अभिज्ञानशाकुन्तलम् (तृतीय अंक) : ससंदर्भ संस्कृत व्याख्या एवं हिन्दी अर्थ

चन्द्र देव त्रिपाठी 'अतुल'
0
अभिज्ञानशाकुन्तलम् (तृतीय अंक) : ससंदर्भ संस्कृत व्याख्या एवं हिन्दी अर्थ
श्लोक — 01
का कथा बाणसंधाने ज्याशब्देनैव दूरतः । हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥ १ ॥
अन्वय --बाणसन्धाने का कथा ? धनुषः हुङ्कारेण इव ज्याशब्देन एव स हि दूरतः विघ्नान् व्यपोहति ।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके कण्वशिष्यो राज्ञो दुष्यन्तस्य महाप्रभावशालित्वं वर्णयति यत् अस्य राज्ञो धनुषः शब्दमेव श्रुत्वा यज्ञानाम् अन्तरायाः दूरतः एवापाकृताः भवन्ति ।
संस्कृत व्याख्या --बाणस्य = शरस्य, सन्धाने = धनुष्यारोपिते, रक्षसां विनाशस्य, का कथा = किमुच्यते, धनुषः = कार्मुकस्य, हुङ्कारेण इव = क्रोधपूर्वकं हुमिति कृतेन शब्देन इव, ज्यायाः = मौर्व्याः, शब्देनैव = घोषेणैव, हि = यतः, सः = राजा दुष्यन्तः, विघ्नान् = अन्तरायान्, व्यपोहति = दूरीकरोति ।
हिन्दी व्याख्या --
हिन्दी अर्थ --बाण-सन्धान करने की क्या बात, वह राजा अपने धनुष के टङ्कोरमात्र से ही विघ्नों को दूर कर दिया करता है।
टिप्पणी --अत्रार्थापत्तिरुत्प्रेक्षयोः संसृष्टिः ।
श्लोक — 02
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् । न च निम्नादिव सलिलं निवर्तते मे ततो हृदयम् ॥ २ ॥
अन्वय --तपसो वीर्यं जाने, सा बाला परवती इति मे विदितम्, च निम्नात् सलिलमिव, ततः मे हृदयं न निवर्त्तते ।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके कामी दुष्यन्तः शकुन्तलया सह संगमनेऽर्थमनर्थञ्चोभयं विमृशन्नाह-तपस्विषु कस्यचनापि जनस्यापराधकारिणं भस्मसात्करणस्य सामर्थ्यं भवतीति जानाम्यहम् । अतएव तया सह बलात्कारस्तु कर्तुमेव नहि शक्यते । सा च शकुन्तला गुरुजननिदेशकारिणी, अतएव सा स्वतन्त्रतया मया साकं संगमयितुं नहि शक्यते स्वमनसा । एतत् सर्वं ज्ञात्वाऽपि मे मनः तस्याः नो निवर्तते इति महत् सङ्कटम् ।
संस्कृत व्याख्या --तपसः = आश्रमवासिनाम्, तपस्विनाम्, तपसः = तपश्चर्यायाः, वीर्यम् = सागसोजनस्य भस्मसात्करणसमर्थम्, जाने = जानाम्यहमिति शेषः, सा = मया पूर्वमनुभूता, मयि दृढानुरागवती च, बाला = शकुन्तला, परवती = गुरुजनपरतन्त्रा वर्तते, इति = इत्यनेन प्रकारेण, मे = मम, विदितम् = ज्ञातम् वर्तते, = किन्तु, निम्न = स्थलात्, सलिलम् = जलम् इव, येन प्रकारेण = जलं सर्वदा निम्नस्थलाभिमुखमेव भवति स्वभावतः, न च तस्मात् स्वभावात् तत् निवर्त्तते, तथैव, मे = मम, हृदयम् = चेतः, ततः = शकुन्तलातः, = नहि, निवर्त्तते = पराङ् मुखं भवति।
