अभिज्ञानशाकुन्तलम- तृतीय अंक

चन्द्र देव त्रिपाठी 'अतुल'
0
अभिज्ञानशाकुन्तलम् तृतीय अंक में कुल 41 श्लोक हैं, जिसका अन्वय,व्याख्या,हिन्दी अर्थ शीघ्र कुछ दिनों में आपके सामने प्रस्तुत मिलेगा। तब तक अन्य अंकों का अवश्य अवलोकन करते रहें।
श्लोक - 01
का कथा बाणसन्धाने ज्याशब्देनैव दूरतः । हुङ्कारेणेव धनुषः स हि विघ्नान् व्यपोहति ।। 1 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात् समुद्धृतं अस्ति ।
प्रसंग
अस्मिञ्छ्लोके कण्वशिष्यो राज्ञो दुष्यन्तस्य महाप्रभावशालित्वं वर्णयति यत् अस्य राज्ञो धनुषः शब्दमेव श्रुत्वा यज्ञानाम् अन्तरायाः दूरतः एवापाकृताः भवन्ति ।
अन्वय
बाणसन्धाने का कथा ? धनुषः हुङ्कारेण इव ज्याशब्देन एव स हि दूरतः विघ्नान् व्यपोहति ।
व्याख्या
बाणस्य = शरस्य, सन्धाने = धनुष्यारोपिते, रक्षसां विनाशस्य का कथा = किमुच्यते, धनुषः = कार्मुकस्य, हुङ्कारेण इव = क्रोधपूर्वकं हुमिति कृतेन शब्देन इव, ज्यायाः = मौर्व्याः, शब्देनैव = घोषेणैव, हि = यतः, सः = राजा दुष्यन्तः, विघ्नान् = अन्तरायान्, व्यपोहति = दूरीकरोति
टिप्पणी
अत्रार्थापत्तिरुत्प्रेक्षयोः संसृष्टिः ।
हिन्दी अर्थ
बाण-सन्धान करने की क्या बात, वह राजा अपने धनुष के टङ्कोरमात्र से ही विघ्नों को दूर कर दिया करता है।
श्लोक - 02
जाने तपसो वीर्यं सा-बाला परवतीति मे विदितम् । न च निम्नादिव सलिलं निवर्तते मे ततो हृदयम् ।। 2 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसंग
अस्मिञ्छ्लोके कामी दुष्यन्तः शकुन्तलया सह संगमनेऽर्थमनर्थञ्चोभयं विमृशन्नाह-तपस्विषु कस्यचनापि जनस्यापराधकारिणं भस्मसात्करणस्य सामर्थ्यं भवतीति जानाम्यहम् । अतएव तया सह बलात्कारस्तु कर्तुमेव नहि शक्यते । सा च शकुन्तला गुरुजननिदेशकारिणी, अतएव सा स्वतन्त्रतया मया साकं संगमयितुं नहि शक्यते स्वमनसा । एतत् सर्वं ज्ञात्वाऽपि मे मनः तस्याः नो निवर्तते इति महत् सङ्कटम् ।
अन्वय
तपसो वीर्यं जाने, सा बाला परवती इति मे विदितम्, च निम्नात् सलिलमिव, ततः मे हृदयं न निवर्त्तते ।
व्याख्या
तपसः = आश्रमवासिनाम् तपस्विनाम्, तपसः = तपश्चर्यायाः, वीर्यम् = सागसोजनस्य भस्मसात्करणसमर्थम्, जाने = जानाम्यहमिति शेषःसा = मया पूर्वमनुभूता, मयि दृढानुरागवती च, बाला = शकुन्तला, परवती = गुरुजनपरतन्त्रा वर्तते, इति = इत्यनेन प्रकारेण, मे = मम, विदितम् = ज्ञातम् वर्तते = किन्तु, निम्न = स्थलात्, सलिलम् = जलम् इव, येन प्रकारेण = जलं सर्वदा निम्नस्थलाभिमुखमेव भवति स्वभावतः, न च तस्मात् स्वभावात् तत् निवर्त्तते, तथैव मे = मम, हृदयम् = चेतः, ततः = शकुन्तलातः, = नहि, निवर्त्तते = पराङ् मुखं भवति।
टिप्पणी
