कालिदास का परिचय (हिन्दी में)
महाकवि कालिदास संस्कृत साहित्य के उन महान कवियों में माने जाते हैं जिन्होंने भारतीय काव्य-परम्परा को अत्यन्त समृद्ध और गौरवपूर्ण स्वरूप प्रदान किया। उनके काव्य में प्रकृति, प्रेम, मानवीय संवेदना, सौन्दर्य और भारतीय सांस्कृतिक जीवन का अत्यन्त मनोहारी चित्रण मिलता है। कालिदास की भाषा सरल, मधुर, प्रसादपूर्ण तथा भावों के अनुरूप अत्यन्त प्रभावशाली है।
कालिदास के जीवनकाल के विषय में विद्वानों में पूर्ण एकमत नहीं है, फिर भी संस्कृत साहित्य के इतिहास में उनका स्थान अत्यन्त ऊँचा है। उनकी रचनाओं में प्रकृति और मानव-जीवन का ऐसा सामंजस्य दिखाई देता है जिसमें कवि की सूक्ष्म निरीक्षण-शक्ति और अद्भुत कल्पनाशक्ति स्पष्ट रूप से प्रकट होती है।
कालिदास की प्रमुख कृतियों में "अभिज्ञानशाकुन्तलम्", "मालविकाग्निमित्रम्", "विक्रमोर्वशीयम्", "रघुवंशम्", "कुमारसम्भवम्", "मेघदूतम्" और "ऋतुसंहारः" विशेष रूप से प्रसिद्ध हैं। इन रचनाओं में महाकाव्य, खण्डकाव्य और नाटक—सभी साहित्यिक रूपों में उनकी प्रतिभा का परिचय मिलता है।
कालिदास के साहित्य की सबसे बड़ी विशेषताओं में प्रकृति-चित्रण, उपमा-प्रयोग, भाव-सौन्दर्य और चरित्र-चित्रण प्रमुख हैं। उनकी प्रसिद्ध उपमा-शैली के कारण उन्हें संस्कृत काव्य-जगत में विशेष सम्मान प्राप्त है। प्रकृति उनके यहाँ केवल बाहरी दृश्य नहीं रहती, बल्कि वह पात्रों की भावनाओं के साथ जुड़कर काव्य का सजीव अंग बन जाती है।
"मेघदूतम्" में विरही यक्ष के माध्यम से प्रेम और विरह की अत्यन्त मार्मिक अभिव्यक्ति हुई है, जबकि "अभिज्ञानशाकुन्तलम्" में प्रेम, वियोग और पुनर्मिलन की कथा को अत्यन्त कलात्मक रूप में प्रस्तुत किया गया है। इसी प्रकार "रघुवंशम्" में रघुवंशीय राजाओं के आदर्श चरित्र और "कुमारसम्भवम्" में शिव-पार्वती के प्रसंगों का भव्य काव्यात्मक चित्रण मिलता है।
कालिदास का परिचय (संस्कृत में)
महाकविः कालिदासः संस्कृतसाहित्यस्य महान् कविः नाटककारश्च आसीत्। तस्य काव्येषु प्रकृतेः सौन्दर्यं, प्रेम, मानवीयभावनाः, सांस्कृतिकजीवनं च अत्यन्तं मनोहररूपेण चित्रितानि सन्ति। कालिदासस्य भाषा सरलाऽपि गम्भीरा, मधुरा च अस्ति।
कालिदासस्य जीवनकालस्य विषये विदुषां मध्ये पूर्णैकमतं नास्ति। तथापि संस्कृतसाहित्यस्य इतिहासे तस्य स्थानम् अत्यन्तं महत्त्वपूर्णम् अस्ति। तस्य रचनासु प्रकृतिः मानवजीवनस्य भावैः सह सम्बद्धा दृश्यते। तस्य कल्पनाशक्तिः तथा सूक्ष्मनिरीक्षणशक्तिः तस्य काव्येषु स्पष्टतया प्रकाशते।
