मेघदूतम् (पूर्वमेघ)- ससन्दर्भ व्याख्या, अर्थ सहित।

चन्द्र देव त्रिपाठी 'अतुल'
0
मेघदूतम्- महाकवि कालिदास मेघदूतम् कवर
पूर्वमेघ-श्लोक सं.-01
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः। यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥1॥
सन्दर्भ
प्रस्तुतमिदं पद्यं 'महाकविकालिदास' विरचितस्य संस्कृत साहित्याकाशे सुप्रसिद्धस्य 'मेघदूतम्' इति नामधेयस्य खण्डकाव्यस्य 'पूर्वमेघ' खण्डात् समुद्धृतं अस्ति।
अन्वय
स्वाधिकारात्, प्रमत्तः, ( अतः ), कान्ताविरहगुरुणा, वर्षभोग्येण,भर्तुः, शापेन, अस्तङ्गमितमहिमा, कश्चित्, यक्षः, जनकतनयास्नानपुण्योदकेषु,स्निग्धच्छायातरुषु, रामगिर्याश्रमेषु, वसतिम्, चक्रे ॥
प्रसङ्ग
कविकुलगुरुः कालिदासः वस्तुनिर्देशात्मकम्मङ्गलाचरणमुपयत्यनेन पद्येन।
व्याख्या
स्वाधिकारात् = स्वस्य आत्मनः, अधिकारात् नियोगात् कर्मण वा,, प्रमत्तः = अनवहितः, 'प्रमादोऽनवधानता' इत्यमरः, असावधान इत्यर्थः, (अत एव), कान्ताविरहगुरुणा = कान्तायाः = वल्लभायाः, विरहेण वियोगेन, गुरुणा = दुर्भरण, 'गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति शब्दार्णवः, वर्षभोग्येण = वर्ष (यावत्)= संवत्सरं (यावत्)भोग्येण भोगयोग्येन, सोढव्येनेत्यर्थः,, भर्तृः = स्वामिनः, यक्षाधिपकुबेर- स्येत्यर्थः,, शापेन = निग्रहवचसा, , अस्तङ्गमितमहिमा = अस्तङ्गमिता प्रतिहता, महिमा महत्त्वं यस्य स तथोक्तः प्रतिहतमहत्त्वः, कश्चित् अनिर्दिष्टनामा कामीति शेषः,, यक्षः = गुह्यकः, , जनकतनयास्नानपुण्योदकेषु = जनकस्य = मिथिलाधिपविदेहस्य, तनयायाः पुत्रयाः, सीताया इत्यर्थः,, स्नानैः = मज्जनैः, , पुण्यानि = पवित्राणि, , उदकानि = जलानि , येषु = तेषु तथोक्तेषु, , स्निग्धच्छायातरुषु = छायाप्रधानाः तरवः छायातरवः = नमेरुवृक्षाः, 'छायावृक्षो नमेरुः स्यात्' इति शब्दार्णवः,, स्निग्धाः = सान्द्राः, छायातरवः वेषु तेषु तथोक्तेषु, , रामगिर्याश्रमेषु = रामगिरेः = चित्रकूटस्य, आश्रमेषु पर्णकुटीरेषु, , वसतिं = वासं, , चक्रे = कृतवान्।,
टिप्पणी
अत्र मन्दाक्रान्तावृत्तम्। तल्लक्षणं यथा- 'मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद् गुरु चेत्'। अत्र शापं प्रति स्वाधिकारात् प्रमादस्य हेतुत्वात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः। तल्लक्षणं यथा- 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गन्निगद्यते' इति ।।
हिन्दी अर्थ
हिन्दी अर्थ- अपने कर्तव्य पालन में असावधान, (अतः) प्रिया के वियोग के कारण दुःसह, वर्षपर्यन्त भोगे जानेवाले, स्वामी के शाप से शक्ति-विहीन किसी यक्ष ने, जानकी के स्नान करने से पावन नलवाले तथा घने नमेरु वृक्षों से युक्त राम-गिरि ( नामक पर्वत के ) आश्रमों में निवास किया ॥
पूर्वमेघ-श्लोक सं.-02
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः। आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥2॥
सन्दर्भ