अत्र पूर्वार्धे कारणनिबन्धनाऽप्रस्तुतप्रशंसा, उत्तरार्द्धे च श्रौतोपमा । आर्याचात्र जातिः ।
हिन्दी अर्थ
मैं तपस्या का बल जानता हूँ तथा यह भी जानता हूँ कि शकुन्तला गुरुजन-परतन्त्र है, फिर भी जिस तरह जल सदा नीचे की ही ओर जाता है, उसी तरह मेरा मन उससे निवृत्त होता ही नहीं है।
श्लोक - 03
अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ । त्वमन्यथा मन्मथ ! मद्विधानां भस्मावशेषः कथमेवमुष्णः ।। 3 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसंग
अत्र कामस्योग्रत्वातिशयत्वे हेतुं मनुमिन्वन् दुष्यन्तो वक्ति यत्— यतः साम्प्रतमपि त्वयि शङ्करक्रोधाग्निः प्रज्वलितो वर्तते, अतएव त्वयि तथाविधमौष्ण्यम् वर्तते, अन्यथा त्वयि तथाविधं तैक्ष्ण्यम् कथं स्यात् ।
अन्वय
मन्मथ ! अम्बुराशौ और्व इव त्वयि अद्यापि नूनम् हरकोपवह्निः ज्वलति, अन्यथा त्वम् मद्विधानाम् एवम् उष्णः कथम् ।।
व्याख्या
मन्मथ ! = कामदेव !, मनः = मथ्नातीति मन्मथः, अम्बुराशौ = समुद्रे, सततम् = प्रज्वल्यमानः, और्वः इव = वडवानल इव, त्वयि = कामदेवे, अद्यापि = इदानीमपि, नूनम् = निश्चयेन, हरस्य = शङ्करस्य, कोपस्य = क्रोधस्य, वह्निः = अग्निः, ज्वलति = प्रज्ज्वलति, अन्यथा = नो चेत्, त्वम् = कामदेवः, मद्विधानाम् = अस्मद् दृब्धानाम्, एवम् = अनेन प्रकारेण, उष्णः = तैक्ष्ण्ययुक्तः, कथम् = केन प्रकारेण, स्याः = (भवेत्)
टिप्पणी
अत्रौपम्यघटितः काव्यलिङ्गालङ्कारः । उपजातिश्चात्र वृत्तम् ।
हिन्दी अर्थ
कामदेव ! जिस तरह समुद्र में सदा वाढवाग्नि जलती रहती है, उसी तरह से तुम्हारे भीतर आज भी शङ्करजी के क्रोध की बाग जल रही है, अन्यथा तुम हम लोगों को इतना संतत कैसे करते ?
श्लोक -04
तव कुसुमशरत्वं शीतरश्मित्वमिन्दो- र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै- स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ।। 4 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसंग
अस्मिञ्छ्लोके दुष्यन्तो वक्ति यत् कामस्य पुष्पबाणत्वम्, चन्द्रमसश्च शीतरश्मित्वम् अयथार्थम् कामिजनेषु प्रतीयते । यतः चन्द्रमसो रश्मयः कामिजनान् सन्तापयन्ति, कामवाणाश्चातिकठिनानि प्रतीयन्ते ।
अन्वय
तव कुसुमशरत्वम् इन्दोः शीतरश्मित्वम्, इदम् द्वयम् मद्विधेषु अयथार्थं दृश्यते, इन्दुः हिमगर्भैः मयूखैः अग्निम् विसृजति, त्वम् अपि कुसुमबाणान् वज्रसारीकरोषि ।।
व्याख्या
तव = कामदेवस्य, कुसुमानि = पुष्पाण्येव शराणि यस्याऽसौ तस्य भावस्तत्वंपुष्पबाणधारणकरत्वम् इन्दोः = चन्द्रमसः, शीताः = शीतलाः, रश्मयः = मरीचयः, तत्त्वं = हिमकिरणत्वम्, इदम् = एतत्, द्वयमपि = उभयमपि, मद्विधेषु = मम सदृशेषु कामिजनेषु, अयथार्थम् = वितथमेव, दृश्यते = अवलोक्यतेयतः इन्दुः = चन्द्रमाः, हिमगर्भैः = शीतलैः, मयूखैः = किरणैः, अग्निम् = वह्निम्, विसृजति = विशेषरूपेण वर्षतित्वमपि = कामदेवोऽपि, कुसुमबाणान् = पुष्पबाणान्, वज्रसारी = वज्रस्य सारं = बलमिव, सारः = बलं यस्य, तथाविधान् = सम्पादयसि कुसुमेष्वपि काठिन्यस्य आधानं कृत्वा तेषां कामिजनेषु प्रहारं करोषि ।