कालिदासस्य प्रमुखाः कृतयः "अभिज्ञानशाकुन्तलम्", "मालविकाग्निमित्रम्", "विक्रमोर्वशीयम्", "रघुवंशम्", "कुमारसम्भवम्", "मेघदूतम्" तथा "ऋतुसंहारः" सन्ति। एतासु कृतिषु तस्य काव्यप्रतिभा विविधरूपेण अभिव्यक्ता अस्ति।
कालिदासस्य काव्यस्य प्रमुखेषु वैशिष्ट्येषु प्रकृतिचित्रणम्, उपमाप्रयोगः, भावसौन्दर्यम्, चरित्रचित्रणं च सन्ति। प्रकृतिः तस्य काव्येषु केवलं दृश्यरूपेण न भवति, अपितु पात्राणां भावनाभिः सह सम्बद्धा भूत्वा काव्यस्य सजीवम् अङ्गं भवति।
"मेघदूतम्" इत्यस्मिन् विरहिणः यक्षस्य माध्यमेन प्रेम्णः विरहस्य च मार्मिकं चित्रणम् अस्ति। "अभिज्ञानशाकुन्तलम्" इत्यस्मिन् प्रेम, वियोगः पुनर्मिलनं च कलात्मकतया प्रस्तुतम् अस्ति। "रघुवंशम्" इत्यस्मिन् रघुवंशीयानां नृपाणां चरित्रं तथा "कुमारसम्भवम्" इत्यस्मिन् शिवपार्वत्योः कथा काव्यात्मकतया वर्णिता अस्ति।
संस्कृतसाहित्याकाशस्य लोकप्रियेषु महाकविषु महाकवेः कालिदासस्य स्थानं सर्वोपरि वर्त्तते। महाकविरयं स्वप्रखराया: प्रतिभाया आलोके यस्य वस्तुनो वर्णनमकरोत् तदेव समेषां सहृदयानां समालोचकाना हृदयावर्जकमभूत्। महाकविरयम् स्वकाव्येषु पशूनाम्, पक्षीणाम्, नदीनाम्, निर्झराणाम्, मनुष्याणाम्, देवानाम् च मनोज्ञं वर्णनमकरोत्। तस्य वर्णनेषु सर्वत्र सरसताया एव उन्मुक्तमुत्स स्यन्दितं भवति।
जन्मस्थानम् — कालिदासस्य काव्यानाम्, महाकाव्यानाम्, नाटकानाञ्चाध्ययनेन प्रतीयते यन्महाकविरयमखिलस्य भारतवर्षस्याध्ययनदृष्ट्या भ्रमणम्, स्वपूर्ववर्तिनश्च समग्रस्य संस्कृतवाङ्मयस्य सूक्ष्मेक्षिकयाध्ययनमकार्षीत्। एतस्मादेव हेतोः तस्य काव्येषु भारतवर्षस्याखिलानाम् विशिष्टानाम् स्थानानाम् सजीवं वर्णनमुपलभ्यते।
कालिदासस्य काव्येषु तेषां तेषामञ्चलानाम् विशिष्ट वर्णनमेवावेक्ष्य, ते ते समालोचकाः तं तस्य तस्य प्रदेशस्य निवासी समर्थयन्ति। केचन तं कश्मीरवासिनं कथयन्ति, केचन तं बंगवासी कथयन्ति। मैथिलास्तु तं मिथिलाया समर्थं कविमाहुः।
परन्तु सोऽयं महाकविः स्वजनुषा भारतवर्षस्य कं देशम् समलङ्कृतवानिति तु इतिहास एवावैति; समालोचकास्त्वनुमिन्वन्ति मात्रम्। तेषां हेतवोऽप्यकान्तिका एव सन्ति इत्यपि दार्ढ्येन केनापि वक्तुं न शक्यते।
महाकविः कालिदासस्य विषये एकमाभाणकम् प्रख्यातमास्ते। महाकवेः वैदुष्यविशेषं वेत्तुम् तस्य प्रियतमा कदाचित् शोभनावसरे प्राह— ‘अस्ति कश्चिद् वाग्विशेष:?’ इति। तस्या वाक्यस्य पदत्रयमेवाश्रित्य महाकविरयम् काव्यत्रयम् प्राणैषीत्— रघुवंशमहाकाव्यम्, कुमारसंभवमहाकाव्यम्, मेघदूतनामकं सन्देशकाव्यञ्च। तत्रास्तीति पदमाश्रित्य कुमारसम्भवमहाकाव्यस्य प्रणयनमकरोत् महाकविः। अस्य महाकाव्यस्य प्रथमम् वाक्यमास्ते— ‘अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।’ इत्यादिकम्।
