

-

श्लोक 10

तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ।।10।।

अन्वय

तं सदसद्व्यक्तिहेतवः सन्तः श्रोतुम् अर्हन्ति हि हेम्नः विशुद्धिः श्यामिका अपि वा अग्नौ संलक्ष्यते ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

अस्य महाकाव्यस्य श्रवणाधिकारिणः प्रतिपादयति ।

संस्कृत व्याख्या

तं रघुवंशाख्यं प्रबन्धं सदसतोर्गुणदोषयोर्व्यक्तेर्हेतवः कर्तारः सन्तः श्रोतुमर्हन्ति, तथाहि हेम्नो विशुद्धिनिर्दोषस्वरूपं श्यामिकापि लौहान्तरसंसर्गात्मको दोषोऽपि वाग्नौ संलक्ष्यते, नान्यत्र । तद्वदत्रापि सन्त एव गुणदोषविवेकाधिकारिणः न्याय इति भावः । अत्रानुष्टुब्वृत्तम् । अत्रार्थान्तरन्यासोऽलङ्कारः ।

हिन्दी व्याख्या

सदसद्व्यक्तिहेतवः = सद्-असद् व्यक्ति के हेतु अर्थात् गुण तथा दोषों के ज्ञाता, सन्तः = सज्जन, तम् = उस रघुवंशमहाकाव्य को, श्रोतुम् = सुनने (पढ़ने) के योग्य, हि = क्योंकि, हेम्नः = सोने की, विशुद्धिः = शुद्धता, वा = अथवा, श्यामिका अपि = सदोषता भी, अग्नौ = अग्नि में, संलक्ष्यते = जानी जाती है ।

हिन्दी अर्थ

गुण-दोषों के जानकार सज्जन रघुवंश-महाकाव्य को सुनने (पढ़ने) के योग्य हैं, क्योंकि सोने की शुद्धता (खरापन) अथवा दोष (खोटापन) भी आग में ही जाना जाता है ॥10॥

टिप्पणी

-

श्लोक 11

वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ।।11।।

अन्वय

मनीषिणां माननीयः छन्दसां प्रणवः इव महीक्षिताम् आद्यः वैवस्वतः नाम मनुः आसीत् ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन महाकविः रघुवंशकारणभूतं मनुं वर्णयति ।

संस्कृत व्याख्या

मनीषिणाम् मनसः ईषिणो मनीषिणस्तेषां पण्डितानां, माननीयः = वन्द्यः, छन्दसां वेदानां, प्रणवः = ओंकारः, इव यथा, महीक्षितां अधिपानां, आद्यः = प्रथमः, वैवस्वतः = विवस्वदपत्यं पुमान्, नाम 'वैवस्वत' इत्यभिधेयः, मनुः = मनूनामन्यतमः प्रथमो मनुः, आसीत् = बभूव । अत्रानुष्टुव्वृत्तम् । अत्रोपमाऽलङ्कारः ।

हिन्दी व्याख्या

मनीषिणाम् = विद्वानों में, माननीयः = माननीय, पूज्य, छन्दसाम् = वेदों में, प्रणवः इव = प्रणव, ओंकार के समान, महीक्षिताम् = राजाओं में, आद्यः = आद्य, प्रथम, वैवस्वतः नाम = वैवस्वत नामक, मनुः = मनु, आसीत् = हुए ।

हिन्दी अर्थ

विद्वानों में पूज्य, वेदों में ओंकार के समान राजाओं में प्रथम वैवस्वत नामक मनु था ॥11॥

टिप्पणी

-

श्लोक 12

तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ।।12।।

अन्वय

शुद्धिमति तदन्वये शुद्धिमत्तरः दिलीप इति राजेन्दुः क्षीरनिधौ इन्दुः इव प्रसूतः ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

वैवस्वतमनोरन्वये दिलीपाभिधेयं राजानं वर्णयति ।

संस्कृत व्याख्या

शुद्धिमति = परिपूते, तदन्वये = तस्यान्वये मनुगोत्रे, शुद्धिमत्तरः = अतिशयपवित्रः, दिलीपः तदभिधेयः, इति प्रसिद्धः, दिलीपनाम्नेति यावत्, राजेन्द्रः = राज्ञामिन्दुः नृपचन्द्रः, अधिपश्रेष्ठ इति यावत्, क्षीरनिधौ = क्षीरस्य निधौ पयोदधौ, इन्दुः = चन्द्रमा, इव = यथा, प्रसूतः = समुत्पन्नः । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोपमा ।

हिन्दी व्याख्या

शुद्धिमति = पवित्र, तदन्वये = उन मनु के वंश में, शुद्धिमत्तरः = अत्यन्त पवित्र, दिलीपः इति = दिलीप इस नाम वाले, राजेन्द्रः = राजाओं में श्रेष्ठ, क्षीरनिधौ = क्षीरसागर में, इन्दुः इव = चन्द्रमा के जैसे, प्रसूतः = उत्पन्न हुए ।

हिन्दी अर्थ

मनु के पवित्र वंश में अत्यन्त पवित्र राजाओं में श्रेष्ठ दिलीप नामक राजा, क्षीरसागर में चन्द्रमा के समान उत्पन्न हुआ ॥12॥

टिप्पणी

-

श्लोक 13

व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ।।13।।

अन्वय

व्यूढोरस्कः वृषस्कन्धः शालप्रांशुः महाभुजः आत्मकर्मक्षमं देहम् आश्रितः क्षात्रः धर्मः इव (स्थितः) ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन महाराजं दिलीपं वर्णयति ।

संस्कृत व्याख्या

व्यूढं विपुलमुरो यस्य स व्यूढोरस्कः, वृषस्य स्कन्ध इव स्कन्धो यस्य स तथा, शालो वृक्ष इव प्रांशुरुन्नतः शालप्रांशुः, महाभुजो महाबाहुः, आत्मकर्मक्षमं स्वव्यापारानुरूपं देहमाश्रितः प्राप्तः, क्षात्रः क्षत्रसम्बन्धी धर्म इव स्थितः । मूर्तिमान् पराक्रम इव स्थित इत्युत्प्रेक्षा ।

हिन्दी व्याख्या

व्यूढोरस्कः = चौड़ी छाती वाले, वृषस्कन्धः = बैलों के समान पुष्ट कन्धों वाले, शालप्रांशुः = शालवृक्ष की तरह ऊँचे, महाभुजः = बड़ी-बड़ी भुजाओं वाले, आत्मकर्मक्षमम् = अपने कार्य के अनुरूप, देहम् = शरीर को, आश्रितः = धारण किये हुए, क्षात्रधर्मः इव = मानो क्षत्रिय धर्म ने ही शरीर धारण कर लिया हो ।

हिन्दी अर्थ

चौड़ी छाती वाले, बैलों के समान पुष्ट कंधों वाले, शालवृक्ष की तरह ऊँचे, बड़ी-बड़ी भुजाओं वाले, अपने कार्य के अनुरूप शरीर को धारण किये हुए क्षत्रिय धर्म ने ही मानो शरीर धारण कर लिया हो, (ऐसा दिलीप प्रतीत होते थे) ॥13॥

टिप्पणी

-

श्लोक 14

सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना ।
स्थितः सर्वोन्नतेनोर्वी क्रान्त्वा मेरुरिवात्मना ।।14।।

अन्वय

सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना सर्वोन्नतेन आत्मना मेरुः इव उर्वीम् क्रान्त्वा स्थितः ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन महाकविः वर्णयति दिलीपमधिपम् ।

संस्कृत व्याख्या

सर्वातिरिक्तसारेण = सर्वेभ्यः अतिरिक्तः सर्वातिरिक्तः, सर्वातिरिक्तः सारो यस्य सः, तेन सम्पूर्णाधिकबलेन, सर्वतेजोऽभिभाविना = सर्वेषां तेजांसि सर्वतेजांसि, तेषामभिभावी तेन = अखिलधामतिरस्कारिणा, सर्वोन्नतेन = सर्वेभ्यः उन्नतः सर्वोन्नतः, तेन निखिलोच्छ्रितेन, आत्मना = शरीरेण, मेरुः = हेमाद्रिः, इव = यथा, उर्वीम् = पृथ्वीम्, क्रान्त्वा = अभिव्याप्य, स्थितः = अवस्थितः । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोपमा । तद्यथा— “साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः” ।

हिन्दी व्याख्या

सर्वातिरिक्तसारेण = सबसे अधिक बलवान्, सर्वतेजोऽभिभाविना = सबको अपने तेज से नीचा दिखाने वाले, सर्वोन्नतेन = सबसे ऊँचे (लम्बे), आत्मना = अपने शरीर से, मेरुः इव = सुमेरु की तरह, उर्वीम् = पृथ्वी को, क्रान्त्वा = व्याप्त कर, स्थितः = स्थित थे ।

हिन्दी अर्थ

सबसे अधिक बलवान्, सबको अपने तेज से नीचा दिखाने वाले और सबसे ऊँचे (लम्बे) शरीर से सुमेरु की तरह पृथ्वी को व्याप्त कर स्थित थे ॥14॥

टिप्पणी

-

श्लोक 15

आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ आरम्भसदृशोदयः ।।15।।

अन्वय

आकारसदृशप्रज्ञः, प्रज्ञया सदृशागमः, आगमैः सदृशारम्भः, आरम्भसदृशोदयः ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

राजानं दिलीपं वर्णयति श्लोकेनानेन महाकविः ।

संस्कृत व्याख्या

आकारसदृशप्रज्ञः = आकारेण सदृशी प्रज्ञा यस्य सः = आकृत्यनुरूपमतिः, प्रज्ञया = धिया, सदृशागमः = सदृशः आगमो यस्य सः = प्रज्ञानुसारशास्त्रपरिश्रमः, आगमैः = शास्त्रैः, सदृशारम्भः = सदृशः आरम्भो यस्य सः = आगमानुरूपकार्यम्, आरम्भसदृशोदयः = आरम्भेन सदृशः आरम्भसदृशः उदयो यस्य सः = प्रयत्नानुरूपपरिणामः । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

आकारसदृशप्रज्ञः = आकृति के अनुसार बुद्धि वाले, प्रज्ञया = बुद्धि के, सदृशागमः = सदृश शास्त्र ज्ञान वाले, आगमैः = शास्त्रों के ज्ञान के, सदृशारम्भः = सदृश कार्य करने वाले तथा, आरम्भसदृशोदयः = कार्यों के अनुरूप फलवाले राजा दिलीप थे ।

हिन्दी अर्थ

आकृति के अनुसार बुद्धि, बुद्धि के अनुरूप शास्त्रज्ञान, शास्त्रों के अनुरूप प्रयत्न (कार्य) तथा कार्यों के अनुसार फल वाले राजा दिलीप थे ॥15॥

टिप्पणी

-

श्लोक 16

भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ।।16।।

अन्वय

भीमकान्तैः नृपगुणैः उपजीविनां सः यादोरत्नैः अर्णवः इव अधृष्यः च अभिगम्यः च बभूव ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

महाकविः दिलीपं वर्णयति ।

संस्कृत व्याख्या

भीमकान्तैः = भीमाश्च कान्ताश्च तैः = भयानकमनोज्ञैः, नृपगुणैः = नृपाणां गुणाः तैः = दानदाक्षिण्यादिभिरधिगुणैः, सः = पूर्वोक्तो दिलीपः, उपजीविनाम् = आश्रितानाम्, यादोरत्नैः = यादांसि च रत्नानि च तैः = जलजन्तुमणिभिः, अर्णवः = सागरः, इव = यथा, अधृष्यः = असह्यः, च = पुनः, अभिगम्यः = आश्रयणीयः, च = पुनः, बभूव = अभूत् । अत्रानुष्टुब्वृत्तम् । अत्रोपमालङ्कारः । तद्यथा— “साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः” ।

हिन्दी व्याख्या

भीमकान्तैः = भयानक तथा मनोज्ञ, नृपगुणैः = राजा के दया-दान दाक्षिण्यादि गुणों से, उपजीविनाम् = आश्रितों के लिए, सः = वे राजा दिलीप, यादोरत्नैः = जलजन्तुओं तथा रत्नों से परिपूर्ण, अर्णवः इव = सागर के जैसे, अधृष्यः = अधृष्य, असह्य (अनाश्रयणीय), च = तथा, अभिगम्यः = आश्रयणीय, बभूव = थे ।

हिन्दी अर्थ

जिस प्रकार सागर जल-जन्तुओं के कारण प्रवेश नहीं करने योग्य और रत्नों के कारण प्रवेश करने योग्य है, वैसे ही राजा दिलीप भी भयानकता के कारण अनाश्रयणीय और मनोज्ञता के कारण आश्रयणीय भी थे ॥16॥

टिप्पणी

-

श्लोक 17

रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ।।17।।

अन्वय

नियन्तुः तस्य नेमिवृत्तयः प्रजाः आमनोः क्षुण्णात् वर्त्मनः परं रेखामात्रम् अपि न व्यतीयुः ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन दिलीपस्य शासनं वर्णयति ।

संस्कृत व्याख्या

नियन्तुः = यन्तुः, सूतस्य वा, तस्य = पूर्वोक्तस्य, दिलीपस्येति यावत्, नेमिवृत्तयः = नेमीनां वृत्तिः नेमिवृत्तिः, तद्वद् वृत्तिर्यासां ताः नेमिवृत्तयः = चक्रधाराव्यापारः, प्रजाः = जनाः, आमनोः = वैवस्वतमनुमारभ्य, क्षुण्णात् = अभ्यस्तात्, प्रहतात् वा, वर्त्मनः = विधानात्, मार्गात् वा, परम् = बहिः, रेखामात्रम् = रेखाप्रमाणम्, अपि च, न = नहि, व्यतीयुः = जहुः । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोपमा । तद्यथा— “साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः” ।

