अभिज्ञानशाकुन्तलम् (द्वितीय अंक) : ससंदर्भ संस्कृत व्याख्या एवं हिन्दी अर्थ

चन्द्र देव त्रिपाठी 'अतुल'
0
अभिज्ञानशाकुन्तलम् (द्वितीय अंक) : ससंदर्भ संस्कृत व्याख्या एवं हिन्दी अर्थ
श्लोक — 01
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि । अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ 1 ॥
अन्वय --प्रिया कामम्, न सुलभा, तु मनः तद्भावदर्शनाश्वासि, मनसिजे, अकृतार्थेऽपि, उभयप्रार्थना, रतिं कुरुते ॥
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --गुरुजनासमीपवर्तित्वात्, परतन्त्रत्वाच्च शकुन्तलायाः प्राप्तिः सुलभा यद्यपि नास्ति तथापि आवयोः उभयोः अनुरागः तु वर्तते एव। अतएव नूनं सा उपलप्स्यते इति मनसि विस्रम्भः।
संस्कृत व्याख्या --प्रिया = शकुन्तला, कामम् = पर्याप्तरूपेण, सुलभा = सुलभ्या, = नास्ति, तु = किन्तु, मनः = ममान्तःकरणम्, तस्याः = शकुन्तलायाः, दर्शनेन = अवलोकनेन, आश्वासि = विश्वासोपगतम् वर्तते। सा नूनम् लप्स्यते इति। मनसिजे = कामे, अकृतार्थेपि = अचरितार्थेपि, उभयप्रार्थना = आवयोः, शकुन्तलादुष्यन्तयोः परस्परमनुरागः, रतिम् = भविष्यत् कालकीं संयोगजन्याम् प्रीतिम्, कुरुते = जनयति।
हिन्दी व्याख्या --
हिन्दी अर्थ --राजा (मन में) यद्यपि प्रिया का मिलना कठिन है, फिर भी उसको देखकर मेरा मन आश्वस्त है। काम के कृतार्थ नहीं होने पर भी हम दोनों का अनुराग भावी सम्मिलन जन्य आनन्द को उत्पन्न करता ही है।
टिप्पणी --अत्र पूर्वार्द्धसामान्यस्य परार्द्धसामान्येन समर्थनात् अर्थान्तरन्यासालङ्कारः।
श्लोक — 02
स्निग्धं वीक्षितमन्यतोऽपि नयने यत् प्रेरयन्त्या तया, यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव । मा गा इत्युपरुद्धया यदपि तत्सासूयमुक्ता सखी, सर्वे तत् किल मत्परायणमहो कामः स्वतां पश्यति ।। 2 ।।
अन्वय --तया, नयने अन्यतः प्रेरयन्त्या अपि यत् स्निग्धं वीक्षितम्, नितम्वयोः गुरुतया, यच्च विलासादिव यच्च मन्दं यातम्, मा गाः इत्युपरुद्धया तया यदपि सासूयम् उक्ता सखी, तत् सर्वं किल मत्परायणम् अहो कामः स्वतां पश्यति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य ‘अभिज्ञानशाकुन्तलम्’ इति नामधेयस्य नाटकस्य द्वितीयाङ्कात् समुद्धृतम् अस्ति।
प्रसङ्ग --अत्र राजा शोचति यत् — शकुन्तलया यद् यद् वीक्षण–गमन–वचनादिकं कृतं, तत्सर्वमहम् स्वात्मानं प्रतिभावयामीति। अस्य कामपरायणतायाः परिणामः दर्श्यते।
संस्कृत व्याख्या --तया = शकुन्तलया, नयने = नेत्रे, अन्यतः = अन्यस्यामपि दिशायाम्, प्रेरयन्त्या = स्फुटं विलोकयन्त्या, यत् स्निग्धम् = साभिलापम्, वीक्षितम् = व्याजान्तरेण विलोचने प्रचाल्य विलोकितम्, यच्च = किञ्च, नितम्बयोः = कटिपश्चाद्भागयोः, गुरुतया = भाववत्तया, विलासादिव = मामुद्दिश्याङ्गक्रियादिषु वैशिष्ट्यमुद्भाव्य, मन्दम् = शनैः शनैः, यातम् = गमनं कृतम्, मा गाः = नहि गच्छ, इति = इत्युक्त्वा, प्रियंवदया अवरुद्धया = अवरोधितया, सखी = प्रियंवदा, यदपि च = यदा, तत् = तदा, सासूयम् = असूयया सहितम्, उक्ता = कथिताऽभूत्, तत् = तया शकुन्तलया चेष्टितम्, सर्वम् = अखिलम्, मत्परायणम् = मम विषयकम् मामेवोद्दिश्य सञ्जातम् इति विभावितम्, अहो = अत्याश्चर्यम् वर्तते, यत् कामः = मदनावेशोऽभिलाषः, स्वताम् = आत्मीयताम्, अन्यविषयकाणामपि भावानां = स्वविषयकताम्, पश्यति = जानाति इति भावः।
हिन्दी व्याख्या --
हिन्दी अर्थ --शकुन्तला ने जो दूसरी ओर दूसरी वस्तुओं को प्रेमपूर्वक देखा, नितम्ब की गुरुता के कारण विलासपूर्वक चलने के समान वह जो धीरे–धीरे चली तथा “नहीं जाओ” यह कहकर प्रियंवदा के द्वारा रोके जाने पर उसने असूयापूर्वक सखी को उपालम्भित किया — वह सब कुछ मेरे प्रति ही उसका आचरण था, ऐसा मैं समझता हूँ। आश्चर्य है कि काम परविषयक व्यापार को भी अपने प्रति ही समझता है।
टिप्पणी --अत्र अर्थान्तरन्यास–हेतूत्प्रेक्षयोः संसृष्टिः। शार्दूलविक्रीडितम् वृत्तम् — ‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्’ इति हि शार्दूलविक्रीडितलक्षणम्।
श्लोक — 03