टिप्पणी
अत्र मयीति विशेषवक्तव्ये "मद्विधेषु" इति सामान्यकथनेन अप्रस्तुतप्रशंसा"वज्रसारीकरोषि" इत्यत्र समासगतोपमा । अनयोः अत्र सङ्करः । मालिनी चात्र — ‘ननमयययुतेयं मालिनी कीर्तनीया’ इति लक्षणानुसारं वृत्तम् ।
हिन्दी अर्थ
तुम्हारा पुष्पबाण कहा जाना तथा चन्द्रमा का शीतरश्मित्व कहा जाना—दोनों ही हम जैसे लोगों के लिए व्यर्थ है। क्योंकि चन्द्रमा भी अपनी शीतल किरणों से अग्नि की वर्षा करता है और तुम भी अपने पुष्पबाणों को वज्र के समान कठिन बना देते हो।
श्लोक - 05
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो में । यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ 5 ॥
सन्दर्भ
प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसंग
अस्मिन् श्लोके राजा दुष्यन्तो वक्ति यदि कामदेवो माम् उद्दिश्य शकुन्तलाम् स्वबाणैः प्रहृत्य जनयित्वा च तस्याः मनसि माम् प्रत्यनुरागम्,मामपि तामधिकृत्य स्ववाणैः प्रहृत्य मम मनसि रुजमुत्पादयति, तदा नूनमेतत् कामदेवस्य कर्म ममाभिमतम्, यतः तथाभूते सति आवयोः संगमनं स्यादेव ।
अन्वय
मकरकेतुः मदिरायतनयनाम् ताम् अधिकृत्य यदि प्रहरति, इति अनिशं मे मनसः रुजम् आवहन् अभिमतः मे ।
व्याख्या
मकरकेतुः,मकरः = मक्रः केतौ यस्यासौ मकरध्वजः, मदिरे = मोहके, आयते = विस्तृते च, नयने = नेत्रे यस्याः सा ताम्, अधिकृत्य = आश्रित्य, यदि = चेत्, तस्यां, प्रहरति = स्वबाणानां प्रहारं करोति, करोति च = तथा कृत्वा ताम् माम् प्रति सानुरागाम्, इति = इत्येतत् कामदेवेन कृतं कर्म, अनिशम् = सर्वदा, मे = मम, मनसः = अन्तःकरणस्य, रुजम् = व्याधिम्, आवहन् = दधदपि उत्पादयन्नपीत्यर्थः, मे = मम, अभिमतः = अनुकूलमेव
टिप्पणी
अत्ररुजमावहन्नपि अभिमत इति कथनाद्विरोधाभासालङ्कारः ।आर्या चात्र जातिः
हिन्दी अर्थ
यदि कामदेव मेरे उद्देश्य से शकुन्तला पर अपने बाणों का प्रहार करके मेरे ऊपर अपने बाणों का प्रहार करते हैं, तो वे सर्वदा मेरे मन में पीड़ा उत्पन्न करके भी मेरे अभिमत ही हैं ॥
श्लोक - 01
राम राम राम राम राम राम राम राम
सन्दर्भ
प्रस्तुत पद्य अयोध्या काण्ड से लिया गया है।
प्रसंग
प्रसंग लिखें: प्रस्तुत पंक्तियाँ अयोध्या काण्ड के अन्तर्गत प्रयुक्त हैं।
अन्वय
राम, राम, राम, राम
व्याख्या
यहाँ व्याख्या लिखें — उदाहरण स्वरूप कुछ वाक्य।
टिप्पणी
टिप्पणी / नोट्स यहाँ डालें।
हिन्दी अर्थ
यहाँ हिन्दी अर्थ लिखें।