हिन्दी व्याख्या --
हिन्दी अर्थ --मैं तपस्या का बल जानता हूँ तथा यह भी जानता हूँ कि शकुन्तला गुरुजन-परतन्त्र है, फिर भी जिस तरह जल सदा नीचे की ही ओर जाता है, उसी तरह मेरा मन उससे निवृत्त होता ही नहीं है।
टिप्पणी --अत्र पूर्वार्धे कारणनिबन्धनाऽप्रस्तुतप्रशंसा, उत्तरार्द्धे च श्रौतोपमा । आर्याचात्र जातिः ।
श्लोक — 03
अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ । त्वमन्यथा मन्मथ ! मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥ ३ ॥
अन्वय --मन्मथ ! अम्बुराशौ और्व इव त्वयि अद्यापि नूनम् हरकोपवह्निः ज्वलति, अन्यथा त्वम् मद्विधानाम् एवम् उष्णः कथम् ।।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --अत्र कामस्योग्रत्वातिशयत्वे हेतुं मनुमिन्वन् दुष्यन्तो वक्ति यत्— यतः साम्प्रतमपि त्वयि शङ्करक्रोधाग्निः प्रज्वलितो वर्तते, अतएव त्वयि तथाविधमौष्ण्यम् वर्तते, अन्यथा त्वयि तथाविधं तैक्ष्ण्यम् कथं स्यात् ।
संस्कृत व्याख्या --मन्मथ ! = कामदेव !, मनः = मथ्नातीति मन्मथः, अम्बुराशौ = समुद्रे, सततम् = प्रज्वल्यमानः, और्वः इव = वडवानल इव, त्वयि = कामदेवे, अद्यापि = इदानीमपि, नूनम् = निश्चयेन, हरस्य = शङ्करस्य, कोपस्य = क्रोधस्य, वह्निः = अग्निः, ज्वलति = प्रज्ज्वलति, अन्यथा = नो चेत्, त्वम् = कामदेवः, मद्विधानाम् = अस्मद् दृब्धानाम्, एवम् = अनेन प्रकारेण, उष्णः = तैक्ष्ण्ययुक्तः, कथम् = केन प्रकारेण, स्याः = (भवेत्)।
हिन्दी व्याख्या --
हिन्दी अर्थ --कामदेव ! जिस तरह समुद्र में सदा वाडवाग्नि जलती रहती है, उसी तरह से तुम्हारे भीतर आज भी शङ्करजी के क्रोध की आग जल रही है, अन्यथा तुम हम लोगों को इतना सन्तप्त कैसे करते ?
टिप्पणी --अत्रौपम्यघटितः काव्यलिङ्गालङ्कारः । उपजातिश्चात्र वृत्तम् ।
श्लोक — 04
तव कुसुमशरत्वं शीतरश्मित्वमिन्दो- र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै- स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥ ४ ॥
अन्वय --तव कुसुमशरत्वम् इन्दोः शीतरश्मित्वम्, इदम् द्वयम् मद्विधेषु अयथार्थं दृश्यते, इन्दुः हिमगर्भैः मयूखैः अग्निम् विसृजति, त्वम् अपि कुसुमबाणान् वज्रसारीकरोषि ।।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके दुष्यन्तो वक्ति यत् कामस्य पुष्पबाणत्वम्, चन्द्रमसश्च शीतरश्मित्वम् अयथार्थम् कामिजनेषु प्रतीयते । यतः चन्द्रमसो रश्मयः कामिजनान् सन्तापयन्ति, कामवाणाश्चातिकठिनानि प्रतीयन्ते ।