न नमयितुमधिज्यमुत्सहिष्ये धनुरिदमाहितसायकं मृगेषु । सहवसतिमुपेत्य यैः प्रियायाः कृत इव लोचनकान्तिसंविभागः ॥ 3 ॥
अन्वय --अधिज्यम् आहितसायकम्, इदम्, धनुः, मृगेषु नमयितुम्, न उत्सहिष्ये, यैः सहवसतिम् उपेत्य, प्रियायाः लोचनकान्तिसंविभागः, कृत इव।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --अस्मिञ्छ्लोके राजा दुष्यन्तो मनसि विचारयति यत् ये मृगाः शकुन्तलया सह निवसन्तः तस्याः नेत्रयोः कान्ति बिभ्रति तेषामुपरि मया बाणप्रहारकरणं तु सर्वथाक्षममेव, अतएव नाहम् मृगयया विलसितुमद्य कामये।
संस्कृत व्याख्या --अधिज्यम् = अधिरूढा, ज्या = मौर्वी, यस्मिंस्तत् अधिज्यम् = गुणयुक्तमिति यावत्, आहितः = आरोपितः, सायकः = बाणो यस्योपरि तथाविधम्, इदम् = एतत् मया धृतम्, धनुः = कार्मुकम्, मृगेषु = हरिणेषु, नमयितुम् = गुणाकर्षणेन वक्रीकर्तुम्, = नहि, उत्सहिष्ये = उत्साहं करिष्येऽहमिति शेषः, यैः = मृगैः, सहवसतिम् = सहवासम्, साकम् निवासस्यावसरम्, उपेत्य = प्राप्य, प्रियायाः = शकुन्तलायाः, लोचनयोः = नेत्रयोः, कान्तेः = त्विषः, संविभागः = सम्यग् विभंज्यर्पणम्, कृत इव = सम्पादित इव, प्रियया शकुन्तलया साकं कृतसौहार्दैः साकम् मया सौहार्दकरणमेवोचितम्, न तु तेषु बाणप्रहारकरणमिति भावः।
हिन्दी व्याख्या --
हिन्दी अर्थ --चढ़ायी गयी डोरी वाले धनुष पर बाण भी चढ़ा हुआ है, किन्तु मैं उन मृगों के ऊपर बाण नहीं चला सकता, जिन्होंने शकुन्तला का सहवास प्राप्त कर उसके नेत्रों का संविभाजन किया है।
टिप्पणी --अस्मिञ्छ्लोके काव्यलिङ्गक्रियोत्प्रेक्षयोः मिथो नैरपेक्ष्येण स्थितत्वात् संसृष्टिः। अत्र पुष्पिताग्रावृत्तम्।
श्लोक — 04
अनवरतधनुर्ज्यास्फालनक्रूरवर्ष्मा रविकिरणसहिष्णुः स्वेदलेशैरभिन्नः । अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं विभर्त्ति ॥ 4 ॥
अन्वय --अनवरतधनुर्ज्यास्फालनक्रूरवर्मा, रविकिरणसहिष्णुः, स्वेदलेशैः अभिन्नः गिरिचरः नागः इव, अपचितमपि गात्रम् व्यायतत्वादलक्ष्यम्, प्राणसारं विभर्ति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --अस्मिञ्छ्लोके सेनापतिः मृगयायाः केवलं दुष्यन्ते राजनि केवलं गुणसंवद्धिकात्वं प्रतिपादयन् बक्ति यत्-सततं ज्यायाः स्फालनेन राज्ञः शरीरं कर्कशं जातम्, अतएवायम् सूर्यकिरणानाम् संतापं सोढुं क्षमः, स्वेदे जातेऽपि कष्टानु-भवं नहि करोति गात्रे अपचितेऽपि एष राजा वनहस्तीव प्राणाधिक्यम् बिभर्तीति।
संस्कृत व्याख्या --अनवरतम् = सततम्, धनुषः = कार्मुकस्य, ज्यायाः = मौर्व्याः, स्फालनेन = कर्षणेन, क्रूरे = कठिनं, वर्ष्म = शरीरं, यस्याऽसौ = तथाभूतः, खेः = सूर्यस्य, किरणानाम् = रोचिषाम्, सहिष्णुः = सहनकरिष्णुः, स्वेदस्य = घर्माम्भसः, लेशेन = कणेन, अभिन्नः = समानरूपेण पूर्ववद्वर्तमानः, अव्याकुल = इत्यर्थः, गिरौ = पर्वते, चरति = सञ्चरणं करोतीति, गिरिचरः = पर्वतेषु निवासीत्यर्थः, नागः इव = द्विप इव, अपचितमपि = कृशतां गतमपि, गात्रम् = शरीरम्, व्यायतत्वादलक्ष्यम् = विस्तृतत्वात्, अलक्ष्यम् = असंलक्ष्यम्, प्राणानां सारम् = बलस्थैर्यम्, विभर्त्ति = धत्ते।
हिन्दी व्याख्या --
हिन्दी अर्थ --सर्वदा धनुष की डोरी खींचते रहने से इनका शरीर कर्कश हो गया है, वह सूर्य-किरणों के संतापों को सहने में समर्थ तथा पसीना निकल आने पर भी पूर्ववत् स्थिर बने रहते हैं। शरीर के क्षीण हो जाने पर विशाल शरीर होने से उसकी प्रतीति नहीं होती। इस तरह वे अपने में वनैले हाथी के समान बहुत अधिक बल धारण करते हैं।
टिप्पणी --अत्र श्लेषोपमा परिकरश्च। मालिनी च वृत्तम्। 'ननमयययुतेयं मालिनी कीर्तिनीया ।' इति मालिनीवृत्तस्य लक्षणम्।
श्लोक — 05
मेदश्छेदकृशोदरं लघु भवत्युत्साहयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्या हि व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः ॥ 5 ॥
अन्वय --वपुः मेदश्छेदकृशोदरम्, लघु, उत्साहयोग्यं भवति, सत्त्वानामपि भयक्रोधयोः विकृतिमत् चित्तं लक्ष्यते, च सः धन्विनां उत्कर्षः यत् चले लक्ष्ये इषवः सिध्यन्ति, मृगयाम् मिथ्या हि व्यसनं वदन्ति, ईदृग् विनोदः कुतः ?
