पुराण- महिमा, महत्व, उपयोगिता


1. पुराणानां महिमा

पुराणवाङ्मयं भारतीयजीवनसाहित्यस्यास्ति अमूल्यं रत्नं तथाऽतीतं वर्तमानेन सह संयोजयितुं स्वर्णमयी शृङ्खला । विश्वसाहित्यस्याक्षय-भाण्डारेऽष्टादश महापुराणानि अनुपमानि सर्वश्रेष्ठानि च रत्नानि सन्ति । इमानि चास्माकं सामाजिक-सांस्कृतिक-राजनीतिक-धामिक-दार्शनिक-जीवनं स्वच्छदर्पणवत् प्रतिबिम्बितं कुर्वन्ति, सहैव सरल-भाषया क्रमबद्धकथानकशैल्या च प्राचीनानि सन्त्यपि नवीनतमां स्फूति सञ्चारयन्ति ।

भारतीयवाङ्‌मये पुराणसाहित्यस्य कृते एकं विशिष्टं महत्त्वपूर्णञ्च स्थानं विद्यते । धार्मिकपरम्परायां वेदानन्तरं पुराणानामेव मान्यता वर्तते । पौराणिकज्ञानस्याभावे वैदिकसाहित्यस्यार्थावबोधः सर्वथाऽ सम्भवो विद्यते। यथा "इदं विष्णुविचक्रमे त्रेधा निदधे पदम्, समूढमस्य रांसुरे" (ऋग्वेदे १।५।२२।१७) अस्य मन्त्रस्यार्थो न सायणादिभाष्यैरपि सम्यक् स्पष्टीभवति, यद् विष्णुना कदा कयं केन प्रकारेण वा विश्वमिदं त्रिभिः पदैः मापितम् ? किन्तु पुराणेषु यदा वलिवामनकथया मन्त्रार्थस्यास्य विवरणं सम्यग्रुपलभ्यते तदा सन्देहस्य कश्चनावसरो न तिष्ठति । यथा वा "नमो नोलग्रीवाय" (यजुर्वेदे १६।२८) इति मन्त्रस्यार्थो महीधरेण स्वभाष्ये कृतोऽस्ति यद् विषभक्षणान्नीलं जातं कण्ठं यस्य तस्मै शिवाय नमः, परन्तु अनेन भाष्यार्थेन न स्पष्टं जायते यच्छङ्करेण कदा कथं केन प्रकारेण विषभक्षणं कृतम् ? किन्तु पुराणेषु समुद्रमन्थनप्रसङ्गे अस्य समाधानं सम्पूर्णरूपेण जायते । अतः पौराणिकसाहाय्यं विना वेदानां गूढार्थस्य समाधानं न सम्भवति । सूत्ररूपस्य वेदस्य भाष्यभूतं पुराणमर्थपरकं भूत्वा तदुपयोगित्वं नितरां वर्द्धयति ।

विश्वस्मिन् विद्यमानेषु ग्रन्थेषु भारतीयैः सुरक्षितो वेदराशिः परमप्राचीनोऽस्तीत्यत्र न कापि विप्रतिपत्तिः । अतः स कदा प्रादुर्भूतः केन वा प्रणीत इति विषये सुनिश्चितं न किमपि वक्तुं शक्यम् ! भारतीयास्तु वेदोऽनादिरपौरुषेयश्चेति श्रद्धते । अनादिशब्देन प्रारम्भ समयाभावः, अपौरुषेयपदेन च पुरुषकर्तृत्वाभावो बोध्यते । एवञ्चेश्वर-वन्नित्यं दोषरहितं स्वतः प्रमाणञ्च वेदजातमिति भारतीयानामस्ति विश्वासः ।

अतिप्राचीनकालतः समायातेऽपि वेदजाते श्रकाशि काश्मीरं यावत्, हिमालयतः कन्याकुमारीपर्यन्तं च पाठभेदाभाव आश्चर्यं जनयति सुविचारकाणां विपश्चितां चेतस्सु । अतो वेदरक्षकारणां परमतपस्विनां ब्राह्मणानां महती प्रशंसा परमा प्रतिष्ठा च प्रचलति प्राचीनकालत एव । तैस्तु सपरिश्रमं पदघनक्रमादिविकृतिद्वारा महता प्रयत्नेन दृढया निष्ठया नैकानि कष्टानि सोढ्‌द्वापि वेदाज्ञा राजाज्ञेवाद्य यावत् परिपाला ते। भारते प्राचीनकालतः प्रणीतानां सर्वविषयकशास्त्राणां साक्षात् परम्परया वा वेद एव मूलत आश्रयो विद्यते ।

विदन्ति जानन्ति प्राप्नुवन्ति वा धर्मार्थकाममोक्षानेभिरिति वेदा इति व्युत्पत्त्या "विज्ञाने" "विलु लाभे" वा इति धातोः "हलश्च" (३।३।१२१) इति पाणिनीयसूत्रेण करणघत्रा वेदशब्दो निष्पद्यते । एवञ्च वेदशब्दस्य मुख्योऽर्थो ज्ञानं परन्तु ज्ञानप्रदानां ग्रन्यानामपि वेदसंज्ञेति व्यवहारः । वेदलक्षणवर्णनप्रसङ्गे भगवता सायणाचार्येणापि "इष्टप्राप्त्य निष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः” इति प्रत्यपादि । अत एवोक्तं तन्त्रवातिके कुमारिलभट्टेन -

प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते ।

एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ।।

प्रामाण्यविवेचनप्रसङ्गे वेदानां स्वतः प्रामाण्यमितरेषां शास्त्राणां तु वेदमूलकत्वेन प्रामाण्यमिति मीमांसायां तत्र तत्र प्रपञ्चितमस्ति । निखिलभूमण्डलस्य वाङ्मयेषु भारतीयं वाङ्मयं वेदराशिर्मूर्द्धाभिषिक्त इति नातितिरोहितं विपश्चिदपश्चिमानाम् । तत्कारणञ्च वेदानामपौरुषेय-त्वमेव । तदुपवृंहणार्थं यानीतिहासपुराणानि समुपलभ्यन्ते, तेष्वपि मनसो विमुग्धकरमपूर्वं ज्ञानं विज्ञानञ्च संगृहीतं वर्तते, यज्जिघृक्षवः सहृदया अहनिशं कृतभूरिपरिश्रमा अपि पारं गन्तुमक्षमाः तीरे एवावतिष्ठन्ते । अतो वेदपुराणयोः समन्वयपूर्वकानुशीलनाभ्यासो नितरामपेक्ष्यते ।