हिन्दी व्याख्या

नियन्तुः = सुशासक, तस्य = उस राजा दिलीप के, नेमिवृत्तयः = मनुस्मृति आदि के अनुसार नियमपरायण, प्रजाः = प्रजा, आमनोः = अपने, क्षुण्णात् = अभ्यस्त, वर्त्मनः = मार्ग से, परम् = बाहर, रेखामात्रम् = रेखामात्र, तनिक, अपि = भी, न = नहीं, व्यतीयुः = जाती थी ।

हिन्दी अर्थ

जिस प्रकार निपुण सारथी के द्वारा चलाये गये रथ के पहिए रञ्चमात्र भी लीक से बाहर नहीं जाते, वैसे ही सुशासक दिलीप की प्रजा वैवस्वतमनु से लेकर, नियमानुसार चलने में अभ्यस्त रञ्चमात्र भी धर्मनियमों का उल्लंघन नहीं की ॥17॥

टिप्पणी

-

श्लोक 18

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ।।18।।

अन्वय

सः प्रजानाम् भूत्यर्थम् एव ताभ्यः बलिम् अग्रहीत्, हि रविः सहस्रगुणम् उत्स्रष्टुम् रसम् आदत्ते ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

पद्येनानेन दिलीपशासनव्यवस्थां वर्णयति ।

संस्कृत व्याख्या

सः = पूर्वोक्तो दिलीपः, प्रजानाम् = जनानाम्, भूत्यर्थम् = उन्नत्यर्थम्, एव = निश्चयेन, ताभ्यः = प्रजाभ्यः, बलिम् = करम्, षष्ठांशरूपम् इति यावत्, अग्रहीत् = गृह्णाति स्म, हि = यतः, रविः = सूर्यः, सहस्रगुणम् = सहस्रगुणाः यस्मिन् कर्मणि तत् = दशश्वधा, उत्स्रष्टुम् = दातुम्, रसम् = जलम्, आदत्ते = गृह्णाति । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्र काव्यलिङ्गम् । तद्यथा— “हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते” ।

हिन्दी व्याख्या

सः = उन्होंने (राजा दिलीप ने), प्रजानाम् = प्रजा के, भूत्यर्थम् = कल्याण के लिए, एव = ही, ताभ्यः = उनसे, बलिम् = षष्ठांश भाग कर के रूप में, अग्रहीत् = लेते थे, हि = क्योंकि, रविः = सूर्य, सहस्रगुणम् = हजारगुना, उत्स्रष्टुम् = देने के लिए, रसम् = जल, आदत्ते = ग्रहण करता है ।

हिन्दी अर्थ

राजा दिलीप प्रजा की समृद्धि के लिए ही उससे षष्ठांश कर लिया करता था, क्योंकि सूर्य हजार गुणा अधिक जल बरसाने (देने) के लिए ही पृथ्वी से पानी खींचता (लेता) है ॥18॥

टिप्पणी

-

श्लोक 19

सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ।।19।।

अन्वय

तस्य सेना परिच्छदः अर्थसाधनं द्वयम् एव, शास्त्रेषु अकुण्ठिता बुद्धिः च धनुषि आतता मौर्वी ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

महाकविः दिलीपं वर्णयति ।

संस्कृत व्याख्या

तस्य = महाराजदिलीपस्य, सेना = वाहिनी, परिच्छदः = आभरणमात्रं, छत्रचामरादिवदासीदिति शेषः, अर्थसाधनम् = अर्थस्य साधनमर्थसाधनं प्रयोजनोपपादकं, द्वयम् = उभयम्, एव = निश्चयेन, शास्त्रेषु = आगमेषु, अकुण्ठिता = अप्रतिहता, बुद्धिः = धीः, च = तथा, धनुषि = कार्मुके, आतता = संस्थापिता, मौर्वी = ज्या । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

तस्य = उस राजा दिलीप की, सेना = सेना, परिच्छदः = छत्रचामरादि की तरह आभरणमात्र थी, अर्थसाधनम् = अर्थसाधन अर्थात् प्रयोजन साधने वाली, द्वयम् एव = दो ही वस्तुएँ थीं, शास्त्रेषु = शास्त्रों में, अकुण्ठिता = अप्रतिहत, बुद्धिः = बुद्धि, च = तथा, धनुषि = धनुष पर, आतता = चढ़ी हुई, मौर्वी = प्रत्यञ्चा ।

हिन्दी अर्थ

दिलीप की सेना छत्रचामरादि की तरह आभरण मात्र ही थी। प्रयोजन साधने वाली तो उनके पास दो ही वस्तुएँ थीं—शास्त्रों में अप्रतिहत बुद्धि और धनुष पर चढ़ी हुई प्रत्यञ्चा ॥19॥

टिप्पणी

-

श्लोक 20

तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ।।20।।

अन्वय

संवृतमन्त्रस्य च गूढाकारेङ्गितस्य प्रारम्भाः प्राक्तनाः संस्काराः इव फलानुमेयाः ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

महाराजदिलीपस्य विचाराकृतिचेष्टादिव्यवहाराणां गोपनीयत्वं प्रदर्शयति ।

संस्कृत व्याख्या

संवृतमन्त्रस्य = संवृतो मन्त्रो यस्य स तस्य गुप्तविचारस्य, च = तथा, गूढाकारेङ्गितस्य = आकारश्च इङ्गितञ्च आकारेङ्गिते, गूढे आकारेङ्गिते यस्य स तस्य गुप्ताकृतिचेष्टितस्य, तस्य महाराजदिलीपस्य, प्रारम्भाः = सामाद्युपायप्रयोगाः, प्राक्तनाः = पूर्वजन्मोपार्जिताः, संस्काराः = भावनाः, इव = यथा, फलानुमेयाः = फलेनानुमेयाः, परिणामकल्पनीयाः । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोत्प्रेक्षा ।

हिन्दी व्याख्या

संवृतमन्त्रस्य = गुप्त विचार वाले, च = तथा, गूढाकारेङ्गितस्य = आकृति, दया, चेष्टा आदि को छिपाकर रखने वाले उस राजा दिलीप के, प्रारम्भाः = सामादि उपाय, प्राक्तनाः = पूर्वजन्म के, संस्काराः इव = संस्कारों के जैसे, फलानुमेयाः = फल अर्थात् परिणाम से जाने जाते थे, अर्थात् राजा दिलीप के विचार, आकृति तथा चेष्टाएँ गुप्त ही रहती थीं ।

हिन्दी अर्थ

राजा दिलीप अपने विचार, आकृति और चेष्टा को ऐसे छिपाकर रखते थे कि पूर्वजन्म की वासनाओं की तरह परिणाम से ही कल्पना की जा सकती थी कि उन्होंने क्या किया, अर्थात् उनके विचार, आकृति और चेष्टाएँ गुप्त रहती थीं ॥20॥

टिप्पणी

-

श्लोक 21

जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृघ्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ।।21।।

अन्वय

सः अत्रस्तः आत्मानं जुगोप, अनातुरः धर्मं भेजे, अगृघ्नुः अर्थम् आददे, असक्तः सुखम् अन्वभूत् ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

महाराजदिलीपस्य सर्वविधशासनमुपस्थापयति ।

संस्कृत व्याख्या

सः = पूर्वोक्तो दिलीपः, अत्रस्तः = न त्रस्तः, अत्रस्तः = अभीतः, सन्निति शेषः, आत्मानं = स्वं, जुगोप = ररक्ष, अनातुरः = न आतुरः, स्वस्थः सन्निति शेषः, धर्मम् = पुण्यं, भेजे = सेवयामास, अगृध्नुः = न गृध्नुः, अगृध्नुः = अलुब्धः, सन्निति शेषः, अर्थम् = धनम्, आददे = स्वीचकार, असक्तः = न सक्तः, असक्तः = अलिप्तः, सन्निति शेषः, सुखम् = आनन्दम्, अन्वभूत् = अनुभूतवान् । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

सः = राजा दिलीप, अत्रस्तः = निर्भीक रहकर, आत्मानम् = अपनी, जुगोप = रक्षा करते थे, अनातुरः = स्वस्थ रहकर, धर्मम् = धर्म की, भेजे = सेवा करते थे, अगृघ्नुः = लोभरहित होकर, अर्थम् = धन का, आददे = संग्रह करते थे, असक्तः = आसक्तिरहित होकर, सुखम् = सुख का, अन्वभूत् = अनुभव करते थे ।

हिन्दी अर्थ

राजा दिलीप निर्भीक होकर अपनी रक्षा, स्वस्थ होकर धर्म की सेवा, निर्लोभ होकर धन का संग्रह तथा निर्लिप्त होकर सुख का अनुभव करते थे ॥21॥

टिप्पणी

-

श्लोक 22

ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणाः गुणानुबन्धित्वात्तस्य सप्रसवा इव ।।22।।

अन्वय

ज्ञाने मौनं, शक्तौ क्षमा, त्यागे श्लाघाविपर्ययः, तस्य गुणाः गुणानुबन्धित्वात् सप्रसवाः इव आसन् ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

पद्येनानेन महाकविः दिलीपगुणान् प्रकटयति ।

संस्कृत व्याख्या

ज्ञाने = बोधे, सत्यपीति शेषः, मौनं = तूष्णीभावः, शक्तौ = सामर्थ्ये, सत्यपीति शेषः, क्षमा = क्षान्तिः, त्यागे = दाने, सत्यपीति शेषः, श्लाघाविपर्ययः = श्लाघायाः विपर्ययः, आत्मप्रशंसाभावः, तस्य दिलीपस्य, गुणाः = ज्ञानादयः, गुणानुबन्धित्वात् = गुणैरनुबन्धित्वं तस्मात्, मौनादिसाहचर्यात्, सप्रसवाः = सह प्रसवो येषां ते, सप्रसवाः = सोदराः, इव = यथा, आसन् इति शेषः । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोत्प्रेक्षा ।

हिन्दी व्याख्या

ज्ञाने = ज्ञान रहने पर भी, मौनम् = मौन रहना, शक्तौ = शक्ति के होने पर भी, क्षमा = क्षमावान् होना, त्यागे = त्यागी होने पर अर्थात् दान देने पर भी, श्लाघाविपर्ययः = आत्मप्रशंसक न होना, तस्य = उनके, गुणाः = ये गुण, गुणानुबन्धित्वात् = परस्पर में विरोधी गुणों के साहचर्य से, सप्रसवाः इव = सहोदर की तरह थे ।

हिन्दी अर्थ

ज्ञान रहने पर भी चुप रहना, शक्ति रहने पर भी क्षमा करना, दान देने पर भी आत्मप्रशंसा न करना या सुनना, ये उनके गुण, मौन आदि विरोधी गुणों के साथ होने से सहोदर की तरह थे ॥22॥

टिप्पणी

-

श्लोक 23

अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ।।23।।

अन्वय

विषयैः अनाकृष्टस्य विद्यानां पारदृश्वनः धर्मरतेः तस्य जरसा विना वृद्धत्वम् आसीत् ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

पद्येनानेन महाराजदिलीपस्य धर्मरतिमुपस्थापयति ।

संस्कृत व्याख्या

विषयैः = रूपरसादिभिः, अनाकृष्टस्य = अवशीकृतचित्तस्य, विद्यानां = शास्त्राणां, पारदृश्वनः = अन्तगामिनः, धर्मरतेः = सुकृतानुरक्तस्य, तस्य = पूर्वोक्तस्य दिलीपस्य, जरसा = वृद्धावस्थया, विना = अन्तरेण, वृद्धत्वं = स्थविरत्वम्, आसीत् = अभूत् । अत्रोत्प्रेक्षाऽलङ्कारः । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

विषयैः = सांसारिक विषयों में, अनाकृष्टस्य = अनासक्त, विद्यानाम् = विद्याओं में, पारदृश्वनः = पारङ्गत, धर्मरतेः = धर्मानुरागी, तस्य = उस राजा दिलीप के, जरसा बिना = बुढ़ापे के बिना ही, वृद्धत्वम् = बुढ़ापा, आसीत् = थी, अर्थात् राजा दिलीप ज्ञान से वृद्ध थे किन्तु अवस्था से नहीं ।

हिन्दी अर्थ

सांसारिक विषय-भोगों में अनासक्त, शास्त्रों में पारङ्गत, धर्मानुरागी महाराज दिलीप में वृद्धावस्था के बिना ही बुढ़ापा था। अर्थात् महाराज दिलीप ज्ञान से बूढ़े थे, अवस्था से नहीं ॥23॥

टिप्पणी

-

श्लोक 24

प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ।।24।।

अन्वय

प्रजानां विनयाधानात् रक्षणात् भरणात् अपि सः पिता, तासां पितरः केवलं जन्महेतवः आसन् ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

महाराजदिलीपस्य प्रजावात्सल्यमुपस्थापयति ।

संस्कृत व्याख्या

प्रजानां = साम्राज्यान्तर्गतजनानां, विनयाधानात् = विनयस्य आधानं विनयाधानं तस्मात् नम्रतास्थापनात्, रक्षणात् = त्राणात्, भरणात् = पोषणात्, अपि च, सः = पूर्वोक्तो दिलीपः, पिता = जनकः, आसीदिति शेषः, तासां = पूर्वोक्तानां प्रजानां, पितरः = जनकाः, केवलं = मात्रं, जन्महेतवः = जन्मनः हेतवः, उत्पत्तिकारणानि, आसन्निति शेषः । अत्रानुष्टुब्वृत्तम् । अत्रापहृतिरलङ्कारः ।