प्रस्तुतमिदं पद्यं 'महाकविकालिदास' विरचितस्य संस्कृत साहित्याकाशे सुप्रसिद्धस्य 'मेघदूतम्' इति नामधेयस्य खण्डकाव्यस्य 'पूर्वमेघ' खण्डात् समुद्धृतं अस्ति।
अन्वय
तस्मिन्, अद्रौ, अबलाविप्रयुक्तः, (अतः, दौर्बल्येन ), कनकवलयभ्रंशरिक्तप्रकोष्ठः, कामी, सः, (यक्षः) कतिचित्, मासान्, नीत्वा आषाढस्य, प्रथमदिवसे, आश्लिष्टसानुम्, वप्रक्रीडा परिणतगजप्रेक्षणीयम्, मेघं ददर्श।
प्रसङ्ग
प्अस्मिन पद्ये विरहज्वालादग्धस्य यक्षस्य मेघदर्शनमुपस्थापयति।
व्याख्या
व्याख्या = आपको शीघ्र ही परिलक्षित होगी , तस्मिन्= पूर्वोक्ते, अद्रौ= रामगिरि पर्वते चित्रकूट इत्यर्थः, अबलाविप्रयुक्तः - अबलया=भार्यया, विप्रयुक्तः = वियोगी, (अत एव), कनकवलयभ्रंशरिक्तप्रकोष्ठः -कनकस्य= सुवर्णस्य, वलयः = कटकं, 'कटकं वलयोऽस्त्रियाम्' इत्यमरः, तस्य भ्रंशः = पातः, तेन रिक्तः = शून्यः, प्रकोष्ठः = मणिबन्धो यस्य स तथाभूतः, कामी कामुकः, सः = पूर्ववर्णितः, यक्ष इत्यर्थः, कतिचित् = कियतः, मासान् =त्रिंशद्दिनसमूहम् अष्टौ मासान् इत्यर्थः, 'शेषान् मासान् गमय चतुरः' इत्युत्तरमेघे वक्ष्यमाणत्वात्, नीत्वा = व्यतीय, आषाढस्य =शुचेः, प्रथमदिवसे =आद्यदिने, आश्लिष्टसानुम् - आश्लिष्टः= आक्रान्तः सानुः = कूट येन तन्तथोक्तं, वप्रक्रीडापरिणतगजप्रेक्षणीयं - वप्रक्रीडासु =उत्खातकेलिषु, 'उत्खातकेलि-शृङ्गाद्यैर्वप्रक्रीडा निगद्यते इति शब्दार्णवः, परिणतः = तिर्यग्दन्तप्रहारः, गजः=हस्ति इव, प्रेक्षणीयं दर्शनीयं, मेघं जलदं, ददर्श दृष्टवान्।
टिप्पणी
अत्र मन्दाक्रान्तावृत्तम्। सम्पूर्णेऽस्मिन् मेघदूते मन्दाक्रान्तावृत्तमेव। वप्रक्रीडेत्यादिपदे औपम्यवाचकस्य 'इव' इत्यस्य लुप्तत्वादेव लुप्तोपमाऽलङ्कारः। उपमानलक्षणं यथा-'साम्यं वाच्यमवैधर्म्य वाक्यैक्य उपमा द्वयोः' इति
हिन्दी अर्थ
उस पर्वत पर प्रियतमा से वियुक्त ( अतः दुर्बलता सुवर्ण कंकण के खिसककर गिर जाने से खाली कलाई वाले, कामुक ने कुछ महीने ( आठ महीने बिता कर आषाढ के प्रथम दिन पहाड़ की चोटी पर स्थित, वप्रक्रीड़ा (ढूसा मारने) में तिरछा दंत-प्रहार करने वाले हाथी की तरह दर्शनीय मेघ को देखा ।
पूर्वमेघ-श्लोक सं.-03
तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो- रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ। मेघालोके भवति सुखिनोऽप्यन्यथावृत्तिचेतः कण्ठाश्लेषप्रणयिनि जने किं पुनरसंस्थे॥3॥
सन्दर्भ
प्रस्तुत पद्यमिदं कविकुलमौलिमुकुटमणिना महाकविना ‘कालिदासेन’ विरचितं ‘मेघदूत’ खण्डकाव्यस्य ‘पूर्वमेघात्’ समुद्धृतोस्ति।
अन्वय
राजराजस्य, अनुचरः, अन्तर्बाष्पः सन्), कौतुकाधानहेतोः, तस्य, पुरः, कथमपि, स्थित्वा, चिरम्, दध्यौ, मेघालोके, सुखिनः, अपि, चेतः, अन्यथावृत्ति, भवति, कण्ठाश्लेषप्रणयिनि, जने, दूरसंस्थे ( सति), किं पुनः ॥
प्रसङ्ग
मेघदर्शनानन्तरं विरहियक्षस्य मनोभावम्प्रस्तौति।
व्याख्या
