अभिज्ञानशाकुन्तलम् (चतुर्थ अंक) : ससंदर्भ संस्कृत व्याख्या एवं हिन्दी अर्थ

चन्द्र देव त्रिपाठी 'अतुल'
0
अभिज्ञानशाकुन्तलम् (चतुर्थ अंक) : ससंदर्भ संस्कृत व्याख्या एवं हिन्दी अर्थ
श्लोक — 01
विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपस्थितम् । स्मरिष्यति त्वां न स बोधितोऽपि सन् कथां प्रमत्तः प्रथमं कृतामिव ॥ 1 ॥
अन्वय --अनन्यमानसा यम् विचिन्तयन्ती उपस्थितम् तपोनिधिम् माम् न वेत्सि, सः प्रमत्तः प्रथमं कृताम् कथामिव बोधितः अपि सन् त्वाम् न स्मरिष्यति।।
सन्दर्भ --प्रस्तुतमिदं पद्यं महाकवि “कालिदास” विरचितस्य “अभिज्ञानशाकुन्तलम्” नाटकस्य चतुर्थाङ्कात समुद्धृतम् अस्ति।
प्रसङ्ग --पतिविप्रयोगजन्यकष्टातिशयेन अनवधानतया शकुन्तलाम् शपन् महर्षिः दुर्वासाः प्राह यत् दुष्यन्तम् अनन्यचेतसा चिन्तयन्ती माम् न जानासि स एव त्वाम् विस्मरिष्यति यथा प्रमत्तः पूर्वकृतां कथामिव न स्मरति।
संस्कृत व्याख्या --यम् = दुष्यन्तम्, अनन्यमानसा = एकाग्रचित्ता, विचिन्तयन्ती = भावयन्ती सती, उपस्थितम् = समागतम् अतिथिरूपेण, तपोनिधिम् = तपस्विनम्, माम् = दुर्वाससम्, न वेत्सि = न जानासि, सः = दुष्यन्तः, प्रमत्तः = निःसंज्ञः पुरुषः, बोधितः अपि सन् = स्मारितः अपि भवन्, त्वाम् = शकुन्तलाम्, न स्मरिष्यति = विस्मरिष्यति, प्रथमम् = पूर्वम्, कृताम् = कथिताम्, कथाम् इव = वार्ताम् इव।
हिन्दी व्याख्या --अनन्यमानसा = एकाग्रचित्त होकर, यम् = जिस (दुष्यन्त) का, विचिन्तयन्ती = चिन्तन करती हुई, उपस्थितम् = सामने आए हुए, तपोनिधिम् = मुझ तपस्वी, माम् = दुर्वासा को, न वेत्सि = नहीं जान पा रही हो, सः = वह (दुष्यन्त), बोधितः अपि सन् = याद दिलाए जाने पर भी, त्वाम् = तुम्हें, न स्मरिष्यति = स्मरण नहीं करेगा, इव = जैसे, प्रमत्तः = मतवाला (उन्मत्त) व्यक्ति, प्रथमम् = पहले, कृताम् = कही गई, कथाम् = बात को (भूल जाता है)।
हिन्दी अर्थ --अनन्य मन से जिसका चिन्तन करती हुई तुम उपस्थित हुए मुझ तपोधन (दुर्वासा) को नहीं जान पा रही हो, वह व्यक्ति याद दिलाए जाने पर भी तुम्हें उसी प्रकार याद नहीं करेगा, जैसे कोई उन्मत्त व्यक्ति पहले कही हुई बात को भूल जाता है।
टिप्पणी --अत्र विचिन्तनादेरज्ञानादिहेतुत्वात् काव्यलिङ्गालंकारः, तपोनिधिमित्यत्र परिकरः, श्लोकस्योत्तरार्धे पूर्णोपमा च। छन्दः — वंशस्थम् (‘जतौ तु वंशस्थमुदीरितं जरौ’)।
श्लोक — 02
यात्येकतोऽस्तशिखरं पतिरोषधीनाम्- आविष्कृतोऽरुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत इवैष दशान्तरेषु ॥ 2 ॥
अन्वय --एकतः ओषधीनाम् पतिः अस्तशिखरम् याति, एकतः अर्कः अरुणपुरःसरः आविष्कृतः। युगपत् तेजोद्वयस्य व्यसनोदयाभ्याम् लोकः दशान्तरेषु नियम्यत इव।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतम् अस्ति।
प्रसङ्ग --कण्वशिष्यः प्रभातकालस्य वर्णनं कुर्वन् वक्ति यत्—
संस्कृत व्याख्या --साम्प्रतम् चन्द्रः अस्तमेति सूर्यश्चोदेति। अनेन समकालमेवानेकदशाभिः भावशिष्टो लोकः परमात्मना सहजेन नियम्यत इति प्रतीयते। एकतः = एकत्र तु, ओषधीनाम् पतिः = चन्द्रः, अस्तशिखरम् = अस्ताचलम्, याति = गच्छति, एकतः च = अन्यत्र च, अर्कः = सूर्यः, अरुणः = स्वसारथिः, एव पुरःसरः = अग्रे यस्यासौ तथाविधः स्वसारथिपूर्वकः इत्यर्थः, आविष्कृतः भवति। अस्मिन्नेव प्रभातकाले समकालमेव चन्द्रसूर्ययोः पृथक् पृथक् दशा दृश्यते, एकस्य गतो भवति, अपरस्य चोदयः जायते। युगपत् = समकालमेव, तेजोद्वयस्य = सूर्यचन्द्रमसोः, व्यसनः = अस्तमनम्, उदयः = आनयनम्, ताभ्याम् = व्यसन-उदयाभ्याम्, एषः = अयम्, लोकः = संसारः, दशान्तरेषु = भिन्नासु अवस्थासु, नियम्यते इव = नियन्त्रितो भवति परमात्मना इति प्रतीयते।
हिन्दी व्याख्या --एकतः = एक ओर, ओषधीनाम् पतिः = औषधियों के स्वामी (चन्द्रमा), अस्तशिखरम् = अस्ताचल की ओर, याति = जा रहे हैं, एकतः = दूसरी ओर, अरुणपुरःसरः = अरुण (सारथि) को आगे किए हुए, अर्कः = सूर्य, आविष्कृतः = उदित हो रहे हैं, युगपत् = एक ही समय में, तेजोद्वयस्य = दोनों तेजों (सूर्य-चन्द्र) के, व्यसनोदयाभ्याम् = अस्त और उदय से, एषः = यह, लोकः = संसार, दशान्तरेषु = भिन्न-भिन्न अवस्थाओं (सुख-दुःख) में, नियम्यते इव = मानो नियमित/नियन्त्रित किया जा रहा है।
हिन्दी अर्थ --एक ओर औषधियों के स्वामी चन्द्रमा अस्ताचल की ओर जा रहे हैं और दूसरी ओर अरुण को आगे किये हुए सूर्य उदित हो रहे हैं। इस प्रकार एक ही समय में दो तेजस्वी पिण्डों के अस्त और उदय से यह संसार भिन्न-भिन्न अवस्थाओं में मानो नियमित किया जा रहा है।
टिप्पणी --महानपि पुरुषः दुष्काले समागते आपद्ग्रस्तो भवति इति ओषधीनाम् पतेः अस्तमनवर्णनात् समासोक्त्यलङ्कारः। उत्प्रेक्षा चात्र वाच्या। वसन्ततिलकश्च वृत्तम्। ‘ज्ञेयं वसन्ततिलकं तभजा जगौगः’ इति वसन्ततिलकस्य लक्षणम्।
श्लोक — 03
अन्तर्हिते शशिनि सैव कुमुद्वतीयं दृष्टिर्न नन्दयति संस्मरणीयशोभा । इष्टप्रवासजनितान्यबलाजनेन, दुःखानि नूनमतिमात्रदुरुद्वहानि ॥ 3 ॥
अन्वय --शशिनि अन्तर्हिते संस्मरणीयशोभा सा एव इयं कुमुद्वती दृष्टिं न नन्दयति, नूनम् अबलाजनेन इष्टप्रवासजनितानि दुःखानि अतिमात्रदुरुद्वहानि।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतम् अस्ति।
प्रसङ्ग --कण्वशिष्यः अस्तं गच्छन्तं चन्द्रमसं विलोक्य वक्ति यत्—
संस्कृत व्याख्या --यदा चन्द्रः उदितः आसीत् तदा तु कुमुदिनी विकासयुक्तत्वात् अतीव मनोज्ञा आसीत्, किन्तु अस्तमिते चन्द्रमसि इयम् कुमुद्वती नेत्राकर्षणं न करोति। अनेनैव प्रकारेण स्वनायकानां विप्रवसिते सति अबलाजनैरतिदुःसहं दुःखमनुभूयते। शशिनि = स्वनायके चन्द्रमसि, अन्तर्हिते = अस्तंगते, नायिकातो दूरं गते सति, संस्मरणीया = प्राक् तु विकासयुक्तत्वात् साम्प्रतं मुकुलितत्वात् स्मरणमात्रविषयभूता, शोभा = सौन्दर्यम्, यस्याः सा एव पूर्वानुभूतैव, इयम् = पुरो मुकुलिततया विद्यमाना, कुमुद्वती = कुमुदिनी, दृष्टिम् = नेत्रे, = नहि, नन्दयति = अभिनन्दयति, स्वसौन्दर्येण न प्रीणयति। नूनम् = निश्चयेन, अबलाजनेन = नारीजनेन, इष्टस्य = वल्लभस्य, प्रवासेन = देशान्तरगमनेन, जनितानि = उत्पन्नानि, दुःखानि = कष्टानि, अतिमात्रम् = अत्यधिकम्, दुरुद्वहानि = असह्यानि भवन्ति।
हिन्दी व्याख्या --शशिनि = चन्द्रमा के, अन्तर्हिते = अस्त हो जाने पर, संस्मरणीयशोभा = केवल स्मरण करने योग्य शोभा वाली, सा एव = वही, इयम् = यह, कुमुद्वती = कुमुदिनी, दृष्टिम् = आँखों को, न नन्दयति = आनन्दित नहीं कर रही है, नूनम् = निश्चय ही, अबलाजनेन = स्त्रियों द्वारा, इष्टप्रवासजनितानि = प्रियतम के प्रवास (वियोग) से उत्पन्न, दुःखानि = कष्ट, अतिमात्रदुरुद्वहानि = अत्यन्त असहनीय होते हैं।