संस्कृत व्याख्या --तव = कामदेवस्य, कुसुमानि = पुष्पाण्येव शराणि यस्याऽसौ तस्य भावस्तत्त्वं पुष्पबाणधारणकरत्वम्, इन्दोः = चन्द्रमसः, शीताः = शीतलाः, रश्मयः = मरीचयः, तत्त्वं = हिमकिरणत्वम्, इदम् = एतत्, द्वयमपि = उभयमपि, मद्विधेषु = मम सदृशेषु कामिजनेषु, अयथार्थम् = वितथमेव, दृश्यते = अवलोक्यते, यतः इन्दुः = चन्द्रमाः, हिमगर्भैः = शीतलैः, मयूखैः = किरणैः, अग्निम् = वह्निम्, विसृजति = विशेषरूपेण वर्षति, त्वमपि = कामदेवोऽपि, कुसुमबाणान् = पुष्पबाणान्, वज्रसारी = वज्रस्य सारं = बलमिव, सारः = बलं यस्य, तथाविधान् = सम्पादयसि, कुसुमेष्वपि काठिन्यस्य आधानं कृत्वा तेषां कामिजनेषु प्रहारं करोषि ।
हिन्दी व्याख्या --
हिन्दी अर्थ --तुम्हारा पुष्पबाण कहा जाना तथा चन्द्रमा का शीतरश्मित्व कहा जाना—दोनों ही हम जैसे लोगों के लिए व्यर्थ है। क्योंकि चन्द्रमा भी अपनी शीतल किरणों से अग्नि की वर्षा करता है और तुम भी अपने पुष्पबाणों को वज्र के समान कठिन बना देते हो।
टिप्पणी --मयीति विशेषवक्तव्ये "मद्विधेषु" इति सामान्यकथनेन अप्रस्तुतप्रशंसा । "वज्रसारीकरोषि" इत्यत्र समासगतोपमा । अनयोः अत्र सङ्करः । मालिनी चात्र — ‘ननमयययुतेयं मालिनी कीर्तिनीया’ इति लक्षणानुसारं वृत्तम् ।
श्लोक — 05
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे । यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ ५ ॥
अन्वय --मकरकेतुः मदिरायतनयनाम् ताम् अधिकृत्य यदि प्रहति, इति अनिशं मे मनसः रुजम् आवहन् अभिमतः मे ।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिन् श्लोके राजा दुष्यन्तो वक्ति यदि कामदेवो माम् उद्दिश्य शकुन्तलाम् स्वबाणैः प्रहृत्य जनयित्वा च तस्याः मनसि माम् प्रत्यनुरागम्, मामपि तामधिकृत्य स्ववाणैः प्रहृत्य मम मनसि रुजमुत्पादयति तदा नूनमेतत् कामदेवस्य कर्म ममाभिमतम्, यतः तथाभूते सति आवयोः संगमनं स्यादेव ।
संस्कृत व्याख्या --मकरकेतुः, मकरः = मक्रः, केतौ यस्यासौ मकरध्वजः, मदिरे = मोहके, आयते = विस्तृते च, नयने = नेत्रे यस्याः, सा ताम्, अधिकृत्य = आश्रित्य, यदि = चेत्, तस्यां, प्रहरति = स्वबाणानां प्रहारं करोति, करोति च तथा कृत्वा ताम् माम् प्रति सानु- रागाम्, इति = इत्येतत् कामदेवेन कृतम् कर्म, अनिशम् = सर्वदा, मे = मम, मनसः = अन्तःकरणस्य, रुजम् = व्याधिम्, आवहन् = दधदपि = उत्पादयन्नपीत्यर्थः, मे = मम, अभिमतः = अनुकूलमेव ।
हिन्दी व्याख्या --
हिन्दी अर्थ --यदि कामदेव मेरे उद्देश्य से शकुन्तला पर अपने बाणों का प्रहार करके मेरे ऊपर अपने बाणों का प्रहार करते हैं तो वे सर्वदा मेरे मन में पीड़ा उत्पन्न करके भी मेरे अभिमत ही हैं ॥
टिप्पणी --अत्र रुजमावन्नपि अभिमतः इति कथनाद्विरोधाभासालङ्कारः । आर्या चात्र जातिः ॥
श्लोक — 06