हिन्दी व्याख्या

प्रजानाम् = प्रजाओं के, विनयाधानात् = विनम्रता सिखाने के कारण, रक्षणात् = रक्षा करने के कारण, भरणात् अपि = भरण-पोषण करने के कारण भी, सः = राजा दिलीप, पिता = पिता थे, तासाम् = उन प्रजाओं के, पितरः = माता-पिता, केवलम् = केवल, जन्महेतवः = जन्म के हेतु थे ।

हिन्दी अर्थ

प्रजाओं को नम्रता सिखाने से, रक्षा करने से और पालन-पोषण करने से राजा दिलीप ही वस्तुतः प्रजाओं के पिता थे। उनके पिता तो केवल जन्म देने वाले थे। अर्थात् राजा दिलीप प्रजाओं में पिता की तरह व्यवहार करते थे ॥24॥

टिप्पणी

-

श्लोक 25

स्थित्यै दंडयतो दण्ड्यान् परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ।।25।।

अन्वय

स्थित्यै दण्ड्यान् दण्डयतः, प्रसूतये परिणेतुः मनीषिणः तस्य अर्थकामौ अपि धर्म एव आस्ताम् ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

धर्मश्रेष्ठं राजानं दिलीपं वर्णयति ।

संस्कृत व्याख्या

स्थित्यै = प्रतिष्ठायै, दण्ड्यान् = अपराधिनः, दण्डयतः = शिक्षयतः, प्रसूतये = सन्ततये, परिणेतुः = कृतदारपरिग्रहस्य, मनीषिणः = विपश्चितः, तस्य दिलीपस्येति यावत्, अर्थकामौ = अर्थश्च कामश्च तौ, अर्थकामाभिधेयौ पुरुषार्थौ, अपि च, धर्मः = तदाख्यपुरुषार्थः, एव = निश्चयेन, आस्ताम् = अभूताम् । दिलीपस्यार्थकामौ पुरुषार्थौ धर्ममूलकौ एवास्तामिति यावत् । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

स्थित्यै = लोकप्रतिष्ठा के लिए, दण्ड्यान् = अपराधियों को, दण्डयतः = दण्ड देने वाले, प्रसूतये = सन्तान के लिए, परिणेतुः = विवाह करने वाले, मनीषिणः = मनीषी, तस्य = राजा दिलीप के, अर्थकामौ = अर्थ तथा काम, अपि = भी, धर्म एव = धर्ममूलक ही, आस्ताम् = थे ।

हिन्दी अर्थ

लोकप्रतिष्ठा के लिए अपराधियों को दण्ड देने वाले, सन्तान के लिए शादी करने वाले, विद्वान् महाराज दिलीप के अर्थ और काम नामक दोनों ही पुरुषार्थ धर्म नामक पुरुषार्थ ही थे, अर्थात् धर्ममूलक ही थे ॥25॥

टिप्पणी

-

श्लोक 26

दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।
सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ।।26।।

अन्वय

सः यज्ञाय गाम् दुदोह, मघवा सस्याय दिवम्, उभौ सम्पद्विनिमयेन भुवनद्वयं दधतुः ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

अनेन पद्येन दिलीपेन्द्रमित्रतामुपस्थापयति ।

संस्कृत व्याख्या

सः = पूर्वोक्तो दिलीपः, यज्ञाय = मखाय, गाम् = धराम्, दुदोह = अदुहत्, षष्ठांशकरमादाय रिक्ताञ्चकारेति भावः, मघवा = इन्द्रः, सस्याय = धान्याय, दिवम् = अन्तरिक्षम्, दुदोहेति शेषः, वृष्टिं कारयामासेति यावत्, उभौ = दिलीपेन्द्रौ, सम्पद्विनिमयेन = सम्पदो विनिमयस्तेन, वस्तुन आदानप्रदानाभ्याम्, भुवनद्वयम् = भुवनयोः द्वयं भुवनद्वयम्, स्वर्गमर्त्याख्यामिति यावत्, दधतुः = पुपुषतुः । दिलीपः यज्ञैः स्वर्गम्, इन्द्रः वृष्ट्या मर्त्यलोकं पुपोषेति यावत् । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

सः = राजा दिलीप, यज्ञाय = यज्ञ के लिए, गाम् = पृथ्वी को, दुदोह = दुहा, अर्थात् षष्ठांश कर लेकर पृथ्वी को रिक्त किया, मघवा = इन्द्र, सस्याय = धान्य के लिए, दिवम् = अन्तरिक्ष को, दुदोह = दुहा, अर्थात् वर्षा कराई, उभौ = दोनों दिलीप और इन्द्र, सम्पद्विनिमयेन = सम्पत्तियों के आदान-प्रदान से, भुवनद्वयम् = स्वर्ग और मर्त्यलोक का, दधतुः = पालन-पोषण करते थे ।

हिन्दी अर्थ

राजा दिलीप ने यज्ञ के लिए पृथ्वी को दुहा, अर्थात् प्रजाओं से कर वसूल कर यज्ञ करते थे, तथा इन्द्र अन्नों के लिए स्वर्ग को दुहते थे, अर्थात् पृथ्वी पर वर्षा करते थे। इस प्रकार इन्द्र और दिलीप स्वर्ग और मर्त्यलोक का परस्पर पालन-पोषण करते थे ॥26॥

टिप्पणी

-

श्लोक 27

न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ।।27।।

अन्वय

राजानः रक्षितुः तस्य यशः न अनुययुः किल, यत् तस्करता परस्वेभ्यः व्यावृत्ता श्रुतौ स्थिता ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

दिलीपशासने तस्करता नास्तीति प्रस्तौति ।

संस्कृत व्याख्या

राजानः = अन्येऽधिपाः, रक्षितुः = त्रातुः, तस्य = पूर्वोक्तस्य दिलीपस्य, यशः = समज्ञाम्, न = नहि, अनुययुः = अनुचक्रुः, किल इति वाक्यालंकारे, कीर्तिधनस्य महाराजदिलीपस्य यशः नानुचक्रुरिति यावत्, यत् = यस्मात् कारणात्, तस्करता = चौर्यम्, परस्वेभ्यः = परेषां स्वाः परस्वाः, तेभ्यः = परकीयधनेभ्यः, व्यावृत्ता = पराङ्मुखीभूता सतीति शेषः, श्रुतौ = कर्णे, एवेति शेषः, स्थिता = विद्यमानाऽऽसीत् । अस्य शासने न कोऽपि कस्यापि धनं चोरयतीति तस्करता केवलं श्रुतिविषयैवासीदिति यावत् । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

राजानः = अन्य राजाओं ने, रक्षितुः = रक्षा करने वाले, तस्य = उस पूर्वोक्त दिलीप के, यशः = यश का, न = नहीं, अनुययुः = अनुकरण किया, किल = निश्चय ही, यत् = क्योंकि, तस्करता = चोरी, परस्वेभ्यः = दूसरे के धन से, व्यावृत्ता = हटकर, श्रुतौ = कानों में, स्थिता = स्थित थी । अर्थात् उसके शासन में कोई किसी का धन चुराता नहीं था, इसलिए चोरी केवल सुनने में ही आती थी ।

हिन्दी अर्थ

राजाओं ने रक्षा करने वाले उस दिलीप की कीर्ति का अनुकरण नहीं किया, क्योंकि चोरी, दूसरे के धन से हटकर कानों में ही रहती थी ॥27॥

टिप्पणी

-

श्लोक 28

द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ।।28।।

अन्वय

शिष्टः द्वेष्यः अपि आर्तस्य औषधम् यथा तस्य सम्मतः आसीत्, दुष्टः प्रियः अपि उरगक्षता अङ्गुली इव त्याज्यः आसीत् ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

महाकविः दिलीपस्य मित्रं शत्रुञ्च वर्णयति ।

संस्कृत व्याख्या

शिष्टः = भद्रजनः, द्वेष्यः = शत्रुः, अपि च, आर्तस्य = पीडितस्य, औषधम् = भेषजम्, यथा = इव, तस्य = पूर्वोक्तस्य, सम्मतः = अभीष्टः, आसीत् = अभूत्, दुष्टः = दुर्जनः, प्रियः = इष्टः, अपि च, उरगक्षता = उरगेण क्षता, अङ्गुली = करशाखा, इव = यथा, त्याज्यः = हेयः, आसीत् = अभूत् । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोपमा । तद्यथा- “साम्यं वाच्यमवैधर्म्य वाक्यैक्य उपमा द्वयोः” ।

हिन्दी व्याख्या

शिष्टः = सज्जन, द्वेष्यः = शत्रु, अपि = भी, आर्तस्य = रोगी के लिए, औषधम् = औषधि, यथा = जैसे, तस्य = उनके लिए, सम्मतः = प्रिय, आसीत् = था, दुष्टः = दुर्जन, प्रियः = प्रिय व्यक्ति, अपि = भी, उरगक्षता = साँप से डँसी हुई, अङ्गुली = अँगुली, इव = की तरह, त्याज्यः = त्याज्य, आसीत् = था ।

हिन्दी अर्थ

राजा दिलीप को सज्जन शत्रु भी रोगी को कड़वी औषधि की तरह प्रिय था और दुर्जन प्रिय-व्यक्ति भी साँप से डँसी अँगुली की तरह त्याज्य था ॥28॥

टिप्पणी

-

श्लोक 29

तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथा हि सर्वे तस्यासन् परार्थैकफला गुणाः ।।29।।

अन्वय

वेधाः तं महाभूतसमाधिना विदधे नूनम्, तथा हि तस्य सर्वे गुणाः परार्थैकफलाः आसन् ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

पद्येनानेन महाराजदिलीपस्य परोपकारित्वं वर्णयति ।

संस्कृत व्याख्या

वेधाः = विधिः, तं = पूर्वोक्तं दिलीपम्, महाभूतसमाधिना = महान्तश्च ते भूताः, तेषां समाधिस्तेन = पृथ्व्यादिपञ्चकारणसामर्थ्येन, विदधे = ससर्ज, नूनम् = ध्रुवम्, तथाहि = यतो हि, तस्य = दिलीपस्य, सर्वे = सकलाः, गुणाः = दानदाक्षिण्यादयः, रूपरसादिमहाभूतगुणवत्, परार्थैकफलाः = परस्य अर्थः परार्थः, परार्थ एव एकं फलं येषां ते, अन्यप्रयोजना एव, आसन् = अभूवन् । अत्रानुष्टुब्वृत्तम् । अत्रोत्प्रेक्षाऽलङ्कारः । तद्यथा- “भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना” ।

हिन्दी व्याख्या

वेधाः = ब्रह्मा, तं = उस पूर्वोक्त दिलीप को, महाभूतसमाधिना = पञ्चमहाभूतों की कारण-सामग्री से, विदधे = बनाया, नूनम् = निश्चय ही, तथाहि = क्योंकि, तस्य = दिलीप के, सर्वे = सभी, गुणाः = गुण, परार्थैकफलाः = दूसरों के लिए ही फल देने वाले, आसन् = थे ।

हिन्दी अर्थ

निश्चय ही ब्रह्मा ने पञ्चमहाभूतों की कारण-सामग्री से दिलीप का निर्माण किया था, इसलिए दिलीप के सब गुण दूसरों के लिए ही थे, क्योंकि पञ्चमहाभूतों के गुण, रूप, रस, गन्ध आदि भी दूसरों के लिए ही होते हैं ॥29॥

टिप्पणी

-

श्लोक 30

स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्वी शशासैकपुरीमिव ।।30।।

अन्वय

सः वेलावप्रवलयां परिखीकृतसागराम् अनन्यशासनाम् उर्वीम् एकपुरीम् इव शशास ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

महाराजदिलीपस्य चक्रवर्तित्वमुपस्थापयति ।

संस्कृत व्याख्या

सः = पूर्वोक्तो दिलीपः, वेलावप्रवलयाम् = वप्राणि एव वलयाः, वेला एव वप्रवलयाः यस्याः सा, तां सागरतटप्राकारवेष्टनाम्, परिखीकृतसागराम् = न परिखाः अपरिखाः, अपरिखाः परिखाः सम्पद्यमानाः कृताः परिखीकृताः, परिखीकृताः सागराः यस्याः सा, तां दुर्गवेष्टनीकृतसमुद्राम्, अनन्यशासनाम् = अन्यस्य शासनम् अन्यशासनम्, अविद्यमानमन्यशासनं यस्याः सा ताम्, शासनकान्तारहिताम्, उर्वीम् = पृथ्वीम्, एकपुरीम् = एका चासौ पुरी च एकपुरी, ताम् एकनगरीम्, इव = यथा, शशास = शासितवान् । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोपमा । तद्यथा- “साम्यं वाच्यमवैधर्म्य वाक्यैक्य उपमा द्वयोः”। अत्र रूपकमलङ्कारश्च । तद्यथा- “रूपकं रूपिताऽऽरोपाद्विषये निरपह्नवे” ।

हिन्दी व्याख्या

सः = पूर्वोक्त राजा दिलीप, वेलावप्रवलयाम् = सागर के तटरूपी परकोठों से घिरी हुई, परिखीकृतसागराम् = समुद्ररूपी खाई वाली, अनन्यशासनाम् = अन्य शासकों से अशासित, उर्वीम् = पृथ्वी का, एकपुरीम् इव = एक नगरी के शासन की तरह, शशास = शासन किया ।

