संस्कृतसाहित्याकाशस्य
लोकप्रियेषु महाकविषु महाकवेः कालिदासस्य स्थानं सर्वोपरि वर्त्तते । महाकविरयं
स्वप्रखराया: प्रतिभाया आलोके यस्य वस्तुनो वर्णनमकरोत् तदेव समेषां सहृदयानां समालोचकाना
हृदयावर्जकमभूत् । महाकविरयम् स्वकाव्येषु पशनाम्, पक्षीणाम्, नदीनाम्, निर्झराणाम, मनुष्याणाम,देवानाम् च मनोज्ञं वर्णनमकरोत् । तस्य वर्णनेषु
सर्वत्र सरसताया एव उन्मुक्तमुत्स स्यन्दितं भवति।
जन्मस्थानम्—कालिदासस्य काव्यानाम्, महाकाव्यानाम्, नाटकानाञ्चाध्ययनेन प्रतीयते यन्महाकविरयमखिलस्य भारतवर्षस्याध्ययनदृष्ट्या
भ्रमणम्, स्वपूर्ववर्तिनश्च समग्रस्य संस्कृतवाड्मयस्य
सूक्ष्मेक्षिकयाध्ययनमकार्षीत् । एतस्मादेव हेतो: तस्य काव्येषु भारतवर्षस्याखिलानाम् विशिष्टानाम्
स्थानानाम् सजीवं वर्णनम समुपलभ्यते।
कालिदासस्य काव्येषु तेषां तेषामञ्चलानाम्
विशिष्ट वर्णनमेवावेक्ष्य, ते ते समालोचकाः तं तस्य तस्य
प्रदेशस्य निवासी समर्थयन्ति केचन तं कश्मीरवासिनं कथयन्ति, केचन तं बंगवासी कथयन्ति । मैथिलास्तु तं मिथिलाया
समर्थं कविमाहुः ।
परन्तु सोऽयं
महाकविः स्वजनुषा भारतवर्षस्य कं देशम् समलङ्कृतवानिति तु इतिहास एवावैति; समालोचकास्त्वनुमिन्वन्ति मात्रम् । तेषां
हेतवोऽप्यकान्तिका एव सन्ति इत्यपि दार्ढ्येन केनापि वक्तुं न शक्यते ।
महाकविः कालिदासस्य विषये एकमाभाणकम्
प्रख्यातमास्ते । महाकवेः वैदुप्य-विदुष्यविशेषं वेत्तुम् तस्य प्रियतमा कदाचित्
शोभनावसरे प्राह -- 'अस्ति कश्चिद्
वाग्विशेष:?’ इति । तस्या वाक्यस्य
पदत्रयमेवाश्रित्य महाकविरयम् काव्यत्र यम् प्राणैषीत् रघुवंशमहाकाव्यम्, कुमारसंभव महाकाव्यम्, मेघदूतनामकं सन्देशकाव्यञ्च । तत्रास्तीति पदमाश्रित्य
कुमारसम्भवमहाकाव्यस्य प्रणयनमकर्षीत् महाकविः । अस्य महाकाव्यस्य प्रथमम् वाक्यमास्ते-'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम
नगाधिराजः ।' इत्यादिकम् ।
कश्चिदिति
द्वितीयम् पदमाश्रित्य मेघदूतनामकस्य विश्वविख्यातस्य सन्देशकाव्यस्य प्रणयनमकरोत्
कालिदासः । अस्य काव्यस्यादिमं वाक्य मास्ते-'कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमतः’। इत्यादितकम् ।
तस्य
वाक्यस्य तृतीयम् पदमाश्रित्य रघुवंशमहाकाव्यस्य निर्माणमकरोत् महाकविः कालिदासः ।
अस्य महाकाव्यस्य प्रथमम् वाक्यमास्ते- 'वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।' इत्यादिकम् ।
आभाणकमिदं
कियत् विभर्ति इति तु निश्चेतुम् नहि शक्यते किन्तु त्रीणीमानि-काव्यान्येव