वृथैव सङ्कल्पशतैरजस्त्रम्, अनङ्ग ! नीतोऽसि मयाऽतिवृद्धिम् । आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः ॥ ६ ॥
अन्वय --अनङ्ग ! मया वृथैव सङ्कल्पशतैः अजस्रम् अतिवृद्धिम् नीतः असि, श्रवणोपकण्ठे चापम् आकृष्य मयि एव तव बाणमोक्षः युक्तः।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके राजा कामदेवमुपालभते यत् मया स्वसंकल्पैरेव त्वमभिवर्धितः, साम्प्रतं त्वं मामेव प्रहरसि।
संस्कृत व्याख्या --अनङ्ग = कामदेव, मया = दुष्यन्तेन, वृथैव = व्यर्थमेव, सङ्कल्पशतैः = नानामनोरथैः, अजस्रम् = निरन्तरम्, अतिवृद्धिम् = अत्यधिकप्रसारम्, नीतः असि = प्रापितोऽसि, श्रवणोपकण्ठे = कर्णसमीपे, चापम् = धनुः, आकृष्य = आकर्षयित्वा, मयि एव = मय्येव जने, तव = कामस्य, बाणमोक्षः = शरप्रहारः, युक्तः = उचितः।
हिन्दी व्याख्या --
हिन्दी अर्थ --हे कामदेव ! व्यर्थ ही मैंने सैकड़ों संकल्पों से तुम्हें निरंतर बढ़ाया है। अब कान तक धनुष खींचकर मुझ पर ही बाण चलाना क्या तुम्हारे योग्य है?
टिप्पणी --अत्र उपालम्भगर्भोक्तिः। उपजातिः वृत्तम्।
श्लोक — 07
सम्मीलन्ति न तावद्वन्धुककोषास्तयावचितपुष्पाः । क्षीरस्निग्धाश्चामी दृश्यन्ते किसलयच्छेदाः ॥ ७ ॥
अन्वय --तया अवचितपुष्पाः बन्धूककोषाः तावत् न सम्मीलन्ति, अमी किसलयच्छेदाः च क्षीरस्निग्धाः दृश्यन्ते।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --शकुन्तलायाः लतामण्डपे उपस्थितिं सम्भावयन् राजा चिह्नानि पश्यति।
संस्कृत व्याख्या --तया = शकुन्तलया, अवचितपुष्पाः = लूनकुसुमाः, बन्धूककोषाः = बन्धूकपुष्पमुकुलाः, तावत् = साम्प्रतमपि, न सम्मीलन्ति = न मुकुलिताः संजाताः, अमी = एते, किसलयच्छेदाः = पल्लवखण्डाः, क्षीरस्निग्धाः = पयसा आर्द्राः, दृश्यन्ते = अवलोक्यन्ते।
हिन्दी व्याख्या --
हिन्दी अर्थ --शकुन्तला के द्वारा जिन बन्धूक फूलों को तोड़ा गया है, उनकी कलियाँ अभी तक बंद नहीं हुई हैं और ये तोड़े गए नए पल्लवों के अग्रभाग अभी भी दूध से चिकने दिख रहे हैं।
टिप्पणी --अत्र स्वभावोक्तिरलङ्कारः। आर्या वृत्तम्।
श्लोक — 08
शक्योऽरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ८ ॥
अन्वय --अरविन्दसुरभिः मालिनीतरङ्गाणाम् कणवाही पवनः अनङ्गतप्तैः अङ्गैः अविरलम् आलिङ्गितुम् शक्यः।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --मालिनी नदी के शीतल वायु का अनुभव करते हुए राजा का कथन।
संस्कृत व्याख्या --अरविन्दसुरभिः = कमलगन्धयुक्तः, मालिनीतरङ्गाणाम् = मालिनीनद्याः वीचीनाम्, कणवाही = जलशीकरवाहकः, पवनः = वायुः, अनङ्गतप्तैः = कामाग्निना सन्तप्तैः, अङ्गैः = गात्रैः, अविरलम् = गाढम्, आलिङ्गितुम् = आश्लेषितुम्, शक्यः = समर्थः।