2.पुराणानां महत्त्वम्


पुराणानां महत्त्वं विविधाभिः दृष्टिभिरवगभ्यते । धार्मिकदृष्ट्या पुराणानि वेदविहितस्यैव धर्मस्य भावगम्यया सरलया भाषया विशदं वर्णनं कुर्वन्ति पुराणानां सामाजिकं महत्त्वमपि न्यूनं नास्ति । प्राक्तनस्य समाजस्य स्वरूपमस्माभिः पुराणेरेवोपलभ्यते । पौराणिकस्येतिहासस्य पुष्टिस्तु तत्रतत्रोपलब्धः शिलालेखेः वैदेशिकानां यात्रावर्णनेन चेदानीं प्रचु रनात्रायां वोभूयते । ऐतिहासिकदृष्ट्या च पुराणेषु तीर्थानां विशदं वर्णनं विद्यते, येन तत्तत्स्थानानां विस्तृतस्य भूगोलस्य सम्यग् ज्ञानं भवति । स्कन्दपुराणस्य काशीखण्डे प्रत्येकस्थानानां शिवलिङ्गानां च विस्तृतं वर्णनं विद्यते, यत्सहयोगेन काश्याः प्रसिद्धानां भूभागानां समोचानतया ज्ञानं भवितुमर्हति । श्रूयते - विदेशोया विद्वांसः पुराणानां साहाय्येनैव नीलनद्या अन्वेषणं कृतवन्तः । माननीय डा० कप्तानस्पीकेन मिश्रदेशे प्रवहनशोलाया नोलनद्या अन्वेषणं पुराणसाहारयेनैव कृतमस्ति । पुराणे नीलनद्या उद्गमस्थानं कुशद्वीपे निदिष्टमस्ति । नीलनद्या अन्वेषणं कुर्वता कप्तानस्पीकेन कुशद्वीपमाधुनिकनूवियां मत्वा स्वकीयो निर्णयः कुतोऽस्ति ।

पुराणानां प्रमुखं प्रयोजनं वेदविहितार्थानां जनसाधारणेषु प्रचारो विद्यते । एतत्सिद्धये तैः सरला सुगमा संस्कृतभाषाऽवलम्बिता । केवलं भारतवर्षे एव नहि, किन्तुभारताद्वहिविविधेषु देशेषु पुराणैः वैदिकविचार-धारायाः प्रवाहविस्तारस्य सुयशो लब्धम् । पुराणानां कृपया सर्वसाधारणा मनुष्याः स्वजीवनं संयमशीलं विधाय कल्याणमार्गप्राप्तेरधिकारं प्राप्त-वन्तः । वैदिकधर्मस्य लोकप्रियत्वनिर्माणश्रेयः पुराणैरेव प्राप्तमस्ति । पुराणानि समस्तानां विद्यानामक्षयाः कोषाः सन्ति । अतः विविधानां दरिद्रतानां लक्ष्योभूतमपीदं भारतवर्षमद्यत्वेऽपि पुराणानां प्रभावेण धनवानिव स्वकोयं शिरो विश्वसमक्षे समुन्नतं कर्तुं समर्थमस्ति

पुराणानि गौरवदृष्ट्या अतएव दृश्यन्ते, यदत्र वेदानां शिक्षायाः पुष्टिः कृताऽस्ति दृष्टान्तद्वारा च वेदार्थानामेव विशदीकरणं विद्यते । विश्वेऽस्मिन् कस्या अपि सभ्यजातेः पार्श्व पुराणसदृशः सर्वाङ्गपूर्णो न कोऽपि ग्रन्थो विद्यते। पुराणेषु वेदार्थानां स्पष्टीकरणेन सह कथा-वैचिश्यद्वारा गूणाद्‌गुढतमस्यापि तत्त्वस्य साधारणजनानां हृदयङ्गम-सम्पादन वैशिष्ट्यमस्ति ।

वर्तमाने युगे धर्मरक्षायाः, वर्णाश्रमव्यवस्थाप्रचारस्य, भारतीयायाः संस्कृतेरुद्बोधस्य, भक्तेविकासस्य च यदर्शनं बोभवीति, तस्य श्रेयः पुराणा-नामेवास्ति । पुराणैरेव भारतीयादर्शजीवनस्य, भारतीयायाः सभ्यतायाः संस्कृतेः, विद्यायाः वैभवस्य, भारतीयानां ज्ञानगरिम्णः, उत्कर्षस्य च वा-स्तविकं ज्ञानं भवति । प्राचीनकाले भारतीया आधिभौतिकाधिदैविका-ध्यात्मिकीनामुन्नतीनां चरमं सीमानमुपगता आसन्, एतस्य संकेतः पुराणद्वारा एवानुभूयते । अत एतन्निःसंशयं वक्तु' शक्यते यत् पुराणानि बद्धानां मुमुक्षूणां जीवन्मुक्तानां च मनुष्याणां सन्मार्गप्रदर्श-कानि ग्रन्थरत्नानि सन्ति ।