हिन्दी अर्थ --चन्द्रमा के अस्त हो जाने पर पहले जैसी शोभा वाली यह कुमुदिनी आँखों को प्रसन्न नहीं करती। इसी प्रकार अपने प्रिय के विदेश चले जाने से उत्पन्न विरह-दुःख स्त्रियों के लिए निश्चय ही अत्यन्त असहनीय होता है।
टिप्पणी --अस्य श्लोकस्य पूर्वार्धे समासोक्तिरलङ्कारः, कुमुद्वती-चन्द्रमसोः लिङ्गसाम्येन नायिकानायकत्वयोः प्रतीतेः समारोपाच्च। उत्तरार्धं त्वर्थान्तरन्यासः, सामान्येन विशेषस्य समर्थनात्। वसन्ततिलकञ्चात्र वृत्तम्— ‘ज्ञेयं वसन्ततिलकं तभजा जगौ गः’ इति तल्लक्षणात्।। ३ ।।
श्लोक — 04
कर्कन्धूनामुपरि तुहिनं रञ्जयत्यग्रय्यसन्ध्या दार्भं मुञ्चत्युटजपटलं वीतनिद्रो मयूरः । वेदिप्रान्तात् खुरविलिखितादुत्थितश्चैष सद्यः । पश्चादुच्चैर्भवति हरिणः स्वाङ्गमायच्छमानः ॥ 4 ॥
अन्वय --अग्रघसन्ध्या कर्कन्धूनामुपरि तुहिनम् रञ्जयति, वीतनिद्रो मयूरः दार्भउटजपटलम् मुञ्चति, चः एषः हरिणः खुरविलिखितात् वेदिप्रान्तात् उत्थितः सद्यः स्वाङ्गम् आयच्छमानः पश्चात् उच्चैः भवति ॥
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके कण्वशिष्यः प्रातःकाले आश्रमे तानि तानि वस्तूनि विलोक्य तेषाम् स्वाभाविकं वर्णनम् कुर्वन् सन् वक्ति यत्-
संस्कृत व्याख्या --प्रातःसन्ध्यया वदरीवृक्षेषु पतितं तुहिनं रञ्जितं भवति, जागुतो मयूरः पर्णशालातो यांति, हरिणश्च उत्थितो भवति । अग्रघा चासौ सन्ध्या अग्रघसन्ध्या = प्रातः सन्ध्येति यावत्, कर्कन्धूनाम् = बदरीवृक्षणाम्, उपरि = ऊर्ध्वभागे, तुहिनम् = तुषारबिन्दुम्, रञ्जयति = शोभासमलङ्कृतं करोति, वीता = अपगता, निद्रा = तामसीवृत्तिविशेषो यस्याऽसौ जागृतः इत्यर्थः, मयूरः = शिखी, दार्भम् = दर्भैः कुशैः निर्मितम्, उटजानाम् = पर्णशालानाम्, तपस्विनाम् दार्भपर्णशालास्वेव निवासकरणात् आश्रमेषु, पटलम् = समूहम्, मुञ्चति = त्यजति, विहाय क्वचनान्यत्र याति, खुरैः = शफैः, विलिखितात् = चिह्नितात्, वेद्याः = यज्ञवेद्याः, प्रान्तात् = सन्निकटात्, एषः = अयम्, सद्यः = शीघ्रमेव, उत्थितः = जागृतः, हरिणः = मृगः, स्वस्य = आत्मनः, अङ्गम् = अवयवम्, आयच्छमानः = प्रसार्यमाणः, पश्चात् = पश्चभागात्, उच्चैः भवति = उत्थितो भवति ।
हिन्दी व्याख्या --अग्रघसन्ध्या = प्रातःकालीन उषा की लाली, कर्कन्धूनाम् उपरि = बेर के वृक्षों के ऊपर पड़ी, तुहिनम् = ओस की बूँदों को, रञ्जयति = रँग रही है (चमका रही है), वीतनिद्रः = जागी हुई नींद वाला, मयूरः = मोर, दार्भम् = कुश-निर्मित, उटजपटलम् = पर्णकुटी की छत को, मुञ्चति = छोड़ रहा है, = और, खुरविलिखितात् = खुरों से खुरचे हुए, वेदिप्रान्तात् = यज्ञवेदी के किनारे से, सद्यः = तुरन्त, उत्थितः = उठा हुआ, एषः = यह, हरिणः = मृग, स्वाङ्गम् = अपने शरीर को, आयच्छमानः = खींचता/फैलाता हुआ (अँगड़ाई लेता हुआ), पश्चात् = पिछले भाग से, उच्चैः भवति = ऊँचा उठ रहा है।
हिन्दी अर्थ --प्रातःकालीन उषा की लालिमा बेर की झाड़ियों पर पड़ी ओस की बूँदों को चमका रही है। निद्रा त्यागकर जागा हुआ मोर कुश-निर्मित पर्णकुटी की छत को छोड़कर उतर रहा है तथा खुरों से खुरची हुई यज्ञवेदी के समीप से अभी-अभी उठा हुआ यह मृग अँगड़ाई लेते हुए अपने शरीर को खींचकर पिछले भाग से ऊँचा उठ रहा है।
टिप्पणी --अत्र स्वभावोक्तिरलङ्कारः। मन्दाक्रान्ता च वृत्तम् । ‘मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ तौ गयुग्मम्’ इति हि तल्लक्षणम् ।। ४ ।।
श्लोक — 05
पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः क्रान्तं येन क्षयिततमसा मध्यमं धाम विष्णोः । सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै- रत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा ॥ 5 ॥
अन्वय --क्षितिधरगुरोः सुमेरोः मूर्ध्नि पादन्यासं कृत्वा, येन क्षयिततमसा विष्णोः मध्यमं धाम क्रान्तं, सः अयं चन्द्रः अल्पशेषैः मयूखैः गगनात् पतति, महतामपि अत्यारूढिः अपभ्रंशनिष्ठा भवति ॥
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके कण्वशिष्यः चन्द्रमसः प्रातःकाले अस्तमनं विलोक्य वक्ति यत्–
संस्कृत व्याख्या --यः चन्द्रः सुमेरोः शिखरे पादन्यासं कृत्वा भगवतः विष्णोः मध्यमं धाम व्याप्य तिमिरं नाशयामास, स एव अयं चन्द्रः स्वीयैरल्पशेषैः मयूखैः गगनात् पतति। अनेन तात्पर्यमिदं बोध्यते यत् – महतामपि जनानाम् अत्यारूढिः अन्ततः पतनमेव सूचयति। क्षितिधरः = पर्वतः, गुरुः = श्रेष्ठः, सुमेरुः = मेरुपर्वतः, मूर्ध्नि = शीर्षे, पादन्यासं = चरणप्रक्षेपं, कृत्वा = स्थाप्य, क्षयिततमसा = नष्टअन्धकारेण, विष्णोः = जगद्व्यापकस्य देवस्य, मध्यमं धाम = आकाशं, क्रान्तं = व्याप्तं, मयूखैः = किरणैः, अल्पशेषैः = न्यूनावशिष्टैः, गगनात् = आकाशात्, पतति = अस्तं याति, अत्यारूढिः = अत्यूच्चावस्था, अपभ्रंशनिष्ठा = पतनपर्यवसानवती।
हिन्दी व्याख्या --येन = जिस (चन्द्रमा) के द्वारा, क्षितिधरगुरोः = पर्वतों में श्रेष्ठ, सुमेरोः = सुमेरु के, मूर्ध्नि = मस्तक (शिखर) पर, पादन्यासम् कृत्वा = किरण/चरण रखकर, क्षयिततमसा = अन्धकार को नष्ट करके, विष्णोः = भगवान् विष्णु के, मध्यमं धाम = मध्यम धाम (आकाश) को, क्रान्तम् = व्याप्त किया गया था, सः अयम् = वही यह, चन्द्रः = चन्द्रमा, अल्पशेषैः = अल्प बची हुई, मयूखैः = किरणों के साथ, गगनात् = आकाश से, पतति = गिर (अस्त हो) रहा है, महताम् अपि = महापुरुषों की भी, अत्यारूढिः = अत्यधिक उन्नति/ऊँचाई, अपभ्रंशनिष्ठा = पतन में पर्यवसित, भवति = होती है।
हिन्दी अर्थ --जिसने पर्वतों में श्रेष्ठ सुमेरु के शिखर पर अपनी किरणें (चरण) रखकर तथा अन्धकार का नाश करते हुए विष्णु के मध्यम धाम (आकाश) को नाप लिया था, वही यह चन्द्रमा अब नाममात्र बची किरणों के साथ आकाश से नीचे गिर (अस्त हो) रहा है; क्योंकि महापुरुषों की भी अत्यधिक उन्नति अन्ततः पतन में ही समाप्त होती है।
टिप्पणी --अत्र समासोक्तिरलङ्कारः – चन्द्रमसि प्रभावशालिनः पुरुषस्योपमेयत्वेन प्रयोगात्। अर्थान्तरन्यासालङ्कारश्च दृश्यते – चन्द्रस्य पतनदृष्टान्तेन महात्मनां पतनस्य उपदेशः। मन्दाक्रान्ता च वृत्तम् – ‘मन्दाक्रान्ताम्बुधिरसनगैर्भो भनौ तौ गयुग्मम्।’ इति मन्दाक्रान्तालक्षणात् ।। ५ ।।
श्लोक — 06
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः । अवेहि तनयां ब्रह्मन्नग्निगर्भा शमीमिव ।। 6 ।।