वृथैव सङ्कल्पशतैरजस्त्रम्, अनङ्ग ! नीतोऽसि मयाऽतिवृद्धिम् ।
आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः ॥ 6 ॥

अन्वयः - हे अनङ्ग ! मया सङ्कल्पशतैः अजस्रम् वृथैव अतिवृद्धिम् नीतोऽसि, चापं श्रवणोपकण्ठे आकृष्य मयि एव तव बाणमोक्षः युक्तः ।

व्याख्या - कामदेव ! मया नानाविधैः संकल्पैः द्वारा त्वमतिशयेन वर्द्धितः असि, मयैव वर्द्धितः सः त्वम् ममोपर्येव बाणप्रहारं करोषीत्येतत् उचितम् वर्तते किम् ?
हे अनङ्ग=कामदेव, मया=दुष्यन्तेन, शकुन्तलायाः विषये, संकल्पानाम्=मनोरथानाम्, शतैः=बह्वीभिः शतसंख्याभिः, त्वम्=कामः, अतिशयेन वृद्धिम्=अतीव वैपुल्यम्, नीतः=प्रापितः असि, यदि मया शकुन्तलया साकं गमनविहरण=संगमनादिविषयकम् नानाविधं सङ्कल्पं नहि कृतं भवेत्, तदा नूनम् त्वम् एतादृशः समृद्धो न स्याः। स एषः त्वम् ममापकारसंलग्नस्सन् कामदेवः, चापम्=धनुः; श्रवणोपकण्ठम्=कर्णसन्निकटम्, आकृष्य=आकर्षयित्वा, मयि एव=दुष्यन्ते एव, तव बाणमोक्षः=बाणानाम् प्रहारः युक्तः, किमिति शेषः। अत्र विषादनकाव्यलिङ्गालङ्कारयोः संसृष्टि। तथा चाह जयदेवः विषादनलक्षणम्-'इष्यमाणविरुद्धार्थसम्प्राप्तिस्तु विषादनम्।' इति। उपजातिश्चात्र वृत्तम्।। ६॥

हिन्दी अर्थ - मैंने व्यर्थ ही अनेक प्रकार के सङ्कल्पों द्वारा तुम्हें बहुत अधिक बढ़ाया। कर्ण पर्यन्त धनुष को खींचकर मेरे ऊपर बाण का प्रहार करना क्या आपके लिए उचित है?

सम्मीलन्ति न तावद्वन्धनकोषास्तयावचितपुष्पाः ।
क्षीरस्निग्धाश्चामी दृश्यन्ते किसलयच्छेदाः ॥ 7 ॥

अन्वयः - तया अवचितपुष्पाः कोषाः तावत् न सम्मिलन्ति, च अमी किसलयच्छेदाः क्षीरस्निग्धाः दृश्यन्ते ॥

व्याख्या - उपर्युक्तम् शकुन्तलायाः अचिरगमनतर्कानुकूलान् हेतूनुपन्यस्यन् दुष्यन्तो भक्ति यत् गमनकाले शकुन्तलया यानि पुष्पाण्यवचितानि तेषां बन्धनकोषाः इदानीं यावत् नहि परस्परं सम्मिलिताः, इत्येषः तथानुमानोपपादकः प्रथमो हेतुः, किञ्च तया किसलयच्छेदानाम् क्षीराण्यपि इदानीं यावत् नहि शुष्कानि संजातानीति द्वितीयो हेतुः । तथाहि--

तया=सुतन्वा शकुन्तलया, अवचितानि=चयितानि, येषां पुष्पाणि=तथाविधाः, बन्धनस्य=पुष्पबन्धस्य, कोषाः=आधारभूताः वृन्तोर्ध्वभागाः, =नहि, तावदिति=वाक्यालङ्कारे, सम्मिलन्ति=सङ्कुचिता भवन्तिअमी=किश्व, किसलयानाम्=पल्लवानाम्, खण्डाः=छेदाः, अपि=किश्व, क्षीरेण=दुग्धेन, स्निग्धाः=क्लिन्नाः सन्ति । अत्र तुल्ययोगितासमुच्चयालङ्कारयोः सङ्करः । अत्र चार्या जातिः ।। ७ ॥

हिन्दी अर्थ - उसके द्वारा तोड़े गये पुष्पों के बन्धन अभी सट नहीं पाए हैं तथा ये पल्लवों के टुकड़े अभी दुग्ध में सने हैं।