हिन्दी व्याख्या --
हिन्दी अर्थ --कमलों की सुगन्ध से युक्त और मालिनी नदी की लहरों के जलकणों को लाने वाली यह वायु काम-संतप्त अंगों से प्रगाढ़ आलिंगन करने योग्य है।
टिप्पणी --अत्र स्वभावोक्तिः। आर्या छन्दः।
श्लोक — 09
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात् पश्चात् । द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिदृश्यतेऽभिनवा ॥ ९ ॥
अन्वय --अस्य पाण्डुसिकते द्वारे पुरस्तात् अभ्युन्नता, पश्चात् जघनगौरवात् अवगाढा अभिनवा पदपङ्क्तिः दृश्यते।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --लताकुटीर के प्रवेश द्वार पर शकुन्तला के पदचिह्नों को देखकर राजा का कथन।
संस्कृत व्याख्या --अस्य = लतामण्डपस्य, पाण्डुसिकते = श्वेतबालुकायुक्ते, द्वारे = प्रवेशमार्गे, पुरस्तात् = अग्रभागे, अभ्युन्नता = ईषदूध्र्वा, पश्चात् = पृष्ठभागे, जघनगौरवात् = नितम्बभारात्, अवगाढा = निमग्ना, अभिनवा = नूतना, पदपङ्क्तिः = चरणचिह्नपरम्परा, दृश्यते = प्रतीयते।
हिन्दी व्याख्या --
हिन्दी अर्थ --इस लतामण्डप के श्वेत बालू वाले द्वार पर आगे से उथली और भारी नितम्बों के कारण पीछे से गहरी धंसी हुई नवीन पदचिह्नों की पंक्ति दिख रही है।
टिप्पणी --अत्र स्वभावोक्तिरलङ्कारः। आर्या जातिः।
श्लोक — 10
स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः साबाधं तदपि कमनीयं वपुरिदम् । समस्तापः कामं मनसिजनिदाघप्रसरयो- र्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु ॥ १० ॥
अन्वय --स्तनन्यस्तोशीरम् प्रशिथिलमृणालैकवलयम् प्रियायाः इदम् वपुः साबाधम्, तदपि कमनीयम्। मनसिजनिदाघप्रसरयोः तापः कामं समः, तु ग्रीष्मस्य युवतिषु एवम् सुभगम् अपराद्धं न।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --अस्वस्थ शकुन्तला के कामजन्य सौन्दर्य का राजा द्वारा वर्णन।
संस्कृत व्याख्या --स्तनन्यस्तोशीरम् = पयोधरार्पितखसलेपम्, प्रशिथिलमृणालैकवलयम् = श्लथीभूतपद्मनालवलययुक्तम्, प्रियायाः = शकुन्तलायाः, साबाधम् = पीडायुक्तम्, तदपि = तथापि, कमनीयम् = मनोहरम्, मनसिजनिदाघप्रसरयोः = कामग्रीष्मयोः, समः तापः = तुल्यः सन्तापः, सुभगम् = सुन्दरम्, अपराद्धम् = विकारः।
हिन्दी व्याख्या --
हिन्दी अर्थ --स्तनों पर उशीर (खस) का लेप लगा है और कमलनाल का कंगन ढीला पड़ गया है; प्रिया का यह शरीर यद्यपि कष्ट में है, फिर भी अत्यन्त कमनीय लग रहा है। यद्यपि काम और ग्रीष्म दोनों का संताप एक समान होता है, किन्तु ग्रीष्म का संताप युवतियों में इतना सुन्दर विकार उत्पन्न नहीं करता।