अन्वय --ब्रह्मन् भुवः भूतये दुष्यन्तेन आहितं तेजः दधानाम्, अग्निगर्भाम् शमीम् इव तनयाम् अवेहि ।।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके अशरीरिणी वाणी दुष्यन्तशकुन्तलयोः विवाह-संसूचनपूर्वकम् तस्याः कठोरगर्भभावत्वम्, अस्य कर्मणश्च लोकमङ्गलकरत्वम् महर्षये कण्वाय आह-
संस्कृत व्याख्या --अनेन ब्रह्मन् = महर्षे, भुवः = धरित्र्याः, भूतये = कल्याणसंपादनाय, शकुन्तलागर्भस्य लोकोपकारकत्वं भाविकालिकं अभिहितं। दुष्यन्तेन = पौरव नृपेण, आहितं = स्थापितं, तेजः = रेतः। आहितशब्देन शकुन्तलायाः गर्भस्य वैधत्वं सूचितम्। तत् तेजो दधानां = धारयन्तीम्, अग्निः = पावकः, गर्भे = अन्तः, यस्याः तां तथाविधां, शमीम् = शमीलतामिव, तनयां = निजपुत्रीं, अवेहि = जानीहि।
हिन्दी व्याख्या --ब्रह्मन् = हे ब्रह्मन् (महर्षि कण्व!), भुवः = सम्पूर्ण पृथ्वी के, भूतये = कल्याण के लिए, दुष्यन्तेन = राजा दुष्यन्त द्वारा, आहितम् = स्थापित किए गए, तेजः = तेज (गर्भ) को, दधानाम् = धारण करने वाली, तनयाम् = अपनी पुत्री (शकुन्तला) को, अग्निगर्भाम् = भीतर अग्नि को धारण करने वाली, शमीम् इव = शमी वृक्ष की लता के समान, अवेहि = जानो/समझो।
हिन्दी अर्थ --हे ब्रह्मन्! सम्पूर्ण पृथ्वी के कल्याण के लिए राजा दुष्यन्त द्वारा स्थापित तेज (गर्भ) को धारण करने वाली अपनी पुत्री शकुन्तला को आप भीतर अग्नि को धारण करने वाली शमी वृक्ष की लता के समान समझें।
टिप्पणी --“अग्निगर्भाम् शमीमिव” इत्यत्र उपमालङ्कारः। छन्दः — अनुष्टुप् ।। ६ ।।
श्लोक — 07
क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं, निष्ठ्यूतश्चरणोपरागसुभगो लाक्षारसः केनचित् । अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै- र्दत्तान्याभरणानि नः किसलयच्छायापरिस्पर्द्धिभिः ।। 7 ।।
अन्वय --केनचित् तरुणा इन्दुपाण्डु माङ्गल्यम् क्षौमम् आविष्कृतम्, केनचित् चरणोपरागसुभगः लाक्षारसः निष्ठ्यूतः, अन्येभ्यः किसलयच्छायापरिस्पर्द्धिभिः आपर्वभागोत्थितैः वनदेवताकरतलैः नः आभरणानि दत्तानि ।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके गौतम्या पृष्टः हारीतनामकः ऋषिकुमारः महर्षेः कण्वस्य प्रभावातिशयं वर्णयन् वक्ति यत्—
संस्कृत व्याख्या --यदा वयम् महर्षेः कण्वस्य आदेशात् शकुन्तलायाः मण्डनाय वनस्पतिभ्यः पुष्पाणि आनयितुं गताः, तदा महर्षेः प्रभावातिशयेन ते ते वृक्षा अलङ्करणोपयिकानि वस्तूनि स्वयमेव प्रदत्तवन्तः। केनचित् तरुणा वृक्षेण इन्दुवत् पाण्डु = चन्द्रवत् श्वेतपीतवर्णयुक्तं माङ्गल्यम् क्षौमवस्त्रम् आविष्कृतम्। केनचित् तेन भिन्नेन वृक्षेण चरणयोः उपरागाय मनोहरः लाक्षारसः निष्ठ्यूतः = स्रावितः। अन्येभ्यः वृक्षेभ्यः किसलयच्छायापरिस्पर्द्धिभिः = नवपल्लव-सौन्दर्य-समानसुन्दरैः, आपर्वभागोत्थितैः = मणिबन्धपर्यन्तं प्रसृतैः, वनदेवताकरतलैः = देवीनां हस्तैः, नः = अस्मभ्यं शकुन्तलायाः अलङ्करणोपयुक्तानि आभरणानि दत्तानि।
हिन्दी व्याख्या --केनचित् तरुणा = किसी एक वृक्ष द्वारा, इन्दुपाण्डु = चन्द्रमा के समान श्वेत, माङ्गल्यम् = माङ्गलिक, क्षौमम् = रेशमी वस्त्र, आविष्कृतम् = प्रदान किया गया, केनचित् = किसी अन्य वृक्ष द्वारा, चरणोपरागसुभगः = चरणों को रँगने योग्य सुन्दर, लाक्षारसः = महावर (आलता), निष्ठ्यूतः = स्रावित किया गया, अन्येभ्यः = अन्य वृक्षों से, किसलयच्छायापरिस्पर्द्धिभिः = नवीन कोपलों की कान्ति से होड़ लेने वाली, आपर्वभागोत्थितैः = कलाई तक बाहर निकली, वनदेवताकरतलैः = वन-देवियों की हथेलियों द्वारा, नः = हमें, आभरणानि = आभूषण, दत्तानि = दिए गए।
हिन्दी अर्थ --किसी एक वृक्ष ने चन्द्रमा के समान श्वेत मङ्गलोपयोगी रेशमी वस्त्र प्रकट किया, किसी अन्य वृक्ष ने चरणों को रँगने योग्य सुन्दर लाक्षारस (महावर) प्रदान किया और अन्य वृक्षों से नवीन कोपलों की शोभा से होड़ लेने वाली तथा कलाई तक बाहर निकली वनदेवियों की हथेलियों द्वारा हम सबको आभूषण प्रदान किए गए।
टिप्पणी --“किसलयच्छायापरिस्पर्द्धिभिः” इत्यत्र समासगता लुप्तोपमा अलङ्कारः। छन्दः — शार्दूलविक्रीडितम्। ‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्’ इति तल्लक्षणम्। ।। ७ ।।
श्लोक — 08
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमपि स्नेहादरण्यौकसः, पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखैर्नवैः ॥ 8 ॥
अन्वय --अद्य शकुन्तला यास्यति इति हृदयम् उत्कण्ठया संस्पृष्टम्, कण्ठः स्तम्भितबाष्पवृत्तिकलुषः, दर्शनम् चिन्ताजडम्, अरण्यौकसः अपि तावत् मम ईदृशम् वैक्लव्यम् स्नेहात्, गृहिणः कथं न तनयाविश्लेषदुःखैः नवैः पीड्यन्ते?
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके शकुन्तलां पतिगृहप्रेषणायोद्युक्तो महर्षिः तस्या विप्रयोगजन्यदुःखातिशयं अनुसन्धत्ते — तदनुसंधानेन स्वहृदयस्थितिं दर्शयन् वक्ति यत्—
संस्कृत व्याख्या --यद्यप्यहम् संसाराद्विरक्तः अरण्ये निवसामि, तथापि शकुन्तलायाः भाविनं वियोगम् अनुस्मृत्य अहम् उत्कण्ठितः संजातः। अद्य शकुन्तला यास्यति इति विचार्य, मम हृदयम् उत्कण्ठया संस्पृष्टम् = अर्थात् संतप्तम्। कण्ठः स्तम्भितबाष्पवृत्त्या कलुषः = गद्गदस्वरः जातः। चिन्तया जडं दर्शनम् = अश्रुपूरिते नेत्रेण स्पष्टं द्रष्टुमपि न शक्यते। एवमपि अरण्यौकसः = वनवासी, मम ईदृशं वैक्लव्यम् = व्याकुलता, स्नेहात् जायते चेत्, गृहिणः = गृहस्थाः, तनयाविश्लेषदुःखैः = पुत्रीवियोगजनितदुःखैः, कथं न पीड्यन्ते इति स्वयमेव प्रश्नरूपेण उत्तरं दत्तम्।
हिन्दी व्याख्या --अद्य = आज, शकुन्तला यास्यति = शकुन्तला (पतिगृह) जाएगी, इति = यह सोचकर, हृदयम् = मेरा हृदय, उत्कण्ठया = उत्कण्ठा (शोक) से, संस्पृष्टम् = व्याकुल हो रहा है, कण्ठः = गला, स्तम्भितबाष्पवृत्तिकलुषः = रोके हुए आँसुओं के कारण रुँध गया है, दर्शनम् = दृष्टि, चिन्ताजडम् = चिन्ता से स्तब्ध हो गई है, स्नेहात् = स्नेह के कारण, अरण्यौकसः अपि = मुझ जैसे वनवासी की भी, तावत् मम = तब मेरी, ईदृशम् = ऐसी, वैक्लव्यम् = व्याकुलता हो रही है (तो), गृहिणः = संसारी गृहस्थ, नवैः = प्रथम बार के, तनयाविश्लेषदुःखैः = पुत्री-वियोग के दुःखों से, कथं न पीड्यन्ते = कैसे पीड़ित नहीं होते होंगे?
हिन्दी अर्थ --‘आज शकुन्तला पतिगृह जाएगी’— यह सोचते ही मेरा हृदय उत्कण्ठा से भर गया है, रोके हुए आँसुओं के कारण गला रुँध गया है और चिन्ता से दृष्टि जड़ (स्तब्ध) हो गई है। जब स्नेहवश मुझ जैसे वनवासी सन्यासी की भी यह व्याकुलता है, तब संसारी गृहस्थ पहली बार पुत्री के वियोग से उत्पन्न होने वाले दुःखों से कितने अधिक पीड़ित होते होंगे!