महाकवेः कालिदासस्य काव्यस्य सर्वस्वभूतानि । इमान्येब काव्यान्याश्रित्य महाकवेः
कालिदासस्य कीर्तिवैजयन्ती दोधूयते संस्कृतसाहित्यस्य विशाले गगने ।
इदमपि
अत्रावलोकनीयम् वर्तते यत महाकविरयम एतेषु त्रीपू महाकाव्येषु हिमालयस्य सहृदयहृदयावर्जकम्
वर्त्तते ।
कुमारसंभवमहाकाव्यस्योपक्रमः
हिमालय वर्णनादेव भवति ।
'अस्त्युत्तरस्यां दिशि देवात्मा हिमालयो नाम नगाधिराजः
।'
पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ।।'
इति
कुमारसम्भवस्यादिनः श्लोको वर्तते । अस्मिन् काव्ये हिमालयपुत्र्याः पार्वत्याः
वर्णनम्, तस्याः हिमालये
तपश्चर्यावर्णनम्, कामदेवस्य भगवतः शङ्करस्य हृदये
क्षोभमुत्पादयितुम् कैलास गमनम्, कामदहनम्, पुनः हिमालयपुत्र्या: शङ्करेण सहविवाहवर्णनादिकम्
वर्तते । इत्थम् हिमालयेनैवोपक्रान्तमिदं महाकाव्यम् हिमालय एवोपसंहतम् भवति ।
मेघदुत काव्यस्यापि यक्षस्य प्रियतमा हिमालयस्य देशविशेषे
विद्यमानायाम् अलकायामेवास्ति । अतएब 'गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम् ।' इति वाक्यानुसारेण मेघोऽपि यक्षस्य संदेशमादाय
हिमालयस्यैवमार्गेणालकापुरी प्रयाति ।
रघुवंशमहाकाव्यस्य दिलीपस्याप्यनपत्यतादोपस्य
निवृत्तिः गौरीगुरोः गह्वरे एव वसिष्ठस्य देवतावित्रतिथिक्रियार्थायाः नन्दिन्याः
सेवया भवति । अतएव वक्तुं शक्यते यन् महाकविः कालिदासः सर्वाधिक मनोज्ञम्
विस्तृतञ्च वर्णनम् हिमालस्यवाकार्षीत । सर्वेषां महाकवीनां स्वमातृभूमि प्रति
सर्वाधिकमाकर्पणम् भवति इति तथ्यमास्ते । महाकवेः कालिदासस्यापि हिमालयं प्रति
महदाकर्षणं वर्तते अत एव महाकविः कालिदासः स्वीकी येन जनुपा हिमालयस्यैव
देशविशेषम् समलञ्चकार इति वक्तुं शक्यते ।
महाकविः
कालिदासः उज्जयिन्याः राज्ञे विक्रमादित्यस्य सभारत्नेष्वन्यतमः आसीदिति बहूनां
समीक्षकाणामभिमतिः वर्तते । अयमेव विक्रमादित्यः विक्रम-संवत्सरस्य
प्रारम्भणमकार्षीदिति, कालिदासस्य काल: ई० पूर्वः
शताब्द: स्वीक्रियते ।
महाकवेः कालिदासस्य काव्यस्य विषये 'उपमाकालिदासस्य' इति सूक्तिः प्रख्याता विद्यते । कालिदासस्य काव्येपु
उपमायाः सौन्दर्य मतीवरमणीयमाभाति ।
उपमायाः स्वरूपम् निरूपयता
साहित्यदर्पणकारेण विश्वनाथेनाभिहितम्-'साम्यं वाच्यमवैधयं वाक्यैक्य उपमा द्वयोः।' इति । अत्रेदम् हृदयम्-यस्मिन्नेकस्मिन्नेव वाक्ये
उपमानोपमेययोरुभयो: साम्यमेव वर्ण्यते, तत्र तयोरुभयो: वस्तुनोः वैधर्म्यस्य
वर्णनं नहि भवति