राजराजस्य= कुबेरस्य, 'राजराजो धनाधिपः' इत्यमरः, अनुचरः = सेवकः, पूर्वोक्तो यक्ष इत्यर्थः, अन्तर्वाष्पः = निरुद्धाश्रुः सन्निति शेषः, धीरोदात्तत्त्वादिति यावत्, कौतुकाधानहेतोः - कौतुकस्य=कौतूहलस्य, कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः, आधानम्=उत्पत्तिः, तस्य हेतोः =कारणस्य, तस्य=पूर्वोक्तस्य, मेघस्येति भावः, पुरः=समक्षं, कथमपि=येन केनापि प्रकारेण, प्रयासातिशयेनेत्यर्थः, स्थित्वा=स्थितिं विधाय, चिरं= बहुकालं यावत्, दध्यौ= चिन्तयामास, स्ववल्लभां विचार-यामासेत्यर्थः। मेघालोके =पयोददर्शन, सतीति शेषः, सुखिनः = सुखयुक्तस्य, वल्लभासहित-स्येत्यर्थः, अपिः, चेतः = चित्तं 'चित्तन्तु चेतो हृदयं स्वान्तर्हन्मानसं मनः' इत्यमरः, अन्यथावृत्ति-अन्यथा=अन्यप्रकारा, वृत्तिः = व्यवहारः यस्य तत् तथोक्तं, विकृतियुक्त-मित्यर्थः, भवति=जायते। कण्ठाश्लेषप्रणयिनि - कण्ठस्य=गलस्य, आश्लेषे=आलिङ्गने, प्रणयी = प्रेमी तस्मिन्, कण्ठालिङ्गनार्थिनि इत्यर्थः, जने=कान्तारूपे जने, दूरसंस्थे- दूरे संस्था यस्य स तस्मिन्, विप्रकृष्टवृत्तौ इत्यर्थः, सतीति शेषः, किम्पुनः=किं कथनीयम् ? वियोगिनां जनानां वारिवाहदर्शनमभीष्टजनस्मरणोद्दीपकम्भवतीति भावः ।
टिप्पणी
पद्येऽस्मिन् उत्तरार्द्धन पूर्वार्द्धस्थचिन्तारूपपदार्थसमर्थनात् अर्थान्तरन्यासोऽलङ्कारः। अथ चोत्तराद्धे 'किं पुनर्दूरसंस्थे' इत्युक्त्या कैमुतिकन्यायेन अर्थापत्तिरलङ्कारः। इत्थमेत-योरलङ्कारयोः निरपेक्षतया स्थित्या अत्र संसृष्टिरलङ्कारः। तद्यथा- "मिथोऽनपेक्षयैतेषां स्थितिः संसृष्टिरुच्यते"
हिन्दी अर्थ
यक्षराज कुबेर का सेवक आँखों में आँसू रोककर उत्कंठा की उत्पत्ति करनेवाले उस ( मेघ ) के सामने किसी-किसी तरह ( अर्थात् बड़े कष्ट से ) खड़ा होकर बड़ी देर तक चिंतामग्न रहा। मेघ-दर्शन होने पर ( जब) प्रियतमा से सनाथ व्यक्ति का भी चित्त चञ्चल हो उठता है ( तो ) गले से लिपट जाने की अभिलाषावाली प्रियतमा के दूर रहने पर फिर क्या कहना ?
पूर्वमेघ-श्लोक सं.-04
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् । स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥4॥
सन्दर्भ
प्रस्तुत पद्यमिदं कविकुलमौलिमुकुटमणिना महाकविना ‘कालिदासेन’ विरचितं ‘मेघदूत’ खण्डकाव्यस्य ‘पूर्वमेघात्’ समुद्धृतोस्ति।
अन्वय
नभसि प्रत्यासन्ने (सति) दयिताजीवितालम्बनार्थी सः जीमूतेन स्वकुशलमयीं प्रवृत्तिं हारयिष्यन् प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः (सन्) प्रीतिप्रमुखवचनं स्वागतं व्याजहार।
प्रसङ्ग
यक्षनिवेदितं मेघस्वागतमुपस्थापयति।
व्याख्या
सः = पूर्वोक्तः प्रियाचिन्तको यक्षः। नभसि = श्रावणे (मासे)। प्रत्यासन्ने = निकटवर्तिनि सति आषाढस्येति शेषः। दयिताजीवितालम्बनार्थी = दयितायाः (कान्तायाः) जीवितं धारणं इच्छुकः। जीमूतेन = वारिदेन प्रयोज्येन। स्वकुशलमयीं = आत्मक्षेमप्रवृत्तिं। प्रवृत्तिं = वृत्तान्तं। हारयिष्यन् = प्रापयिष्यन्। प्रत्यग्रैः = नवीनैः कुटजकुसुमैः = गिरिमल्लिकाप्रसूनैः। कल्पितार्घाय = अनुष्ठितपूजाविधये। तस्मै = जीमूताय। प्रीतः = प्रसन्नः। प्रीतिप्रमुखवचनं = प्रणयप्रधानभाषितम्। स्वागतं = स्वागतवचनं। व्याजहार = जगाद, कुशलागमनं पप्रच्छ इत्यर्थः।