टिप्पणी --अस्मिञ्छ्लोके समुच्चय तथा अतिशयोक्ति अलङ्कारयोः संसृष्टिः दृष्टा। छन्दः — शार्दूलविक्रीडितम्। ‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्’ इति तल्लक्षणम्। ।। ८ ।।
श्लोक — 09
ययातेरिव शर्म्मिष्ठा भर्तुर्बहुमता भव । पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ।। 9 ॥
अन्वय --ययातेः शर्मिष्ठा इव भर्तुः बहुमता भव, त्वम् अपि सम्राजम् सेव, पूरुम् पुत्रम् अवाप्नुहि ॥
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य ‘अभिज्ञानशाकुन्तलम्’ इतिनामधेयस्य नाटकस्य चतुर्थाङ्कात् समुद्धृतम् अस्ति।
प्रसङ्ग --महाकविः कालिदासः अनेन श्लोकेन पितृहृदयस्य वास्तविकं वर्णनम् अकार्षीत्।
संस्कृत व्याख्या --नाडीजीवनस्य चरमोत्कर्षः पतिः बहुमतत्वमेव भवति। ततः नारी पुत्रम् स्वकीयम् कामयते। लब्धः चेत् पुत्रः सम्राट्त्वमवाप्नोति तदा तस्याः जीवनम् कृतकृत्यम्। एतेषाम् सर्वेषाम् पदार्थानामवाप्तेः आशीर्वचनम् अनुशंसति कुलपतिः कण्वः शकुन्तलायै। ययातेः = ययातिनामकस्य राज्ञः, शर्मिष्ठा = पुत्र्याः नाम, भर्तुः = स्वपत्युः, बहुमता = प्राणवल्लभा। तेन प्रकारेण त्वम् अपि राज्ञो दुष्यन्तस्य प्राणवल्लभा भव। किञ्च येन प्रकारेण पुत्री ययातिम् सेवति, तेनैव प्रकारेण त्वम् अपि सम्राजम् राजानम् सेव। किञ्च पूरुनामकः सम्राट् बभूव, तेनैव प्रकारेण त्वम् अपि शकुन्तला सम्राजम् पुत्रम् आत्मजम् अवाप्नुहि प्राप्नुहि।
हिन्दी व्याख्या --ययातेः = राजा ययाति की, शर्मिष्ठा इव = शर्मिष्ठा के समान, भर्तुः = अपने पति (दुष्यन्त) की, बहुमता भव = अत्यन्त प्रिय बनो, त्वम् अपि = तुम भी, सेव = उसी शर्मिष्ठा की भाँति, सम्राजम् = चक्रवर्ती सम्राट्, पूरुम् पुत्रम् = पुरु जैसे यशस्वी पुत्र को, अवाप्नुहि = प्राप्त करो।
हिन्दी अर्थ --जिस प्रकार ययाति की पत्नी शर्मिष्ठा अपने पति को बहुत प्रिय थी, उसी प्रकार तुम भी अपने पति की अत्यन्त प्रिय बनो। जिस प्रकार शर्मिष्ठा ने चक्रवर्ती पुत्र पुरु को प्राप्त किया, उसी प्रकार तुम भी सम्राट् पुत्र को प्राप्त करो।
टिप्पणी --अत्र उपमानामकोऽलङ्कारः। इष्टजनाशंसारूपोऽत्र आशीर्नामको नाट्यालङ्कारश्च। छन्दः — अनुष्टुप्।
श्लोक — 10
अमी वेदिं परितः क्लृप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः । अपघ्नन्तो दुरितं हव्यगन्धैर्वेतानास्त्वां वह्रयः पावयन्तु ।। 10 ॥
अन्वय --वेदिं परितः क्लृप्तधिष्ण्याः, समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः, हव्यगन्धैः दुरितम् अपघ्नन्ताः वैतानाः अमी वह्नयः त्वाम् पावयन्तु ॥
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य ‘अभिज्ञानशाकुन्तलम्’ इतिनामधेयस्य नाटकस्य चतुर्थाङ्कात् समुद्धृतम् अस्ति।
प्रसङ्ग --पवित्रकरत्वमग्नीनां प्रसिद्धम्, नित्यं हविष्यान्नेन तर्प्यमाणस्याग्नेस्तु विशेषरूपेण अस्मिञ्छ्लोके महर्षिः कण्वो वक्ति।
संस्कृत व्याख्या --यदिमे अग्नयः सद्योहुतास्सन्ति। वेद्याः परितः कुशाः प्रसारिताः सन्ति। अतएवात्राग्नी पूर्णरूपेण शुद्धिर्वर्तते। एतद्दृष्टा इमे अग्नयः परिक्रमां कुर्वन्तीं त्वाम् पावयन्तु। वेदिम् परितः = वेद्याः सर्वासु दिशासु, क्लृप्तानि = निश्चितानि, धिष्ण्यानि = स्थानानि, समिधः = यज्ञीय काष्ठानि, तैः युक्ताः। प्रान्ते = सविधे, संस्तीर्णाः = विस्तीर्णाः, दर्भाः = कुशाः, हव्यानां = हवनीयद्रव्याणां, गन्धैः = सुगन्धिभिः, दुरितम् = सर्वप्रकारकं पापम्, अपघ्नन्तः, वैतानाः = यज्ञस्य सम्बन्धिनः, वह्नयः = अग्नयः, पावयन्तु = पवित्रीकुर्वन्तु।
हिन्दी व्याख्या --वेदिम् परितः = यज्ञवेदी के चारों ओर, क्लृप्तधिष्ण्याः = बनाए गए निश्चित स्थानों वाले, समिद्वन्तः = समिधाओं से प्रज्वलित, प्रान्तसंस्तीर्णदर्भाः = किनारों पर बिछाए गए कुशों वाले, हव्यगन्धैः = हविष्य की सुगन्ध से, दुरितम् = पापों को, अपघ्नन्तः = नष्ट करते हुए, वैतानाः = यज्ञ-सम्बन्धी, अमी = ये प्रत्यक्ष, वह्नयः = अग्निदेव, त्वाम् = तुम्हें, पावयन्तु = पवित्र करें।
हिन्दी अर्थ --वेदी के चारों ओर स्थापित, समिधाओं से युक्त तथा किनारों पर बिछे हुए कुशों वाले ये वैतानिक अग्नि हव्य की सुगन्ध से पापों को दूर करते हुए तुम्हें पवित्र करें।
टिप्पणी --अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः। छन्दः — त्रिष्टुप् / इन्द्रवज्रा-उपेन्द्रवज्रा मिश्रित।
श्लोक — 11
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वसिक्तेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् । आदौ वः कुसुमप्रवृत्तिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ।। 11 ॥
अन्वय --या युष्मासु असिक्तेषु प्रथमं जलं पातुं न व्यवस्यति, प्रियमण्डना अपि या स्नेहेन भवतां पल्लवं न आदत्ते, वः आदौ कुसुमप्रवृत्तिसमये यस्याः उत्सवो भवति, सा इयं शकुन्तला पतिगृहम् याति, सर्वैः अनुज्ञायताम् ॥
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य ‘अभिज्ञानशाकुन्तलम्’ इतिनामधेयस्य नाटकस्य चतुर्थाङ्कात् समुद्धृतम् अस्ति।
प्रसङ्ग --सर्वेषाम् वृक्षाणाम् सन्निहितदेवतात्वात् तान् सर्वान् सम्बोधयन् महर्षिः कण्वो वक्ति।
संस्कृत व्याख्या --युष्मासु = तपोवनस्य वृक्षेषु, असिक्तेषु = असिञ्चितेषु, या = शकुन्तला, सेचनात् प्रथमं जलं पातुम् न प्रयतते। एतेन तपोवनवृक्षेषु स्नेहाधिक्यम् व्यज्यते। प्रियमण्डना = पल्लवेन स्वशरीरावयवालङ्करणम्, स्नेहेन = वृक्षैः, पल्लवं न आदत्ते = त्रुटिप्राप्तिः न करोति। वः = तपोवनस्य वृक्षाः, आदौ कुसुमप्रवृत्तिसमये = पुष्पोद्भवसमये, उत्सवः = आनन्दोत्सवः। सा शकुन्तला पतिगृहं याति, सर्वैः अनुज्ञायताम् = सर्वैः वृक्षैः अनुमन्यते।
हिन्दी व्याख्या --या = जो (शकुन्तला), युष्मासु = आप (तपोवन के वृक्षों) के, असिक्तेषु = सींचे न जाने पर, प्रथमम् = पहले, जलम् पातुम् = जल पीने का, न व्यवस्यति = प्रयास नहीं करती थी (स्वयं जल नहीं पीती थी), प्रियमण्डना अपि = यद्यपि उसे आभूषण प्रिय थे फिर भी, स्नेहेन = स्नेहवश, भवताम् = आप वृक्षों के, पल्लवम् = कोमल पत्तों को, न आदत्ते = नहीं तोड़ती थी, वः = आप पर, आदौ = सर्वप्रथम, कुसुमप्रवृत्तिसमये = पुष्प खिलने के समय, यस्याः = जिसके लिए, उत्सवः भवति = आनन्दोत्सव होता था, सा इयम् शकुन्तला = वही यह शकुन्तला, पतिगृहम् याति = पतिगृह जा रही है, सर्वैः = आप सब द्वारा, अनुज्ञायताम् = जाने की अनुमति दी जाए।
हिन्दी अर्थ --जिसने तुम लोगों को सींचे बिना पहले स्वयं जल नहीं पिया, स्वयं अलंकारप्रिय होते हुए भी स्नेह के कारण तुम्हारे पल्लवों को नहीं तोड़ा, तुम्हारे फूलने के समय जिसका उत्सव होता था, वही यह शकुन्तला आज पतिगृह जा रही है। तुम सब उसे विदा होने की अनुमति दो।
टिप्पणी --अस्मिन् श्लोके अनाविष्कृतचैतन्यवत्सु जडेषु वृक्षेषु आविष्कृतचैतन्यवताम् चेतनानाम् व्यवहारसमारोपात् समासोक्तिरलङ्कारः। छन्दः = शार्दूलविक्रीडितम्। ‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्’ इति लक्षणम्।
श्लोक — 12
रम्यान्तरः कमलिनीहरितैः सरोभिः छायाद्रुमैर्नियमितार्कमरीचितापः । भूयात् कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः ।। 12 ॥