हिन्दी अर्थ

राजा दिलीप ने सागर के तटरूपी परकोठों से घिरी हुई, समुद्ररूपी खाई वाली, अन्य शासकों से अशासित पृथ्वी का शासन एकपुरी के शासन की तरह किया ॥30॥

टिप्पणी

-

श्लोक 31

तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ।।31।।

अन्वय

तस्य मगधवंशजा दाक्षिण्यरूढेन नाम्ना सुदक्षिणा इति पत्नी अध्वरस्य दक्षिणा इव आसीत् ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन महाकविः दिलीपभार्यां सुदक्षिणां वर्णयति ।

संस्कृत व्याख्या

तस्य = पूर्वोक्तस्य दिलीपस्य, मगधवंशजा = मगधानां वंशस्तस्मिन् जाता, मगधकुलोत्पन्ना, दाक्षिण्यरूढेन = दाक्षिण्येन रूढं दाक्षिण्यरूढं, तेन परच्छन्दानुवर्तनप्रथितेन, नाम्ना = अभिधेयेन, सुदक्षिणा = तदभिधेया, इति प्रथिता, अध्वरस्य = मखस्य, पत्नी = भार्या, दक्षिणा = तदभिधेया, इव = यथा, पत्नीति शेषः, आसीत् = अभूत् । अत्रानुष्टुब्वृत्तम् । अत्रोपमाऽलङ्कारः । तद्यथा- “साम्यं वाच्यमवैधर्म्य वाक्यैक्य उपमा द्वयोः” ।

हिन्दी व्याख्या

तस्य = उस पूर्वोक्त राजा दिलीप की, मगधवंशजा = मगधवंश में उत्पन्न, दाक्षिण्यरूढेन = पति के मनानुकूल कार्य करने में प्रसिद्ध, नाम्ना = नाम से, सुदक्षिणा = सुदक्षिणा, इति = इस नाम से प्रसिद्ध, पत्नी = पत्नी, अध्वरस्य = यज्ञ की, दक्षिणा = दक्षिणा, इव = के समान, आसीत् = थी ।

हिन्दी अर्थ

उस राजा दिलीप की मगधवंश में उत्पन्न, पति के मनानुरूप कार्य करने में विख्यात ‘सुदक्षिणा’ इस नाम से प्रसिद्ध पत्नी, यज्ञ की पत्नी दक्षिणा के समान थी ॥31॥

टिप्पणी

-

श्लोक 32

कलत्रवन्तमात्मानमवरोधे महत्यपि ।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ।।32।।

अन्वय

वसुधाधिपः महति अवरोधे अपि मनस्विन्या तया लक्ष्म्या च आत्मानं कलत्रवन्तं मेने ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन दिलीपभार्यां सुदक्षिणां वर्णयति ।

संस्कृत व्याख्या

वसुधाधिपः = वसुधायाः अधिपः, धराधिपतिः, दिलीप इति यावत्, अवरोधे = अन्तःपुरस्य वर्गे, महति = अधिके, अपि सत्यपि, मनस्विन्या = दृढचित्तया, तया = पूर्वोक्तया सुदक्षिणया, लक्ष्म्या = राज्यश्रिया, च = पुनः, आत्मानं = स्वम्, कलत्रवन्तम् = कलत्रमस्यास्तीति कलत्रवान्, तं पत्नीवन्तम्, मेने = अमन्यत । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

वसुधाधिपः = राजा दिलीप, अवरोधे = अन्तःपुर के वर्ग के, महति = अत्यधिक होने पर, अपि = भी, मनस्विन्या = दृढ़चित्त वाली, तया = उस सुदक्षिणा से, लक्ष्म्या = राज्यश्री से, च = तथा, आत्मानम् = अपने को, कलत्रवन्तम् = पत्नी वाला, मेने = मानते थे ।

हिन्दी अर्थ

अन्तःपुर के विशाल होने पर भी, अर्थात् अनेक रानियों के रहते हुए भी, राजा दिलीप अच्छे मन वाली सुदक्षिणा और राज्यश्री इन दोनों से ही अपने को भार्याओं वाला मानते थे ॥32॥

टिप्पणी

-

श्लोक 33

तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः
विलम्बितफलैः कालं स निनाय मनोरथैः ।।33।।

अन्वय

सः आत्मानुरूपायां तस्याम् आत्मजन्मसमुत्सुकः विलम्बितफलैः मनोरथैः कालं निनाय ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

श्लोकेनानेन सुदक्षिणादिलीपयोरनपत्यतामुपस्थापयति ।

संस्कृत व्याख्या

सः = राजा दिलीपः, आत्मानुरूपायाम् = आत्मनः अनुरूपा, तस्याम् = स्वयोग्यायां, तस्यां भार्यासुदक्षिणायाम्, आत्मजन्मसमुत्सुकः = आत्मनः जन्म यस्य स आत्मजन्मा, यद्वा आत्मनो जन्म आत्मजन्म, तस्मिन् समुत्सुकः = आत्मजोत्पत्तिसमुत्कण्ठितः, विलम्बितफलैः = विलम्बितफलं येषान्ते तैः = चिरीकृतपरिणामैः, मनोरथैः = मनसः रथाः मनोरथास्तैः = काङ्क्षाभिः, कालं = समयं, निनाय = यापयामास । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

सः = राजा दिलीप ने, आत्मानुरूपायाम् = अपने अनुरूप, तस्याम् = उस रानी सुदक्षिणा में, आत्मजन्मसमुत्सुकः = पुत्र के जन्म के लिए समुत्सुक, विलम्बितफलैः = देर से फल मिलने वाले, मनोरथैः = मनोरथों (आशाओं) से, कालम् = समय, निनाय = बिताया ।

हिन्दी अर्थ

राजा दिलीप ने अपने अनुरूप रानी सुदक्षिणा में पुत्र के जन्म के लिए समुत्कण्ठित होकर, देर से फल मिलने वाले मनोरथों (आशाओं) से समय बिताया, अर्थात् बहुत समय तक रानी सुदक्षिणा से पुत्रोत्पत्ति की आशा की ॥33॥

टिप्पणी

-

श्लोक 34

सन्तानार्थाय विधये स्वभुजादवतारिता ।
तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ।।34।।

अन्वय

तेन सन्तानार्थाय विधये स्वभुजात् अवतारिता जगतः गुर्वी धूः सचिवेषु निचिक्षिपे ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

सन्तानार्थानुष्ठानाय राज्ञो दिलीपस्य प्रयत्नमुपस्थापयति ।

संस्कृत व्याख्या

तेन = राजा दिलीपेन, सन्तानार्थाय = सन्तानः अर्थो यस्य सः, तस्मै = सन्ततिप्रयोजनाय, विधये = विधानाय, स्वभुजात् = स्वस्य भुजः स्वभुजः तस्मात् निजबाहोः, अवतारिता = अवरोपिता, जगतः = लोकस्य, गुर्वी = दुर्भरा, धूः = भारः, सचिवेषु = अमात्येषु, निचिक्षिपे = निहिता । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

तेन = राजा दिलीप ने, सन्तानार्थाय = पुत्र के निमित्त, विधये = अनुष्ठान करने के लिए, स्वभुजात् = अपनी भुजा से, अवतारिता = उतारकर, जगतः = संसार के, गुर्वी = गुरुतर, धूः = भार को, सचिवेषु = मन्त्रियों पर, निचिक्षिपे = सौंप दिया ।

हिन्दी अर्थ

राजा दिलीप ने पुत्र के निमित्त अनुष्ठान करने के लिए संसार के गुरुतर भार को अपनी भुजाओं से उतारकर मन्त्रियों के ऊपर रख दिया ॥34॥

टिप्पणी

-

श्लोक 35

अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया ।
तौ दम्पती वशिष्ठस्य गुरोर्जग्मतुराश्रमम् ।।35।।

अन्वय

अथ पुत्रकाम्यया तौ दम्पती प्रयतौ (सन्तौ) विधातारम् अभ्यर्च्य गुरोः वशिष्ठस्य आश्रमं जग्मतुः ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

सन्तानार्थानुष्ठानाय दिलीपस्य गुरुवशिष्ठाश्रमगमनमुपस्थापयति ।

संस्कृत व्याख्या

अथ = अनन्तरं, पुत्रकाम्यया = पुत्रस्य काम्यया आत्मजेच्छया, तौ = सुदक्षिणादिलीपौ, दम्पती = जम्पती, प्रयतौ = पवित्रौ, विधातारम् = ब्रह्माणम्, अभ्यर्च्य = सम्पूज्य, गुरोः = कुलगुरोः, वशिष्ठस्य = तदभिधेयस्य महर्षेः इति शेषः, आश्रमं = पदं, जग्मतुः = ययतुः । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

अथ = अनन्तर, पुत्रकाम्यया = पुत्र की इच्छा से, तौ = वे दोनों, दम्पती = पति-पत्नी राजा दिलीप एवं सुदक्षिणा, प्रयतौ = पवित्र होकर, विधातारम् = विधाता (ब्रह्मा) की, अभ्यर्च्य = पूजा कर, गुरोः = गुरु, वशिष्ठस्य = वशिष्ठ के, आश्रमम् = आश्रम, जग्मतुः = गये ।

हिन्दी अर्थ

इसके बाद पुत्र की इच्छा से वे दोनों पति-पत्नी पवित्र होकर विधाता (ब्रह्मा) की पूजा कर कुलगुरु महर्षि वशिष्ठ के आश्रम गये ॥35॥

टिप्पणी

-

श्लोक 36

स्निग्धगम्भीरनिघोंषमेकं स्यन्दनमास्थितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ।।36।।

अन्वय

स्निग्धगम्भीरनिर्घोषम् एकं स्यन्दनं प्रावृषेण्यं पयोवाहं विद्युदैरावतौ इव आस्थितौ ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

वशिष्ठाश्रमं गन्तुकामस्य दिलीपस्य रथं वर्णयति ।

संस्कृत व्याख्या

स्निग्धगम्भीरनिर्घोषम् = स्निग्धश्चासौ गम्भीरः स्निग्धगम्भीरः, स्निग्धगम्भीरो निर्घोषो यस्य स तं मधुरमन्द्रध्वनिम्, एकम् = अन्यतमम्, स्यन्दनं = रथम्, प्रावृषेण्यं = वर्षर्तुभवं, पयोवाहं = वारिदम्, विद्युदैरावतौ = विद्युत् च ऐरावतश्च तौ = तडिदभ्रमातङ्गौ, इव = यथा, आस्थितौ = आरूढौ, जग्मतुरिति पूर्वेण सह सम्बन्धः । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोपमा ।

हिन्दी व्याख्या

स्निग्धगम्भीरनिर्घोषम् = मधुर तथा गम्भीर ध्वनि वाले, एकम् = एक, स्यन्दनम् = रथ पर, प्रावृषेण्यम् = वर्षाकालीन, पयोवाहम् = बादल पर, विद्युदैरावतौ इव = बिजली एवं ऐरावत हाथी की तरह, आस्थितौ = बैठे हुए (राजा दिलीप तथा सुदक्षिणा गुरु वशिष्ठ के आश्रम गये) ।

हिन्दी अर्थ

वर्षा ऋतु में उत्पन्न बादल पर चढ़ी बिजली और ऐरावत हाथी के समान मधुर तथा मन्द्र ध्वनि वाले एक ही रथ पर बैठे हुए सुदक्षिणा और दिलीप गुरु वशिष्ठ के आश्रम गये ॥36॥

टिप्पणी

-

श्लोक 37

मा भूदाश्रमपीडेति परिमेयपुरःसरौ ।
अनुभावविशेषात्तु सेनापरिवृताविव ।।37।।

अन्वय

आश्रमपीडा मा भूत् इति परिमेयपुरःसरौ अनुभावविशेषात् तु सेनापरिवृतौ इव (जग्मतुः) ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

वशिष्ठाश्रमं गच्छतोः सुदक्षिणादिलीपयोः सेनारहितत्वं प्रस्तौति ।

संस्कृत व्याख्या

आश्रमपीडा = आश्रमस्य पीडा आश्रमिणां व्यथा, क्लेश इति यावत्, मा भूत् = न भवतु, इति इत्यस्माद्धेतोः, परिमेयपुरःसरौ = परिमेयाः पुरःसराः ययोः तौ = सीमिताग्रेसरौ, अनुभावविशेषात् = अनुभावस्य विशेषः तस्मात् प्रभावातिशयात्, तु = किन्तु, सेनापरिवृतौ = सेनया परिवृतौ वाहिनीवेष्टितौ, इव = यथा, स्थितौ = आरूढौ, जग्मतुः इति पूर्वेण सह सम्बन्धः । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोत्प्रेक्षा ।

हिन्दी व्याख्या

आश्रमपीडा = आश्रमवासियों को कष्ट, मा = नहीं, भूत् = हो, इति = यह सोचकर, परिमेयपुरःसरौ = थोड़े से परिजनों को साथ लिये हुए, अनुभावविशेषात् = अत्यन्त प्रभावशाली होने के कारण, तु = तो, सेनापरिवृतौ इव = सेना से घिरे हुए की तरह (वे दोनों दम्पती राजा दिलीप तथा सुदक्षिणा गुरु वशिष्ठ के आश्रम गये) ।

हिन्दी अर्थ

आश्रमवासियों को कष्ट न हो, इसलिए थोड़े से परिजनों को साथ लिये हुए, परन्तु अत्यन्त प्रभावशाली होने के कारण सेना से घिरे हुए की तरह सुदक्षिणा और दिलीप, रथ में आरूढ़ होकर कुलगुरु महर्षि वशिष्ठ के आश्रम गये ॥37॥