वेदे सूक्ष्मरूपेण यन्निदिष्टमस्ति तस्यैव विस्तृता व्याख्या व्यास-देवेन भाष्यरूपेण महाभारते पुराणेषु च कृताऽस्ति । अतः स्वयं तेनैव महाभारते संकेतः कृतोऽस्ति यत् "इतिहासपुराणाभ्यां वेदं समुपवृं हयेत् ।" अद्यत्वे यद्यपि वेदानां सर्वाः शाखा नोपलभ्यन्ते तथापि दिव्य-ज्ञान- सम्पन्नः त्रिकालदर्शी महर्षिर्वेदव्यासः तासां मूलविषयं पुराणेषु यत्र तत्राङ्कितवानस्ति; येनाद्यापि बहूनां वेदशाखानामनुपलब्धावपि तासां प्रतिपाद्यविषयाणामवगाहन क्रियते एव । एवं वेद-वेदाङ्ग-दर्शन-भूगोल-खगोल-वास्तुविद्या-शिल्पविद्या-रत्नपरीक्षादिविद्यानां विवरणा-त्मकप्रसङ्गोपस्थापने पुराणानां महन्महत्त्वं गौरवं च विद्यते । वेदे पुराण-स्याप्युल्लेखो विद्यते, तथा पुराणं पञ्चमो वेदो मन्यते, यथा- "एवं वा ह्यरे अस्य महतो भूतस्य निःश्वसित मृग्वेदो यजुर्वेदः सामवेदोऽथर्वा-ङ्गिरस इतिहासः पुराणं विद्या उपनिषदः" ( वृ० उ० २।४१०); यथा वा-"स होवाच ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमथर्वाणं चतुर्थमितिहासं पुराणं पञ्चमं वेदानां वेदम्" (छ० उ० ७।१.२) । अतः वेदानां प्रामाण्ये पुराणानामपि प्रामाण्यं स्वीकृतमेव भवति । यथा ब्रह्मणः सकाशात् तपसा पवित्रान्तःकरणानां महर्षीणां निर्मले हृदये वेदानामाविर्भावो जातः, तथैव ईश्वरानुग्रहेण तेषामेव महर्षीणां मनःसु पुराणानामपि प्रादुर्भावोऽजायत । संस्कृतसाहित्ये पुराणानां स्थानं महदुन्नतमस्ति । यतो वेदानन्तरं सर्वमान्यानि सर्वप्राचीनानि च पुराणान्येव सन्ति । सृष्टयादी “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै (श्वे०उ०६।१८) इत्यनुसारं प्रथमं ब्रह्माणमुत्पाद्य परमेश्वरः वेदज्ञानमेव तस्मै उपदिशति । ततो भगवतो वेदज्ञानमुपलभ्यब्रह्मा यान्यन्यानि शास्त्राणि स्मरति । तत्र सर्वप्रथमं पुराणान्येव स्मरति । तथाचोक्तं पद्मपुराणे सृष्टिखण्डे, (११४५) स्कन्दपुराणस्य रेवाखण्डे (उ० ११२४) तथा मत्स्यपुराणे च-


पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् ।

अनन्तरश्च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ।। (५३।३)


                        अतो वेदवत्पुराणान्यपि नित्यानि सनातनानि अपौरुषेयाणि सिध्य-न्ति । अतएव भगवत्पूज्यपादैः श्रीशङ्कराचार्यमहोदयैः बृहदारण्यकभाष्ये स्पष्टमुक्तम्- "निःश्वसितमिव निःश्वसितं यथा अप्रयत्नेनेव पुरुषनिःश्वासो भवति एवं पुराणम्" । महर्षिणा वात्स्यायनेन च स्वकीये न्यायदर्शन-भाष्ये- "य एव मन्त्रब्राह्मणस्य द्रष्टारः प्रवक्तारश्च ते खल्वितिहासपुराण-स्य धर्मशास्त्रस्य चेति विषयव्यवस्थापनाच्च प्रमाणम्। यज्ञो मन्त्रब्राह्मणस्य, लोकवृत्तमितिहासपुराणस्य, लोकव्यवहारव्यवस्थापनं धर्मशास्त्रस्य च विषयः ।” अलौकिकयोगबलेन समस्तं विश्वं हस्तामलकवत्पश्यद्भिः पूज्यपादैः श्रीपतञ्जलिमुनिभिरपि स्वकीये पाणिनीयव्याकरणमहाभाष्ये पशपशाह्निके "वाकोवाक्यमितिहासः पुराणम्" इति वदन्द्भिः पराणानां प्रामाण्यं स्पष्टमेव स्वीकृतमस्ति ।


वेदपुराणयोः पार्थक्यम्


यद्यपि पुराणेषु वेदविहितानामेव विषयाणां विशदीकरणस्य विद्य-मानत्वाद् वेदपुराणयोरैक्यमस्ति, तथापि उभयोः महदन्तरं विद्यते । वेदा द्विजसमुदायेषु प्रतिष्ठिता अशिक्षितासु जनतासु च अपरिचिताः सन्ति, परं पुराणानि सर्वेषु नरेषु सर्वासु च नारीषु विचरन्ति, सर्वेषां मनांसि अनुरञ्जयन्ति सर्वपरिचितानि च सन्ति । पुराणानां कृपया एव वेदा विश्वर्वातनां सर्वविधानां नराणां नारीणां च जीवनं संनियम्य चरमल-क्ष्ये परमतत्त्वे विशुद्धप्रेम्णि निर्मलानन्दस्य मार्गे उत्कृष्टकल्याणं प्रवर्तयितु-मधिकारं प्राप्तवन्तः । वेदेभ्यः पुराणानामिदं वैशिष्ट्यं विद्यते, यत्र वेदैः "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" इत्युक्त्वा "नेति नेति" च कृत्वा यः परमेश्वरो बुद्धीन्द्रियादिभिरगम्यो निर्दिष्टः, तत्र पुराणैः तं परमात्मानं सर्वसाधारणानां बुद्धीन्द्रियादेविषयं वर्णयित्वा सर्वसमक्षमुपस्थाप्यते सः । वेदानां 'सत्यं ज्ञानमनन्तं ब्रह्म" पुराणेषु भक्तानां कृते न केवलमाराध्य-निलयरूपेण देवस्य प्रेममयीमूर्तिरूपेण औदार्यसौन्दर्यमाधुर्यादीनां चोपस्थितं भवति, किन्तु दीनबन्धु-दीनानाथ-करुणावरुणालय-पतित-पावनाशरणशरणानाथनाथादिरूपेणापि समये समये उपतिष्ठते । वेदेषु nअब्राह्मरूपेण वणितं ब्रह्म पुराणेषु अनेकेषु रूपेषु आविर्भूय जीवमात्रस्य चाक्षुषप्रत्यक्षगोचरीभवति ।


अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।

स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरद्र्यं पुरुषं महान्तम्' ।।


इत्यादावपाणिपादादिरूपेण वणितं वेदस्य ब्रह्म पुराणेषु -


तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदायुर्दायुवम् । श्रीवत्सलक्ष्मं गलशोभि कौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ॥ महार्ह वैडूर्यकिरीटकुण्डल त्विषा परिष्वक्तसहस्रकुन्तलम् । उद्दाम काञ्चयङ्गदकङ्कणादिभिर्भावरोचमानं वसुदेव ऐक्षत ॥


इत्यादिना विग्रहवान् निर्दिष्टः । यत्र वेदणितस्य ब्रह्मणः केवलं स्मरणमेव कर्तुं शक्यते, तत्र मनुष्याः पुराणप्रतिपादितस्य श्रीपरमेश्व-रस्य सेवां स्पर्श दर्शनं च कर्तुं पारयन्ति, तन्मुखेऽनेकविधं भोज्यपदार्थं दातुं शक्नुवन्ति तेन सह वार्तालापौ कर्तुं प्रभवन्ति, तेन सह विवि-घानां भावानामादानं प्रदानमपि कतु पारयन्ति वहुविधं स्वकीयं मनो-रथं पूरयितुं च शक्नुवन्ति । पुराणप्रपश्चितः परमेश्वरः स्वस्माच् चिन्मय-धाम्नो भूमाववतीर्य प्राणिमात्रमध्ये विचरति, तेषां कष्टं च दूरी-करोति । पुराणपरमेश्वरो वेदस्य बह्म व न केवलं ज्ञेयं ब्रह्म जीवस्य जगतश्च मूलकारणं निर्गुणं निर्विकारमद्वितीयं चित्स्वरूपमेवास्ति, किन्तु स साकाररूपेण प्रत्यक्षविषय उपास्यः, सर्वासु अवस्थासु आश्रयणीयः, प्रेमकरुणासहानुभूतिसम्पन्नः शरणागतानां दीनानां दुःखिनां चार्तत्राण-तत्परश्चास्ति ।

यत्र वेदानां डिण्डिमघोषोऽस्ति यद् ब्रह्म नामरूपाभ्यां परं विद्यते तत्र पुराणानि तं सर्वनामिनं सर्वरूपिणं सर्वभावमयञ्च वदन्ति । वेद-स्यैव ब्रह्म पुराणेषु असंख्यैर्नामरूपभावैः विभिन्नरूपेणात्मानं प्रकट-यति । तदेव ब्रह्मा विष्णुः शिवः शक्तिः गणेशः सूर्यादिश्वास्ति, तदेव रामः कृष्णो वामनो नृसिहः मत्स्यो वराहो वौद्धश्वास्ति । तदेवेन्द्र आदित्यो यमो वरुणः कुबेरोऽग्निश्वास्ति । यत्र वेदेषु ब्रह्म एकमेवास्ति तत्र पुराणेषु सर्वसम्प्रदायसिद्धानां विविधानां देवानां देवीनाञ्चोपासनां स्वीकृत्य सर्वषां माहात्म्यं गौरवं च गीतमस्ति । एकमेव परमात्मानं विभिन्नसम्प्रदायानुसारं विभिन्ननामरूपभावैः वर्णयद्भिः पुराणैः सर्वे सम्प्रदाया एकत्वसूत्रे निबद्धाः सर्वाणि धर्ममतसाधनप्रणालीवैशिष्टया-दीनि चाक्षुण्णानि स्थापयद्भिस्तैः तेषामान्तरिका भेदाश्च सुरक्षिताः स्वापिताः सन्ति ।

पुराणानुसारं सर्वे सम्प्रदाया विभिन्ननामरूपभावेषु एकस्यैव विश्वात्मन उपासनां कृत्वा स्वीयं जीवनं कृतार्थं कुर्वन्ति । पुराणानां प्रभावेण भारतीया धर्मजिज्ञासवः तत्तत्सम्प्रदायेषु विभक्ता श्रपि एकस्य वैदिकस्य सनातनधर्मस्यानुसरणं कुर्वन्ति । विविधानां देवानां देवीना-ब्रोपासकाः सन्तोऽपि एकस्यैवाद्वितीयस्य ब्रह्मण उपासकाः सन्ति । सर्व-सम्प्रदायोपासका इदं जानन्ति यद् वैष्णवा विष्णोः विभिन्नैर्नामरूपभावैः यमुपासते, तमेव शैवाः शिवस्य विभिन्ननामरूपभावैः शाक्ताश्चोपासकाः कालीदुर्गाचण्डीभगवतीत्यादिरूपैः तमेवाराधयन्ति । तत्तत्पुराणानि तत्तन्नामरूपलीलानामाश्रयं कृत्वा एकस्यैव ब्रह्मणो विशिष्टाविर्भावस्य महिमानं कीर्तयन्ति, विभिन्नोपासकसम्प्रदायहृदयानि चावर्जयन्ति ।


पुराणैः सर्वातीतं ब्रह्म जडजगतो मानवसमाजमध्ये आनीय भगवता सह मनुष्याणां सर्वविधं व्यवधानं दूरीकृत्य मनुष्येषु देवत्वाव-बोधो भगवत्सत्तानुभूतिश्चोद्भाविता। पुराणानां जगत् न केवलं जडजग-देवास्ति, किन्तु तत् सच्चिदानन्दघनस्य भगवतो लीलाभूमिरस्ति । भग-वान् विशुद्धेन सत्त्वमयेनालौकिकेन देहेनाविर्भूय अस्मिन् देवश्लाघ्ये भव-भीतिभञ्जनार्थसमुद्भवाभिर्भगवतीभागीरथी-कालिन्दी-सरयू-नर्मदादिभिः नदीभिः परमपवित्रे भव्ये भारतभूभागे भ्रमन् सर्वत्र विशुद्धसत्त्वस्यावि-च्छिन्नां धारां प्रवाह्यति। पुराणानि सर्वश्रेणीमनुष्यान् भगवत आविर्भावं लौलां च दर्शयन्ति । पुराणद्वारा भारतवर्षस्यासंख्यानां नगर-ग्राम-नदी-वन-पर्वत-सरोबर-सागरादीनां ज्ञानं भवति । पुराणेषु सर्वेषां कृते नैकमेव किममि तोर्थ निश्चितमस्ति, किन्तु भारतवर्षस्य सर्वेषु प्रान्तेषु पवित्राणि तोर्थानि सन्ति, सर्वत्र च भगवतो लीलाऽभवत् । एवम् पुराणानि समस्तां भारतभूमि चिन्मयस्य भगवतो लोलाघामरूपेणोपस्थापयन्ति । पुराणानां कृपया एकैकस्य भारतवर्षवासिनः कृते सर्वा भारतभूमिः सत्कार्या स्नेहमयी दयामयी दात्सल्यमयी आनन्दमयी जननीव पूज्या समादरणीया रक्षणीया चास्ति । अनया दृष्ट्या भारतभूमेः दर्शनस्य सेवायाश्च शिक्षादानं पुराणानामेव पवित्रं कर्तव्यमस्ति ।