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --अस्मिञ्छ्लोके सेनापतिः मृगयायाः गुणानाम् वर्णनम् कुर्वन् वक्ति यत् अनया मेदसः छेदेन उदरं कृशम् भवति अनावश्यकम् स्थौल्यम् अपाकृतम् भवतीति यावत्, हिंस्राणां जीवानां भयक्रोधयोः ज्ञानं जायते। चञ्चलेऽपि लक्ष्ये बाणप्रहार-रूपा धनुर्धारिणाम् परमा सिद्धिः, महांश्च मनोविनोदः सम्पद्यते। अतएव मृगयायाम् समे गुणा एव सन्ति। अत्र कश्चनापि दोषो नहि लक्ष्यते।
संस्कृत व्याख्या --वपुः = शरीरम्, मेदसः = वसायाः, छेदेन = अपचयेन, कृशम् = क्षीणम्, उदरं = यत्र तथाविधम्, अतएव लघु = भारहीनम्, उत्साहस्य = उद्यमस्य, योग्यं च भवति अतएव मृगयया शरीरे महानुत्कर्षः सम्पद्यते। सत्त्वानाम् = हिंस्रानाम् प्राणिनामपि, भयक्रोधयोः = भये कोधे च काले, विकृतिमत् = विकारयुक्तम्, चित्तम् = अन्तःकरणम्, लक्ष्यते = प्रतीयते, = किञ्च, धन्विनाम् = धनुर्धारिणाम्, उत्कर्षः = चरमोन्नतिः, यत् चले = चञ्चले, लक्ष्ये = लक्ष्ये, इषवः = वाणाः, सिध्यन्ति = सिद्धाः भवन्ति, मृगयाम् = आखेटम्, मिथ्या हि = मृषैव, व्यसनम् = दोषोत्पादकम्, वदन्ति = प्रतिपादयन्ति, मृगयाविनिन्दकाः, ईदृक् = एतादृशः, विनोदः = मनोरञ्जनम्, कुतः = अन्यत्र सर्वत्र दुर्लभमित्यर्थः।
हिन्दी व्याख्या --
हिन्दी अर्थ --मेद को घटाने से शरीर का उदर कृश हो जाता है और शरीर हल्का होकर उत्साह के योग्य बन जाता है। हिंसक प्राणियों के मन में भय और क्रोध के समय विकार भी दिखाई देता है। चञ्चल लक्ष्य पर भी बाणों का ठीक निशाने पर लगना धनुर्धारियों की श्रेष्ठता है। मृगया को व्यसन कहने वाले व्यर्थ ही कहते हैं; ऐसा मनोरञ्जन और कहाँ मिल सकता है?