अन्वय --अस्याः पन्थाः कमलिनीहरितैः सरोभिः रम्यान्तरः, छायाद्रुमैः नियमितार्कमरीचितापः, कुशेशयरजोमृदुरेणुः, शान्तानुकूलपवनः, शिवश्च भूयात् ॥
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतं अस्ति ।
प्रसङ्ग --महर्षिणा कण्वेन शकुन्तलायाः पतिगृहगमनकाले शकुन्तलायाः पतिगमनानुज्ञायामन्त्रिताः देवताः तस्याः गमनमनुजानन्तः प्राहुः।
संस्कृत व्याख्या --अस्याः मार्गः कमलिनीहरितिम्ना युक्तः सन् रम्यः। छायाद्रुमैः वृक्षैः युक्तत्वात् मनोहारी, कुशेशयपरागयुक्तत्वात् सौगन्ध्ययुक्तः, शान्तानुकूलपवनवत्त्वात् मङ्गलमयः। कमलिनीभिः = पद्मिनीभिः, हरितैः = हरितवर्णैः, सरोभिः = सरोवरैः, रम्यः = मनोहरः, अन्तरः = अन्तरालः, पन्थाः = मार्गः, छायाः = वृक्षछायाः, नियमितः = नियन्त्रितः, अर्कस्य तापः = सूर्यकिरणतापः, कुशेशयः = कुशकमल, रजोभिः = परागैः, मृदुरेणुः = धूल्युक्त कोमल, शान्तानुकूलपवनः = शान्तिमय अनुकूल वायु, शिवः = मङ्गलमय, भूयात् = भवेदिति शंशनम्।
हिन्दी व्याख्या --अस्याः = इस शकुन्तला का, पन्थाः = मार्ग, कमलिनीहरितैः = कमलिनियों से हरे-भरे, सरोभिः = सरोवरों से, रम्यान्तरः = रमणीय मध्यभाग वाला, छायाद्रुमैः = छायादार वृक्षों से, नियमितार्कमरीचितापः = सूर्य की किरणों के नियन्त्रित ताप वाला, कुशेशयरजोमृदुरेणुः = कमलों के परागकणों से कोमल धूलि वाला, शान्तानुकूलपवनः = शान्त और अनुकूल मन्द वायु वाला, च शिवः = और कल्याणकारी, भूयात् = होवे।
हिन्दी अर्थ --इस शकुन्तला का मार्ग कमलिनी से हरे-भरे सरोवरों के कारण बीच-बीच में रमणीय हो, घने छायादार वृक्षों द्वारा सूर्य की किरणों का ताप नियन्त्रित रहे, मार्ग की धूलि खिले हुए कमलों के पराग के कारण कोमल रहे, मन्द एवं अनुकूल वायु चलती रहे तथा उसका सारा मार्ग अत्यन्त कल्याणकारी व मङ्गलमय हो।
टिप्पणी --अस्मिन् श्लोके तुल्ययोगिताकाव्यलिङ्गपरिकराख्या अलङ्काराः। छन्दः = वसन्ततिलकावृत्तम्। 'ज्ञेया वसन्त-तिलका तभजा जगौ गः' इति लक्षणानुसारेण।
श्लोक — 13
अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः । परभृतविरुतं कलं यतः प्रतिवचनीकृतमेभिरात्मनः ।। 13 ॥
अन्वय --यतः वनवासबन्धुभिः तरुभिः आत्मनः कलम् परभृतविरुतम् प्रतिवचनीकृतम्, अतएव इयं शकुन्तला अनुमतगमना।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतं अस्ति।
प्रसङ्ग --अस्मिन् श्लोके शार्ङ्गरवनामकः कण्वमहर्षेः प्रधानः शिष्यो वक्ति यत्, यस्मात् कारणात् अस्या शकुन्तलाया वनवासकाले बान्धवताम् गतैरेभिः वृक्षैः कोकिलकण्ठेनास्याः पतिगृहगमनाय उत्तरम् प्रदत्तम्। अतएव इयं शकुन्तला भर्तृगृहगमनाय अनुमता वर्तते।
संस्कृत व्याख्या --यतः = यस्मात् कारणात्, आत्मनः = शकुन्तलायाः स्वस्य, वनवास = अस्मिन् तपोवने निवासस्य समये, बान्धवाः = सम्बन्धिनः, तरुभिः = वृक्षैः, परभृतस्य = कोकिलस्य, रुतमिव कलम् = मनोहारीकं स्वरूपम्, प्रतिवचनीकृतम् = भवताम् आमन्त्रणस्य उत्तरम्, अतएव इयम् = एषा मम भगिनी शकुन्तला भवत्पोषिता पुत्री, अनुमतम् = अनुज्ञातम्, गमनम् = पतिगृहं प्रस्थानम्।
हिन्दी व्याख्या --यतः = क्योंकि, वनवासबन्धुभिः = वनवास के समय बान्धव बने हुए, तरुभिः = वृक्षों ने, कलम् = मधुर, परभृतविरुतम् = कोयल की कूक को, आत्मनः = अपना, प्रतिवचनीकृतम् = प्रतिवचन (उत्तर) बना लिया है, अतएव इयम् शकुन्तला = इसलिए यह शकुन्तला, अनुमतगमना = पतिगृह जाने की अनुमति प्राप्त कर चुकी है।
हिन्दी अर्थ --तपोवन-निवास के समय जो वृक्ष इसके बन्धु-बान्धव बन गए थे, उन वृक्षों ने कोयल की मधुर कूक को ही अपना उत्तर बनाकर इसे पतिगृह जाने की अनुमति दे दी है; अतः शकुन्तला अब विदा होने की आज्ञा पा चुकी है।
टिप्पणी --अस्मिन् श्लोके तुल्याधिकरणः परिणामालङ्कारः। अपरवक्त्रं च वृत्तम्। 'अयुजि ननरला गुरुः समे तदपरवक्त्रमिदं नजौ जरी।' इति लक्षणानुसारम्।
श्लोक — 14
उद्गीर्णदर्भकवला मृग्यो परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।। 14 ॥
अन्वय --मृगी उद्गीर्णदर्भकवला, मयूराः परित्यक्तनर्तनाः, लताः अपसृतपाण्डुपत्राः अश्रूणि इव मुञ्चन्ति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतं अस्ति।
प्रसङ्ग --तपोवनात् स्वभर्तुर्गृहं गच्छन्त्याः शकुन्तलायाः विप्रयोगजन्यदुःखातिशयेन सम्पूर्णम् तपोवनमेव दुःखदुःखितम् वर्तते इति वक्ति प्रियंवदा शकुन्तलाम् प्रति।
संस्कृत व्याख्या --मृगी = मृगस्य स्त्री, हरिणी इति अर्थः, उद्गीर्णः = निर्गलितः, दर्भकवला = कुशग्रासकवला यथा सा न चर्वितुम्, न पाचयितुम् कुशम् गच्छति, अतः दुःखव्याकुला। मयूरी = मयूरस्त्री, परित्यक्तनर्तना = पूर्णतया वर्जित नृत्यम्, सा तव वियोगेन दुःखिता। अपसृतपाण्डुपत्रा = पीतवर्णानि पर्णानि, लताः = वनस्पति, अश्रु इव मुञ्चन्ति = अश्रुजलं इव परित्यजन्ति।
हिन्दी व्याख्या --मृगी = हरिणियों ने, उद्गीर्णदर्भकवला = चबाए हुए कुश के ग्रास को मुख से उगल दिया है, मयूराः = मोरों ने, परित्यक्तनर्तनाः = नाचना छोड़ दिया है, लताः = लताएँ, अपसृतपाण्डुपत्राः = पीले सूखे पत्तों को गिराकर, अश्रूणि इव = मानों आँसू, मुञ्चन्ति = बहा रही हैं।
हिन्दी अर्थ --(हे सखि शकुन्तले!) तुम्हारे वियोग के दुःख से हरिणियों ने मुँह में चबाए हुए कुश के ग्रास को उगल दिया है, मोरों ने नाचना बन्द कर दिया है और लताएँ अपने पीले पत्तों को गिराकर मानों आँसू बहा रही हैं।
टिप्पणी --अत्र तपोवनस्य विरहकातरत्वरूपकार्य प्रति हरिण्यादीनाम् उद्गीर्णदर्भकवलत्वादि रूपकारणत्रयस्योपन्यासात् समुच्चयालङ्कारः, उत्प्रेक्षालङ्कारश्च। गाथा/आर्या वृत्तम्।
श्लोक — 15
सङ्कल्पितं प्रथममेव मया त्वदर्थे भर्तारमात्मसदृशं स्वगुणैर्गतासि । अस्यास्तु सम्प्रति वरं त्वयि वीतचिन्तः कान्तं समीपसहकारमिमं करिष्ये ।। 15 ॥
अन्वय --मया प्रथममेव त्वदर्थम् आत्मसदृशम् भर्तारम् सङ्कल्पितम्, स्वगुणैः गताऽसि, सम्प्रति त्वयि वीतचिन्तः, अस्याः तु वरम् इमं कान्तम् समीपसहकारम् करिष्ये ॥
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतं अस्ति।
प्रसङ्ग --माधवीलतायाः संरक्षणाय पतिगृहं गच्छन्त्याः शकुन्तलायाः प्रार्थनां श्रुत्वा महर्षिः कण्वो वक्ति यत्-
संस्कृत व्याख्या --मया प्राक् तुभ्यम् तव सौन्दर्याद्यनुकूलः पतिः चिन्तितः। तथाविधम् तु पतिम् त्वम् स्वगुणैरेव लब्धवती। इदानीम् तव विषये मम चिन्ता समाप्ता। साम्प्रतम् अस्याः चिन्तावशिष्यते। किन्तु अस्याः पतिम् तु इमम् सहकारवृक्षमेव करिष्यामि। मया = कण्वेन, प्रथममेव = पूर्वस्मिन्नेव काले, त्वदर्थम् = तुभ्यम्, आत्मसदृशम् = तव रूपगुणानुकूलम्, भर्तारम् = पतिम्, सङ्कल्पितम् = निश्चायितम्। इमाम् शकुन्तलाम् योग्यमेव पतिम् दास्ये इति मदीया मनीषा आसीत्। तथाविधम् योग्यम् पतिम् तु त्वम् स्वगुणैः लब्धवती। सम्प्रति = इदानीम्, त्वयि = शकुन्तलायाः विषये, वीतचिन्तः = चिन्ता रहिता। तु वरम् = पतिम्, कान्तम् = मनोज्ञम्, इमम् समीपसहकारम् = आम्रवृक्षमेव सम्पादयिष्ये।
हिन्दी व्याख्या --मया = मेरे द्वारा, प्रथमम् एव = पहले ही, त्वदर्थे = तुम्हारे लिए, आत्मसदृशम् = तुम्हारे ही अनुरूप, भर्तारम् = जिस पति का, सङ्कल्पितम् = संकल्प (कामना) किया गया था, स्वगुणैः = अपने गुणों से, गता असि = उसे प्राप्त हो गई हो, सम्प्रति = अब, त्वयि = तुम्हारे विषय में, वीतचिन्तः = चिन्तामुक्त होकर, अस्याः तु = इस नवमल्लिका लता के लिए, इमम् समीपसहकारम् = पास में स्थित इस आम्रवृक्ष को, कान्तम् वरम् = मनोहर पति, करिष्ये = बनाऊँगा।