शक्योऽरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैर्निर्दयामालिङ्गितुं पवनः ॥ ८ ॥

अन्वयः - मालिनीतरङ्गाणाम् कणवाही अरविन्दसुरभिः पवनः अनङ्गतप्तैः अङ्गः निर्दयम् आलिङ्गितुं शक्यः ॥

व्याख्या - अस्मिञ्छ्लोके दुष्यन्तः तस्य वनभागस्य सुभगत्वम् प्रतिपादयन् वक्ति यत् वायुरत्र मालिनीतरङ्गशीकरसंयुक्तत्वात् शीतलः कमलसुगन्धिसंयुक्तश्च कामं कामिजनैः सेवनीयः इति।

मालिन्याः=मालिनीनद्याः, तरङ्गाणाम्=कल्लोलानाम्, कणान्=शीकरान्, बहुति=बाही, अरविन्दानाम्=कमलानाम्, सुरभ्या=सुगन्धेन युक्तः, अरविन्दसुरभिः=कमलसुगन्धिसंयुक्तः, पवनः=वायुः, अनङ्गेन=कामदेवेन, तप्तैः=संतप्तैः, अङ्गः=अवयवैः, आलिङ्गितुम्=आलिङ्गनं कर्तुम्, शक्यः=सम्भवः

अत्र पवनस्य गम्यत्वप्रतीतेः आलिङ्गितुं शक्यत्वात् गम्योत्प्रेक्षा स्वभावोक्तिश्च। अत्रार्या जातिः।। ८।।

हिन्दी अर्थ - (स्पर्श का अनुभव करके) अरे ! इस स्थान पर बड़ी अच्छी हवा आ रही है। कमल की सुगन्धि से युक्त तथा मालिनी के तरंग की शीतलता लिये हुए वायु का कामसन्तप्त अंगों से अच्छी तरह आलिङ्गन किया जा सकता है ॥

अभ्युन्नता पुरस्तादवगाढा जघनगौरवात् पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिदृश्यतेऽभिनवा ॥ ९ ॥

अन्वयः - अस्य पाण्डुसिकते द्वारे पुरस्तात् अभ्युन्नता पश्चात् जघनगौरवात् अवगाढा अभिनवा पदपंक्तिः दृश्यते ।

व्याख्या - अस्मिञ्छ्लोके दुष्यन्तः तस्मिन् लतामण्डपे शकुन्तलायाः सन्निहितत्वं प्रतिपादयन् वक्ति यत् अस्य लतामण्डपस्य सिकतामये द्वारे अभिनवा पदपंक्तिः दृश्यते ।

अस्य=सविधे विद्यमानस्य, पाण्डुसिकते=पाडुरवणंबालुकाविशिष्टे, द्वारे=प्रवेशमार्गे, पुरस्तात्=अग्रे, अभ्युन्नता=उत्थिता, पश्चात्=पश्वभागे, जघनयोः=जङ्घयोः, गौरवात्=गुरुत्वात्, अवगाढा=किञ्चिन्निम्ता, अभिनवा=नवीना, पदयोः=चरणयोः, पंक्तिः=चिह्नम्, दृश्यते=अवलोक्यते

एतेनैव ज्ञायते यत् शकुन्तला सपद्येव अस्मिन् लतामण्डपे कृतप्रवेशा वर्तते ।

अस्मिञ्छ्लोकेऽनुमानालङ्कारः स्वभावोक्तिश्च ।

हिन्दी अर्थ - इसके पीली बालू से विशिष्ट द्वार पर आगे की ओर उठा हुआ तथा जङ्घों की गुरुता के कारण पीछे की ओर दवा हुआ पदचिह्न दिखायी देता है।

स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं
प्रियायाः साबाधं तदपि कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयो-
र्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु ॥ १० ॥

अन्वयः - स्तनन्यस्तोशरीरम्, प्रशिथिलमृणालैकवलयम् प्रियायाः इदं वपुः साबाधम् अपि कमनीयम्, मनसिज-निदाघप्रसरयोः तापः कामं समः तु युवतिषु एवं ग्रीष्मस्य सुभगम् अपराद्धं न ।