टिप्पणी --मृगयायाः गुणानां वर्णनम् अत्र सेनापतिना कृतम्।
श्लोक — 06
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदञ्च शिथिलज्याबन्धमस्मद्धनुः ॥ 6 ॥
अन्वय --महिषाः शृङ्गैः मुहुः ताडितम् निपानसलिलम् गाहन्ताम्, छायाबद्ध-कदम्बकम् मृगकुलम् रोमन्थम् अभ्यस्यतुः, विस्रब्धैः वराहपतिभिः, पल्वले मुस्ताक्षतिः क्रियताम् च इदम् शिथिलज्याबन्धनम् अस्मद् धनुः विश्रामं लभताम्।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --राजा स्वकीयाम् मृगयातो निवृत्तिम् उद्घोषयन् वक्ति यत् अद्य महिषाः जलेषु स्नानं कुर्वन्तु, मृगाः छायासूपविश्य रोमन्थस्याभ्यासं कुर्वन्तु, बराहाः पल्वलेषु मुस्ताक्षतिं कुर्वन्तु, अस्माकं धनूंषि च विश्रामं लभताम्।
संस्कृत व्याख्या --महिषाः = लुलावाः, शृङ्गैः = विषाणैः, मुहुः = बारम्बारम्, ताडितम् = प्रताडितम्, क्षुब्धमिति यावत्, निपानस्य = जलाशयस्य, सलिलम् = जलम्, गाहन्ताम् = अवगाहयन्तु। महिषाः जठरानलस्य प्रशान्त्य जलाशयमवगाहन्ते। मृगाणाम् = हरिणानाम्, कुलम् = समूहः, छायासु = अनातपप्रदेशेषु, बद्धम् = विरचितम्, कदम्बकम् = समूहो येन तथाविधम्, रोमन्थम् = चर्वितस्य शष्पस्य उद्गीर्य चर्वणम्, अभ्यस्यतु = पुनः पुनः करोतु। विस्रब्धैः = अस्माकमनवलोकनेन विश्वासप्राप्तैः, वराहपतिभिः = शूकरपतिभिः, पल्वले = अल्पजलाशये, मुस्ताक्षतिः = मुस्ताख्यतृणविशेषाणाम् कन्दावाप्तये, क्षतिः = मूलोत्पाटनम्, क्रियताम् = किञ्च, इदम् = एतत्, शिथिलम् = इलथम्, ज्यायाः = मौर्व्याः, बन्धनम् यस्य तथाविधम्, अस्मद्धनुः = अस्माकम् बाणासनम्, विश्रामम् = विश्रान्तिम्, लभताम् = प्राप्नोतु।
हिन्दी व्याख्या --
हिन्दी अर्थ --भैंस अपने शृङ्ग से बार-बार प्रताड़ित जलवाले जलाशय में नहाएँ, मृगसमूह छाया में पंक्तिबद्ध बैठकर रोमन्थ (जुगाली) करें। बड़े-बड़े सूकरों का समूह विश्वस्त होकर छोटे-छोटे जलाशय में मुस्ताक्षति करें और हमलोग का शिथिल ज्याबन्धवाला यह धनुष विश्राम करे।
टिप्पणी --अत्र श्लोके स्वभावोक्त्यतिशयोक्ती अलङ्कारी। शार्दूलविक्रीडितम् छन्दः। 'सूर्याश्वैमंसजस्तताः सगुरवः शार्दूलविक्रीडितम्।' इति शार्दूलविक्रीडितलक्षणम्।
श्लोक — 07
शमप्रधानेषु तपोवनेषु गूढं हि दाहात्मकमस्ति तेजः । स्पर्शानुकूला अपि सूर्यकान्तास्ते ह्यन्यतेजोऽभिभवाद्दहन्ति ॥ 7 ॥
अन्वय --हि शमप्रधानेषु तपोवनेषु दाहात्मकम् तेजः गूढमस्ति। ते हि स्पर्शानुकूला अपि सूर्यकान्ताः अन्यतेजोऽभिभवात् दहन्ति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --येन प्रकारेण स्प्रष्टुम् योग्या अपि सूर्यकान्तमणयः अन्यतेजसः सम्बन्धमवाप्य दाहकाः भवन्ति, तेनैव प्रकारेण शान्तिप्रधानेषु तपोवनेषु दाहिका शक्तिः निहिता वर्तते।
संस्कृत व्याख्या --शमः = शान्ति एव, प्रधानम् = बहुलतया वर्तते येषु तथाविधेषु, तपोवनेषु = आश्रमेषु, दाहात्मकम् = दाहोत्पादकम्, तेजः = ब्रह्मवर्चसस्वरूपम्, गूढम् = निहितम् वर्तते। हि = यतः, सूर्यकान्ताः = सूर्यकान्तमणयः, सामान्यरूपेण तु स्पर्शानुकूलाः = स्प्रष्टुं योग्या भवन्ति, किन्तु ते = सूर्यकान्ताः मणयः, अन्यस्य = स्वव्यतिरिक्तस्य, तेजसः अभिभवात् = अभिभूताः सन्तः, दहन्ति = दाहात्मकं तेज उद्वहन्ति।
हिन्दी व्याख्या --
हिन्दी अर्थ --जिस तरह स्पर्शयोग्य भी सूर्यकान्तमणि दूसरे तेज से अभिभूत होकर दाहक बन जाती हैं, उसी तरह शान्तिप्रधान तपोवनों में दाहात्मक तेज छिपा है।
टिप्पणी --अत्र दृष्टान्तालङ्कारः। उपजातिवृत्तञ्च।
श्लोक — 08
निवारितनिमेषाभिर्नेत्रप‌ङ्क्तिभिरुन्मुखः । नवामिन्दुकलां लोकः केन भावेन पश्यति ॥ 8 ॥
अन्वय --उन्मुखः लोकः निवारितनिमेषाभिः नेत्रपंक्तिभिः नवाम् इन्दुकलाम् केन भावेन पश्यति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --येन प्रकारेण दूरस्थिताम् दुष्प्राप्यामपि नवीनाम् चन्द्रमसः कलाम् सम्पूर्णो हि लोकः प्रेमगातिशयेनावलोकयति, तथैव अनभ्यर्थनीयाऽपि स्त्रीरत्नभूता शकुन्तला लोचनावाप्तिसाफल्याय पुरुषैरवलोकनीयैव वर्तते इति वक्ति राजा विदूषकमस्मिञ्छ्लोके।
संस्कृत व्याख्या --उन्मुखः = ऊर्ध्ववदनः, औत्सुक्यातिशयात् लोकः = सर्वो हि जनः, निवारितः = दूरीकृतः, निमेषः = पक्ष्मपंक्तिपातः, याभिस्तथाभिः नेत्रयोः नयनयोः पंक्तिभिः = ततिभिः, नवाम् = नवीनाम्, इन्दोः = चन्द्रमसः, कलाम् = रेखाम्, केन भावेन = केनाभिप्रायेण, पश्यति = अवलोकयति, दृष्ट्वा च नन्दति।
हिन्दी व्याख्या --
हिन्दी अर्थ --नवीन चन्द्रमा की कला को लोग ऊपर की ओर मुँह उठाकर निनिमेष नेत्रों से किस भाव से देखते हैं?