। रुपकदीपकतुल्ययोगितादिकेष्वलङ्कारेषु साम्यं व्यंग्यं भवति, न तु वाच्यमत एव तत्र नातिव्याप्तिशङ्का कार्या ।
व्यतिरेकालङ्कारेतु साम्येनैव साकं वैधर्म्यमपि वर्ण्यते अत एव तत्रापि नातिव्याप्तिः, उपमेयोपमायां तु वाक्यद्वयं भवति
नतु एकम्, अनन्वयालङ्कारेऽपि एकस्यैव वस्तुनः साम्यं वय॑ते नत्
द्वयोरित्थम् लक्षण-मिदमव्याप्त्यतिव्याप्त्यसंभवदोषरहितत्वात्सुस्थम् । महाकवेः
कालिदासस्य काव्येषूपमा अतीव चमत्कारिण्यः सन्ति । रघुवंश महाकाव्यस्योपक्रममेव
महाकवि: उपमया करोति-
'वागर्थाविव सम्पृक्ती वागर्थप्रतिफ्तये।
जगतः पितरौ बन्दे पार्वती परमेश्वरौ ।।' इति ।।
रघुवंशमहाकाव्यस्य
निम्नांकितस्य श्लोकस्य विच्छित्तिविशेष मेवावलोक्य समीक्षका कालिदासम्, दीपशिखाकलिदास्य विरुदावभूषितवन्त: । स चश्लोको
वर्त्तते-
'सञ्चारिणी दीपशिखेव रात्रौ चं यं व्यतीयाय पतिवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥'
कालिदासस्योपमानां
क्षेत्रमतीव विस्तृतम् वर्त्तते । तस्यकाव्येषु-वैदिक्यः, धर्मशास्त्रीयाः, दर्शनशास्त्र याः, राजनैतिक्यः, ऐतिह्य विषयिण्यः, समाजिक्यः, प्रकृतिविषयिण्यः प्राकृतविषयिण्यः, अतिप्राकृतविषयिण्यः नदीपर्वतनिर्झरपादपादिविष-यिण्यश्चोपमाः
समुपलभ्यन्ते । महाकवि कालिदासस्य काव्यानाम् विभागत्रयम् समुपलभ्यते महाकाव्यम्,काव्यम्, नाटकञ्च। तत्र द्वे महाकाव्ये स्त:- (१)
कुमारसम्भवमहाकाव्यम् रघुवंश-महाकाव्यञ्च । द्वे काव्येऽपि स्त:-मेघदूतम् ऋतुसंहारञ्च
। महाकविकालिदास प्रणीतानि त्रीणि नाटकानि सन्ति-मालविकाग्निमित्रम्, विक्रमोर्वशीयम् अभिज्ञानशाकुन्तलञ्च।
महाकवेः
कालिदासस्य काव्येषु मानवजीवनस्य सर्वेषामेव पक्षाणाम् सजीववर्णनं समुपलभ्यते ।
कालिदासस्यतेषां काव्यानामालोचनेनाभाति
यत् महाकविरयम् भगवतः शङ्करस्य भक्तः आसीत् । यतः तस्य रचनासु मङ्गलाचरण रूपेण
प्रायेण भगवतः शङ्करस्यैव स्तुतिः समुपलभ्यते । -
महाकविरयम् जीवनस्य-परमां परिणति मोक्षावाप्तावेव
स्वीकरोति । कालिदासानुसारेण भगवान् शङ्कर एव मोक्षप्रदाने क्षमः । स
एवास्याखिलस्य जगतोऽभिन्न निमित्तोपादान कारणम् ।
यत् किमपि स्यात् महाकविः कालिदासः
भारतवर्षस्य राष्ट्रियः कविः वर्तते । सम्पूर्णो भारत वर्ष एवास्य देशः ।
अस्यकाव्येषु सम्पूर्णस्य राष्ट्रस्य मङ्गलकामना समुपलभ्यते । इति शम् ।
1 टिप्पणी:
Shastri 1st semester ka History ka previous year questions papers mil sakta hai. Gurujii
एक टिप्पणी भेजें