व्याख्या - अस्मिञ्छ्लोके दुष्यन्तः प्रतिपादयति यत् नैरुज्यरहितत्वात् शकुन्तलायाः शरीरम् साबाधम् परिदृश्यते । इयम् स्वास्थ्यम् यद्यपि ग्रीष्मकामाभ्याम् कामम् समानरूपेण कर्तुम् शक्यते तथापि ग्रीष्मेण जायमानेऽस्वास्थ्ये शरीरम् तथा विश्वम् कमनीयम् नहि भवति यादृशम् शकुन्तलायाः शरीरम् कमनीयम् दृश्यते । अतएव नूनम् सा कामबाधेन बाधिता ।

स्तनयोः=पयोधरयोः, न्यस्तम्=विन्यस्तम्, लेपितमिति यावत्, शरीरसंताप=निवारणाय, उशीरम्=वारिणम् यस्य तत्, प्रशिथिलम्=शरीरकार्य्यात् शिथिलम्, मृणालस्य=पद्मखण्डस्य, एकम्=एकसंख्याकम्, वलयम्=कङ्कणम्, प्रियायाः=शकुन्तलायाः, इदम्=एतत्, वपुः=शरीरम्, साबाधम्=पीडितम्, कमनीयम्=मनोहरम्, मनसिजः=कामः, निदाघः=ग्रीष्मः, प्रसरः=वृद्धिः, तापः=सन्तापः, कामम्=यथेष्टम्, युवतिषु=आरूढयौवनासु, सुभगम्=मनोहरम्, अपराद्धम्=सन्तापकरत्वम्

साबाधशरीरा अपि शकुन्तला स्वशरीरकान्त्या चित्तमाकर्षयतीति भावः ।

युवतिष्वित्यत्र सामान्यनिबन्धनाऽप्रस्तुतप्रशंसा वर्तते । अत्र शिखरिणी वृत्तम्—“रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी” इति शिखरिणीलक्षणम् ।

हिन्दी अर्थ - प्रिया के स्तनों पर उशीर का लेप किया गया है, कमल का बनाया गया एकमात्र कंकण ढीला पड़ गया है। अत्यधिक पीड़ायुक्त होने पर भी इसका शरीर देखने में मनोहर लगता है। यदि ग्रीष्म तथा काम दोनों के प्रसार से समान रूप से संताप होता है किन्तु ग्रीष्म के द्वारा युवतियों में किया गया संताप इतना मनोहर नहीं होता है।

स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं
प्रियायाः साबाधं तदपि कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयो-
र्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु ।। 10 ।।

अन्वयः - स्तनन्यस्तोशरीरम्, प्रशिथिलमृणालैकवलयम् प्रियायाः इदं वपुः साबाधम् अपि कमनीयम्, मनसिज-निदाघप्रसरयोः तापः कामं समः तु युवतिषु एवं ग्रीष्मस्य सुभगम् अपराद्धं न।

व्याख्या - अस्मिञ्छ्लोके दुष्यन्तः प्रतिपादयति यत् नैरुज्यरहितत्वात् शकुन्तलायाः शरीरम् साबाधम् परिदृश्यते । इयम् स्वास्थ्यम् यद्यपि ग्रीष्मकामाभ्याम् कामम् समानरूपेण कर्तुम् शक्यते तथापि ग्रीष्मेण जायमानेऽस्वास्थ्ये शरीरम् तथा विश्वम् कमनीयम् नहि भवति यादृशम् शकुन्तलायाः शरीरम् कमनीयम् दृश्यते । अतएव नूनम् सा कामबाधेन बाधिता ।
स्तनयोः= पयोधरयोः, न्यस्तम्= विन्यस्तम्, लेपितमिति यावत्, शरीरसन्ताप-निवारणाय उशीरम् वारिणम्, प्रशिथिलम्= शरीरकार्यात् शिथिलीकृतम्, मृणालस्य= पद्मखण्डस्य, एकम्= एकसंख्याकम्, वलयम्= कङ्कणम्, प्रियायाः= शकुन्तलायाः, इदम् वपुः= एतत् शरीरम्, साबाधम्= पीडितम्, तदपि= तथापि, कमनीयम्= मनोहरम्, मनसिजः= कामः, निदाघः= ग्रीष्मः, तयोः प्रसरयोः= उभयोः वृद्ध्योः, तापः= संतापः, कामम्= यथेष्टम्, समः= समानः, युवतिषु= आरूढयौवनासु तरुणीषु, सुभगम्= मनोहरम्, अपराद्धम्= संतापकरत्वम्, = नहि भवति