टिप्पणी --अत्र व्यतिरेकालङ्कारः। शिखरिणी वृत्तम्।
श्लोक — 11
शशिकरविशदान्यस्यास्तथाहि दुःसहनिदाघशंसीनि । भिन्नानि श्यामिकया मृणालनिर्म्माणवलयानि ॥ ११ ॥
अन्वय --तथाहि, शशिकरविशदानि अस्याः दुःसहनिदाघशंसीनि, मृणालनिर्माणवलयानि श्यामिकया भिन्नानि।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके राजा दुष्यन्तो वक्ति यत् चन्द्रकिरणवदवदातान्यपि श्यामिकया भिन्नवर्णतां गतानि मृणालकङ्कणानि अस्याः असह्यसन्तापवेदनां सूचयन्ति।
संस्कृत व्याख्या --तथाहि = तेनैव रूपेण, शशिनः कराः = चन्द्रमसः किरणाः, तद्वत् विशदानि = अवदातानि, अस्याः = शकुन्तलायाः, दुःसहस्य = कठिनतया सह्यमानस्य, निदाघस्य = संतापस्य, शंसीनि = सूचकानि, मृणालस्य = पद्मखण्डस्य, निर्माणात् यानि वलयानि = कङ्कणानि, तानि श्यामिकया = श्यामतया, भिन्नानि = भिन्नवर्णतां गतानि सन्ति।
हिन्दी व्याख्या --
हिन्दी अर्थ --चन्द्रकिरण के समान श्वेत मृणाल से बने कङ्कण काले पड़ गये हैं, जो इसके शरीर के असह्य संताप की सूचना देते हैं।
टिप्पणी --शशिकरविशदानीत्यत्र समासगतोपमा लुप्ता। उत्तरार्धें च काव्यलिङ्गम्। आर्याचात्र जातिः।
श्लोक — 12
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च मदनग्लानेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ १२ ॥
अन्वय --आननम् क्षामक्षामकपोलम्, उरः काठिन्यमुक्तस्तनम्, मध्यः क्लान्ततरः, असौ प्रकामविनतौ, छविः पाण्डुरा मदनग्लाना, इयम्, पत्राणाम् शोषणेन, मरुता स्पृष्टा, माधवीलता इव, शोच्या, प्रियदर्शना च आलक्ष्यते ।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके शकुन्तलायाः विरहकृशताम् अनुपमं सौन्दर्यं च राजा वर्णयति।
संस्कृत व्याख्या --आननम् = मुखम्, क्षामक्षामकपोलम् = अतिशयक्षीणगण्डस्थलम्, उरः = हृदयम्, काठिन्यमुक्तस्तनम् = शिथिलपयोधरम्, मध्यः = कटिप्रदेशः, क्लान्ततरः = कृशतरः, अंसौ = स्कन्धौ, प्रकामविनतौ = प्रकर्षेण नतौ, छविः = कान्तिः, पाण्डुरा = पीतवर्णा, मदनग्लाना = कामावेगेन विकृता, इयम् = शकुन्तला, पत्राणां शोषणेन मरुता स्पृष्टा माधवीलता इव = शुष्कपर्णकारिणा वायुना आक्रान्ता लता इव, शोच्या = दयार्हा, प्रियदर्शना च = मनोज्ञदर्शना च दृश्यते।
हिन्दी व्याख्या --
हिन्दी अर्थ --इसके दोनों कपोल धँस गये हैं, स्तनों का काठिन्य शिथिल हो गया है, कमर अत्यधिक पतली हो गयी है, दोनों कंधे झुक गये हैं और शरीर की कान्ति पीली पड़ गयी है। कामवेदना से क्षीण हुई यह पत्तों को सुखा देने वाली लू से आहत माधवीलता के समान शोचनीय और दर्शनीय दोनों लग रही है।
