शिशुपालवधम्- कथासारः

प्रथमः सर्गः

महाकविना माघेन विरचिते शिशुपालवधमहाकाव्ये महाभारते वर्णितस्य शिशुपालवधाख्यानस्य चित्रणं वर्तते। भुवः पापभारमपहर्तुं वसुदेवगृहे श्रीकृष्णरूपेणावतीर्णः भगवान् हरिः कदाचिदाकाशादवतरन्तं नारदं ददर्श। पतत्तेजःपुञ्जभूतो नारदो जनैः पूर्वं विभिन्नरूपैर्विकल्पितः पश्चान्त्रिकटमायांतो नारदत्वेन विज्ञातः। नीलमेघानधः गौरः सः गजेन्द्रचर्मावृतभूतिसितशिव इव राजते स्म। हिमालयोद्भूतलतामिव जटाः, मौञ्जीं मेखलां, कृष्णवर्णं मृगचर्म, शुभं यज्ञोपवीतं स्फटिकाक्षमालां, महतीं वीणाञ्च दधानः नारदोऽनुयायीर्देवान् निवर्त्य सर्वसम्पत्सम्पन्नं श्रीकृष्णसदनमवाप्तवान्। श्रीकृष्णः अभ्युत्त्थानादिभिः स्वागतं विधाय, अर्ध्यादिभिः सम्पूज्य, समुचितासने प्रतिष्ठाप्य नारदमागमनकारणं पप्रच्छ। श्रीकृष्णकृतार्चनया प्रशंसावचनैश्च मुदितमना नारदस्तस्य पुरुषोत्तमत्वं, जाद्वन्द्यत्वं सतत- सद्रक्षणपरायणताञ्च प्रतिपाद्य निजागमनकारणं जगाद-हे विश्वम्भर ! त्वं भुवनद्विषां संहारायैव धृतावतारोऽसीति जानन्नपि इदानीमहं भुवि पापिजनसंहारायेन्द्रसंदेशं भवन्तं निवेदयितुमागतोऽस्मि, तच्छ्रयताम्-

पुराऽभूदेको दैत्यराजो हिरण्यकशिपुरितिनाम्नः कुख्यातो त्रिलोकभयंकरः। येन देवाः परास्ताः, देवादियज्ञभागाश्च अपहृताः। तथाविधस्याप्यसुरराजस्य वधं भवता नृसिंहावतारमवलम्ब्य कृतमिति सुवितदतमेव। असौ एव असुरराट् अपरस्मिन् जन्मनि 'रावण' इति नाम्ना कुविदितो जातः। यम-वरुण-कुबेर, चन्द्र-सूर्य-पवनाः दिग्गजाः षड्-ऋतवश्च तद्वशवर्तिनः सञ्जाताः तमुपासन्ते स्म। किञ्च, अनेन भवदीया धर्मभार्या सीताप्यपहृता। अतो रामारूपे विद्यमानो भवान् तस्यागंम्यां लङ्कामासाद्य तत्रैव तद्वधमकरोदिति स्मरणीयेयं वार्ता। असौ एव रावणो जन्मान्तरे इदानीं शिशुपालरूपे विराजमानो जगति विद्यते। इदानीमस्यात्याचारेण त्रिलोकी खिद्यते। अतो भवान् तमसुरमानवं विनाश्य इन्द्रादिदेवदुःखानि परिहरतु इति देवराजस्येन्द्रस्य निवेदनमस्ति । इत्थं कथयित्वा गते नारदे सर्वं खलु वृतान्तजातं स्मारं स्मारं श्रीकृष्णः शिशुपालम्प्रति कोपात् भ्रूभङ्गीं चकार।

✍️