अतएव इयं शकुन्तला कामबाधया एव पीडिता वर्तते। अत्र "युवतिष्वित्यत्र सामान्यनिबन्धनाऽप्रस्तुतप्रशंसा" वर्तते। छन्दः शिखरिणी — "रसैरुद्रैश्छिन्ना यमनसभलागः शिखरिणी" इति।

हिन्दी अर्थ - प्रिया के स्तनों पर उशीर का लेप किया गया है, कमल का बनाया गया एकमात्र कंकण ढीला पड़ गया है। अत्यधिक पीड़ित होने पर भी उसका शरीर देखने में मनोहर लगता है। यदि ग्रीष्म तथा काम दोनों के प्रसार से समान रूप से संताप होता है, किन्तु ग्रीष्म के द्वारा युवतियों में किया गया संताप इतना मनोहर नहीं होता जितना कि शकुन्तला का सौन्दर्य इस दशा में प्रतीत होता है।

शशिकरविशदान्यस्यास्तथाहि दुःसहनिदाघशंसीनि ।
भिन्नानि श्यामिकया मृणालनिर्म्माणवलयानि ।। 11 ।।

अन्वयः - तथाहि, शशिकरविशदानि अस्याः दुःसहनिदाघशंसीनि, मृणालनिर्माणवलयानि श्यामिकया भिन्नानि।

व्याख्या - अस्मिञ्छ्लोके राजा दुष्यन्तो वक्ति यत् चन्द्रकिरणवदवदातान्यपि श्यामिकया भिन्नवर्णतां गतानि मृणालकङ्कणानि अस्याः असह्यसन्तापवेदनां सूचयन्ति।
तथाहि= तेनैव रूपेण, शशिनः = चन्द्रमसः, ये कराः= किरणानि,ज्योत्स्नेति यावत तद्वत, विशदानि= अवदातानि, , अस्याः= शकुन्तलायाः, दुःसहस्य = कठिनतया, सह्यमानस्य, निदाघस्य = संतापस्य, शंसीनि= सूचकानि, मृणालस्य = पद्मखण्डस्य, निर्म्माणेन = निर्मित्या,यानि, वलयानि = कङ्कणानि,तानि, श्यामिकया= श्यामतया, भिन्नानि= भिन्नवर्णतां गतानि,युक्तानि संतीर्थ्यः

शशिकरविशदानीत्यत्र समासगतोपमा लुप्ता। उत्तरार्धें च काव्यलिङ्गम्। आर्याचात्र जातिः।

हिन्दी अर्थ - चन्द्रकिरण के समान श्वेत मृणाल से बने कङ्कण काले पड़ गये हैं, जो इसके शरीर के असह्य संताप की सूचना देते हैं।

क्षामक्षामकपोलमाननमुरः,काठिन्यमुक्तस्तनं
मध्मः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनग्लानेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ।। 12

अन्वयः - आननम् क्षामक्षामकपोलम्, उरः काठिन्यमुक्तस्तनम्, मध्यः क्लान्ततरः, असौ प्रकामविनतौ, छविः पाण्डुरा मदनग्लाना, इयम्, पत्राणाम् शोषणेन, मरुता स्पृष्टा, माधवीलता इव, शोच्या, प्रियदर्शना च आलक्ष्यते ॥ ।