टिप्पणी
मन्दाक्रान्तावृत्तम्।
हिन्दी अर्थ
श्रावण मास के अतिनिकट होने पर प्रियतमा की जीवन-रक्षा चाहने वाले उस (यक्ष) ने मेघ के द्वारा अपने कुशलमय समाचार को भेजने की इच्छा से, तत्काल तोड़े गये गिरिमल्लिका के पुष्पों से पूजा करके उस (मेघ) के प्रति प्रसन्न होकर प्रणयभरे वचनों से पूर्ण स्वागत कहा।
पूर्वमेघ-श्लोक सं.-05
धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः? सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः। इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥५॥
सन्दर्भ
प्रस्तुत पद्यमिदं कविकुलमौलिमुकुटमणिना महाकविना ‘कालिदासेन’ विरचितं ‘मेघदूत’ खण्डकाव्यस्य ‘पूर्वमेघात्’ समुद्धृतोस्ति।
अन्वय
धूमज्योतिःसलिलमरुतां सन्निपातः (जड़ः) मेघः क्व? (तथा), पटुकरणः, प्राणिभिः, प्रापणीयाः, सन्देशार्थाः, क्व? इति, औत्सुक्यात् अपरिगणयन्, गुह्यकः, तम्, ययाचे; हि, कामार्ताः, चेतनाचेतनेषु, प्रकृतिकृपणाः (भवन्ति)॥
प्रसङ्ग
कामार्तानां विवेकशून्यत्वं प्रदर्शयति।
व्याख्या
धूमज्योतिः सलिलमरुतां = धूमश्च ज्योतिश्च सलिलं च मरुच्च, तेषां धूम्रतेजोजलवायूनां सन्निपातः = समूहः, सम्मिश्रण इत्यर्थः। मेघः = वारिदः, क्व = कुत्र? पटुकरणैः = कार्यदक्षाणि करणानि = इन्द्रियाणि, येषां तैः कार्यदक्षेन्द्रियैरित्यर्थः। 'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः। प्राणिभिः = चेतनैः, 'प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः' इत्यमरः। प्रापणीयाः = प्रापयितव्याः। सन्देशार्थाः = सन्देशवचनानि। क्व = कुत्र तु? इति = इत्थम्। औत्सुक्यात् = इष्टार्थोद्युक्तत्वात्, 'इष्टार्थोद्युक्त उत्सुकः' इत्यमरः। अपरिगणयन् = अविचारयन्। गुह्यकः = यक्षः। तं पूर्वोक्तं मेघं ययाचे = याचितवान् — “मत्कुशलवृत्तान्तं वल्लभां प्रति प्रापयेति” प्रार्थितवानिति यावत्। हि = यतः। कामार्ताः = कामेन मदनेन आर्ताः पीडिताः जना इति शेषः। चेतनाचेतनेषु सजीवनिर्जीवेषु विषयेषु। प्रकृतिकृपणाः = स्वभावदीनाः, विवेकशून्या इत्यर्थः, भवन्तीति शेषः।
टिप्पणी
अत्र पूर्वार्द्धस्य प्रथमद्वितीयचरणयोः मेघस्य सन्देशस्य च विरूपपदार्थयोः सङ्घटनत्वाद्विषममलङ्कारः। तद्यथा — “विरूपयोः सङ्घटना या च तद्विषमं मतम्।” अथ च चतुर्थचरणस्थेन सामान्यार्थेन विशेषार्थसमर्थनादर्थान्तरन्यासोऽपि। तद्यथा — “सामान्यं वा विशेषेण विशेषस्तेन वा यदि। कार्यं च कारणेनेदं कार्येण च समर्थ्यते।। साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः।। ” एतयोर्लङ्कारयोः अङ्गाङ्गिभावेनात्र सङ्करोऽलङ्कारः।
हिन्दी अर्थ