हिन्दी अर्थ --मैंने तुम्हारे लिए जिस तुम्हारे ही योग्य पति की पहले कामना की थी, उसे तुमने अपने सद्गुणों से प्राप्त कर लिया है। अतः अब तुम्हारे विषय में निश्चिन्त होकर मैं इस माधवीलता (नवमल्लिका) को पास ही खड़े इस सुन्दर आम्रवृक्ष से मिलाकर इसके योग्य वर का प्रबन्ध कर दूँगा।
टिप्पणी --अत्रैकदेशविवर्तिरूपकालङ्कारः। 'रूपकम् रूपितारोपो विषये निरुपप्लवे।' इति रूपकलक्षणम्। वृत्तम् = वसन्ततिलका। 'उक्ता वसन्ततिलका तभजा जगौ गः।' इति लक्षणम्।
श्लोक — 16
यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे । श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ।। 16 ॥
अन्वय --यस्य कुशसूचिविद्धे मुखे त्वया व्रणविरोपणम् इङ्गुदीनां तैलं न्यषिच्यत, सः अयं श्यामाकमुष्टिपरिवर्धितकः ते पुत्रकृतकः मृगः पदवीं न जहाति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतं अस्ति।
प्रसङ्ग --महर्षिः कण्वो वक्ति शकुन्तलाम् यत् यस्य मृगस्य कुशसूचिविद्धे मुखे त्वया इङ्गुद्या तैलसिंचनं कृत्वा व्रणं विरोपितम्, यः त्वया श्यामाकमुष्टिभिः परिवर्धितः पुत्रकृतकः स मृगः पतिगृहगमनकाले तव मार्गं बाधते।
संस्कृत व्याख्या --यस्य मृगस्य (शिशुहरिणः) मुखे, कुशसूचिसहिते, त्वया शकुन्तलया व्रणविरोपणं कृतम्। इङ्गुदीनां तैलसिंचनात् तत् प्रभावशाली। श्यामाकमुष्टिपरिमितेन परिवर्धितः पुत्रकृतकः मृगः तव मार्गं न विहाय पदवीं यथावत् प्राप्नोति।
हिन्दी व्याख्या --यस्य = जिसके, कुशसूचिविद्धे मुखे = कुश के नुकीले अग्रभाग से घायल मुख पर, त्वया = तुम्हारे द्वारा, व्रणविरोपणम् = घाव को भरने वाला, इङ्गुदीनाम् तैलम् = हिंगोट (इंगुदी) का तेल, न्यषिच्यत = लगाया जाता था, सः अयम् = वही यह, श्यामाकमुष्टिपरिवर्धितकः = मुट्ठी भर-भरकर सावाँ के दानों से पाला गया, ते पुत्रकृतकः मृगः = तुम्हारा पुत्र-समान माना हुआ मृग, पदवीम् = तुम्हारे रास्ते को, न जहाति = नहीं छोड़ रहा है।
हिन्दी अर्थ --कुश की नोक से मुख के घायल हो जाने पर जिसके घाव को भरने के लिए तुमने स्नेहपूर्वक इंगुदी का तेल लगाया था तथा मुट्ठी भर-भरकर सावाँ के दाने खिलाकर जिसे पाला था, तुम्हारा वह पुत्र-समान माना हुआ मृग आज तुम्हारा मार्ग नहीं छोड़ रहा है।
टिप्पणी --अत्र काव्यलिङ्गमलङ्कारः स्वभावोक्तिश्च। छन्दः — वसन्ततिलका।
श्लोक — 17
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया शिथिलानुबन्धम् । अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ।। 17 ॥
अन्वय --उत्पक्ष्मणोः नयनयोः उपरुद्धवृत्तिम् बाष्पम् स्थिरतया शिथिलानुबन्धम् कुरु, अस्मिन् अलक्षितनतोन्नतभूमिभागे मार्गे ते पदानि खलु विषमीभवन्ति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि “कालिदास” विरचितस्य विश्वविश्रुतस्य “अभिज्ञानशाकुन्तलम्” इतिनामधेयस्य नाटकस्य “चतुर्थाङ्कात” समुद्धृतं अस्ति।
प्रसङ्ग --रुदन्तीं शकुन्तलाम् वीक्ष्य महर्षिः कण्वो वक्ति ताम् यत्—तव मार्गे पदानि स्खलितानि भवन्ति, अतः अश्रुपूरित नेत्रैः मार्गं अवलोकयितुं कठिनम्।
संस्कृत व्याख्या --त्वया रोदनम् केवलं कर्तव्यं नास्ति, एष मार्गः परिचितः। अतः अश्रुपूरिताभ्याम् नेत्राभ्याम् सम्यक् पन्थानम् अवलोकयितुं न शक्नोषि। नेत्रलोमानि (उद्गतानि पक्ष्माणि) उपरुद्धा = सन्निरुद्धा, वृत्तिः = दर्शनशक्तिः। बाष्पम् = अश्रुजलम्, स्थिरतया = धैर्येण, शिथिलानुबन्धम् = न्यूनप्रवाहयुक्तम्। अतएव मार्गे अस्मिन् नीचोच्च भूमिभागे ते पदानि स्खलन्ति।
हिन्दी व्याख्या --उत्पक्ष्मणोः नयनयोः = ऊपर उठी हुई बरौनियों वाले नेत्रों की, उपरुद्धवृत्तिम् = दृष्टि-शक्ति को रोकने वाले, बाष्पम् = आँसुओं के प्रवाह को, स्थिरतया = धैर्यपूर्वक, शिथिलानुबन्धम् कुरु = मन्द (रोकने का प्रयास) करो, अलक्षितनतोन्नतभूमिभागे = जहाँ ऊँचे-नीचे भाग दिखाई नहीं पड़ रहे हैं, अस्मिन् मार्गे = इस रास्ते पर, ते पदानि = तुम्हारे पैर, खलु विषमीभवन्ति = निश्चय ही लड़खड़ा रहे हैं।
हिन्दी अर्थ --उठी हुई बरौनियों वाले नेत्रों की दर्शन-शक्ति को रोकने वाले इन आँसुओं के प्रवाह को धैर्य धारण कर रोको; क्योंकि इस ऊबड़-खाबड़ (ऊँचे-नीचे) मार्ग पर, जो आँसुओं के कारण स्पष्ट दिखाई नहीं दे रहा है, तुम्हारे पैर निश्चय ही लड़खड़ा रहे हैं।
टिप्पणी --अत्र वाक्यार्थहेतुक-पदार्थहेतुकयोः काव्यलिङ्गालङ्कारयोः सङ्करः। छन्दः — वसन्ततिलका वृत्तम्।
श्लोक — 18
पुटकिनीपत्रान्तरितां व्याहृतोऽपि न खलु व्याहरति प्रियाम् । मुख उद्व्यूढमृणालस्त्वयि दृष्टिं ददाति चक्रवाकः ।। 18 ॥
अन्वय --व्याहृतोऽपि खलु, मुखे उद्व्यूढमृणालः चक्रवाकः पुटकिनीपत्रान्तरिताम् प्रियाम् न व्याहरति, त्वयि दृष्टिं ददाति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य चतुर्थाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --अस्मिञ्छ्लोकेऽनसूया शकुन्तलाम् वक्ति यत् तस्या पतिगृहगमनकाले सर्वे जीवाः कष्टात् अधिकमनुभवन्ति। अन्यस्य जीवस्य कथं? चक्रवाकोऽपि स्वप्रियाम् न व्याहरति, केवलम् निनिमेषदृष्ट्या त्वामेव अवलोकयति।
संस्कृत व्याख्या --प्रियया = व्याहृतः, अपि आहूतोऽपि; खलु = निश्चयेन; मुखे = वदने; उद्व्यूढम् = गृहीतम्; मृणालम् = कमलनालम्, येन तथाभूतः; चक्रवाकः = चकवा पक्षी; पुटकिन्याः = कमलिन्याः; पत्रे = पर्णे; अन्तरिताम् = तिरोहिताम्; स्वप्रियाम् = स्वपत्नीम् चक्रवाकीम्; = नहि; व्याहरति = व्यक्तिं न दर्शयति; केवलम् त्वयि = शकुन्तलायाम्, दृष्टिम् ददाति = त्वामेव केवलम् अनन्यमनसा पश्यति।
हिन्दी व्याख्या --पुटकिनीपत्रान्तरिताम् = कमलिनी के पत्तों की ओट में छिपी, प्रियाम् = अपनी प्रिया (चकवी) द्वारा, व्याहृतः अपि = पुकारे जाने पर भी, मुखे उद्व्यूढमृणालः = मुख में कमलनाल को दबाए हुए, चक्रवाकः = चकवा पक्षी, खलु न व्याहरति = निश्चय ही उत्तर नहीं दे रहा है, त्वयि दृष्टिम् ददाति = (केवल) तुम्हारी ही ओर दृष्टि लगाए देख रहा है।
हिन्दी अर्थ --कमल के पत्तों की ओट में छिपी हुई अपनी प्रिया चकवी द्वारा पुकारे जाने पर भी, मुँह में कमलनाल दबाए हुए यह चकवा अपनी प्रिया को उत्तर न देकर केवल तुम्हारी ही ओर एकटक दृष्टि लगाए देख रहा है।
टिप्पणी --अत्र सम्पूर्णस्य तपोवनस्य शकुन्तलायाः विरहलीनत्वं द्योत्यते। अत्र परिसंख्यालङ्कारः। छन्दः — आर्या जातिः।
श्लोक — 19
अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलञ्चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिञ्च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खलु तत्स्त्रीबन्धुभिर्याच्यते ।। 19 ॥
अन्वय --संयमधनान् अस्मान्, आत्मनः उच्चैः कुलम् च, त्वयि अस्याः कथमपि अबान्धवकृताम् ताम् स्नेहप्रवृत्तिञ्च साधु विचिन्त्य त्वया इयम् दारेषु सामान्यप्रतिपत्तिपूर्वकम् दृश्या, अतः परम् भाग्याधीनम्, तत् खलु स्त्रीबन्धुभिः न याच्यते।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य चतुर्थाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --अयं श्लोकः अभिज्ञानशाकुन्तलस्य नाटकस्य मनोज्ञतमेषु चतुर्षु श्लोकेषु अन्यतमं स्थानं बिभर्ति। अस्मिञ्छ्लोके महर्षिः कण्वः राजानम् दुष्यन्तम् सन्दिशति यत् त्वया इयम् सामान्यस्त्रीरूपेण अवश्यं समादरणीया। एतस्मात् परम् पट्टमहिषित्वादिकम् तु भाग्याधीनम् भवति।