कश्चिदिति द्वितीयम् पदमाश्रित्य मेघदूतनामकस्य विश्वविख्यातस्य सन्देशकाव्यस्य प्रणयनमकरोत् कालिदासः। अस्य काव्यस्यादिमं वाक्यमास्ते— ‘कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः।’ इत्यादिकम्।
तस्य वाक्यस्य तृतीयम् पदमाश्रित्य रघुवंशमहाकाव्यस्य निर्माणमकरोत् महाकविः कालिदासः। अस्य महाकाव्यस्य प्रथमम् वाक्यमास्ते— ‘वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।’ इत्यादिकम्।
आभाणकमिदं कियत् सत्यं विभर्ति इति तु निश्चेतुं नहि शक्यते, किन्तु त्रीणीमानि काव्यान्येव महाकवेः कालिदासस्य काव्यस्य सर्वस्वभूतानि। इमान्येव काव्यान्याश्रित्य महाकवेः कालिदासस्य कीर्तिवैजयन्ती दोधूयते संस्कृतसाहित्यस्य विशाले गगने।
इदमपि अत्रावलोकनीयम् वर्तते यत् महाकविरयम एतेषु त्रिषु महाकाव्येषु हिमालयस्य सहृदयहृदयावर्जकं वर्णनमकरोत्।
कुमारसंभवमहाकाव्यस्योपक्रमः हिमालयवर्णनादेव भवति—
‘अस्त्युत्तरस्यां दिशि देवात्मा हिमालयो नाम नगाधिराजः।
पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः॥’
इति कुमारसम्भवस्यादिमः श्लोको वर्तते। अस्मिन् काव्ये हिमालयपुत्र्याः पार्वत्याः वर्णनम्, तस्याः हिमालये तपश्चर्यावर्णनम्, कामदेवस्य भगवतः शङ्करस्य हृदये क्षोभमुत्पादयितुम् कैलासगमनम्, कामदहनम्, पुनः हिमालयपुत्र्याः शङ्करेण सह विवाहवर्णनादिकम् वर्तते। इत्थम् हिमालयेनैवोपक्रान्तमिदं महाकाव्यम् हिमालय एवोपसंहतं भवति।
मेघदूतकाव्यस्यापि यक्षस्य प्रियतमा हिमालयस्य देशविशेषे विद्यमानायाम् अलकायामेवास्ति। अतएव ‘गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम्।’ इति वाक्यानुसारेण मेघोऽपि यक्षस्य संदेशमादाय हिमालयस्यैव मार्गेणालकापुरीं प्रयाति।
रघुवंशमहाकाव्यस्य दिलीपस्याप्यनपत्यतादोषस्य निवृत्तिः गौरीगुरोर्गह्वरे एव वसिष्ठस्य देवतातुल्यातिथिक्रियार्थायाः नन्दिन्याः सेवया भवति। अतएव वक्तुं शक्यते यन्महाकविः कालिदासः सर्वाधिकं मनोज्ञं विस्तृतञ्च वर्णनम् हिमालयस्यैवाकार्षीत्। सर्वेषां महाकवीनां स्वमातृभूमिं प्रति सर्वाधिकमाकर्षणम् भवति इति तथ्यमास्ते। महाकवेः कालिदासस्यापि हिमालयं प्रति महदाकर्षणं वर्तते, अत एव महाकविः कालिदासः स्वकीयेन जन्मना हिमालयस्यैव देशविशेषम् समलञ्चकार इति वक्तुं शक्यते।
महाकविः कालिदासः उज्जयिन्याः राज्ञो विक्रमादित्यस्य सभारत्नेष्वन्यतमः आसीदिति बहूनां समीक्षकाणामभिमतिः वर्तते। अयमेव विक्रमादित्यः विक्रम-संवत्सरस्य प्रारम्भणमकार्षीदिति, कालिदासस्य कालः ई० पूर्वः प्रथमशताब्दः स्वीक्रियते।
महाकवेः कालिदासस्य काव्यस्य विषये ‘उपमा कालिदासस्य’ इति सूक्तिः प्रख्याता विद्यते। कालिदासस्य काव्येषु उपमायाः सौन्दर्यमतीवरमणीयमाभाति।