धुआँ, तेज, जल और वायु का समूह (निर्जीव) मेघ कहाँ और कुशल इन्द्रियवाले प्राणियों के द्वारा भेजे जाने योग्य सन्देश कहाँ? इस बात का उत्कंठा के कारण विचार न करते हुए यक्ष ने उस (मेघ) से याचना की; क्योंकि कामातुर व्यक्ति सजीव और निर्जीव के विषय में विवेकशून्य होते हैं॥
पूर्वमेघ-श्लोक सं.-06
जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनाथित्वं त्वयि विधिवशाद् दूरबन्धुगतोऽहं याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा ॥६॥
सन्दर्भ
प्रस्तुत पद्यमिदं कविकुलमौलिमुकुटमणिना महाकविना ‘कालिदासेन’ विरचितं ‘मेघदूत’ खण्डकाव्यस्य ‘पूर्वमेघात्’ समुद्धृतोस्ति।
अन्वय
(हे मेघ ! अहम् ), त्वाम्, भुवनविदिते, पुष्करावर्तकानाम्, वंशे,जातम्, कामरूपम्, मघोनः, प्रकृतिपुरुषम्, जानामि । तेन, विधिवशात्, दूरबन्धुः, अहम्, त्वयि, अर्थित्वम्, गतः । अधिगुणे, यात्रा, मोघा, अपि, वरम्; ( किन्तु ), अधमे, लब्धकामा, अपि, न, ( वरम् )
प्रसङ्ग
प्रस्तुतमिदं पद्यं महाकविः यक्षकृतं मेघप्रशंसनमुपस्थापयति ।
व्याख्या
(हे मेघ !), भुवनविदिते- भुवनेषु=लोकेषु, विदितः=प्रख्यातस्तस्मिन, पुष्करावर्तकानां - पुष्कराणां=तदभिधेयानाम्, आवर्तकानां=तदभिधेयानाञ्च, (प्रलयकालिकानां मेघानां), वंशे=कुले, जातम्=उत्पन्नं, कामरूपं=यथेच्छशरीरधारिणं, मघोनः=इन्द्रस्य, प्रकृतिपुरुषं- प्रकृतौ=पौरवर्गे, पुरुषं=प्रधानं, प्रधानपुरुषमित्यर्थः, त्वां=भवन्तं (मेघं) जानामि=वेद्मि। तेन = महाकुलप्रसूतत्वेन कारणेन, विधिवशात् - विधेः =भाग्यस्य, वशात् = अधीनत्वात्, हेतोरिति शेषः, दूरबन्धुः- वध्नाति मनः स्नेहादिनेति बन्धुः, दूरे बन्धुः यस्य सः तथोक्तः वियक्तपत्नीक इत्यर्थः, अहं=यक्षः, त्वयि भवति (मेघे) विषये, आर्थित्वं=याचकत्वं, गतः= प्राप्तः। अधिगुणे- अधिका गुणा यस्य तस्मिन्, अधिकगुणे पुरुषे विषये इत्यर्थः, याच्ञा= याचना, मोघा= निष्फला, अपि, वरम्= ईषत्प्रियम्, 'देवाद् वृते वरः, श्रेष्ठेत्रिषु, क्लीबे मनाक् प्रिये' इत्यमरः, परन्त्विति शेषः, अधमे= निर्गुणे पुरुषे विषये, लब्धकामा-लब्धः= प्राप्तः कामः= इच्छा, यया याच्ञया सा तथोक्ता सफला-भिलाषा इत्यर्थः, अपि, याच्त्रेति शेषः, न=नहि. वरम् ईषत्प्रियम् भवतीति शेषः।
टिप्पणी
पद्येऽस्मिन् चतुर्थचरणस्थेन सामान्यार्थेन अर्थित्वगमनरूपविशेषार्थसमर्थनात् अर्थान्तरन्यासोऽलङ्कारः। तल्लक्षणं यथा साहित्यदर्पणे- 'सामान्यं वा विशेषेण विशेषस्तेन वा यदि। कार्य च कारणेनेदं कार्येण च समर्थ्यते ।। साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः।।
हिन्दी अर्थ
(हे मेघ ! मैं ) तुझे जगद्विख्यात पुष्कर और आवतंक (नामवाले मेघों ) के कुल में उत्पन्न, अपनी इच्छा के अनुसार रूप धारण करने वाला, इंद्र का प्रधान पुरुष जानता हूँ। यही कारण है कि भाग्यवश प्रियतमा से बिछुड़ा हुआ मैं तुम्हारे पास याचना करने आया हूँ। क्योंकि अधिक गुणशाली व्यक्ति से (की गयी ) याचना निष्फल होने पर भी कुछ ठीक है। परंतु निर्गुण व्यक्ति से की गयी याचना सफल होने पर भी अच्छी नहीं है ॥
पूर्वमेघ-श्लोक सं.-07