टिप्पणी --अत्र अप्रस्तुत-इन्दुकलारूपात् प्रस्तुतायाः शकुन्तलायाः प्रतीतेः अप्रस्तुतप्रशंसानामकः अलङ्कारः।
श्लोक — 09
ललिताप्सरोभवं किल मुनेरपत्यं तदुज्झिताधिगतम् । अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥ 9 ॥
अन्वय --ललिताप्सरोभवं मुनेरपत्यम् तदुज्झिताधिगतम्, शिथिलम् अर्कस्योपरि च्युतम् नवमालिकाकुसुमम् इव।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --अस्मिञ्छ्लोके राजा वक्ति यत् शकुन्तला मुनिसवर्णक्षेत्रसम्भवा नास्ति, अपितु सा अप्सरसः एकस्याः कन्या वर्तते। तया परित्यक्ताम् ताम् पालयामास महर्षिः कण्वः।
संस्कृत व्याख्या --ललितायाः = मनोज्ञायाः, अप्सरसः = स्वर्वेश्यायाः, भवम् = उत्पन्नम्, किल = निश्चयेन, मुनेः = महर्षेः कण्वस्य, शकुन्तलाख्यमपत्यम्, तया स्वर्वेश्यया उज्झितम् = परित्यक्तम्, मुनिना च अधिगतम् = परिलब्धम्। शिथिलम् = स्वबन्धनात् श्लथम्, अर्कस्य = अर्कवृक्षस्य, उपरि = उपरि भागे, च्युतम् = आपतितम्, नवमालिकायाः कुसुमम् = पुष्पम् इव। अतएव शकुन्तलाया अभ्यर्थनीयताम् स्पष्टमेव।
हिन्दी व्याख्या --
हिन्दी अर्थ --मुनिपुत्री शकुन्तला एक मनोहर अप्सरा से उत्पन्न तथा उसके द्वारा त्याग दिये जाने पर मुनि को प्राप्त अर्कवृक्ष के ऊपर गिरी हुई नवमालिका पुष्प के समान है।
टिप्पणी --अत्र उपमालङ्कारः।
श्लोक — 10
चित्ते निवेश्य परिकल्पितसर्वयोगान् रूपोच्चयेन विधिना विहिता कृशाङ्गी । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ 10 ॥
अन्वय --धातुः विभुत्वम् तस्याः वपुश्च अनुचिन्त्य, मे विधिना परिकल्पित-सर्वयोगान् चित्ते निवेश्य रूपोच्चयेन विहिता सा कृशाङ्गी अपरा स्त्रीरत्नसृष्टिः प्रतिभाति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --प्रसङ्गेस्मिन कविः शकुन्तलायाः अनुपमेयम् सौन्दर्यम् वर्णयति।
संस्कृत व्याख्या --धातुः = ब्रह्मणः, विभुत्वम् = ऐश्वर्यम्, तस्याः = शकुन्तलायाः, वपुः = शरीरम्, अनुचिन्त्य = विचार्य, मे = मम, विधिना = ब्रह्मणा, परिकल्पिताः = तदैवाभिनवसृष्टाः, सर्वे = अखिलाः, योगाः = उपादान-कारणानि, तान्, चित्ते = स्वान्तःकरणे, निवेश्य = निधाय, रूपोच्चयेन = सौन्दर्य-समूहेन साधनेन, विहिता = निर्मिता, सा = मयानुभूता, कृशाङ्गी = कृशकाया शकुन्तला, अपरा = द्वितीया, स्त्रीरत्नस्य सृष्टिः प्रतिभाति।
हिन्दी व्याख्या --
हिन्दी अर्थ --शकुन्तला के शरीर-सौन्दर्य तथा ब्रह्मा के निर्माणकौशल दोनों का विचार करने से प्रतीत होता है कि ब्रह्मा ने निर्माण की सारी सामग्रियों के साथ रूपराशि से उस कृशाङ्गी की सृष्टि की है। वह स्त्रीरत्न की अप्सरा सृष्टि प्रतीत होती है।
टिप्पणी --अत्र अतिशयोक्त्यलङ्कारः। वसन्ततिलका च वृत्तम्।
श्लोक — 11
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- रनामुक्तं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति भुवि ॥ 11 ॥
अन्वय --अनाघ्रातं पुष्पमिव, कररुहैः अलूनम् किसलयमिव, अनामुक्तम् रत्नमिव, अनास्वादितरसम् नवम् मधु इव, पुण्यानाम् अखण्डं फलमिव च तदनघं रूपम् कम् भोक्तारम् इह भुवि समुपस्थास्यति इति न जाने।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --शकुन्तलायाः रूपस्य सर्वातिशायित्वं, पुण्यातिशयेनोपलभ्यत्वं च वर्णयन् राजा दुष्यन्तः विदूषकं वक्ति यत्।