टिप्पणी

-

श्लोक 38

सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः ।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ।।38।।

अन्वय

सुखस्पर्शैः शालनिर्यासगन्धिभिः पुष्परेणूत्किरैः आधूतवनराजिभिः वातैः सेव्यमानौ (जग्मतुः) ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

वशिष्ठाश्रमगमनकालिकेन शीतलमन्दसुगन्धिवायुना सेव्यमानं सपत्नीकं दिलीपं वर्णयति ।

संस्कृत व्याख्या

सुखस्पर्शैः = सुखः स्पर्शो येषां ते तैः प्रियस्पर्शैः, शालनिर्यासगन्धिभिः = शालानां निर्यासाः शालनिर्यासाः, तेषां गन्धः, स अस्ति एष्विति शालनिर्यासगन्धिनस्तैः = सर्जतरुनिष्यन्दसुरभिभिः, पुष्परेणूत्किरैः = पुष्पाणां रेणवः पुष्परेणवः, तेषाम् उत्किराः तैः = प्रसूनपरागविक्षेपकैः, आधूतवनराजिभिः = वनानां राजयः वनराजयः, आधूताः वनराजयो यैस्ते, तैः = ईषच्चालितकाननपङ्क्तिभिः, वातैः = अनिलैः, सेव्यमानौ = उपास्यमानौ, जग्मतुरिति पूर्वेणान्वयः । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोत्प्रेक्षा ।

हिन्दी व्याख्या

सुखस्पर्शैः = सुखद स्पर्श वाले, शालनिर्यासगन्धिभिः = शालवृक्ष की गोद में सुगन्धि से युक्त, पुष्परेणूत्किरैः = परागों को बिखेरने वाले, आधूतवनराजिभिः = वनपंक्तियों को कम्पित करने वाले, वातैः = हवाओं से, सेव्यमानौ = सेवित होते हुए (वे दोनों आश्रम गये) ।

हिन्दी अर्थ

सुखद स्पर्श वाले, शालवृक्ष की गोद में सुगन्धि से युक्त, परागों को बिखेरने वाले तथा वनपंक्तियों को धीरे-धीरे कँपाते हुए वायुओं के द्वारा सेवित होते हुए सुदक्षिणा और दिलीप कुलगुरु वशिष्ठ के आश्रम गये ॥38॥

टिप्पणी

-

श्लोक 39

मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ।।३९।।

अन्वय

रथनेमिस्वनोन्मुखैः शिखण्डिभिः द्विधा भिन्नाः षड्जसंवादिनीः मनोभिरामाः केकाः शृण्वन्तौ (जग्मतुः)।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

राज्ञो दिलीपस्य वशिष्ठाश्रमगमनकाले मार्गे मयूराणां ध्वनिं वर्णयति।

संस्कृत व्याख्या

रथनेमिस्वनोन्मुखैः = रथस्य नेमयः रथनेमयः, तासां स्वनः रथनेमिस्वनः, उद् येषां मुखाः ते उन्मुखाः, रथनेमिस्वनेन उन्मुखाः तैः = स्यन्दनचक्रग्रान्तशब्दोन्नतानने, शिखण्डिभिः = मयूरैः, द्विधा = शुद्धविकृतभेदेन, भिन्नाः = भेदमापन्नाः, षड्जसंवादिनीः = षड्जेन संवादिन्यः षड्जसंवादिन्यः, ताः = षड्जाभिधेयस्वरानुकारिणीः, मनोभिरामाः = मनसः अभिरामाः मनोभिरामाः, ताः = चित्ताह्लादिकाः, केकाः = मयूररवाः, शृण्वन्तौ = आकर्णयन्तौ, तौ जग्मतुः इति पूर्वेण सह सम्बन्धः। अत्रानुष्टुब्वृत्तम्।।

हिन्दी व्याख्या

रथनेमिस्वनोन्मुखैः = रथ के पहियों के शब्द के कारण ऊपर मुख किये हुए, शिखण्डिभिः = मयूरों की, द्विधा = दो प्रकार की, भिन्नाः = भिन्न-भिन्न, षड्जसंवादिनीः = षड्जस्वर के सदृश, मनोभिरामाः = मनोहर, केकाः = केका ध्वनि, शृण्वन्तौ = सुनते हुए (वे दोनों आश्रम गये)।

हिन्दी अर्थ

रथ के पहियों के शब्दों के कारण ऊपर मुँह किये मयूरों की शुद्ध और विकृत भेद से भिन्न षड्ज स्वर के समान, मनोहर केका (मयूरों के शब्दों) को सुनते हुए सुदक्षिणा और दिलीप महर्षि वशिष्ठ के आश्रम गये।।३९।।

श्लोक 40

परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ।।४०।।

अन्वय

अदूरोज्झितवर्त्मसु स्यन्दनाबद्धदृष्टिषु मृगद्वन्द्वेषु परस्पराक्षिसादृश्यं पश्यन्तौ (तौ जग्मतुः) ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

वशिष्ठाश्रमगमनकाले मार्गे विचरतां मृगाणां वर्णनं करोति ।

संस्कृत व्याख्या

अदूरोज्झितवर्त्मसु = न दूरम् अदूरम्, अदूरम् उज्झितं वर्त्म यैस्तेषु = समीपव्यक्तमार्गेषु, स्यन्दनाबद्धदृष्टिषु = स्यन्दने रथे आबद्धा दृष्टिर्येषां तेषु = रथासक्तनेत्रेषु, मृगद्वन्द्वेषु = मृग्यश्च मृगाश्च मृगास्तेषां द्वन्द्वेषु = हरिणयुग्मेषु, परस्पराक्षिसादृश्यम् = परस्परस्य अक्ष्णोः सादृश्यं = मिथो नयनसारूप्यम्, पश्यन्तौ = अवलोकयन्तौ, जग्मतुः इति पूर्वेण सहान्वयः । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

अदूरोज्झितवर्त्मसु = मार्ग को छोड़कर नजदीक में खड़े, स्यन्दनाबद्धदृष्टिषु = रथ की ओर निर्निमेष नेत्रों से देख रहे, मृगद्वन्द्वेषु = मृगों की जोड़ियों में, परस्पराक्षिसादृश्यम् = परस्पर आँखों की सदृश्यता को, पश्यन्तौ = देखते हुए, सुदक्षिणा और दिलीप महर्षि वशिष्ठ के आश्रम को गये ।

हिन्दी अर्थ

मार्ग को छोड़कर नजदीक में खड़े, रथ की ओर निर्निमेष नेत्रों से देख रहे, मृगों की जोड़ियों में परस्पर आँखों की सदृश्यता को देखते हुए सुदक्षिणा और दिलीप महर्षि वशिष्ठ के आश्रम गये ॥४०॥

टिप्पणी

-

श्लोक 41

श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्त्रजम् ।
सारसैः कलनिहृदैिः क्वचिदुन्नमिताननौ ।।४१।।

अन्वय

श्रेणीबन्धात् अस्तम्भां तोरणस्त्रजं वितन्वद्भिः कलनिर्हादैः सारसैः क्वचित् उन्नमिताननौ (जग्मतुः) ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

राज्ञो दिलीपस्य वशिष्ठाश्रमगमनकाले आकाशे पङ्क्तिबद्धसारसान् वर्णयति ।

संस्कृत व्याख्या

श्रेणीबन्धात् = श्रेण्याः बन्धः तस्मात् = पङ्क्तिव्रजनात्, अस्तम्भाम् = न स्तम्भः यस्याः सा ताम् = अनाधाराम्, तोरणस्त्रजम् = तोरणस्य स्रजं बहिर्द्वारमालाम्, वितन्वद्भिः = कुर्वद्भिः, कलनिर्हादैः = कलः निर्हादो येषां तैः = मधुरास्फुटध्वनिभिः, सारसैः = खगविशेषैः, क्वचित् = कुत्रचित्, उन्नमिताननौ = उन्नमिते आनने ययोस्तौ = ऊर्ध्वीकृतवक्त्रौ, तौ सुदक्षिणादिलीपौ जग्मतुः इति पूर्वेणान्वयः । अत्रानुष्टुब्वृत्तम् । अलङ्कारश्चात्रोत्प्रेक्षा ।

हिन्दी व्याख्या

श्रेणीबन्धात् = पंक्तिबद्ध होकर उड़ने में, अस्तम्भाम् = स्तम्भरहित, तोरणस्त्रजम् = तोरणजाल को, वितन्वद्भिः = फैलाते हुए अर्थात् तोरणमाला की तरह सुशोभित होते हुए, कलनिर्हादैः = मधुर तथा अस्पष्ट शब्द करने वाले, सारसैः = सारसों के कारण, क्वचित् = कहीं-कहीं, उन्नमिताननौ = ऊपर मुँह उठाते हुए, राजा दिलीप और पत्नी सुदक्षिणा गुरु वशिष्ठ के आश्रम की ओर चल रहे थे ।

हिन्दी अर्थ

पंक्तिबद्ध होकर उड़ने से आधाररहित तोरण की माला की तरह सुशोभित, मधुर और अस्पष्ट शब्द करने वाले सारसों के कारण कहीं-कहीं ऊपर मुँह उठाते हुए सुदक्षिणा और दिलीप महर्षि वशिष्ठ के आश्रम जा रहे थे ॥४१॥

टिप्पणी

-

श्लोक 42

पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः ।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ।।४२।।

अन्वय

प्रार्थनासिद्धिशंसिनः पवनस्य अनुकूलत्वात् तुरगोत्कीर्णैः रजोभिः अस्पृष्टालकवेष्टनौ (तौ जग्मतुः) ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति ।

प्रसङ्ग

दिलीपस्य वशिष्ठाश्रमगमनकाले वायोरनुकूलत्वं प्रस्तौति ।

संस्कृत व्याख्या

प्रार्थनासिद्धिशंसिनः = प्रार्थनायाः सिद्धिं शंसतीति तच्छीलस्तस्य = याञ्चासिद्धिसूचकस्य, पवनस्य = मरुतः, अनुकूलत्वात् = सपक्षत्वात्, तुरगोत्कीर्णैः = तुरगैः उत्कीर्णानि तैः = अश्वशफोत्थितैः, रजोभिः = धूलिभिः, अस्पृष्टालकवेष्टनौ = न स्पृष्टानि अलकवेष्टनानि ययोस्तौ = असम्पृक्तकेशोष्णीषौ, तौ सुदक्षिणादिलीपौ वशिष्ठाश्रमं जग्मतुरिति पूर्वेणान्वयः । अत्रानुष्टुब्वृत्तम् ।

हिन्दी व्याख्या

प्रार्थनासिद्धिशंसिनः = प्रार्थना की सिद्धि अर्थात् पुत्रप्राप्ति की सूचना देने वाले, पवनस्य = पवन, वायु की, अनुकूलत्वात् = अनुकूल होने से, तुरगोत्कीर्णैः = घोड़ों द्वारा उड़ायी गयी, रजोभिः = धूलियों से, अस्पृष्टालकवेष्टनौ = स्पर्श नहीं किये गये बालों और पगड़ी वाले, सुदक्षिणा और दिलीप गुरु वशिष्ठ के आश्रम की ओर चल रहे थे ।

हिन्दी अर्थ

याचना की सिद्धि अर्थात् पुत्रप्राप्ति की सूचना देने वाली हवा के अनुकूल होने के कारण, घोड़ों द्वारा उड़ायी गयी धूल से स्पर्श न किये गये बालों और पगड़ी वाले सुदक्षिणा और दिलीप महर्षि वशिष्ठ के आश्रम गये ॥४२॥

टिप्पणी

-

श्लोक 43

सरसीष्वरविन्दानां वीचिक्षोभशीतलम् ।
आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥४३॥

अन्वय

सरसीषु वीचिविक्षोभशीतलं स्वनिःश्वासानुकारिणम् अरविन्दानाम् आमोदम् उपजिघ्रन्तौ (तौ जग्मतुः)।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

सुदक्षिणादिलीपयोः उत्कृष्टस्त्रीपुमजातीयत्वं निर्दिशति महाकविः।

संस्कृत व्याख्या

सरसीषु=कासारेषु, वीचिविक्षोभशीतलम्=वीचीनां विक्षोभेन शीतलस्तं तरङ्गसंक्षोभशिशिरम्, स्वनिःश्वासानुकारिणम्=स्वस्य निःश्वासः तस्यानुकारी तं निजनिःश्वाससदृशम्, अरविन्दानाम्=जलजानाम्, आमोदम्=सौरभम्, उपजिघ्रन्तौ=घ्राणविषयीकुर्वन्तौ, तौ सुदक्षिणादिलीपौ महर्षेः वशिष्ठस्याश्रमं जग्मतुरिति पूर्वेणान्वयः। अनुष्टुप्छन्दः। अत्रोत्प्रेक्षा चालङ्कारः।

हिन्दी व्याख्या

सरसीषु=बावड़ियों (छोटे-छोटे सरोवरों) में, वीचिविक्षोभशीतलम्=लहरों के विक्षोभ से शीतल, स्वनिःश्वासानुकारिणम्=अपनी श्वासों के सदृश, अरविन्दानाम्=कमलों की, आमोदम्=सुगन्ध क,। उपजिघ्रन्तौ=सूँघते हुए (दम्पती राजा दिलीप एवं सुदक्षिणा गुरु वशिष्ठ के आश्रम की ओर चल रहे थे),