पुराणेषु मानवजातेरितिहासो विशेषतश्च प्राचीनस्य भारतस्येति-वृत्तं वणितमस्ति । तत्र कियतामुत्थानं बहूनां च पतनं कवित्वपूर्णभाषाया-मालोचितमस्ति । किन्तु अस्य वर्गाग्निस्यान्तरिकी दृष्टिः साधारण-स्येतिहासस्य दृष्टितः पृथगस्ति । अत्र घटनानामुल्लेखमात्रमुद्देव्यं नास्ति, नापि च राज्ञामुत्थानपतनयोः समावेशः पुराणानां प्रधानं कार्यं विद्यते । एतत्तु पुराणानां दृष्टौ भगवल्लीलाया अङ्गमात्रमस्ति । पुराणेषु सृष्टिस्थितिप्रलयानां लीलायाः भगवतो न्यायकरुणाप्रेम्णां विधानस्य जीवानां कर्मकलापस्य च वैचित्र्यपूर्णेतिहासाश्रयेण वर्णनं विद्यते। मनुष्या मानवेतिहासस्य श्रवणमध्ययनं च कृत्वा तत्र भगवल्लीलाया एवास्वादं कुर्वन्त्विति मुख्यमुद्देश्यमस्ति । एवं पुराणैः जगत्, जीवम्, ईश्वरञ्चैकरूपे प्रस्तुत्य समस्तस्य मानवजगतः संस्कृतिरेकस्यामुन्नततरभूमिकायां प्रतिष्ठापिता ।

आध्यात्मिकसाधनाय बहूनि स्तोत्र-कवच-सहस्रनामादीनि पुराणेष-पलभ्यन्ते । यत्र वेदेषु प्रकृतेनिरूपणं विद्यते तत्र पुराणेषु अधिष्ठात्री-देवीरूपेण प्रकृतेविशदीकरणं कृतमस्ति । अस्मिन्नेवाधारे महर्षिभिः स्मृतिग्रन्थेषु व्यवहारभागस्य प्राशस्त्यं गीतमस्ति । तथाच वेदवेदाङ्ग-पुराणस्मृत्यादयो धर्मशास्त्राणि कथ्यन्ते । एतेषां श्रवणेन मननेन निदि-ध्यासनेन च प्राणिमात्रस्य अवश्यं कल्याणं संभवति ।


पुराणोपयोगिता


अद्यत्वे भारतीयेतिवृत्तार्थं स्वतन्त्ररूपेण पुराणानां मान्यता समारब्धा । ऐतिहासिकसामग्र्यन्वेषणार्थं यत्र-तत्र पुराणानां विशेष-रूपेणालोचनात्मकमध्ययनं प्रचलति । आधुनिका इतिहासकारा डा० विल्सन-रैप्सन-स्मिथ-जिटर-कीथ-मैकडानल कप्तानस्पीक-किर्फल-जाय-सवाल-भाण्डारकर-रायचौधुरी-प्रधान दीक्षितार आल्तेकर-रंगाचार्य-जयचन्द - डा० राजबलीपाण्डेय डा० काणे-हरप्रसादशास्त्री-डा० आर सी० हाजरा-डा० पुसलकर-प्रभृतयो विद्वांसः स्वकीयेषु ऐतिहासिकग्रन्थेषु समीक्षासु प्रबन्धेषु लेखेषु च पौराणिकसामग्रीणां प्रचुरमुययोगं कृतवन्तः कुर्वन्ति च । दीक्षितारेण पुराण-इन्डेक्शनामक एको विशाल-कायो ग्रन्थः त्रिषु भागेषु लिखितो वर्तते, यः पुराणगवेषकेभ्यो विद्वद्दभ्योऽ-त्यन्तमुपकारी वर्तते । डा० राजेन्द्रचन्द्रहाजरामहोदयेन पुराणसम्ब-न्धिनोऽनेके ग्रन्थाः प्रणीताः सन्ति प्रणीयन्ते च । तल्लिखितं स्टडीज् इन् पुराणिकरेकाडूस आफ् हिन्दू राइट्स एण्ड कस्टम्सनामकं पुस्तकं पौराणिकशोधकार्यायात्यन्तं महत्त्वपूर्णं परमोपयोगि च विद्यते । तस्य विस्तृतभूमिकासहित विष्णुपुराणस्यांग्रेजीसंस्करणं महदुपादेयं वर्तते । तथा डा० देवेन्द्रकुमारराजारामपाटिलद्वारा निबद्धः कल्चरल हिस्टरी फाम दि वायुपुराणनामा ग्रन्थः पौराणिकगवेणात्मककार्यायातिशयो-पयोगी सिद्धोऽस्ति । भारतीयसंस्कृतेः सभ्यतायाश्च व्यापकेतिहासाय पौराणिकसाहित्यस्य महती उपयोगिता वर्तते । यतो हि पौराणिके वाङ्मये भूतत्त्व-भूगोल-खगोल-राजनीति-कलाविज्ञान-दर्शनतत्त्वज्ञान-सम्बिधान-धर्मार्यादीनां लोकोपयोगिनां शास्त्रीयविषयाणाञ्च साङ्गोपाङ्ग-विवरणमुपलभ्यते ।