संस्कृत व्याख्या --केनापि घ्राणकर्त्रा यत् नहि आघ्रातम् = जिघ्रितम्, तथाविधम् दिव्यम् पुष्पमिव = कुसुमसदृशम्, कररुहैः = नखैः केनाऽपि स्पर्शकेन यत् नहि लूनम्, अलूनम् = अच्छिन्नमिति, तथाविधम् किसलयमिव = नवजातम् पल्लवमिव, अनामुक्तम् = अङ्गेषु यत् केनापि धारणकर्त्रा न परिहितम्, तथाविधम् रत्नमिव = मणिरिव, नहि केनापि आस्वादितः = रसनयाऽनुभूतः रसः = आस्वादो यस्य तथाविधम् नवम् = नवीनम्, मधु इव = क्षौद्रमिव, सर्वविधानाम् पुण्यानाम् = यागाद्यनुष्ठानजनितादृष्टानाम्, अखण्डम् = परिपूर्णम्, फलमिव = परिणाममिव, च तस्याः = शकुन्तलायाः, अनघं = सर्वथा निर्दोषम्, रूपम् = सौन्दर्यम्, इह = अस्मिन्, भुवि = पृथिव्याम्, कम् = सुकृतविशेषविशिष्टम्, भोक्तारम् = उपभोगकर्तारम् पुरुषम्, समुपस्थास्यति = सेविष्यते, इति अहं न जाने = अवगच्छामि।
हिन्दी व्याख्या --
हिन्दी अर्थ --बिना सूंघे गये पुष्प के समान, नख नहीं स्पर्श किये गये किसलय के समान, नहीं पहने गये रत्न के समान, किसी के द्वारा जिसका आस्वादन नहीं किया गया उस मधु के समान, पुण्यों के अखण्डफल के समान, उसके निरवद्य रूप का इस संसार में न जाने कौन उपभोक्ता होगा।
टिप्पणी --'मालोपमा यदेकस्योपमानं बहु दृश्यते' इति लक्षणानुसारेण, एकस्यैवोपमेयस्यानेकोपमानोपस्थापनात् मालोपमाऽलङ्कारः। विशेषणानां साभिप्रायत्वात् 'उक्तिविशेषणैः साभिप्रायैः परिकरो मतः।' इति लक्षणानुसारेण परिकरालङ्कारश्च।
श्लोक — 12
अभिमुखे मयि संवृतमीक्षितं हसितमन्यनिमित्तकथोदयम् । विनयवारितवृत्तिरतस्तया, न विवृतो मदनो न च संवृतः ।। 12 ।।
अन्वय --मयि = दुष्यन्ते, अभिमुखे = सम्मुखमुपस्थिते सति, तया = शकुन्तलया, ईक्षितम् = मय्यवलोकनम्, संवृत्तम् = संकोचितम्, अन्यदेव निमितम् = कारणम्, यस्याः कथायाः उदयः = उत्पत्तिर्यस्य तादृशम्, हसितम् = हसनम् कृतम्, न तु साक्षान्मया साकम् वार्तयन्त्या तया कदापि हसितम्। अतएव, तया = शकुन्तलया, विनयेन = शिष्टाचारेण, वारितः = निषिद्धः, वृत्तिः = व्यवहारः प्रसारो वा, यस्य तथाविधः, मदनः = कामः, न = नहि, विवृतः = प्रकटितोऽभूत्, न च = न वा, पूर्णतया संवृत्तः = गुप्त एवाभूत्, तस्याः हसितेन स्फुटीकृतत्वात् कामस्य।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --अस्मिञ्छ्लोके राजा दुष्यन्तः शकुन्तलायाः श्रृङ्गारलज्जाम् हासस्य स्वरसतः प्रवृत्तिम्, मुग्धानायिकात्वं च वर्णयन् वक्ति यत्।
संस्कृत व्याख्या --मयि = दुष्यन्ते, अभिमुखे = सम्मुखमुपस्थिते सति, तया = शकुन्तलया, ईक्षितम् = मय्यवलोकनम्, संवृत्तम् = संकोचितम्, अन्यनिमित्तकथोदयम् = कारणम्, हसितम् = हसनम् कृतम्, विनयवारितवृत्तिः = शिष्टाचार-निषिद्ध-व्यवहार, मदनः = काम, न विवृतो न च संवृतः = न प्रकटितो न गुप्त एव।
हिन्दी व्याख्या --
हिन्दी अर्थ --मेरे सामने होने पर उसने अपनी आँखें नीची कर ली, किसी दूसरे बहाने से उसने हँसा अतएव शिष्टाचार के कारण अवरुद्ध वृत्ति वाला काम न तो प्रकट ही हो सका और न तो वह संवृत्त ही रहा।
टिप्पणी --अत्र श्लोके मदनस्य व्यक्तीकृत्वाव्यक्ती कृतत्वयोरुभयोरेव वर्णनात् विरोधाभास-नामकोऽलङ्कारः। वृत्तश्च द्रुतविलम्बितम्।
श्लोक — 13
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ।। 13 ।।
अन्वय --तन्वी, कतिचिदेव पदानि गत्वा, अकाण्डे, दर्भाङ्कुरेण, चरणः क्षतः, इति स्थिता, द्रुमाणाम् शाखासु असक्तमपि, वल्कलम्, विमोचयन्ती च विवृत्त-वदना आसीत्।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --अस्मिञ्छ्लोके राजा दुष्यन्तः शकुन्तलायाः स्वम् प्रत्यनुरागम् वर्णयन् वक्ति यत्।
संस्कृत व्याख्या --तन्वी = कृशाङ्गी, कतिचिदेव पदानि = न तु बहुदूरं गत्वा, चलित्वैव तस्मात् स्थानात्, अकाण्डे = अनवसरे, दर्भाङ्कुरेण = कुशसूच्या, चरणः = पादः, क्षतः = विद्धो वर्तते इति = इत्युक्त्वा, स्थिता = बभूव, द्रुमाणाम् = वृक्षाणाम्, शाखासु = विटपेषु, असक्तमपि = असंलग्नमपि, वल्कलम् = मुनिवस्त्रम्, विमोचयन्ती = अपाकुर्वन्ती, विवृत्त-वदना = विषण्णवदना, आसीत् = बभूव।
हिन्दी व्याख्या --
हिन्दी अर्थ --शकुन्तला कुछ डग ही चलकर बिना किसी कारण के मेरा पैर दर्भाङ्कुर से विद्ध हो गया-यह कहकर बैठ गयी, वृक्षों की शाखा में बिना उलझे हुए भी वल्कल-वस्त्र को छुड़ाती हुई उदास हो गयी थी।
टिप्पणी --एतेनैव तस्याः मय्यनुरागातिशयं व्यक्तमभूत्। अस्मिञ्छ्लोके नायिकागतलज्जा औत्सुक्यं च व्यज्यते, नायकस्य च विस्मयो व्यज्यते। अत्र वसन्ततिलकम् वृत्तम्।
श्लोक — 14
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तद्धनम् । तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः ।। 14 ।।
अन्वय --नृपाणाम् वर्णेभ्यः यत् उत्तिष्ठति तत् धनम् क्षयि। आरण्यकाः हि नः अक्षय्यम् तपः षड्भागम् ददति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --मूर्ख ! ये तपस्वी मुझे दूसरा ही भागधेय प्रदान करते हैं, जो धन रत्नराशि का भी परित्याग करके संगृहीत किये जाने योग्य है।
संस्कृत व्याख्या --नृपाणाम् = राज्ञाम्, वर्णेभ्यः = ब्राह्मणक्षत्रियादिचतुर्वर्णेभ्यः, यत् = धनम्, उत्तिष्ठति = कररूपेण समुपलभ्यते, तद्धनम् = वर्णेभ्यः कररूपेण समुपलब्धम् धनम्, क्षयि = अल्पस्थिरम्, आरण्यकाः = आश्रमवासिनः तपस्विनः, तपः = तपस्यायाः, षड्भागम् = षष्ठम् अंशम्, अक्षय्यम् = चिरस्थायि यत् भवति, ददति = समर्पयन्ति।
हिन्दी व्याख्या --
हिन्दी अर्थ --जो ब्राह्मणादि वर्णों से कर के रूप में धन राजाओं को प्राप्त होता है, वह अनित्य होता है और तपस्वी लोग तो हम लोगों को अपनी तपस्या का छठा अंश प्रदान करते हैं, जो अक्षय्य होता है।
टिप्पणी --सामान्यधनापेक्षया तपस्विभ्यो लब्धस्य धनस्योत्कृष्टत्वात् व्यतिरेका-लङ्कारः।
श्लोक — 15
अध्याक्रान्ता वसतिरमुनाऽप्याश्रमे सर्वभोग्ये, रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति। अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ 15 ॥
अन्वय --
सन्दर्भ --
प्रसङ्ग --
संस्कृत व्याख्या --
हिन्दी व्याख्या --
हिन्दी अर्थ --
टिप्पणी --
श्लोक — 16
नैतच्चित्रं, यदयमुदधिश्यामसीमां धरित्री- मेकः कृत्स्ना नगरपरिघप्रांशुबाहुर्भुनक्ति । आशंसन्ते समितिषु सुराः सक्तवैरा हि दैत्ये- रस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ।। 16 ।।
अन्वय --नगरपरिघप्रांशुबाहुः अयम् एकः यत् उदधिश्यामसीमाम् धरित्रीं भुनक्ति। एतत् चित्रं नः दैत्यैः सक्तवैराः सुराः हि समितिषु अस्य अधिज्ये धनुषि, पौरुहूते वज्रे च विजयम् आशंसन्ते।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --द्वितीयेन मुनिकुमारेण स्मारितः प्रथमो मुनिकुमारो राज्ञो दुष्यन्तस्य शौर्यं पराक्रमम्, देवानामपि सहायकत्वं युद्धकर्मणि प्रशंसन् वक्ति।
संस्कृत व्याख्या --नगरस्य = नगरद्वारस्य, यौ परिघौ = अर्गलौ, प्रांशू = दीर्घौ, बाहू = भुजौ, अयम् = एषः, एकः = एकाकी, उदधेः श्यामा सीमा = नीलजलभागमार्गः, धरित्रीम् = पृथिवीम्, भुनक्ति = भुङ्क्ते, चित्रम् = आश्चर्यकरम्, दैत्यैः = असुरैः, सक्तम् = बद्धम्, सुराः = देवाः, समितिषु = युद्धेषु, अधिज्ये = कार्मुके, धनुषि = धनुषि, पौरुहूते = इन्द्रस्य, वज्रे = वज्रे, विजयम् = विजयप्राप्तिम्, आशंसन्ते = कामयन्ते।
हिन्दी व्याख्या --
हिन्दी अर्थ --नगर के परिघदण्ड के समान विशाल भुजा वाले अकेले ये राजा दुष्यन्त उदधि पर्यन्त सम्पूर्ण पृथिवी का जो प्रशासन करते हैं, वह आश्चर्यजनक नहीं है। दैत्यों के वैरी देवता युद्ध में इस राजा के अधिज्य धनुष में तथा इन्द्र के वज्र में विजय की अभिलाषा रखते हैं।
टिप्पणी --अत्र प्रस्तुतस्य दुष्यन्तस्य धनुषः अप्रस्तुतस्येन्द्रवज्रस्य च समानक्रियाकारित्व-वर्णनाद्दीपकालङ्कारः। मन्दाक्रान्तावृत्तम् अस्ति।