टिप्पणी --अत्र उपमालङ्कारः। शार्दूलविक्रीडितं वृत्तम्।
श्लोक — 13
पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमधिहेतुम् । दृष्टो विवृत्य बहुशोऽप्यनया सतृष्ण- मत्रोत्तरश्रवणकातरतां गतोऽस्मि ॥ १३ ॥
अन्वय --समदुःखसुखेन जनेन पृष्टा इयं बाला, मनोगतम् आधिहेतुम् न वक्ष्यति इति न, अनया विवृत्य बहुशः सतृष्णम् दृष्टोऽपि, अत्र उत्तरश्रवणकातरताम् गतः अस्मि।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --अस्मिञ्छ्लोके राजा स्वमनसि एवं विचारयति यत् अस्याः शकुन्तलायाः प्रियसखी शरीरसन्तापस्य कारणं पृच्छति, अतएव नूनं सा वक्ष्यति निजस्य दुःखस्य कारणम्।
संस्कृत व्याख्या --समदुःखसुखेन = सखीजनेन, पृष्टा = जिज्ञासिता, इयं बाला = शकुन्तला, मनोगतम् = हार्दिकम्, आधिहेतुम् = मनःपीडाकारणम्, न वक्ष्यति इति न = अवश्यं कथयिष्यति, अनया = शकुन्तलया, विवृत्य = परावृत्य, सतृष्णम् = साभिलाषम्, दृष्टोऽपि = अवलोकितोऽपि, उत्तरश्रवणकातरताम् = प्रतिवचनश्रवणे व्याकुलताम्, गतः अस्मि = प्राप्तवानस्मि।
हिन्दी व्याख्या --
हिन्दी अर्थ --दुःख और सुख में समान रूप से सहभागी सखियों से पूछे जाने पर निश्चय ही शकुन्तला अपने मन का दुःख बताएगी। यद्यपि उसने मुझे बार-बार प्रेमभरे नेत्रों से देखा है, फिर भी उत्तर सुनने के लिए मेरा मन अत्यधिक व्याकुल है।
टिप्पणी --अत्र काव्यलिङ्ग, विभावना, विशेषोक्तीनां संकरः। छन्दः — वसन्ततिलका।
श्लोक — 14
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः । दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥ १४ ॥
अन्वय --तपात्यये अभ्रश्यामः दिवसः जीवलोकस्य इव, स्मरः एव मे तापहेतुः, स एव निर्वापयिता जातः।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --शकुन्तला के मुख से अनुराग की बात सुनकर राजा का हर्षोल्लास।
संस्कृत व्याख्या --तपात्यये = ग्रीष्मान्ते (वर्षाऋतौ), अभ्रश्यामः = मेघमेदुरः, दिवसः = वासरः, जीवलोकस्य इव = प्राणिनाम् यथा, स्मरः एव = कामदेव एव, मे तापहेतुः = मम संतापजनकः, स एव = काम एव, निर्वापयिता = संतापनाशकः, जातः = संवृत्तः।
हिन्दी व्याख्या --
हिन्दी अर्थ --जैसे ग्रीष्म ऋतु के अंत में बादलों से युक्त श्यामल दिन समस्त प्राणियों के लिए संतापहारी और सुखद हो जाता है, वैसे ही जो कामदेव मेरे संताप का कारण था, वही अब मुझे शीतलता देने वाला बन गया है।
टिप्पणी --अत्र उपमालङ्कारः। आर्या वृत्तम्।
श्लोक — 15
अशिशिरतरैरन्तस्तापैर्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रवर्तिभिरश्रुभिः । अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ १५ ॥