पुराणकालिक स्थिति दिग्दर्शनम्


आध्यात्मिकविचारधारया प्राचीनकाले आर्यैः पोराणिकविषयेषु पर्याप्तमनुसन्धानं कृतमासीत् । तदानीन्तनः साधारणोऽपि व्यवहारः, ऐक्येन च भावेन क्रियतेस्म । चेतनप्राणिभिः सह पृथ्वी-जल-वह्नि-वायु-वनस्पतिप्रभृतीनां जडपदार्थानामेकताया मनुष्यैः सह पशूनामेकताया देवैः सह मनुष्याणामेकतायाः स्त्रीभिः पुरुषाणामेकतायाश्च विस्तृतं वर्णनं पुराणेषु प्राप्यते । एवं विश्वप्रेम्ण एकता भारतोयेषु व्यापृताऽऽसीत् । अत एवेश्वरेणापि पशु-पक्षि-मनुष्य-देव-तिर्यगादिषु योनिषु वाराह-मत्स्य-कूर्म-नृसिह-हंस-हयग्रीवादयोऽवतारा गृहीताः । यद्यपि पुराणेषु भोतिकोन्नतेः वर्णनमाधुनिककालादत्युन्नतं दृश्यते तथापि आध्यात्मिकभावशून्या भौतिकी समुन्नतिः तत्काले निन्दिता, विनाशकारिणी आसुरी च सम्पत्तिः मन्यतेस्म । तदानीन्तना जनाः स्थूलश री व्यवहारस्यैतावन्म-हत्त्वं न ददतिस्म यावदाधुनिकर्दीयते । आध्यात्मिकभावेन क्रियमाणं कार्यं ते उत्तमं मन्यन्तेस्म । दैत्यकुलोत्पन्नः प्रह्लादोऽपि आध्यात्मिकबला-वलम्बनेन भक्तराजो भूत्वाऽद्यापि समादरेण स्मर्यते, दैत्यपतेर्बलेः द्वारि प्ररिवत् सर्वदा गदापाणेविष्णोरुपस्थितिश्च श्रूयते ।

पौराणिककाले आर्याणां व्यवहारिकव्यवस्था न हीदानीमिव सङ्कुचितासीत्, किन्तु अत्युदाराऽऽसीत् । मातापित्रोर्गुणानां सन्ततिषु वर्णव्यवस्थायामधिको विश्वास आसीत् । क्षत्रियेण राज्ञा मनुना निर्मिता मनुस्मृतिर्बाह्मणैरपि मान्या जाता। शुकदेववदमलान्तःकरणा मुनयोऽपि क्षत्रियाद्राज्ञो जनकाद् ब्रह्मज्ञानस्यो-पदेशं गृहीतवन्तः । धर्मव्याधादपि तपस्वी कौशिको नामा ब्राह्मणो धर्मोपदेश गृहीतवान् । जाजलिना मुनिनापि तुलाधारवैश्याद् ज्ञानं प्राप्तम् । धनुविद्याचार्यो ब्राह्मणो द्रोणाचार्यः क्षत्रियसेनायाः प्रधान-सेनापतिबंभूव । अर्जुनेन नागकन्यायामृलूप्यामुत्पन्न इरावान् तथा भीमद्वारा राक्षसकन्यायां हिडिम्बायां जातो घटोत्कचश्च युद्धे क्षत्रियैः सह भागं गृहीतवन्तौ । निषादराजस्य भिल्लजातीयायाः शवर्याः पक्षिणो जटायुषश्च कीतिराध्यात्मिकविचारशीलतया समादरेण पुराणेषु गीयते । त्रीणां भौतिकोऽधिकारस्तदानीं परिस्थित्यनुसारं साधारणपुरुषापे-क्षयाऽल्पीयानेवासीत् परं तासां समादरः पुरुषापेक्षयाऽधिक आसोत् ।

तथा तासां सम्मानापमानयोः पूर्णं ध्यानं दीयतेस्म । एकस्याः सीताया रक्षायै भगवता रामेण दुराचारिणो रावणस्य सर्वस्वं नाशितम् । एकस्य द्रौपद्याः सभायामपमानाद महाभारतसंग्रामे कौरवकुलस्य संहारो जातः । एकस्या एव सत्या अपमानेन क्रुद्धस्य भगवतो महादेवस्य जटाजूटान्निर्ग-तैर्वीरभद्रादिभिर्वीरैः प्रजापतेर्दक्षस्य यज्ञो विध्वस्तः । तदानीं मातृनाम्ना पुत्राणां सम्बोधने विशिष्टं गौरवमनुभूयतेस्म । यथा भगवतः श्रीकृष्णस्य कृते देवकीनन्दनः श्रीरामस्य कृते कौशल्यानन्दनः पाण्डवानां कृते पार्थः कौन्तेय इत्यादि नाम गौरवास्पदं मन्यतेस्म । श्रीरामस्योपासना सीतया सह, श्रीकृष्णस्योपासना राधया सार्क, शिवस्योपासना उमया सार्द्ध खोजातीनां सम्मानस्योदाहरणं विद्यते । आद्यायाः शक्तेढुंगाया उपासना जगदम्बारूपेण श्रावं धावं कस्य सचेतसो हृदयं श्रीजाति प्रति न प्रफुल्लेत् ।

साधारणजनतायाः स्थूलवुद्धित्वात् सूक्ष्मत्तत्त्ववेत्तुभिर्महात्मभिः बद्धानां मर्यादानामनुसरणं श्रेष्ठं मन्यतेस्म । आध्यात्मिकबुद्धयुपयोगेन साकमावश्यकता देश-काल-परिस्थित्यनुसारं सामाजिकनियमस्य विधि-निषेधयोर्मयादानां परिवर्तनमपि जायतेस्म । अनेकस्मृत्तिरचना विभिन्नदर्शननिर्माणादि अस्यैव परिणामो विद्यते ।

पूर्वकाले ब्राह्मणवर्गः आत्मसंयमपूर्वकं ज्ञान-विज्ञानयोः समुन्नती सदा तत्पर आसीत् । क्षत्रियाणां जीवनं न केवलं स्वार्थमयमासीत्, किन्तु प्रजानां रक्षणे सुखसम्पादने च तेषां जीवनस्याधिको भागो व्यत्येतिस्म ।


स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।

आराधनाय लोकस्य मुश्वतो नास्ति मे व्यथा ।।


इति मर्यादापुरुषोत्तमस्य श्रीरामस्या दर्शवचनं स्मारं स्मारं कस्य सचेतसो जनस्य हृदयं न प्रफुल्लेत्। वैश्यवर्गः कृषि-वाणिज्य-पशुपालना-दिभिरन्येषामावश्यकतायाः पूर्तों संलग्न आसीत् । शूद्रवर्गश्च कला-कौशलप्रदर्शन-शारीरिकथमादिभिः प्रेमपूर्वकं लोकसेवायां प्रवृत्ता आसन् । वृत्त्यर्थं केषामपि परस्परं संघर्षो नासीत् ।

बाल्यावस्थायां सर्ववगंजना ब्रह्मचर्यव्रते स्थिताः शारीरिकं मान-सिकञ्च बलं सम्पादयन्तः स्वस्वयोग्यतानुसारं विद्याध्ययनं कुर्वन्तिस्म । विद्याध्यायनं समाप्य गृहस्थाश्रमे प्रविश्य युवावस्थानुसारं सवर्णया कन्यया साकं विवाहं कृत्वा लौकिकं व्यवहारं संचालयन्ति स्म । प्रौढावस्थायां स्वमुत्तराधिकारिणं गृहस्य व्यवहारेषु प्रवीणं विधाय स्वं कार्यभारं तस्मै समप्यं वानप्रस्थाश्रमं प्रविशन्तिस्म । वृद्धावस्थायां सर्वानविकारान् कर्तव्यं स्वत्वं च सर्वथा परित्यज्य सन्यासाश्रमे स्थित्वा ज्ञानमर्जयन्तः स्वानुभवेन ज्ञानोपदेशद्वारा च सर्वहितसाधने निरतास्तिष्ठन्तिस्म । एवं सर्वोऽपि वर्गः स्वस्वकार्यक्षेत्र-कर्तव्यानुसारं स्वं स्वं कर्तव्यं पालयन् परस्परं सहयोगेन सुखपूर्वकं नैजं जीवनं निर्वाह्यतिस्म, येनेदं भारतवर्षं सर्वविध-समुन्नतिशीलं सुखसमृद्धिसम्पन्नं धनधान्यपरिपूर्णश्चासीत्, येन सर्वे सुखेन जीवनं यापयन्तिस्म ।

पौराणिककाले गद्यापेक्षया पद्यस्याधिकः प्रचार आसीत् । अतः पुराणेषु प्रायः सर्वं वर्णनं पद्येष्वेव कृतं दृग्गोचरीभवति, यत्र लेखक-रुच्यनुसारं शृङ्गारादिरसानां समावेशः जातोऽस्ति । पुराणेषूपमोत्प्रेक्षा-रूपकदृष्टान्तातिशयोक्तिप्रभृतयोऽलङ्कारा अपि स्थाने स्थाने चित्तं चम-त्कुर्वन्ति । प्रसादादयो गुणास्तु सर्वत्र चित्तं प्रसादयन्ति । श्रीमद्भागवतस्य पञ्चमे स्कन्धे विष्णुपुराणस्य चतुर्थेऽशे च काव्यकौशलपूर्णा अभिनवभाव-गुम्फिता समासबहुला गद्यच्छटा कादम्बरीसमतायां न्यूना नास्ति ।

पुराणेषु मानवानां रुचेरुत्तमोत्तमेषु आचरणेषु वर्द्धनाय घृणित-कर्मभ्यो व्यावर्तनाय च रोचक-भयानक-भावपूर्णाः कथाः कथिताः सन्ति । पौराणिकानां गूढरहस्यानां सम्यगवगतये निम्नाङ्कितेषूदाहरणेषु ध्यानं देयम् ।


(क) उत्तमादप्युत्तमो मानवो यदा कस्मिश्विद् व्यसने आसक्तो जायते, तदा तस्य बुद्धिभ्रंशो भवति, न महान्तमप्यनर्थं करोति । परिणामस्वरूपं तस्य पतनं जायते । पतिव्रता नारी पत्युः पतनसमयेऽपि ततो विमुखो न भवति, अपितु तदुद्धाराय निरन्तरं प्रयतमाना सती तदुद्धारं करोत्येवेत्यादर्शमयं भावं प्रदर्शयितुं पुराणेषु नलदमयन्तीत्यादीना-मितिहास उक्तोऽस्ति ।


(ख) सत्यपालनपराकाष्ठा परिणामप्रदर्शनेन सह राज्ञा स्वकीयाः प्रजाः प्रति कथंकारं दयालुना भाव्यमिति भावं बोधयितुं राज्ञो हरिश्चन्द्र-स्येतिहासः प्रर्दाशतो वर्तते ।


(ग) रामरावणयुद्धकथानकस्याभिप्रायोऽस्ति यदेकस्मिन् सात्त्विके महापुरुषे इयतो आत्मशक्तिविद्यते यथा सः अख्खहीनः सेनाविहोनो वा महाप्रतापिनं सर्वशक्तिशालिनं सर्वविधभौतिकशक्तिसुसज्जितमपि शत्रु विजयते एव । अहङ्कारी जनः कियानपि तपस्वी, प्रभावशाली, ऐश्वर्यसम्पन्नः अगाधनीतिनिपुणः, उच्चवर्णों, भौतिकोन्नतिशिखरारूढश्व कथं न स्यात् किन्तु तत्रासुरीभाव एवं वर्द्धते येन तत्सर्वनाशो जायते ।


(घ) देवासुरसंग्रामे भगवतो विष्णोः साहाय्येनासुराणां पराजयस्य देवानाञ्च विजयस्य रहस्यमस्ति यद् विष्णुरूपस्यात्मज्ञानस्य प्रभावेण सात्त्विक-देवशक्तयो राजस-तामसासुरशक्तिषु विजयं नूनं प्राप्नुवन्ति ।