सन्तप्तानां त्वमसि शरणं तत्पयोद प्रियायाः सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥७॥
सन्दर्भ
प्रस्तुत पद्यमिदं कविकुलमौलिमुकुटमणिना महाकविना ‘कालिदासेन’ विरचितं ‘मेघदूत’ खण्डकाव्यस्य ‘पूर्वमेघात्’ समुद्धृतोस्ति।
अन्वय
हे पयोद ! त्वम्, सन्तप्तानाम्, शरणम्, असि, तत्, धनपतिक्रोध-विश्लेषितस्य, मे, सन्देशम्, प्रियायाः, हर, बाह्योद्यानस्थित हरशिरश्चन्द्रिकाधौतहर्म्या, अलका नाम, यक्षेश्वराणाम्, वसतिः, ते, गन्तव्या।
प्रसङ्ग
यक्षः सन्देशप्राप्तव्यस्थानं निर्दिशति मेघं प्रति।
व्याख्या
हे पयोद ! हे मेघ!, त्वं=भवान्, सन्तप्तानां = आतपेन अभीष्टजन-वियोगेन वा संप्रेरितानां, शरणं=आश्रय, रक्षक इतिभावः, असि=वर्तसे। तत्=तस्मात् कारणात्, शरणत्वादिति भावः, धनपतिक्रोधविश्लेषितस्य-धनपतेः= कुबेरस्य, क्रोधात्= अमर्षात्, 'कोपक्रौधावमर्षरोषौ' इत्यमरः, विश्लेषितस्य= वियुक्तस्य, मे=मम (यक्षस्य), सन्देशं=वार्ता, प्रियायाः = वल्लभायाः (यक्षिण्याः), समीप इति शेषः, हर=नय। बाह्योद्यान-स्थितहरशिरश्चन्द्रिकाधौतहर्त्या = बाह्योद्याने=बहिरुद्याने, स्थितस्य, विद्यमानस्य, हरस्य = शिवस्य, शिरसि= मूर्ध्नि, या चन्द्रिका=ज्योत्स्ना, तया धौतानि=प्रक्षालितानि, हर्म्याणि= धनिकभवनानि यस्यां सा तथोक्ता, अलका नाम= अलकेति प्रसिद्धा, यक्षेश्वराणां =गुह्यक-रेष्ठानां, वसतिः = नगरी, ते= तव, गन्तव्या= गमनीया, त्वया =अलका नाम पुरी गन्तव्येति भावः
टिप्पणी
मन्दाक्रान्तावृत्तम्
हिन्दी अर्थ
हे मेघ ! तुम संतप्तजनों के रक्षक हो। अतः कुबेर के कोप के कारण (पत्नी से) बिछड़े हुए मेरे सन्देश को प्रिया के पास पहुँचा दो। बाहर के उद्यान में विद्यमान शिव जी के शिर पर स्थित चंद्रिका के कारण धवल प्रासादों से संपन्न अलका नाम वाली, यक्षेश्वरों की नगरी में तुम्हें जाना है ॥
पूर्वमेघ-श्लोक सं.-08
त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः । कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥८॥
सन्दर्भ
प्रस्तुत पद्यमिदं कविकुलमौलिमुकुटमणिना महाकविना ‘कालिदासेन’ विरचितं ‘मेघदूत’ खण्डकाव्यस्य ‘पूर्वमेघात्’ समुद्धृतोस्ति।
अन्वय
पवनपदवीम्, आरूढम्, त्वाम्, पथिकवनिताः, प्रत्ययात्, आश्वसत्यः, उद्गृहीतालकान्ताः(सत्यः), प्रेक्षिष्यन्ते, त्वयि, सन्नद्धे (सति) अहम्, इव, यः, जनः, पराधीनवृत्तिः, न, स्यात्, (सः ), कः, अन्यः, विरहविधुराम्, जायाम, उपेक्षेत।
प्रसङ्ग
यक्षो मेघम्प्रति पथिकवनितादृष्टिपातम्प्रस्तौति।
व्याख्या
(हे मेघ !), पवनपदवीं = पवस्य=वायोः, पदवी=मार्गम्, आकाश-मित्यर्थः, आरूढं=अभिगतं, त्वां=भवन्तं, पथिकवनिताः= पन्थानं गच्छन्तीति पथिकाः= पान्था, 'अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि' इत्यमरः, तेर्षा वनिताः = स्त्रियः, प्रोषितभर्तृका इति भावः, प्रत्ययात् =विश्वासात्, प्रियागमनस्येति शेषः, आश्वसत्यः = विश्वसिताः, उद्गृहीतालकान्ता- अलकानां= चूर्णकुन्तलानां, अन्ताः = अग्रभागाः, उद्गृहीताः = उन्नमिताः अलकानताः याभिस्ताः, दृष्टिप्रसारार्थ-मिति शेषः, प्रेक्षिष्यन्ते= इक्षयन्ति, उत्कण्ठातिशयेनेति शेषः। त्वयि= भवति (मेघे), सत्रद्धेः= व्याप्ते, सतीति शेषः, आगमनार्थमिति शेषः, अहम् इव =मत्समः, यः जनः= व्यक्तिः, पराधीनवृत्तिः परस्मिन् =अन्यस्मिन, आधीना= आयत्ता, वृत्तिः =जीवनं जीविका वा यस्य स तथोक्तः, न=नहि, स्यात्=भवेत्, (सः=तादृशः), कः=कतमः, अन्यः=अपरः जन इति शेषः, विरहविधुरां- विरहेण=वियोगेन, विधुरां= कृशां व्यथितां वा, जायां=भार्याम्, उपेक्षेत= उपेक्षां कुर्यात्, मेघालोके सति स्वतन्त्रः कोऽपि जनः स्वीयां भार्या नोपेक्षेतेति भावः।
टिप्पणी
पद्येऽस्मिन् सामान्येन विशेषसमर्थनादर्थान्तरन्यासोऽलङ्कारः। तल्लक्षणं यथा साहित्यदर्पणे- 'सामान्यं वा विशेषेण, विशेषस्तेन वा यदि। कर्यं च कारणेनेदं कार्येण च समर्थ्यते। साधम्र्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः' इति॥
हिन्दी अर्थ
स्त्रियाँ (पति के शीघ्र आगमन के) विश्वास से आश्वस्त होकर (अपने) धुंघराले केशों के अग्र-भागों को उठाकर देखेंगी। तुम्हारे आकाश में उमड़ने पर मेरी तरह जो व्यक्ति पराधीन नहीं होगा, (ऐसा) कौन दूसरा व्यक्ति है जो वियोग से दुर्बल पत्नी को भुला सकेगा? ॥
पूर्वमेघ-श्लोक सं.-09
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगन्धः । गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥९॥
सन्दर्भ
प्रस्तुत पद्यमिदं कविकुलमौलिमुकुटमणिना महाकविना ‘कालिदासेन’ विरचितं ‘मेघदूत’ खण्डकाव्यस्य ‘पूर्वमेघात्’ समुद्धृतोस्ति।
अन्वय
अनुकूलः = अनुगुणः, पवनः = अनिलः, मन्दं यथा मन्थरम् इव, त्वां = भवन्तं, नुदति = प्रेरयति, अयं = सन्निकटस्थः, सगन्धः = सगर्वः, ते = तव, वामः = वामभागस्थे मनोज्ञो, चातकः = पक्षिविशेषः, मधुरं = श्रव्यं, नदति = शब्दं करोति, गर्भाधानक्षणपरिचयान्नूनम् = गर्भाधानकालिक समय परिचय, आबद्धमालाः = पंक्तिबद्ध बगुलियाँ, बलाकाः = बकाङ्गनाः, नयनसुभगं = नेत्रसुंदरं, भवन्तं = त्वां, सेविष्यन्ते = आश्रयिष्यन्ते।
प्रसङ्ग
पद्येस्मिन महाकविः मेघगमनावसरे यक्षमुखेन शुभशकुनानि प्रस्तौति।
व्याख्या
(हे मेघ !) अनुकूल (अर्थात् पीछे की ओर बहनेवाला) वायु भावी फल के अनुरूप अत्यंत धीरे-धीरे तुम्हें प्रेरित कर रहा है। तथा गर्वीला, तुम्हारे बायीं ओर स्थित, यह चातक मधुर शब्द कर रहा है। गर्भाधान के आनंद के समय परिचय होने से, आकाश में पंक्तिबद्ध बगुलियाँ नेत्रों को सुंदर लगनेवाले आपका निश्चय ही आश्रय लेंगी।
टिप्पणी
मन्दाक्रान्तावृत्तम्।
पूर्वमेघ-श्लोक सं.-10
तां चावश्यं दिवसगणनातत्परामेकपत्नी- मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥१०॥
सन्दर्भ
प्रस्तुत पद्यमिदं कविकुलमौलिमुकुटमणिना महाकविना ‘कालिदासेन’ विरचितं ‘मेघदूत’ खण्डकाव्यस्य ‘पूर्वमेघात्’ समुद्धृतोस्ति।
अन्वय