उपमायाः स्वरूपम् निरूपयता साहित्यदर्पणकारेण विश्वनाथेनाभिहितम्— ‘साम्यं वाच्यमवैधर्म्यं वाक्यैक्ये उपमा द्वयोः।’ इति। अत्रेदं हृदयम्— यस्मिन्नेकस्मिन्नेव वाक्ये उपमानोपमेययोरुभयोः साम्यमेव वर्ण्यते, तत्र तयोरुभयोः वस्तुनोः वैधर्म्यस्य वर्णनं नहि भवति।
रूपकदीपकतुल्ययोगितादिकेष्वलङ्कारेषु साम्यं व्यङ्ग्यं भवति, न तु वाच्यम्। अत एव तत्र नातिव्याप्तिशङ्का कार्या। व्यतिरेकालङ्कारे तु साम्येनैव साकं वैधर्म्यमपि वर्ण्यते, अत एव तत्रापि नातिव्याप्तिः। उपमेयोपमायां तु वाक्यद्वयं भवति न तु एकम्। अनन्वयालङ्कारेऽपि एकस्यैव वस्तुनः साम्यं वर्ण्यते न तु द्वयोः। इत्थं लक्षणमिदमव्याप्त्यतिव्याप्त्यसंभवदोषरहितत्वात् सुस्थम्। महाकवेः कालिदासस्य काव्येषूपमा अतीव चमत्कारिण्यः सन्ति। रघुवंशमहाकाव्यस्योपक्रममेव महाकविः उपमया करोति—
‘वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥’
रघुवंशमहाकाव्यस्य निम्नांकितस्य श्लोकस्य विच्छित्तिविशेषमेवावलोक्य समीक्षकाः कालिदासम्, दीपशिखाकालिदासस्य विरुदावभूषितवन्तः। स च श्लोको वर्तते—
‘सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥’
कालिदासस्योपमानां क्षेत्रमतीव विस्तृतम् वर्त्तते। तस्य काव्येषु वैदिक्यः, धर्मशास्त्रीयाः, दर्शनशास्त्रीयाः, राजनैतिक्यः, ऐतिह्यविषयिण्यः, सामाजिक्यः, प्रकृतिविषयिण्यः, प्राकृतविषयिण्यः, अतिप्राकृतविषयिण्यः, नदीपर्वतनिर्झरपादपादिविषयिण्यश्चोपमाः समुपलभ्यन्ते। महाकवि कालिदासस्य काव्यानाम् विभागत्रयम् समुपलभ्यते— महाकाव्यम्, काव्यम्, नाटकञ्च। तत्र द्वे महाकाव्ये स्तः— कुमारसम्भवमहाकाव्यम्, रघुवंशमहाकाव्यञ्च। द्वे काव्येऽपि स्तः— मेघदूतम्, ऋतुसंहारञ्च। महाकविकालिदासप्रणीतानि त्रीणि नाटकानि सन्ति— मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलञ्च।
महाकवेः कालिदासस्य काव्येषु मानवजीवनस्य सर्वेषामेव पक्षाणाम् सजीववर्णनं समुपलभ्यते।
कालिदासस्य तेषां काव्यानामालोचनेनाभाति यत् महाकविरयम् भगवतः शङ्करस्य भक्तः आसीत्। यतः तस्य रचनासु मङ्गलाचरणरूपेण प्रायेण भगवतः शङ्करस्यैव स्तुतिः समुपलभ्यते।
महाकविरयम् जीवनस्य परमां परिणतिं मोक्षावाप्तावेव स्वीकरोति। कालिदासानुसारेण भगवान् शङ्कर एव मोक्षप्रदाने क्षमः। स एवास्याखिलस्य जगतोऽभिन्ननिमित्तोपादानकारणम्।
यत् किमपि स्यात् महाकविः कालिदासः भारतवर्षस्य राष्ट्रियः कविः वर्तते। सम्पूर्णो भारतवर्ष एवास्य देशः। अस्य काव्येषु सम्पूर्णस्य राष्ट्रस्य मङ्गलकामना समुपलभ्यते। इति शम्।

Shastri 1st semester ka History ka previous year questions papers mil sakta hai. Gurujii
जवाब देंहटाएं