कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ।। १ ।।
अन्वयः - प्रिया कामम्, न सुलभा, तु मनः तद्भावदर्शनाश्वासि, मनसिजे,अकृतार्थेऽपि,सउभयप्रार्थना, रतिं कुरुते । तद्भावदर्शनाश्वासि, मनसिजे,अकृतार्थेऽपि, उभयप्रार्थना, रतिं कुरुते ।
व्याख्या - गुरुजनासमीपवर्तित्वात्, परतन्त्रत्वाच्च शकुन्तलायाः प्राप्ति: सुलभा यद्यपि नास्ति तथापि आवयोरुभयोरनुरागस्तु वर्तते एव । अतएव नूनं सा उपलप्स्यते इति मनसि विस्रुम्भः । प्रिया =शकुन्तला, कामम् = पर्याप्तरूपेण, सुलभा = सुलभ्या, न = नास्ति, तु = किन्तु, मनः = ममान्तःकरणम्, तस्याः = शकुन्तलायाः, दर्शनेन = अवलोकनेन, = सुलभ्या, न = नास्ति, तु = किन्तु, मनः = ममान्तःकरणम्, तस्याः = शकुन्तलायाः, दर्शनेन = अवलोकनेन, आश्वासि = विश्वासोपगतम् वर्तते । सा नूनम् लप्स्यते इति । मनसिजे = कामे, अकृतार्थेऽपि = अचरितार्थेऽपि, उभयप्रार्थना = आवयोः शकुन्तलादुष्यन्तयोः परस्परमनुरागः, रतिम् = भविष्यत्कालिकीं संयोगजन्याम् प्रीतिम्, कुरुते = जनयति । परस्परमनुरागः, रतिम् = भविष्यत्कालिकीं संयोगजन्याम् प्रीतिम्
प्रीतिम्, कुरुते = जनयति । अत्र पूर्वार्द्धसामान्यस्य परार्द्धसामान्येन समर्थनात् अर्थान्तरन्यासालङ्कारः ।
किञ्चा प्रस्तुतनायकनायिकात्मकोभयसामान्यात् प्रस्तुतदुष्यन्त शकुन्तलानायकनायिकाप्रत्ययनादप्रस्तुत प्रशंसालङ्कारः इत्युभययोः सङ्करः ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें