टेस्टिंग

मेघदूत व्याख्या

पद्यम्

कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥1॥

अन्वयः

स्वाधिकारात्, प्रमत्तः, (अतः), कान्ताविरहगुरुणा, वर्षभोग्येण, भर्तुः, शापेन, अस्तङ्गमितमहिमा, कश्चित्, यक्षः, जनकतनयास्नानपुण्योदकेषु, स्निग्धच्छायातरुषु, रामगिर्याश्रमेषु, वसतिम्, चक्रे ॥

सन्दर्भः

प्रस्तुत पद्यमिदं कविकुलमौलिमुकुटमणिना महाकविना ‘कालिदासेन’ विरचितं ‘मेघदूत’ खण्डकाव्यस्य ‘पूर्वमेघात्’ समुद्धृतोस्ति।

प्रसङ्गः

कविकुलगुरुः कालिदासः वस्तुनिर्देशात्मकं मङ्गलाचरणमुपयत्यनेन पद्येन।

व्याख्या

स्वाधिकारात् = स्वस्य आत्मनः अधिकारात् नियोगात् कर्मण वा। प्रमत्तः = अनवहितः, 'प्रमादोऽनवधानता' इत्यमरः। कान्ताविरहगुरुणा = प्रियायाः वियोगेन दुर्भरेण। वर्षभोग्येण = संवत्सरं यावत् सोढव्येण। भर्तुः = स्वामिनः, यक्षाधिपकुबेरस्य। शापेन = निग्रहवचसा। अस्तङ्गमितमहिमा = प्रतिहतमहत्त्वः। कश्चित् = अनिर्दिष्टनाम यक्षः। जनकतनयास्नानपुण्योदकेषु = सीताया स्नानैः पावनं जलं। स्निग्धच्छायातरुषु = घनछायाप्रदायिषु नमेरुवृक्षेषु। रामगिर्याश्रमेषु = चित्रकूटस्थ आश्रमेषु। वसतिं चक्रे = निवासं कृतवान्।

टिप्पणी

अत्र मन्दाक्रान्तावृत्तम्। तल्लक्षणं — 'मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद् गुरु चेत्'। अत्र शापं प्रति स्वाधिकारात् प्रमादस्य हेतुत्वात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः। तल्लक्षणं — 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते' इति।

हिन्दी अर्थ

अपने कर्तव्य पालन में असावधान, (अतः) प्रिया के वियोग के कारण दुःसह, वर्षपर्यन्त भोगे जानेवाले, स्वामी के शाप से शक्ति-विहीन किसी यक्ष ने, जानकी के स्नान करने से पावन जलवाले तथा घने नमेरु वृक्षों से युक्त रामगिरि (नामक पर्वत के) आश्रमों में निवास किया॥

मेघदूत व्याख्या

पद्यम्

तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥2॥

अन्वयः

तस्मिन्, अद्रौ, अबलाविप्रयुक्तः, (अतः दौर्बल्येन), कनकवलयभ्रंशरिक्तप्रकोष्ठः, कामी, सः (यक्षः), कतिचित् मासान् नीत्वा, आषाढस्य प्रथमदिवसे, आश्लिष्टसानुम्, वप्रक्रीडापरिणतगजप्रेक्षणीयम्, मेघं ददर्श।

सन्दर्भः

प्रस्तुत पद्यमिदं कविकुलमौलिमुकुटमणिना महाकविना ‘कालिदासेन’ विरचितं ‘मेघदूत’ खण्डकाव्यस्य ‘पूर्वमेघात्’ समुद्धृतोस्ति।

प्रसङ्गः

अस्मिन पद्ये विरहज्वालादग्धस्य यक्षस्य मेघदर्शनमुपस्थापयति।

व्याख्या

तस्मिन् = पूर्वोक्ते, अद्रौ = रामगिरि पर्वते चित्रकूट इत्यर्थः। अबलाविप्रयुक्तः = अबलया भार्यया विप्रयुक्तः वियोगी। कनकवलयभ्रंशरिक्तप्रकोष्ठः = सुवर्णकंकण के गिरने से शून्य कलाई वाला। कामी = कामुकः, सः = यक्षः। कतिचित् = अष्टौ मासान् (त्रिंशद्दिनसमूहाः)। नीत्वा = व्यतीय। आषाढस्य प्रथमदिवसे = वर्षारंभे। आश्लिष्टसानुम् = आक्रान्तचोटीवाला। वप्रक्रीडापरिणतगजप्रेक्षणीयम् = ढूसा मारते हाथी के समान तिरछा प्रहार किए हुए पर्वत पर स्थित दर्शनीय मेघ। मेघं ददर्श = देखा।

टिप्पणी

अत्र मन्दाक्रान्तावृत्तम्। सम्पूर्णेऽस्मिन् मेघदूते मन्दाक्रान्तावृत्तमेव। वप्रक्रीडेत्यादिपदे औपम्यवाचकस्य 'इव' इत्यस्य लुप्तत्वादेव लुप्तोपमाऽलङ्कारः। उपमानलक्षणं — 'साम्यं वाच्यमवैधर्म्य वाक्यैक्य उपमा द्वयोः' इति।

हिन्दी अर्थ

उस पर्वत पर प्रियतमा से वियुक्त (अतः दुर्बलता से सुवर्ण कंकण के खिसककर गिर जाने से खाली कलाई वाला), कामुक यक्ष कुछ महीने (आठ महीने) बिताकर, आषाढ़ के प्रथम दिन, पहाड़ की चोटी पर स्थित, वप्रक्रीड़ा (ढूसा मारने) में तिरछा दंत-प्रहार करने वाले हाथी की तरह दर्शनीय मेघ को देखता है।

अकारान्त पुल्लिंग - राम शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमारामःरामौरामाः
द्वितियारामम्रामौरामान्
तृतीयारामेणरामाभ्याम्रामैः
चतुर्थीरामायरामाभ्याम्रामेभ्यः
पञ्चमीरामात्रामाभ्याम्रामेभ्यः
षष्ठीरामस्यरामयोःरामाणाम्
सप्तमीरामेरामयोःरामेषु
सम्बोधनहे रामःहे रामौहे रामाः

अकारान्त स्त्रीलिंग - बालिका शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाबालिकाबालिकेबालिकाः
द्वितियाबालिकाम्बालिकेबालिकाः
तृतीयाबालिकयाबालिकाभ्याम्बालिकाभिः
चतुर्थीबालिकायैबालिकाभ्याम्बालिकेभ्यः
पञ्चमीबालिकयाःबालिकाभ्याम्बालिकेभ्यः
षष्ठीबालिकयाःबालिकयोःबालिकानाम्
सप्तमीबालिकायाम्बालिकयोःबालिकासु
सम्बोधनहे बालिकेहे बालिकेहे बालिकाः

अकारान्त नपुंसक लिंग - फल शब्द

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाफलम्फलेफलानि
द्वितियाफलम्फलेफलानि
तृतीयाफलेनफलाभ्याम्फलैः
चतुर्थीफलायफलाभ्याम्फलेभ्यः
पञ्चमीफलात्फलाभ्याम्फलेभ्यः
षष्ठीफलस्यफलयोःफलानाम्
सप्तमीफलेफलयोःफलेषु
सम्बोधनहे फलहे फलेहे फलानि
Share:

कोई टिप्पणी नहीं:

शास्त्री 3 एवं 4th सेमे. पुस्तक(BOOKS)

आचार्य प्रथम एवं द्वितीय सेमेस्टर -पाठ्यपुस्तक

आचार्य तृतीय एवं चतुर्थ सेमेस्टर -पाठ्यपुस्तक

पूर्वमध्यमा प्रथम (9)- पाठ्यपुस्तक

पूर्वमध्यमा द्वितीय (10) पाठ्यपुस्तक

समर्थक और मित्र- आप भी बने

पुस्तकालय संवर्धन सहयोग

पुस्तकालय संवर्धन सहयोग
संस्कृत विद्यालय एवं गरीब विद्यार्थियों के लिए एक पुस्तक जरूर दीजिए...एक अंश संकल्प कीजिए

हमारे बारे में

मेरा नाम चन्द्रदेव त्रिपाठी 'अतुल' है । सन् 2010 में मैने इलाहाबाद विश्वविद्यालय प्रयागराज से स्नातक तथा 2012 मेंइलाहाबाद विश्वविद्यालय से ही एम. ए.(हिन्दी) किया, 2013 में शिक्षा-शास्त्री (बी.एड.)। तत्पश्चात जे.आर.एफ. की परीक्षा उत्तीर्ण करके एनजीबीयू में शोध कार्य । सम्प्रति सन् 2015 से श्रीमत् परमहंस संस्कृत महाविद्यालय टीकरमाफी में प्रवक्ता( आधुनिक विषय हिन्दी ) के रूप में कार्यरत हूँ ।
संपर्क सूत्र -8009992553
फेसबुक - 'Chandra dev Tripathi 'Atul'
इमेल- atul15290@gmail.com
इन्स्टाग्राम- cdtripathiatul

यह लेखक के आधीन है, सर्वाधिकार सुरक्षित. Blogger द्वारा संचालित.