श्लोक — 17
अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि । आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ।। 17 ।।
अन्वय --पूर्वेषाम् अनुकारिणि त्वयि इदम् युक्तरूपम्, पौरवाः खलु आपन्नाभय-सत्रेषु दीक्षिताः।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --अपने पूर्वजों का अनुकरण करने वाले आपका ऐसा करना उचित ही है। पुरुवंशीय राजा तो संकटापन्नों को अभयप्रदान रूपी यज्ञ करने में दृढ़व्रत होते हैं।
संस्कृत व्याख्या --पूर्वेषाम् = स्वपूर्वपुरुषाणाम्, अनुकारिणि = अनुगमनकर्तरि, त्वयि = राजनि दुष्यन्ते, इदम् = अस्माकमामन्त्रणस्वीकरणम्, युक्तरूपम् = उचितमेव, पौरवाः = पुरुवंशीय राजा, आपन्नानाम् = संकटापन्नानाम्, अभयमेव सत्रम् = यज्ञः, तेषु दीक्षिताः = धृतव्रताः।
हिन्दी व्याख्या --
हिन्दी अर्थ --अपने पूर्वजों का अनुकरण करने वाले आपका ऐसा करना उचित ही है। पुरुवंशीय राजा तो संकटापन्नों को अभयप्रदान रूपी यज्ञ करने में दृढ़व्रत होते हैं।
टिप्पणी --अत्र पूर्वार्द्ध काव्यलिङ्गम् उत्तरार्धे च रूपकम्, उत्तरार्धगतकारणेन द्वारा उत्तरार्धस्य समर्थनादर्थान्तरन्यासः। एतेषां त्रयाणामत्र संकरः।
श्लोक — 18
कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः । पुरः प्रतिहतं शैलैः स्रोतः स्रोतोवहां यथा ॥ 18 ॥
अन्वय --शैलैः पुरः प्रतिहतम् स्रोतोवहां, स्रोतो यथा, मे मनः कृत्ययोः भिन्नदेशत्वात् द्वैधीभवति।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --यतो भिन्ने कार्ये भिन्नयोः देशयोः समकालमेव प्रतिपादनीये स्तः, अत एव केन प्रकारेणानयोः कार्ययोः निर्वाहो भवेदिति मे मनः वैयाकुलीमनुभवति।
संस्कृत व्याख्या --शैलैः = पर्वतैः, पुरः = अग्रे, प्रतिहतम् = प्रतिरुद्धम्, स्रोतोवहाम् = नदीनाम्, स्रोतः = प्रवाहः, मे = मम, मनः = चेतः, कृत्ययोः = कार्ययोः, भिन्नदेशत्वात् = भिन्नदेशयोः प्रतिपाद्यत्वात्, द्वैधीभवति = किङ्कर्तव्यविमूढताम् अनुभवति।
हिन्दी व्याख्या --
हिन्दी अर्थ --दोनों कार्यों के भिन्न-भिन्न देश में सम्पादित किये जाने के कारण पर्वत से अवरुद्ध नदियों के प्रवाह के समान मेरा मन संशयित हो रहा है।
टिप्पणी --अत्रातिशयोक्ति-उपमान-लाटानुप्रासानां संसृष्टिः।
श्लोक — 19
क्व वयं, क्व परोक्षमन्मथो मृगशावैः सह वर्धितो जनः । परिहासविजल्पितं सखे । परमार्थेन न गृह्यतां वचः ॥ 19 ॥
अन्वय --सखे ! वयम् क्व, क्व परोक्षमन्मथः, मृगशावैः सह वर्धितः जनः ? अतः परिहासविजल्पितम् वचः परमार्थेन न गृह्यताम्।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य द्वितीयाङ्कात समुद्धृतं अस्ति।
प्रसङ्ग --शकुन्तलायाः विषये यत् किमपि मया त्वया साकं वतितम्, तदखिलमेव परिहासविजल्पितमात्रमासीत्, तत्र वास्तविकता स्तोकमपि नास्ति।
संस्कृत व्याख्या --सखे = मित्र, वयम् = सकलकलाकोविदाः नगरनिवासिनः राजपरिवारसदस्याः, क्व = कुत्र, परोक्षः = कैश्चिदपि करणैरगोचरः, मन्मथः = कामदेवः, मृगशावैः = शिशुभिः मृगैः, सह = साकम्, वर्धितः = पालितः, जनः = शकुन्तला, परिहासविजल्पितम् = कौतुकवशात् कही हुई बातें, परमार्थेन = सत्यरूपेण, न गृह्यताम् = न सत्यं मान्यताम्।
हिन्दी व्याख्या --
हिन्दी अर्थ --कहाँ तो हम और कहाँ कामभावना से रहित मृगशावकों के साथ पली शकुन्तला, अतएव हँसी में कही हुई बातों को सत्य नहीं समझना।
टिप्पणी --अत्र विषमकाव्यलिङ्गालङ्कारयोः सङ्करः। वृत्तं च सुन्दरीनामकम्।
अभिज्ञानशाकुन्तलम् · द्वितीयोऽङ्कः · महाकवि कालिदास

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)