हिन्दी अर्थ

बावड़ियों (छोटे सरोवरों) में लहरों के विक्षोभ से शीतल, अपनी श्वासों के समान कमलों की सुगन्ध को सूँघते हुए सुदक्षिणा और दिलीप महर्षि वशिष्ठ के आश्रम गये।

टिप्पणी

-

श्लोक 44

ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् ।
अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः ॥४४॥

अन्वय

आत्मविसृष्टेषु यूपचिह्नेषु ग्रामेषु अमोघाः यज्वनाम् आशिषः अर्घ्यानुपदम् प्रतिगृह्णन्तौ (तौ जग्मतुः)।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

वशिष्ठाश्रमं गच्छतोः सुदक्षिणादिलीपयोर्वर्णनमुपस्थापयति।

संस्कृत व्याख्या

आत्मविसृष्टेषु=आत्मना विसृष्टेषु, तेेषु=स्वदत्तेषु, यूपचिह्नेषु=यूपाः चिह्नानि येषां ते तेषु=यूपाख्यदारुविशेषलक्षणेषु, ग्रामेषु=जनपदेषु, अमोघाः=अव्यर्थाः, यज्वनाम्=विधिनेष्टवताम्, आशिषः=आशीर्वचनानि, अर्घ्यानुपदम्=पदस्य पश्चात् अनुपदम्, अर्घ्यस्वीकारानन्तरमित्यर्थः, प्रतिगृह्णन्तौ=स्वीकुर्वन्तौ, तौ सुदक्षिणादिलीपौ वशिष्ठाश्रमं जग्मतुरिति पूर्वेणान्वयः। अनुष्टुप्छन्दः।

हिन्दी व्याख्या

आत्मविसृष्टेषु=अपने द्वारा दान दिये गये। यूपचिह्नेषु=यज्ञ के अंगभूत यूप नामक काष्ठ विशेष से चिह्नित। ग्रामेषु=गाँवों में। अमोघाः=निष्फल न होने वाले। यज्वनाम्=विधिपूर्वक यज्ञ करने वाले लोगों के। आशिषः=आशीर्वाद को। अर्घ्यानुपदम्=अर्घ्य के पश्चात्। प्रतिगृह्णन्तौ=ग्रहण करते हुए (दम्पती राजा दिलीप तथा सुदक्षिणा गुरु वशिष्ठ के आश्रम की ओर चल रहे थे)।

हिन्दी अर्थ

अपने द्वारा दान दिये गये, यज्ञ के अंगभूत यूप नामक काष्ठ विशेष से चिह्नित गाँवों में अर्घ्य के बाद विधिपूर्वक यज्ञ किये लोगों के आशीर्वादों को ग्रहण करते हुए सुदक्षिणा और दिलीप महर्षि वशिष्ठ के आश्रम गये।

टिप्पणी

-

श्लोक 45

हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तो वन्यानां मार्गशाखिनाम् ॥४५॥

अन्वय

हैयङ्गवीनम् आदाय उपस्थितान् घोषवृद्धान् वन्यानां मार्गशाखिनां नामधेयानि पृच्छन्तौ (तौ जग्मतुः)।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

वशिष्ठाश्रमं गच्छतोः सुदक्षिणादिलीपयोः काननपादपाभिधेयजिज्ञासामुपस्थापयति।

संस्कृत व्याख्या

हैयङ्गवीनम्=तात्कालिकं गोदोहोद्भवं घृतम्, आदाय=गृहीत्वा, उपस्थितान्=समागतान्, घोषवृद्धान्=घोषेषु वृद्धान् आभीरपल्लीस्थविरान्, वन्यानाम्=आरण्यकानाम्, मार्गशाखिनाम्=मार्गे शाखिनस्तेषाम् अध्वपादपानाम्, नामधेयानि=नामानि, पृच्छन्तौ=जिज्ञासमानौ, तौ सुदक्षिणादिलीपौ महर्षिवशिष्ठाश्रमं जग्मतुः। अनुष्टुप्छन्दः।

हिन्दी व्याख्या

हैयङ्गवीनम्=गाय का मक्खन (ताजा घी)। आदाय=लेकर। उपस्थितान्=आये हुए। घोषवृद्धान्=बूढ़े ग्वालों से। वन्यानाम्=वन के। मार्गशाखिनाम्=रास्ते में पड़ने वाले वृक्षों के। नामधेयानि=नामों को। पृच्छन्तौ=पूछते हुए (वे दोनों राजा दिलीप तथा सुदक्षिणा गुरु वशिष्ठ के आश्रम के लिए गये)।

हिन्दी अर्थ

गाय का मक्खन (ताजा घी) लेकर आये हुए बूढ़े ग्वालों से रास्ते में पड़ने वाले जंगली वृक्षों का नाम पूछते हुए सुदक्षिणा और दिलीप महर्षि वशिष्ठ के आश्रम गये।

टिप्पणी

-

श्लोक 46

काप्यभिख्या तयोरा सीद् व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोश्चित्राचन्द्रमसोरिव ॥४६॥

अन्वय

व्रजतोः शुद्धवेषयोः तयोः हिमनिर्मुक्तयोः चित्राचन्द्रमसोः इव योगे कापि अभिख्या आसीत्।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

महाकविः वशिष्ठाश्रमं गच्छतोः सुदक्षिणादिलीपयोः शोभातिशयित्वं प्रस्तौति।

संस्कृत व्याख्या

व्रजतोः=गच्छतोः, शुद्धवेषयोः=शुद्धः वेषः ययोः तयोः उज्ज्वलनेपथ्ययोः तयोः=सुदक्षिणादिलीपयोः, हिमनिर्मुक्तयोः=हिमात् निर्मुक्तौ हिमनिर्मुक्तौ, तौ=तुषारानाच्छादितौ, चित्राचन्द्रमसोः=चित्रा च चन्द्रमा च चित्राचन्द्रमसौ तयोः=चित्राभिधेयनक्षत्रविशेषचन्द्रयोः, इव=यथा, योगे=संयोगे, कापि=अवर्णनीया, अभिख्या=सुषमा, आसीत्=अभूत्। अनुष्टुप्छन्दः। अत्रोपमा चालङ्कारः।

हिन्दी व्याख्या

व्रजतोः=जाते हुए। शुद्धवेषयोः=शुद्ध वेष धारण करने वाले। तयोः=उन दोनों राजा दिलीप तथा सुदक्षिणा की। हिमनिर्मुक्तयोः=तुषार से अनाच्छादित। चित्राचन्द्रमसोः इव=चित्रा नक्षत्र तथा चन्द्रमा की तरह। योगे=संयोग में। कापि=अनिर्वचनीय। अभिख्या=शोभा। आसीत्=थी।

हिन्दी अर्थ

शुद्ध वेष को धारण कर जाते हुए सुदक्षिणा और दिलीप की, जाड़ा बीत जाने के बाद तुषार से अनाच्छादित चित्रा नक्षत्र और चन्द्रमा के समान संयोग होने पर अवर्णनीय शोभा थी।

टिप्पणी

-

श्लोक 47

...

अन्वय

...

सन्दर्भ

...

प्रसङ्ग

...

संस्कृत व्याख्या

...

हिन्दी व्याख्या

...

हिन्दी अर्थ

...

टिप्पणी

-

श्लोक 48

...

अन्वय

...

सन्दर्भ

...

प्रसङ्ग

...

संस्कृत व्याख्या

...

हिन्दी व्याख्या

...

हिन्दी अर्थ

...

टिप्पणी

-

श्लोक 49

वनान्तरादुपावृत्तैः सुमित्कुशफलाहरैः ।
पूर्वमप्युत्थिताग्नीनां प्रत्युद्युक्तास्तपस्विभिः ॥४९॥

अन्वय

वनान्तरात् उपावृत्तैः सुमित्कुशफलाहरैः अदृश्याग्निप्रत्युद्युक्तैः तपस्विभिः पूर्यमाणम् आश्रमम् (प्रापत्)।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

श्लोकेन तपस्विभिः सकलं जन्तुजनं चरणार्थं फलानि च आदाय आश्रमं प्रत्यागमनं वर्णयति।

संस्कृत व्याख्या

वनान्तरात्=अन्यं वनं वनान्तरं तस्मात्=अन्यवनात्, उपावृत्तैः=प्रत्यागच्छद्भिः, सुमित्कुशफलाहरैः=समिधश्च कुशाश्च फलानि च समित्कुशफलानि, तानि आहर्तुं शीलं येषां ते तैः=काष्ठदर्भफलवाहकैः, अदृश्याग्निप्रत्युद्युक्तैः=न दृश्याः अदृश्याः, ते च ते अग्नयः अदृश्याग्नयः, प्रत्युद्युक्ताः=अलक्ष्यपावकप्रत्युद्यतैः, तपस्विभिः=तापसैः, पूर्यमाणम्=व्याप्यमानम्, आश्रमं प्रापदिति पूर्वेणान्वयः। अनुष्टुप्छन्दः।

हिन्दी व्याख्या

वनान्तरात्=दूसरे जंगलों से। उपावृत्तैः=लौटते हुए। सुमित्कुशफलाहरैः=समिधा, कुश और फल लेकर आने वाले। अदृश्याग्निप्रत्युद्युक्तैः=छिपी हुई अग्नि से स्वागत किये गये। तपस्विभिः=तपस्वियों से। पूर्यमाणम्=भरे जाने वाला।

हिन्दी अर्थ

दूसरे जंगलों से समिधा, कुश और फलों को लेकर लौटे हुए, छिपी हुई अग्नि से स्वागत किये गये, तपस्वियों से भरे जाने वाले आश्रम को राजा दिलीप ने प्राप्त किया।

टिप्पणी

-

श्लोक 50

आकीर्णपृषिपत्नीनामुटजद्वाररोधिभिः ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥५०॥

अन्वय

नीवारभागधेयोचितैः उटजद्वाररोधिभिः मृगैः ऋषिपत्नीनाम् अपत्यैः इव आकीर्णम् (आश्रमं प्रापत्)।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

महाकविः वशिष्ठाश्रमस्य हरिणानां वर्णनमुपस्थापयति।

संस्कृत व्याख्या

नीवारभागधेयोचितैः=नीवाराणां भागधेयम्, तस्य उचिताः, तैः=तृणधान्यांशयोग्यैः, उटजद्वाररोधिभिः=उटजानां द्वाराणि, तेषां रोधिनः=पर्णकुटीरप्रतीहारावरोधकैः, मृगैः=हरिणैः, ऋषिपत्नीनाम्=ऋषीणां पत्न्यः तासां मुनिभार्याणाम्, अपत्यैः=सन्तानैः, इव=यथा, आकीर्णम्=आक्रान्तम् आश्रमं प्रापदिति पूर्वेणान्वयः। अनुष्टुप्छन्दः। अत्र स्वभावोक्तिरलङ्कारः।

हिन्दी व्याख्या

नीवारभागधेयोचितैः=तृण-धान्यांश के अधिकारी। उटजद्वाररोधिभिः=पर्णकुटीर के दरवाजे को घेरने वाले। ऋषिपत्नीनाम्=ऋषिपत्नियों की। अपत्यैः इव=सन्तान की तरह। मृगैः=मृगों से। आकीर्णम्=व्याप्त (आश्रम में राजा दिलीप पत्नी सुदक्षिणासहित पहुँचे)।

हिन्दी अर्थ

मानों ऋषियों की पत्नियों की सन्तानों की तरह, तृण-धान्यांश के अधिकारी पर्णकुटीर के दरवाजे को घेरने वाले मृगों से व्याप्त आश्रम को राजा दिलीप ने प्राप्त किया।

टिप्पणी

-

श्लोक 51

सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् ।
विश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥५१॥

अन्वय

सेकान्ते मुनिकन्याभिः आलवालाम्बुपायिनां विहङ्गानां विश्वासाय तत्क्षणोज्झितवृक्षकम् (आश्रमं प्रापत्)।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

वशिष्ठाश्रमे मुनिकन्यायाः जलसेचनं प्रस्तौति।

संस्कृत व्याख्या

सेकान्ते=सेकस्य अन्तः सेकान्तस्तस्मिन्=आलवालवृक्षमूलसेचनावसाने, मुनिकन्याभिः=मुनीनां कन्यास्ताभिः=ऋषिबालाभिः, आलवालाम्बुपायिनाम्=आलवालेषु अम्बु आलवालाम्बु, आलवालाम्बु पिबन्तीति आलवालाम्बुपायिनस्तेषाम्=आलवालवारिग्राहिणां, विहङ्गानाम्=खगानाम्, विश्वासाय=प्रत्ययाय, तत्क्षणोज्झितवृक्षकम्=स चासौ क्षणश्च तत्क्षणः, तस्मिन् उज्झिताः तत्क्षणोज्झिताः वृक्षकाः यस्मिन् सः तं सपदि त्यक्तलघुपादपम्, आश्रमं प्रापदिति पूर्वेणान्वयः। अनुष्टुप्छन्दः।

हिन्दी व्याख्या

सेकान्ते=सींचने के बाद। मुनिकन्याभिः=मुनि की कन्याओं के द्वारा। आलवालाम्बुपायिनाम्=क्यारियों के जल को पीने वाले। विहङ्गानाम्=पक्षियों के। विश्वासाय=विश्वास के लिए। तत्क्षणोज्झितवृक्षकम्=उसी क्षण छोड़े हुए छोटे-छोटे वृक्षों वाले (आश्रम में पत्नी सुदक्षिणासहित राजा दिलीप पहुँचे)।