व्याख्या - अस्मिञ्छ्लोके शकुन्तला वक्ति यत् कामावेगेनेयम् अतीव क्षीणशरीरा शकुन्तला, शरीरास्वास्थ्याधिक्यात् शोचनीया संजाता अथापि अस्याः सौन्दर्यम् सहसा मनसः आकर्षणम् करोति ।
आननम् = मुखम्, क्षामक्षामौ = अतिशयक्षीणौ, कपोलौ = गण्डस्थलौ, यस्य तथाविधम्, उरः = हृदयम्, काठिन्येन = परिपोषयुक्तोन मुक्तौ = परित्यक्तौ, स्तनौ = पयोधरौ, यस्य तथाविधम्, मध्यः = शरीरस्य मध्यभागः, कटिप्रदेश इति यावत्, क्लान्ततरः = अतिशयेन क्षीणः, असौ = उभौ स्कन्धौ, प्रकामविनतौ = प्रकर्षेण नम्रतां गतौ, छविः = शरीरस्य शोभा च, पाण्डुरा-पाण्डुवर्णा वर्ततेपाण्डुत्वञ्चोत्कण्ठावशात्अतएव मदनेन = कामेन, ग्लाना = विकृता, इयम् = शकुन्तला, पत्राणाम् = पर्णानाम्, शोषणेन = शोषणकर्मकारिणा, मरुता = वायुना, स्पृष्टा = लंघिता, माधवीलता इव = माधवीसंज्ञकव्रततीततीव, शोच्या = शोचनीया, शरीरस्य रुजाक्रान्तत्वात्, प्रियम् = मनोज्ञम्, दर्शनम् = प्रकृतिर्यस्याः सा तथाभूता संजाता

हिन्दी अर्थ - इसके दोनों कपोल धँस गये हैं, हृदय काठिन्यरहित स्तनों से रहित हो गया है, इसकी कमर बहुत पतली हो गयी है, दोनों कन्धे झुक से गये हैं, शरीर की कान्ति पीली हो गयी है। अत एव काम के द्वारा अत्यन्त विकृत यह पत्तों को सुखा देने बाली बायु से स्पष्ट माधवीलता के समान शोचनीय तथा देखने में मनोहर हो गयो है ॥

पृष्टा जनेन समदुःखसुखेन बाला
नेयं न वक्ष्यति मनोगतमा धिहेतुम् ।
दृष्टो विवृत्य बहुशोऽप्यनया सतृष्ण-
मत्रोत्तरश्रवणकातरतां गतोऽस्मि ।। 13 ।।

अन्वयः - समदुःखसुखेन जनेन पृष्टा इयं बाला, मनोगतम् आधिहेतुम् न वक्ष्यति, अनया विवृत्य बहुशः सतृष्णम् दृष्टोऽपि, अत्र उत्तरश्रवणकातरताम् गतः अस्मि।

व्याख्या - अस्मिञ्छ्लोके राजा स्वमनसि एवं विचारयति यत् अस्याः शकुन्तलायाः प्रियसखी शरीरसन्तापस्य कारणं पृच्छति, अतएव नूनं सा वक्ष्यति निजस्य दुःखस्य कारणम्। यद्यपि तस्याः सा मामसकृत् प्रेम्णाऽवलोकितवती, तेन तस्याः मय्यनुरागाधिक्यमपि निश्चयम्। तथापि इयं वक्ति इति श्रोतुमाकुलतां यामि।
समाने= सदृशे, सुखदुःखे= प्रियाप्रिये, समदुःखसुखेन= सखीजनैः, पृष्टा= जिज्ञासिता, बाला= शकुन्तला, मनोगतम्= हार्दम् भावम्, आधिहेतुम्= दुःखकारणम्, न वक्ष्यति= न कथयिष्यति, अनया= शकुन्तलया, विवृत्य= परावृत्य, मत्तो विश्लिष्य, बहुशः= असकृत्, सतृष्णम्= अबिलाषपूर्णेन चक्षुषा, दृष्टः अपि= अवलोकितोऽपि, अत्र= सखीजनेषु समक्षम्, उत्तरश्रवण= प्रतिवचनश्रवण, कातरताम्= आकुलताम्, गतः अस्मि= प्राप्तोऽस्मि

अत्र **काव्यलिङ्ग, विभावना, विशेषोक्तीनां संकरः**। उत्तरार्धे विभावना-विशेषोक्त्योः संदेहः। छन्दः — **वसन्ततिलका**। *"ज्ञेया वसन्ततिलका तभजा जगी गः"* इति लक्षणानुसारम्।

हिन्दी अर्थ - दुःख और सुख में समान रूप से सहभागी सखियों से पूछे जाने पर निश्चय ही शकुन्तला अपने मन का दुःख बताएगी। यद्यपि उसने मुझे बार-बार प्रेमभरे नेत्रों से देखा है, फिर भी उत्तर सुनने के लिए मेरा मन अत्यधिक व्याकुल है।

एक टिप्पणी भेजें

0 टिप्पणियाँ

Please Select Embedded Mode To show the Comment System.*