(ङ) पृथिव्यां यदा जनसंख्या वर्द्धते तदा जनेषु व्यक्तित्वभावः प्रबलो जायते, क्षुद्रस्वार्थाय परस्परं रागद्वेषौ उत्कृष्टी भन्तः, यत आसुरभावस्य प्राबल्यं जायते, समाजे च विभिन्नः संघर्ष उपतिष्ठते । परिणामस्वरूपं जनतासु भयङ्करा अशान्तिरुद्भवति । एवं भौतिक-समुन्नत्या संसारे ईदृशी विषमता वर्द्धते, यया संसारधारिका शक्तिरपि विक्षुब्धा जायते जनाश्चात्यन्तं दुःखिनो भवन्ति । यदा सर्वेषा मनसि विषमतां दूरीकर्तुं भावना जागरिता भवति, तदा सर्वात्मना केन्द्रभूतः परमात्मा सात्त्विकशक्त्यनुसारं विशेषकलया केनचिद् व्यक्तिविशेष-रूपेण प्रकटीभूय समुचितव्यवहारद्वारा वद्धितां जनसंख्यां छिन्नां भिन्नां विधाय विषमतां च दूरीकृत्य शान्ति स्थापयति, सदुपदेशद्वारा च धर्मकुप्रवृति परिवयं समुचितस्य मानवधर्मस्य प्रचारं प्रसारं वा विधत्ते । इममेव विषयं स्थूलरूपेणावबोधयितुं यदा पृथिव्यां पापाधिक्येन पापिनां भारं वोढुमसमर्था पृथ्वी दुःखिनी जायते, तदा वेधसः समीपे गमनं तथा देवैः सह क्षीरसागरे शयानस्य विष्णोरभ्यर्थनं तदनुसारमव-तारं गृहीत्वा पृथिव्या भारापनयनं धर्मस्थापनं सज्जनसंरक्षणञ्चेत्यादि-कथा कथितास्ति ।


(च) एकस्या द्रौपद्याः पञ्चानां पाण्डवानां धर्मपत्नीकथया प्राचीन-काले पातिव्रत्यधर्मस्योद्देश्यं केवलं पाशविकविषयवासनापूतिरेव नासोत्, नापि स्त्रीणां स्थूलशरीरस्पर्शाय पुरुषेषु परस्परं पशुवत् संघर्षो भवतिस्म । कथायामस्यां पश्ञ्चभिः महाशूरैः पतिभिः सह द्रौपद्याः समानप्रेम्णः समानसेवायाः समानप्रसन्नताया अनुपमपातिव्रत्यधर्मस्य च यावान् महिमा विद्यते तावदेव पञ्चानामपि पाण्डवानामात्मसंयमस्य पत्नोव्रतपालनस्य धर्मपरायणतायाश्च महत्त्वमप्यस्ति । अपि च पत्या सहानन्यभावेनप्रेमपूर्वकं पातिव्रत्यधर्मस्य पालनकर्ष्या पत्न्या इयान् महिमा वर्द्धते, यत्सा लोकपूज्या समादरणीया वन्दनीया च जायते, तथा पत्युरपि पत्या सह सप्रेमव्यवहारेण समादरेण तत्प्रसन्नतासम्पादनेन चात्मबलं वर्द्धते, स संसारे समादरणीयः श्रद्धेयश्च भवति । एतदेवासीत्कारणं यद् अनन्येन प्रेम्णा पञ्चापि पतीन् समानतया प्रसन्नान् कृत्वा तेषामुन्नतौ सहायि-काया द्रौपद्याः तथा तया सहानन्यभावेन धर्मपूर्वकं व्यवहारकारिणां सत्यव्रतिनां संयमिनां धार्मिकाणां च पञ्चानां पाण्डवानामात्मविकाश एवं जातो येन ते जगद्वन्द्या जातास्तथा परमात्मनो विशेषविभूतिः भगवच्छी-कृष्णरूपेण सर्वदा तेषां पाखें उपस्थिताऽऽसीत् । एवमाध्यात्मिकाधि-भौतिकाधिदैविकनैतिकविषयिकाभिरगणितकथाभिः पुराणानि परि-पूर्णानि सन्ति ।




Share:

कोई टिप्पणी नहीं:

शास्त्री 3 एवं 4th सेमे. पुस्तक(BOOKS)

आचार्य प्रथम एवं द्वितीय सेमेस्टर -पाठ्यपुस्तक

आचार्य तृतीय एवं चतुर्थ सेमेस्टर -पाठ्यपुस्तक

पूर्वमध्यमा प्रथम (9)- पाठ्यपुस्तक

पूर्वमध्यमा द्वितीय (10) पाठ्यपुस्तक

समर्थक और मित्र- आप भी बने

संस्कृत विद्यालय संवर्धन सहयोग

संस्कृत विद्यालय संवर्धन सहयोग
संस्कृत विद्यालय एवं गरीब विद्यार्थियों के लिए संकल्पित,

हमारे बारे में

मेरा नाम चन्द्रदेव त्रिपाठी 'अतुल' है । सन् 2010 में मैने इलाहाबाद विश्वविद्यालय प्रयागराज से स्नातक तथा 2012 मेंइलाहाबाद विश्वविद्यालय से ही एम. ए.(हिन्दी) किया, 2013 में शिक्षा-शास्त्री (बी.एड.)। तत्पश्चात जे.आर.एफ. की परीक्षा उत्तीर्ण करके एनजीबीयू में शोध कार्य । सम्प्रति सन् 2015 से श्रीमत् परमहंस संस्कृत महाविद्यालय टीकरमाफी में प्रवक्ता( आधुनिक विषय हिन्दी ) के रूप में कार्यरत हूँ ।
संपर्क सूत्र -8009992553
फेसबुक - 'Chandra dev Tripathi 'Atul'
इमेल- atul15290@gmail.com
इन्स्टाग्राम- cdtripathiatul

यह लेखक के आधीन है, सर्वाधिकार सुरक्षित. Blogger द्वारा संचालित.