(हे मेघ), अविहतगतिः (त्वम्), दिवसगणनातत्पराम्, अव्यापन्नाम्, एकपत्नीम्, ताम्, भ्रातृजायाम्, अवश्यम्, द्रक्ष्यसि, च (यतः), आशाबन्धः, प्रणयि, कुसुमसदृशम्, विप्रयोगे, मद्यपाति, अङ्गनानाम्, हृदयम्, प्रायशः, रुणद्धि।
प्रसङ्ग
मेघगमनसाफल्यम्प्रस्तौति महाकविर्यक्षमुखेन।
व्याख्या
(हे मेघ), विघ्नरहित गतिवाले तुम (विरह के अवशिष्ट) दिनों की गणना में लगी हुई, (मेरे आने की आशा से) जीवन धारण की हुई, पति-व्रता उस (अपनी) भाभी (अर्थात् मेरी पत्नी) को निश्चय ही देखोगे। क्योंकि आशारूप बंधन प्रेमपूर्ण, फूलों की तरह (सुकुमार), वियोग की अवस्था में तत्क्षण नष्ट हो जाने वाले, सुंदरियों के जीवन को प्रायः रोक रखता है।
टिप्पणी
पद्येऽस्मिन् 'कुसुमसदृशम्' इत्यत्र लुप्तोपमाऽलङ्कारः, उत्तराद्धे च सामान्येन विशेषसमर्थनात् अर्थान्तरन्यासञ्चालङ्कारः, इत्यनयोरलङ्कारयोरङ्गाङ्गिभावेन सङ्करालङ्कारः।
पूर्वमेघ-श्लोक सं.-11
कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामबन्ध्यां तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः। आकैलासाद्विसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः॥११॥
सन्दर्भ
प्रस्तुत पद्यमिदं कविकुलमौलिमुकुटमणिना महाकविना ‘कालिदासेन’ विरचितं ‘मेघदूत’ खण्डकाव्यस्य ‘पूर्वमेघात्’ समुद्धृतोस्ति।
अन्वय
यत्, महीम्, उच्छिलोन्ध्राम्, च, अबन्ध्याम्, कर्तुम्, प्रभवति, श्रवणसुभगम्, ते, तत्, गर्जितम्, श्रुत्वा, मानसोत्काः, विसकिसलयच्छेदपाथेयवन्तः, राजहंसाः, नभसि, आकैलासात्, भवतः, सहायाः, संपत्स्यन्ते।
प्रसङ्ग
राजहंसानां मार्गसाहाय्यत्वं प्रदर्शयति महाकविः मेघम्प्रति यक्षमुखात्।
व्याख्या
कर्तुमित्यादिना राजहंसानां मार्गसाहाय्यमुपस्थापयति। यत् = स्तनितं, महीं = धराम्, उच्छिलीन्ध्राम् = उद्गतानि शिलीन्ध्राणि, तान्तथोक्ताम् = उद्गत-कन्दलिकाम्, अवनध्यां = न बन्ध्या, पाठान्तरञ्च उच्छिलीन्ध्रातपत्राम् - शिलीन्ध्राण्येवातपत्राणि, कर्तुं = विधातुं, प्रभवति = शक्नोति, तत् = तादृशं, श्रवणसुभगं = कानों को सुख देने वाला, ते = तव मेघस्य, गर्जितं = स्तनितं, श्रुत्वा = आकर्ण्य, मानसोत्काः = मानसरोवर को जाने के लिए उत्कण्ठित, बिसकिसलयच्छेदपाथेयवन्तः = मार्ग में खाने के लिए मृणाल को कोमलभाग के टुकड़ों के लिए हुए, राजहंसाः = मरालाः, नभसि = आकाश में, आकैलासात् = कैलास पर्वत पर्यन्त, भवतः = तव (मेघस्य), सहायाः = सहचराः, संपत्स्यन्ते = सम्भविष्यन्ति।
टिप्पणी
पद्येऽस्मिन् शिलीन्ध्रातपत्रामित्यत्र रूपकमलङ्कारः।
हिन्दी अर्थ
जो धरती को उगते हुए शिलीरन्ध्रों (छत्रकों) से युक्त अतः शस्यशालिनी बनाने में समर्थ होता है, कानों को सुख देने वाले तुम्हारे उस गर्जन को सुनकर मानसरोवर को जाने के लिए उत्कण्ठित, मार्ग में खाने के लिए मृणाल को कोमलभाग के टुकड़ों के लिए हुए राजहंस आकाश में कैलास पर्वत पर्यन्त तुम्हारे सहचर बनेंगे।


एक टिप्पणी भेजें

0 टिप्पणियाँ

Please Select Embedded Mode To show the Comment System.*