अन्वय --अशिशिरतरैः अन्तस्तापैः विवर्णमणीकृतम्, निशि निशि भुजन्यस्तापाङ्गप्रवर्तिभिः अश्रुभिः अनभिलुलितज्याघाताङ्कम् मया मुहुः मणिबन्धनात् स्रस्तं स्रस्तं कनकवलयं प्रतिसार्यते।
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --राजा अपनी विरहकृशता का वर्णन करता है।
संस्कृत व्याख्या --अशिशिरतरैः = अतितप्तैः, अन्तस्तापैः = आन्तरिकसन्तापैः, विवर्णमणीकृतम् = मलिनीकृतमणियुक्तम्, निशि निशि = प्रतिरात्रौ, भुजन्यस्तापाङ्गप्रवर्तिभिः अश्रुभिः = बाहुन्यस्तनेत्रान्तनिःसृतैः बाष्पैः, अनभिलुलितज्याघाताङ्कम् = असंस्पृष्टमौर्वीचिह्नम्, मणिबन्धनात् = प्रकोष्ठात्, स्रस्तम् स्रस्तम् = गलितं गलितम्, कनकवलयम् = सुवर्णकङ्कणम्, प्रतिसार्यते = पुनर्यथास्थानं स्थाप्यते।
हिन्दी व्याख्या --
हिन्दी अर्थ --रात-रात भर तकिए बने हाथों पर आँखों के कोनों से बहने वाले गर्म आंसुओं से मलीन मणियों वाला तथा कलाई से बार-बार खिसक कर धनुष की डोरी के चिह्न तक पहुंचा हुआ सोने का कंगन मैं बार-बार ऊपर खिसकाता रहता हूँ।
टिप्पणी --अत्र विप्रलम्भशृङ्गारः। मन्दाक्रान्ता वृत्तम्।
श्लोक — 16
अयं स ते तिष्ठति सङ्गमोत्सुको विशङ्कसे भीरु ! यतोऽवधीरणाम् । लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् ॥ १६ ॥
अन्वय --भीरु ! यतः अवधीरणां विशङ्कसे, सः ते सङ्गमोत्सुकः अयं तिष्ठति। प्रार्थयिता श्रियं लभेत वा न वा, श्रिया ईप्सितः कथं दुरापः भवेत्?
सन्दर्भ --प्रस्तुतमिदं पद्यं कविकुलकमलदिवाकर महाकवि कालिदास विरचितस्य विश्वविश्रुतस्य अभिज्ञानशाकुन्तलम् इतिनामधेयस्य नाटकस्य तृतीयाङ्कात समुद्धृतं अस्ति ।
प्रसङ्ग --राजा का शकुन्तला के सम्मुख प्रकट होकर अभय व सांत्वना देना।
संस्कृत व्याख्या --भीरु = कातरे शकुन्तले, यतः = यस्मात् राज्ञः, अवधीरणाम् = तिरस्कारम्, विशङ्कसे = आशङ्कसे, सः = राजा, ते = त्वया सह, सङ्गमोत्सुकः = मिलनोत्कण्ठितः, अयं तिष्ठति = अयमेव वर्तते। प्रार्थयिता = याचकः जनः, श्रियम् = लक्ष्मीम्, लभेत वा न वा, किन्तु श्रिया ईप्सितः = लक्ष्म्या स्वयं वृतः, कथं दुरापः भवेत् = कथं दुर्लभः स्यात्?
हिन्दी व्याख्या --
हिन्दी अर्थ --हे भीरु ! जिससे तुम तिरस्कार की आशंका कर रही हो, वही तुमसे मिलने को उत्सुक तुम्हारे सामने खड़ा है। प्रार्थना करने वाले को लक्ष्मी मिले या न मिले, किन्तु लक्ष्मी जिसे स्वयं चाहे, वह भला उसके लिए कैसे दुर्लभ हो सकता है?
टिप्पणी --अत्र दृष्टान्त-अर्थान्तरन्यासयोः संसृष्टिः। वंशस्थविल वृत्तम्।
अभिज्ञानशाकुन्तलम् · तृतीयोऽङ्कः · महाकवि कालिदास

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)