संस्कृत व्याख्या --अस्मान् = शकुन्तलायाः स्वजनाः, तपोधनाः; साधु = सम्यक्तया; विचिन्त्य = विचार्य, मनसा पर्यालोच्य; आत्मनः = स्वस्य, दुष्यन्तस्य; उच्चैः = समुन्नतम्; कुलम् = वंश; अबान्धवकृताम् = स्वबन्धुजनैरसम्पादिताम्; स्नेहप्रवृत्तिम् = अत्यधिक अनुरागम्; सामान्यप्रतिपत्तिपूर्वकम् = समादरणीयताबुद्ध्या; दारेषु = पत्नीषु; दृश्या = द्रष्टव्या; भाग्याधीनम् = दैवाधीनम्; खलु = निश्चयेन; स्त्रीबन्धुभिः = बान्धवैः; न याच्यते = प्रार्थ्यते न।
हिन्दी व्याख्या --संयमधनान् अस्मान् = संयम ही जिनका धन है ऐसे हम तपस्वियों का, आत्मनः उच्चैः कुलम् च = और अपने उच्च कुल का, त्वयि अस्याः = तुम्हारे प्रति इसके, अबान्धवकृताम् = बन्धुजनों के बिना कराए हुए, ताम् स्नेहप्रवृत्तिम् च = उस स्वाभाविक प्रेम का, साधु विचिन्त्य = भली-भाँति विचार करके, त्वया = तुम्हारे द्वारा, इयम् = यह शकुन्तला, दारेषु = अपनी रानियों में, सामान्यप्रतिपत्तिपूर्वकम् = समान आदर-सम्मान के साथ, दृश्या = देखी जानी चाहिए; अतः परम् = इससे आगे जो कुछ है, भाग्याधीनम् = भाग्य के अधीन है, तत् = वह, स्त्रीबन्धुभिः = कन्या के बान्धवों द्वारा, खलु न याच्यते = माँगा नहीं जाता।
हिन्दी अर्थ --संयम ही जिनका वास्तविक धन है ऐसे हम तपस्वियों का, अपने उच्च कुल का तथा बिना बान्धवों के कराए तुम्हारे प्रति इसके इस स्वाभाविक प्रेम का भली-भाँति विचार करके तुम्हें अपनी अन्य रानियों के समान इसे भी आदर-सम्मान देना चाहिए। इसके बाद जो कुछ इसका पद या सौभाग्य होगा वह भाग्य के अधीन है; कन्या के सम्बन्धियों द्वारा उससे अधिक की याचना नहीं की जाती।
टिप्पणी --तुल्ययोगिता-काव्यलिङ्ग-अप्रस्तुतप्रशंसाख्यानामलङ्काराणाम् परस्परम् नैरपेक्ष्येण विद्यमानत्वात् एतेषां संसृष्टिः। छन्दः — शार्दूलविक्रीडितम्।
श्लोक — 20
शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ 20 ॥
अन्वय --गुरून् शुश्रूषस्व, सपत्नीजने प्रियसखीवृत्तिं कुरु, भर्तुः विप्रकृता अपि रोषणतया प्रतीपं मा स्म गमः, परिजने भूयिष्ठं दक्षिणा भव, भाग्येषु अनुत्सेकिनी भव, एवम् युवतयः गृहिणीपदं यान्ति, वामाः कुलस्य आधयः भवन्ति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य चतुर्थाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --अस्मिञ्छ्लोके महर्षिः कण्वः उपदिशति शकुन्तलां यत् त्वया स्वभर्तुर्गृहे गुरुजनानाम् सेवा कर्तव्या, सपत्नीष्वपि सोमनस्यपूर्वको व्यवहारः कर्तव्यः, भर्त्राऽपमानिताऽपि तस्य विरोधं मा कार्षीः।
संस्कृत व्याख्या --गुरून् = श्वश्रूश्वशुरादिकान्; शुश्रूषस्व = भोजनजलपानप्रदान सद्ब्याहारव्यवहारादिभिः सेवस्व; सपत्नीजने = तस्मिन् विषये; प्रियसख्याः = प्रियवयस्यायाः; वृत्तिम् = व्यवहारम्; कुरु = विधेहि; विप्रकृता = अपमानिता अपि त्वम्; भर्तुः = स्वस्वामिनः; प्रतीपम् = विपरीताचरणवती; मा स्म गमः = मा भूः; परिजने = परिवारवर्गविषये, स्वानुचरादिवर्गविषये; भूयिष्ठम् = अत्यधिकम्; दक्षिणा = अनुकूलाचरणकारिणी भव; भाग्येषु = भोगानाम् विषये; अनुत्सेकिनी = गर्वरहिता भव; एवम् = अनेन प्रकारेण; युवतयः = नार्यः; गृहिणीपदम् = प्रधानपत्न्याः स्थानं; यान्ति = लभन्ते; वामाः = एतद्विपरीत आचरणवत्यस्तु नार्यः; कुलस्य = उभयवंशस्य; आधयः = मनोव्यथाकारिण्यो भवन्ति ॥
हिन्दी व्याख्या --गुरून् = सास-ससुर आदि गुरुजनों की, शुश्रूषस्व = सेवा करना, सपत्नीजने = अपनी सौतों के प्रति, प्रियसखीवृत्तिम् = प्रिय सखी जैसा व्यवहार, कुरु = करना, भर्तुः विप्रकृता अपि = पति द्वारा तिरस्कृत होने पर भी, रोषणतया = क्रोधवश, प्रतीपम् = उनके विरुद्ध (विपरीत), मा स्म गमः = आचरण मत करना, परिजने = सेवकों तथा आश्रितों पर, भूयिष्ठम् दक्षिणा भव = अत्यधिक उदार रहना, भाग्येषु = अपने सौभाग्य/वैभव पर, अनुत्सेकिनी भव = गर्वरहित रहना; एवम् = इस प्रकार (आचरण करने वाली), युवतयः = स्त्रियाँ, गृहिणीपदम् यान्ति = गृहस्वामिनी के पद को प्राप्त करती हैं, वामाः = इसके विपरीत आचरण करने वाली, कुलस्य = कुल के लिए, आधयः भवन्ति = मानसिक व्यथा (दुःख का कारण) होती हैं।
हिन्दी अर्थ --शकुन्तले ! यहाँ से अपने पति के घर जाकर गुरुजनों की सेवा करना, अपनी सौतों से प्रियसखी का व्यवहार करना, अपमानित होकर भी क्रोध के कारण अपने पति के विपरीत आचरण न करना, अपने परिवार जनों के प्रति औदार्यपूर्ण व्यवहार करना तथा भोगों का गर्व न करना। इस प्रकार का आचरण करने वाली युवतियाँ गृहस्वामिनी बन जाती हैं और इसके प्रतिकूल आचरण करने वाली तो अपने दोनों वंशों को दुःख पहुँचाती हैं।
टिप्पणी --अस्मिञ्छ्लोके अर्थान्तरन्यास रूपकयोः परस्परनैरपेक्ष्येण संसृष्टिः। छन्दः — शार्दूलविक्रीडितम् (‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्’)।
श्लोक — 21
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला । तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं मम विरहजां न त्वं वत्से ! शुचं गणयिष्यसि ॥ 21 ॥
अन्वय --वत्से ! अभिजनवतः भर्तुः श्लाघ्ये गृहिणीपदे स्थिता, तस्य विभवगुरुभिः कृत्यैः प्रतिक्षणम् आकुला, च प्राची अर्कम् इव अचिरात् पावनम् तनयम् प्रसूय, त्वम् मम विरहजाम् शुचं न गणयिष्यसि।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य ‘अभिज्ञानशाकुन्तलम्’ इतिनामधेयस्य नाटकस्य चतुर्थाङ्कात् समुद्धृतम् अस्ति।
प्रसङ्ग --अस्मिञ्छ्लोके तपोवनात् स्वपत्युर्गृहं गच्छन्तीम् विप्रयोगव्याकुलाम् शकुन्तलामवलोक्य तां सान्त्वयन् महर्षिः कण्वः प्राह यत् दुष्यन्तस्य गृहिणीपदे स्थिता त्वम् विविधकार्यव्यग्रा अचिरात् पुत्रम् च प्रसूय मम विरहजन्यं शोकं विस्मरिष्यसि।
संस्कृत व्याख्या --वत्से = पुत्रि !; अभिजनवतः = उत्तम पुरुषवंशावतंसस्य; भर्तुः = स्वामिनो दुष्यन्तस्य; श्लाघनीये = प्रशंसनीये; गृहिणीपदे = प्रधानपत्न्याः पदे; स्थिता = आरूढा सती त्वम्; तस्य = राज्ञो दुष्यन्तस्य; विभवगुरुभिः = ऐश्वर्यसम्पत्त्या महत्त्वयुक्तैः; कृत्यैः = कार्यैः; प्रतिक्षणम् = सर्वदा; आकुला = व्यस्ता; त्वम् च = किञ्च; अचिरात् = शीघ्रमेव; प्राची अर्कमिव = पूर्वदिशायामुदितम् बालसूर्यम् इव; पावनं = लोकपवित्रकारकम्; तनयम् = पुत्रम्; प्रसूय = उत्पाद्य; मम = कण्वस्य; विरहजाम् = वियोगजन्याम्; शुचम् = शोकम्; न गणयिष्यसि = न धारयिष्यसि।
हिन्दी व्याख्या --वत्से = हे पुत्री (शकुन्तले!), अभिजनवतः = उच्च कुलीन, भर्तुः = पति (दुष्यन्त) के, श्लाघ्ये = प्रशंसनीय/गौरवशाली, गृहिणीपदे = गृहस्वामिनी (पटरानी) के पद पर, स्थिता = प्रतिष्ठित होकर, तस्य = उनके, विभवगुरुभिः = ऐश्वर्य एवं वैभव से परिपूर्ण, कृत्यैः = राजकार्यों में, प्रतिक्षणम् = प्रतिक्षण, आकुला = व्यस्त रहकर, = और, प्राची अर्कम् इव = पूर्व दिशा द्वारा तेजस्वी सूर्य को उत्पन्न करने के समान, अचिरात् = शीघ्र ही, पावनम् तनयम् = पवित्र पुत्र को, प्रसूय = जन्म देकर, त्वम् = तुम, मम = मेरे, विरहजाम् शुचम् = वियोग-जनित दुःख की, न गणयिष्यसि = कोई परवाह (चिन्ता) नहीं करोगी।