हिन्दी अर्थ

सींचने के बाद, मुनियों की कन्याओं के द्वारा क्यारी के जल पीने वाले पक्षियों के विश्वास के लिए, उसी क्षण छोड़े हुए छोटे-छोटे वृक्षों वाले आश्रम को राजा दिलीप ने प्राप्त किया।

टिप्पणी

-

श्लोक 52

आतपात्ययसंक्षिप्तनीवारासु निषादिभिः ।
मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥५२॥

अन्वय

आतपात्ययसंक्षिप्तनीवारासु उटजाङ्गनभूमिषु निषादिभिः मृगैः वर्तितरोमन्थम् (आश्रमं प्रापत्)।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

वशिष्ठाश्रमस्थानां कृतरोमन्थानां मृगाणां वर्णनमुपस्थापयति।

संस्कृत व्याख्या

आतपात्ययसंक्षिप्तनीवारासु=आतपस्य अत्ययः, तस्मिन् संक्षिप्ताः, आतपात्ययसंक्षिप्ताः नीवारा यासु ताः=प्रकाशापगमराशीकृततृणधान्यासु, उटजाङ्गनभूमिषु=उटजानाम् अङ्गनम्, तस्य भूमयस्तासु=पर्णकुटीराजिरभूमिषु, निषादिभिः=उपविष्टैः, मृगैः=हरिणैः, वर्तितरोमन्थम्=वर्तितः रोमन्थो यस्मिन् सः तं=कृतचर्वणम्, आश्रमं स प्रापदिति पूर्वेणान्वयः। अनुष्टुप्छन्दः। अत्र स्वभावोक्तिरलङ्कारः।

हिन्दी व्याख्या

आतपात्ययसंक्षिप्तनीवारासु=धूप के बीत जाने से इकट्ठे किये गये तृणधान्यों वाली। उटजाङ्गनभूमिषु=पर्णकुटीर के आँगन के भू-भाग में। निषादिभिः=बैठे हुए। मृगैः=मृगों के द्वारा। वर्तितरोमन्थम्=जुगाली किये जा रहे (आश्रम में राजा दिलीप पत्नी सुदक्षिणासहित पहुँचे)।

हिन्दी अर्थ

धूप के बीत जाने से इकट्ठे किये गये तृणधान्यों वाली पर्णकुटीर के आँगन के भू-भाग में बैठे हरिणों के द्वारा जुगाली किये जा रहे आश्रम को राजा दिलीप ने प्राप्त किया।

टिप्पणी

-

श्लोक 53

अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।
पुनानं पवनोदधूतैर्धूमैराहुतिगन्धिभिः ॥५३॥

अन्वय

अभ्युत्थिताग्निपिशुनैः पवनोदधूतैः आहुतिगन्धिभिः धूमैः आश्रमोन्मुखान् अतिथीन् पुनानम् (आश्रमं सः प्रापत्)।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

वशिष्ठाश्रमस्य वर्णनप्रसङ्गे यज्ञीयाग्निमुपस्थापयति।

संस्कृत व्याख्या

अभ्युत्थिताग्निपिशुनैः=अभितः उत्थिताः अभ्युत्थिताः, ते च ते अग्नयः अभ्युत्थिताग्नयः, तेषां पिशुनास्तैः=प्रज्वलितपावकसूचकैः, पवनोदधूतैः=पवनेन उद्धूताः=वायुसञ्चालितैः, आहुतिगन्धिभिः=आहुतीनां गन्धः अस्ति अस्येति आहुतिगन्धिः, तैः=हविर्मोदवद्भिः, धूमैः=धूमैः, आश्रमोन्मुखान्=आश्रमं उन्मुखान्=वशिष्ठाश्रममागन्तुकान्, अतिथीन्=नवागन्तुकान्, पुनानम्=पवित्रीकुर्वाणम्, आश्रमं दिलीपः प्रापदिति पूर्वेणान्वयः। अनुष्टुप्छन्दः। अत्रोपेक्षालङ्कारः।

हिन्दी व्याख्या

अभ्युत्थिताग्निपिशुनैः=प्रज्वलित अग्नि के सूचक। पवनोदधूतैः=वायु से उड़ाये गये। आहुतिगन्धिभिः=आहुति की सुगन्धि से युक्त। धूमैः=धुएँ से। आश्रमोन्मुखान्=आश्रम आ रहे। अतिथीन्=अतिथियों को। पुनानम्=पवित्र करने वाले (आश्रम में सपत्नीक राजा दिलीप पहुँचे)।

हिन्दी अर्थ

प्रज्वलित अग्नि के सूचक, वायु से उड़ाये गये आहुति की सुगन्धि से युक्त धुएँ से आश्रम आ रहे अतिथियों को पवित्र करने वाले आश्रम को राजा दिलीप ने प्राप्त किया।

टिप्पणी

-

श्लोक 54

अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः ।
तामवारोहयत्पत्नीं रथादवततार च ॥५४॥

अन्वय

अथ स यन्तारं धुर्यान् विश्रामय इति आदिश्य तां पत्नीं रथात् अवारोहत् अवततार च।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

महाकविः सुदक्षिणादिलीपयोः वशिष्ठाश्रमे रथावरोहणं प्रस्तौति।

संस्कृत व्याख्या

अथ=आश्रमप्रापणानन्तरं, सः=राजा दिलीपः, यन्तारम्=सारथिं, धुर्यान्=धुरं वहन्ति ये ते धुर्याः, घोटकानिति यावत्, विश्रामय=परिश्रममपनय, विनीतश्रमं कुर्विति भावः, इति=इत्यम्, आदिश्य=आज्ञाप्य, ताम्=पूर्वोक्तां, पत्नीम्=भार्यां सुदक्षिणामिति यावत्, रथात्=स्यन्दनात्, अवारोहयत्=अवतारितवान्, च=तथा, स्वयम् दिलीप इति शेषः, अवततार=अवरोहत्। अनुष्टुप्छन्दः।

हिन्दी व्याख्या

अथ=आश्रम पहुँचने के बाद। सः=राजा दिलीप ने। यन्तारम्=सारथि को। धुर्यान्=घोड़ों को। विश्रामय=विश्राम दो। इति=यह। आदिश्य=आदेश देकर। तां पत्नीम्=उस पत्नी सुदक्षिणा को। रथात्=रथ से। अवारोहत्=उतारा। च=तथा। अवततार=स्वयं उतरा।

हिन्दी अर्थ

आश्रम पहुँच जाने के बाद दिलीप ने सारथी को आदेश दिया कि “घोड़ों को विश्राम दो।” इस प्रकार आज्ञा देकर वह स्वयं रथ से उतरा और पत्नी को भी उतारा।

टिप्पणी

-

श्लोक 55

तस्मै सभार्याय सभायै गोपे गुप्ततमेन्द्रियाः ।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥५५॥

अन्वय

सभ्याः गुप्ततमेन्द्रियाः मुनयः सभार्याय गोपे नयचक्षुषे अर्हते तस्मै अर्हणां चक्रुः।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

वशिष्ठाश्रमे राज्ञो दिलीपस्य सपत्नीकस्य मुनिभिः कृतं स्वागतादिकं वर्णयति।

संस्कृत व्याख्या

सभ्याः=शिष्टाः, सभासद इति वा, गुप्ततमेन्द्रियाः=गुप्तानि इन्द्रियाणि येषां ते=जितेन्द्रियाः, मुनयः=ऋषयः, सभार्याय=भार्यया सहितः सभार्यस्तस्मै=सपत्नीकाय, गोपे=रक्षकाय, नयचक्षुषे=नयः चक्षुर्यस्य स तस्मै=नीतिनेत्राय, अर्हते=पूज्याय, तस्मै=पूर्वोक्ताय दिलीपाय, अर्हणां=पूजां, चक्रुः=कृतवन्तः। अनुष्टुप्छन्दः। नयचक्षुषे इत्यत्र रूपकमलङ्कारः।

हिन्दी व्याख्या

सभ्याः=शिष्ट। गुप्ततमेन्द्रियाः=तथा जितेन्द्रिय। मुनयः=मुनियों ने। सभार्याय=सपत्नीक। गोपे=रक्षक। नयचक्षुषे=नीतिरूपी आँख वाले। अर्हते=पूज्य। तस्मै=उस राजा दिलीप के लिए। अर्हणाम्=पूजा। चक्रुः=की।

हिन्दी अर्थ

शिष्ट तथा जितेन्द्रिय ऋषियों ने रक्षक, नीतिरूपी आँखों को धारण करने वाले अर्थात् नीतिशास्त्र के अनुसार चलने वाले, पूज्य पत्नी सुदक्षिणा के सहित राजा दिलीप की पूजा की।

टिप्पणी

-

श्लोक 56

विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम् ।
अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥५६॥

अन्वय

सः सायन्तनस्य विधेः अन्ते अरुन्धत्या अन्वासितं तपोनिधिं स्वाहया अन्वासितं हविर्भुजम् इव ददर्श।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

सपत्नीकेन राजा दिलीपेन सपत्नीकस्य महर्षेः वशिष्ठस्य कृतं दर्शनमुपस्थापयति।

संस्कृत व्याख्या

सः=पूर्वोक्तो दिलीपः, सायन्तनस्य=सायङ्कालिकस्य, विधेः=विधानस्य, जपहोमादेरिति यावत्, अन्ते=अवसाने, अरुन्धत्या=तदभिधेयया सुप्रसिद्धभार्यया, अन्वासितम्=उपसेवितम्, तपोनिधिम्=तपसां निधिः तपोनिधिस्तं तपोधनं महर्षिवशिष्ठमिति यावत्, स्वाहया=तदभिधेययाग्निपत्न्या, हविर्भुजम्=हविः भुङ्क्तीति हविर्भुक् तम्=अग्निम्, इव=यथा, ददर्श=व्यलोकयत्। अनुष्टुप्छन्दः। अत्रोपमा अलङ्कारः।

हिन्दी व्याख्या

सः=राजा दिलीप ने। सायन्तनस्य=सायंकालीन। विधेः=विधि (जप होमादि) के। अन्ते=अन्त में। अरुन्धत्या=अरुन्धती से। अन्वासितम्=सेवित। तपोनिधिम्=तपोनिधि गुरु वशिष्ठ को। स्वाहया=स्वाहा से। अन्वासितम्=सेवित। हविर्भुजम् इव=अग्नि की तरह। ददर्श=देखा।

हिन्दी अर्थ

राजा दिलीप ने सायंकाल के विधानों (जप-होमादि) की समाप्ति होने पर, स्वाहा से सेवित अग्नि की तरह अरुन्धती से सेवित महर्षि वशिष्ठ को देखा।

टिप्पणी

-

श्लोक 57

तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥५७॥

अन्वय

मागधी राज्ञी राजा च तयोः पादान् जगृहतुः, गुरुपत्नी गुरुः च तौ प्रीत्या प्रतिननन्दतुः।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

श्लोकेनानेन सपत्नीकेन राज्ञा दिलीपेन सपत्नीकस्य महर्षेः वशिष्ठस्य कृतं वन्दनमुपस्थापयति।

संस्कृत व्याख्या

मागधी=मगधराजकुमारी, राज्ञी=महिषी, सुदक्षिणेति भावः, राजा=अधिपो दिलीपः, च=तथा, तयोः=अरुन्धतीवशिष्ठयोः, पादान्=चरणान्, जगृहतुः=स्पृशतुः, गुरुपत्नी=गुरोः वशिष्ठस्य पत्नी, अरुन्धतीति भावः, गुरुः=आचार्यः, वशिष्ठ इति भावः, च=तथा, तौ=सुदक्षिणादिलीपौ, प्रीत्या=मुदा, प्रतिननन्दतुः=सम्भावयाञ्चक्रतुः, आशीर्वचोभिरिति शेषः। अनुष्टुप्छन्दः।

हिन्दी व्याख्या

मागधी राज्ञी=मागधी रानी। च=तथा। राजा=राजा ने। तयोः=उन दोनों के (गुरु वशिष्ठ तथा उनकी पत्नी अरुन्धती के)। पादान्=पैरों को। जगृहतुः=प्रणाम किया। गुरुपत्नी=गुरुपत्नी। च=तथा। गुरुः=गुरु। तौ=वे दोनों। प्रीत्या=हर्ष से। प्रतिननन्दतुः=आशीर्वाद दिया।

हिन्दी अर्थ

मागधी रानी सुदक्षिणा तथा राजा दिलीप ने अरुन्धती और वशिष्ठ को प्रणाम किया। अरुन्धती तथा वशिष्ठ ने भी हर्ष से सुदक्षिणा और दिलीप को आशीर्वाद दिया।

टिप्पणी

-

श्लोक 58

तमातिथ्यक्रियाशान्त रथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥५८॥

अन्वय

मुनिः आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमं राज्याश्रममुनिं तं राज्ये कुशलं पप्रच्छ।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

मुनिः वशिष्ठः राज्यस्य कुशलादिकं पृच्छति नृपं दिलीपमिति प्रस्तौति।

संस्कृत व्याख्या

मुनिः=ऋषिः, वशिष्ठ इति यावत्, आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमम्=आतिथ्यस्य क्रिया आतिथ्यक्रिया, तया शान्तः, आतिथ्यक्रियाशान्तः, रथस्य क्षोभः रथक्षोभस्तेन परिश्रमः, आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमः यस्य सः=सत्कारविगतयानसञ्चलनखेदः, राज्याश्रममुनिम्=राज्यमेव आश्रमः राज्याश्रमस्तस्मिन् मुनिं=राज्याश्रमसदृशं, तं=पूर्वोक्तं दिलीपं, राज्ये=स्वशास्यराष्ट्रविषये, कुशलं=क्षेमं, पप्रच्छ=अपृच्छत्। अनुष्टुप्छन्दः। अत्र मुनि-मुनिः इत्यनुप्रासः।

हिन्दी व्याख्या

मुनिः=गुरु वशिष्ठ ने। आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमम्=सत्कार के द्वारा रथ की सवारी से उत्पन्न परिश्रम से युक्त। राज्याश्रममुनिम्=राज्यरूपी आश्रम के मुनि। तम्=राजा दिलीप से। राज्ये=राज्य के विषय में। कुशलम्=कुशलक्षेम। पप्रच्छ=पूछा।

हिन्दी अर्थ

महर्षि वशिष्ठ ने सत्कार के द्वारा रथ की सवारी से उत्पन्न परिश्रम से मुक्त, राज्यरूपी आश्रम के मुनि राजा दिलीप से राज्य के विषय में कुशलादि समाचार पूछा।

टिप्पणी

-

श्लोक 59

अथार्थनिधेस्तस्य विजितारिपुरः पुरः ।
अर्थ्यामर्थपतिवाचमाददे वदतां वरः ॥५९॥

अन्वय

अथ विजितारिपुरः वदतां वरः अर्थपतिः अथर्वनिधेः तस्य पुरः अर्थ्याम् वाचम् आददे।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

वशिष्ठदिलीपयोः वार्तालापं प्रस्तोतुमुपक्रमतेऽत्र कविः।

संस्कृत व्याख्या

अथ=कुशलप्रश्नानन्तरं, विजितारिपुरः=अरीणां पुराणि अरिपुराणि, विजितानि अरिपुराणि येन स तथा उक्तः=अधिकृतशत्रुनगरः, वदतां=वक्तृणां, वरः=श्रेष्ठः, अर्थपतिः=अर्थस्य पतिः=राजा दिलीपः, अथर्वनिधेः=अथर्वस्य निधिः=अथर्ववेदाकारस्य, तस्य=वशिष्ठस्य, पुरः=अग्रे, अर्थ्याम्=अर्थयुक्तां, वाचम्=वाणीम्, आददे=जग्राह, वक्तुमारभत इति भावः। अनुष्टुप्छन्दः। अत्रानुप्रासोऽलङ्कारः।

हिन्दी व्याख्या

अथ=कुशलक्षेम पूछ लेने के बाद। विजितारिपुरः=शत्रुओं के नगरों को जीतने वाले। वदताम्=वक्ताओं में। वरः=श्रेष्ठ। अर्थपतिः=सम्पत्ति के स्वामी राजा दिलीप। अथर्वनिधेः=अथर्ववेद के विशेषज्ञ। तस्य=गुरु वशिष्ठ के। पुरः=समक्ष। अर्थ्याम्=अर्थपूर्ण। वाचम्=वाणी। आददे=बोले।

हिन्दी अर्थ

कुशलादि के बाद, शत्रुओं के नगरों को जीतने वाले, वक्ताओं में श्रेष्ठ, सम्पत्ति के स्वामी राजा दिलीप अथर्ववेद के विशेषज्ञ गुरु वशिष्ठ के सामने अर्थपूर्ण वाणी कहने लगे।

टिप्पणी

-

श्लोक 60

उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥६०॥

अन्वय

सप्तसु अङ्गेषु शिवम् उपपन्नं ननु यस्य मे दैवीनां मानुषीणां च आपदां त्वं प्रतिहर्ता (असि)।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

पद्येनानेन राजा दिलीपः महर्षेः वशिष्ठस्य महिमानं प्रस्तूयन् स्वसप्ताङ्गकराज्यस्य कुशलमुपस्थापयति।

संस्कृत व्याख्या

सप्तसु=सप्तसङ्ख्यकेषु, अङ्गेषु=अवयवेषु, स्वामि-अमात्य-सुहृत्-कोष-राष्ट्र-दुर्ग-बलाभिधेयेषु इति यावत्, शिवं=भद्रम्, उपपन्नं=युक्तं, ननु=निश्चयेन, यतो ह्येतिः शेषः, यस्य=दिलीपस्य, मे=मम, दैवीनां=विधीनां दुर्भिक्षादीनामिति यावत्, मानुषीणां=मानवीनां चौरभयादीनामिति यावत्, च=तथा, आपदां=विपदां, त्वं=भवान् महर्षिवशिष्ठ इति यावत्, प्रतिहर्ता=निवारयिता, असीति शेषः। अनुष्टुप्छन्दः। अत्र काव्यलिङ्गमलङ्कारः।

हिन्दी व्याख्या

सप्तसु=सातों। अङ्गेषु=अंगों में। शिवम्=कल्याण। उपपन्नं ननु=उचित ही है। यस्य मे=जिस मुझ राजा दिलीप के। दैवीनाम्=दैवी। च=तथा। मानुषीणाम्=मानुषी, मानवी। आपदाम्=आपत्तियों के। त्वम्=आप। प्रतिहर्ता=दूर करने वाले हैं।

हिन्दी अर्थ

आप जैसी मेरी दैवी और मानुषी आपदाओं से मुझे उद्धारने वालों के रहते हुए, मेरे राज्य के सातों अंगों (स्वामी, अमात्य, सुहृत्, कोश, राष्ट्र, दुर्ग और बल) में कुशल उचित ही है।

टिप्पणी

-

श्लोक 61

तव मन्त्रकृतो मन्त्रैर्दूरात् प्रशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥६१॥

अन्वय

दूरात् प्रशमितारिभिः मन्त्रकृतः तव मन्त्रैः दृष्टलक्ष्यभिदः मे शराः प्रत्यादिश्यन्त इव।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

वशिष्ठस्य मन्त्रप्रभावादेव दिलीपपौरुषं फलतीति सूचयति महाकविः दिलीपमुखात्।

संस्कृत व्याख्या

दूरात्=विप्रकृष्टदेशात्, प्रशमितारिभिः=प्रकर्षेण शमिताः प्रशमिताः, अरयो येभ्यस्ते, तैः=संहारितशत्रुभिः, मन्त्रकृतः=मन्त्रं करोतीति मन्त्रकृत्, तस्य=मन्त्रद्रष्टुः, तव=भवतो वशिष्ठस्य, मन्त्रैः=शब्दसङ्घातविशेषैः, दृष्टलक्ष्यभिदः=दृष्टं च तत् लक्ष्यं च दृष्टलक्ष्यं, तत् भिन्दन्तीति दृष्टलक्ष्यभिदः=दर्शनविषयीभूतलक्ष्यभेदकाः, मे=मम दिलीपस्येति यावत्, शराः=विशिखाः, प्रत्यादिश्यन्ते=निराक्रियन्ते, इव=यथा। अनुष्टुप्छन्दः। अत्रोत्प्रेक्षा चालङ्कारः।

हिन्दी व्याख्या

दूरात्=दूर से ही, परोक्ष रूप से। प्रशमितारिभिः=शत्रुओं को मारने वाले। मन्त्रकृतः=मन्त्रद्रष्टा। तव=आपके। मन्त्रैः=मन्त्रों से। दृष्टलक्ष्यभिदः=प्रत्यक्षभूत लक्ष्य को भेदने वाले। मे=मेरे। शराः=बाण। प्रत्यादिश्यन्त इव=मानो व्यर्थ किये जा रहे हैं।

हिन्दी अर्थ

परोक्ष रूप में ही शत्रुओं को मारने वाले, मन्त्रद्रष्टा आपके मन्त्र से प्रत्यक्षभूत लक्ष्य को भेदने वाले मेरे बाण मानो व्यर्थ किये जा रहे हैं।

टिप्पणी

-

श्लोक 62

हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥६२॥

अन्वय

हे होतः! त्वया विधिवत् अग्निषु आवर्जितं हविः अवग्रहविशोषिणां सस्यानां वृष्टिः भवति।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

दिलीपो महर्षिवशिष्ठहवनप्रभावं वर्णयति।

संस्कृत व्याख्या

हे होतः!=हे अग्निहोत्रिन्, त्वया=भवता, वशिष्ठेनेति यावत्, विधिवत्=यथाविधानम्, अग्निषु=पावकेषु, आवर्जितं=हुतम्, हविः=हवनीयम्, अवग्रहविशोषिणां=अवग्रहेण विशोषिणां, तेषां=वर्षप्रतिबन्धेन विशुष्यतां, सस्यानां=धान्यानां, वृष्टिः=वर्षणं, भवति=जायते। अनुष्टुप्छन्दः। अत्र काव्यलिङ्गमलङ्कारः।

हिन्दी व्याख्या

हे होतः!=हे होतः। त्वया=आपके द्वारा। विधिवत्=विधिपूर्वक। अग्निषु=आग में। आवर्जितम्=दी हुई। हविः=आहुति। अवग्रहविशोषिणाम्=अनावृष्टि से सूख रही। सस्यानाम्=फसलों के लिए। वृष्टिः=वृष्टि। भवति=प्रदान करती है।

हिन्दी अर्थ

हे होतः! आपके द्वारा विधिपूर्वक आग में दी गयी आहुति अनावृष्टि से सूख रही फसलों के लिए वृष्टि प्रदान करती है।

टिप्पणी

-

श्लोक 63

पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुत्वद्ब्रह्मवर्चसम् ॥६३॥

अन्वय

मदीयाः प्रजाः पुरुषायुषजीविन्यः निरातङ्काः निरीतयः, यत् तस्य हेतुः त्वद्ब्रह्मवर्चसम् (अस्ति)।

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

महर्षिवशिष्ठस्य महात्म्यं प्रस्तौति राजा-दिलीपमुखात् महाकविः कालिदासः।

संस्कृत व्याख्या

मदीयाः=मामकीनाः, प्रजाः=राज्यसन्ततयः, पुरुषायुषजीविन्यः=पुरुषस्य आयुः, पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः=शतवर्षजीवितकालाः, निरातङ्काः=निर्गताः आतङ्काः येभ्यस्ते=निर्भयाः, निरीतयः=निर्गता ईतयः येभ्यस्ते=अतिवृष्ट्यादिरहिताः, यत्=यस्मात् कारणात्, सन्तीति शेषः, तस्य=पुरुषायुषजीवित्वादेः, त्वद्ब्रह्मवर्चसम्=ब्रह्मणो वर्चः ब्रह्मवर्चसम्, तव ब्रह्मवर्चसं=तव व्रताध्ययनसम्पत्तिः, हेतुः=कारणम्, अस्तीति शेषः। अनुष्टुप्छन्दः।

हिन्दी व्याख्या

मदीयाः=मेरी। प्रजाः=प्रजा। पुरुषायुषजीविन्यः=सौ वर्ष जीने वाली। निरातङ्काः=निर्भय। निरीतयः=अतिवृष्टि, अनावृष्टि आदि से रहित। यत्=जो है। तस्य=उसका। हेतुः=मुख्य कारण। त्वद्ब्रह्मवर्चसम्=आपका ब्रह्मचर्य है।

हिन्दी अर्थ

मेरी प्रजा सौ वर्ष जीने वाली, निर्भय, अतिवृष्टि आदि से रहित है, उसका मुख्य कारण आपका ब्रह्मचर्य ही है।

टिप्पणी

-

श्लोक 64

त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः ॥६४॥

अन्वय

ब्रह्मयोनिना गुरुणा त्वया एवं चिन्त्यमानस्य निरापदः मे सम्पदः सानुबन्धाः कथं न स्युः?

सन्दर्भ

श्लोकोऽयं महाकविना कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य प्रथमसर्गात् समुद्धृतोऽस्ति।

प्रसङ्ग

पद्येनानेन राजा दिलीपो महर्षि वशिष्ठं स्तौति।

संस्कृत व्याख्या

ब्रह्मयोनिना=ब्रह्मा योनिः यस्य स तेन=ब्रह्ममानसपुत्रेण, गुरुणा=सूर्यकुलाचार्येण, त्वया=भवता वशिष्ठेनेति यावत्, एवम्=इत्थम्, चिन्त्यमानस्य=ध्यायमानस्य, निरापदः=निर्गता आपदो यस्मात् स तस्य=व्यसनरहितस्य, मे=मम, दिलीपस्येति यावत्, सम्पदः=धनसम्पत्तयः, सानुबन्धाः=अनुबन्धैः सहिताः=अविच्छिन्नाः, कथं=केन प्रकारेण, न=नहि, स्युः=भवेयुः। अनुष्टुप्छन्दः।

हिन्दी व्याख्या

ब्रह्मयोनिना=ब्रह्मा के मानस पुत्र। गुरुणा=तथा सूर्यकुलाचार्य। त्वया=आप महर्षि वशिष्ठ के द्वारा। एवम्=इस प्रकार। चिन्त्यमानस्य=ध्यान देने पर। निरापदः=आपत्तियों से रहित। मे=मेरी। सम्पदः=सम्पत्तियों। सानुबन्धाः=अविच्छिन्न, अक्षुण्ण। कथम्=क्यों। न स्युः=नहीं रहे।

हिन्दी अर्थ

ब्रह्मा के मानसपुत्र तथा मेरे कुलगुरु आप (महर्षि वशिष्ठ) के द्वारा इस प्रकार ध्यान दिये जाने पर आपत्तियों से रहित मेरी सम्पत्ति क्यों न बनी रहे?

टिप्पणी

-

रघुवंशम् महाकाव्य · प्रथम सर्ग · महाकवि कालिदास

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)