हिन्दी अर्थ --हे पुत्री! कुलीन वंश में उत्पन्न पति के श्लाघनीय गृहस्वामिनी पद पर प्रतिष्ठित होकर, उनके अपार ऐश्वर्य के कारण विशाल गृहकार्यों को सम्भालने में निरन्तर व्यस्त रहकर तथा पूर्व दिशा द्वारा सूर्य को उत्पन्न करने के समान शीघ्र ही परम पवित्र पुत्र को जन्म देकर तुम मेरे वियोग-जन्य शोक की परवाह नहीं करोगी (उसे भूल जाओगी)।
टिप्पणी --अत्र श्लोके काव्यलिङ्गसमुच्चयालङ्कारयोः सङ्करः, 'प्राचीवार्कम्' इत्यत्र पूर्णोपमा च। छन्दः — हरिणी वृत्तम् (‘नससमरसला गः षड्वेदैर्हयैर्हरिणी मता’)।
श्लोक — 22
भूत्वा चिराय सदिगन्तमहीसपत्नी दौष्यन्तिमप्रतीरथं तनयं प्रसूय । तत्सन्निवेशितधुरेण सहैव भर्त्रा शान्त्यै करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ 22 ॥
अन्वय --चिराय सदिगन्तमहीसपत्नी भूत्वा, अप्रतीरथम् दौष्यन्तिम् तनयं प्रसूय, तत्सन्निवेशितधुरेण भर्त्रा सह एव अस्मिन् आश्रमे शान्त्यै पुनः पदं करिष्यसि।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य ‘अभिज्ञानशाकुन्तलम्’ इतिनामधेयस्य नाटकस्य चतुर्थाङ्कात् समुद्धृतम् अस्ति।
प्रसङ्ग --शकुन्तलया ‘पुनरहमत्र कदा गमिष्यामि’ इति पृष्टे सति महर्षिः कण्वः प्राह यत् दीर्घकालपर्यन्तम् पृथ्वीपालकस्य दुष्यन्तस्य पत्नी भूत्वा, अप्रतिमं पुत्रं जनयित्वा, तस्मै राज्यभारं समर्प्य स्वभर्त्रा सह शान्तिलाभाय त्वम् पुनराश्रमे आगमिष्यसि।
संस्कृत व्याख्या --चिराय = दीर्घकालं यावद्; सदिगन्तमहीसपत्नी = अखिलभुवनमण्डलप्रशासितुः पत्नी; भूत्वा = भूय; अप्रतीरथम् = प्रतियोगिशून्यम्, अद्वितीयवीरम्; दौष्यन्तिम् = दुष्यन्तपुत्रम्; तनयम् = पुत्रम्; प्रसूय = जनयित्वा; तस्मिन् = तनये; सन्निवेशितधुरेण = समर्पितराज्यभारेण; भर्त्रा सहैव = पत्या साकमेव; अस्मिन् आश्रमे = एतस्मिन् तपोवने; पुनः = भूयः; शान्त्यै = शान्त्यावाप्तये; पदं करिष्यसि = आयास्यसि त्वम्।
हिन्दी व्याख्या --चिराय = दीर्घकाल तक, सदिगन्तमहीसपत्नी = दिशाओं के अन्त तक फैली हुई सम्पूर्ण पृथ्वी की सौत (चक्रवर्ती सम्राज्ञी), भूत्वा = होकर, अप्रतीरथम् = जिसका कोई प्रतिद्वन्द्वी न हो ऐसे अद्वितीय वीर, दौष्यन्तिम् तनयम् = दुष्यन्त-पुत्र (भरत) को, प्रसूय = जन्म देकर, तत्सन्निवेशितधुरेण = उस पुत्र पर राज्य का सम्पूर्ण भार सौंप चुके, भर्त्रा सह एव = अपने पति के साथ ही, शान्त्यै = आध्यात्मिक शान्ति के लिए, पुनः = फिर से, अस्मिन् आश्रमे = इस तपोवन में, पदम् करिष्यसि = अपने चरण रखोगी (निवास करोगी)।
हिन्दी अर्थ --दीर्घकाल तक सम्पूर्ण पृथ्वी-मण्डल की पटरानी (सम्राज्ञी) रहकर तथा अद्वितीय वीर दुष्यन्त-पुत्र को जन्म देकर, बाद में उस पुत्र पर राज्य का भार सौंपकर अपने पति के साथ ही वानप्रस्थ आश्रम में शान्ति प्राप्त करने के लिए तुम पुनः इस आश्रम में पदार्पण करोगी।
टिप्पणी --अत्र मालादीपकालंकारः, पर्यायोक्तालंकारश्च। छन्दः — वसन्ततिलका (‘ज्ञेयं वसन्ततिलकं तभजा जगौ गः’)।
श्लोक — 23
अपयास्यति मे शोकः कथं नु वत्से ! त्वया रचितपूर्वम् । उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ 23 ॥
अन्वय --वत्से ! त्वया रचितपूर्वम् उटजद्वारविरूढम् नीवारबलिम् विलोकयतः मे शोकः कथं नु अपयास्यति?
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य ‘अभिज्ञानशाकुन्तलम्’ इतिनामधेयस्य नाटकस्य चतुर्थाङ्कात् समुद्धृतम् अस्ति।
प्रसङ्ग --शकुन्तलायाः वियोगेन कण्वस्य अशान्तिं शमयितुं कृतं वचनं श्रुत्वा महर्षिः कण्वः स्ववियोग-दुःखस्य स्थायित्वं प्रतिपादयन् वक्ति—
संस्कृत व्याख्या --वत्से = पुत्रि !; त्वया = शकुन्तलया; रचितपूर्वम् = पक्षिणां भोजनाय पूर्वं विकीर्णम्; उटजानाम् = पर्णशालायाः; द्वारे = द्वारि; विरूढम् = अङ्कुरितम्; नीवारबलिम् = नीवाररूपं भूतबलिम्; विलोकयतः = पश्यतः; मे = मम कण्वस्य; शोकः = तव विप्रयोगप्रयुक्तं कष्टम्; कथं नु = केन प्रकारेण; अपयास्यति = दूरीभविष्यति? यदा यदाहं तद् द्रक्ष्यामि तदा तदा त्वं मम स्मृत्यारूढा भविष्यसि।
हिन्दी व्याख्या --वत्से = हे पुत्री!, त्वया = तुम्हारे द्वारा, रचितपूर्वम् = पहले (पक्षियों व जीवों के लिए) बिखेरे गए, उटजद्वारविरूढम् = कुटी के द्वार पर अंकुरित होकर उगे हुए, नीवारबलिम् = नीवार (सावाँ) धान्य के बलिभाग को, विलोकयतः = निरन्तर देखने वाले, मे = मेरा, शोकः = वियोग-शोक, कथम् नु = भला किस प्रकार, अपयास्यति = दूर हो सकेगा?
हिन्दी अर्थ --हे पुत्री! कुटिया के दरवाजे पर तुम्हारे द्वारा पहले बिखेरे गए और अब अंकुरित होकर उगे हुए नीवार (सावाँ) के उपहार-भाग को नित्य देखने वाले मेरा यह विरह-शोक भला कैसे दूर हो सकेगा?
टिप्पणी --अत्र पदार्थहेतुककाव्यलिङ्गार्थापत्त्यलङ्कारयोरङ्गाङ्गिभावेन सङ्करः। छन्दः — आर्या जातिः।
श्लोक — 24
अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः । जातोऽस्मि सद्यो विशदान्तरात्मा चिरस्य निक्षेपमिवार्पयित्वा ॥ 24 ॥
अन्वय --कन्या हि परकीयः एव अर्थः, ताम् अद्य परिग्रहीतुः सम्प्रेष्य, चिरस्य निक्षेपम् अर्पयित्वा इव सद्यः विशदान्तरात्मा जातः अस्मि।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य ‘अभिज्ञानशाकुन्तलम्’ इतिनामधेयस्य नाटकस्य चतुर्थाङ्कात् समुद्धृतम् अस्ति।
प्रसङ्ग --अस्मिञ्छ्लोके महर्षिः कण्वो वक्ति यत् कन्या परकीयमेव धनं भवति। अद्य शकुन्तलां तस्याः पत्युः गृहं प्रेषयित्वा ममान्तःकरणं पूर्णतः स्वास्थ्यं शान्तिञ्चानुभवति।
संस्कृत व्याख्या --हि = निश्चयेन; कन्या = पुत्री; परकीय एव अर्थः = परस्वामिकं धनमेव; ताम् = शकुन्तलाम्; अद्य = अस्मिन् दिवसे; परिग्रहीतुः = पत्युः दुष्यन्तस्य समीपे; सम्प्रेष्य = प्रेषयित्वा; चिरस्य = बहुकालात् रक्षितम्; निक्षेपम् = धरोहरं (न्यासम्); अर्पयित्वा इव = स्वामिने समर्प्य यथा; सद्यः = तत्क्षणमेव; विशदान्तरात्मा = शान्तप्रसन्नान्तःकरणः; जातोऽस्मि = संवृत्तोऽस्मि।
हिन्दी व्याख्या --हि = क्योंकि, कन्या = पुत्री, परकीयः एव अर्थः = वस्तुतः पराया ही धन होती है, ताम् = उस (शकुन्तला) को, अद्य = आज, परिग्रहीतुः = उसके पति (ग्रहणकर्ता) के पास, सम्प्रेष्य = विदा करके (भेजकर), चिरस्य = बहुत समय से रखी हुई, निक्षेपम् = धरोहर (अमानत) को, अर्पयित्वा इव = उसके वास्तविक स्वामी को लौटा देने के समान, सद्यः = आज तत्काल, विशदान्तरात्मा = शान्त एवं प्रसन्न चित्त वाला, जातः अस्मि = हो गया हूँ।
हिन्दी अर्थ --कन्या वास्तव में पराया ही धन होती है। आज उस कन्या (शकुन्तला) को उसके पति के घर भेजकर मैं उसी प्रकार अत्यन्त निश्चिन्त एवं प्रसन्नचित्त हो गया हूँ, जैसे कोई व्यक्ति बहुत समय से रखी हुई किसी की धरोहर (धरोहर/अमानत) को उसके स्वामी को सौंपकर शान्ति का अनुभव करता है।
टिप्पणी --अत्र रूपकोत्प्रेक्षयोः संसृष्टिः, अर्थान्तरन्यासश्च। इन्द्रवज्रोपेन्द्रवज्रयोर्मेलनात् वृत्तम् — इन्द्रवज्रा/उपजातिः (‘अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः’)। इति भावप्रकाशिकायां चतुर्थोऽङ्कः समाप्तः।
अभिज्ञानशाकुन्तलम् · चतुर्थोऽङ्कः · महाकवि कालिदास

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)