सिन्धुवादवृत्तम् सारांश:

 

सप्तसिन्धुयात्राणां सारांश:

उपोद्घातः

विदामपुराधिपतेः श्रीहारीतमहीपतेः शासनकाले सिन्धुवादो नाम आढ्यो वणिक् वसति स्म । ग्रीष्मता एकदा हितवादो नाम कञ्चन भारवहनवृत्तिः महान्तं भारं शिरसा वहन् तस्य हर्म्यस्य अधस्तात् क्षणं तस्थौ। तदीयसेवकेभ्यः तत्परिचयं प्राप्य खिन्नान्तरङ्गो हितवादः तदीयया भाग्यसम्पदा स्वां दुरवस्थां यावत्तुलयति तावत् सिन्धुवादेन तदवस्यादर्शनजातदयेन स्वहर्ये समाहूतः। प्रत्यहं च दीनाराणां शतेन तं सन्तोषयन् कारितभोजनश्चाभ्यागतैश्च समं स्वसिन्धुयात्रावृत्तं श्रावयति स्म।

प्रथमा सिन्धुयात्रा-

युवावस्थायां नानाव्यसनेषु समासक्तः पैतृकसम्पत्तेरधिकांशमक्षपयम्। सहसैकदा भविष्यचिन्तया खिनान्तरङ्गः सन् व्यवसायं कर्तुम् वासरपुरनाम नगरं गत्वा समुद्रयात्रिभिः सह सिन्धुयात्रायै प्राचलम्। एकस्मिन् दिने वयं मध्येसमुद्रं द्वीपमेकमद्राक्ष्म। तत्रावतीर्य कृतभोजनादिषु अस्मासु सहसा सः द्वीपः चचाल। द्वीपत्वेनाध्यवसित: वस्तुतो महाग्राहः सः क्षणात् सिन्धुतले न्यमज्जत्। अहं दैवादधिगतं काष्ठफलकमेकं समास्याहर्निशं सन्तरन् प्रत्यूषे किञ्चिद्द्वीपं प्रापम्। तत्र महाराजमिहिरस्य अश्वपालैः सह परिचयो जातः। तैः सह तस्य राजधानी गतः, तेन च सभाजितः तत्र कञ्चन कालमयापयम्। एकदा स एव पोतः समागतः यमधिस्य वयं यात्रायै प्रचलिता आस्म। पोतगतपण्यराशीन् प्रत्यभिज्ञाय निजपरिचयपूर्वकं पोताध्यक्षाच्च तान् गृहीत्वा किञ्चिदुपायनं मिहिरमहीपतये समुपहतवान्। तेन च सादरमभ्युनुज्ञातः लक्षाधिकदीनारेण सहितः वासरपुरमार्गेण स्वसदनं प्रत्यागमम्।

द्वितीया सिन्धुयात्रा-

एकस्मिन् दिने भूयोऽपि सार्थवाहै सह प्रवहणमधिस्याहं यात्रायै निरगमम्। द्वीपात् द्वीपं परिभ्रमन्तो वयमेकदा निर्जन द्वीपं सम्प्राप्नुम। तत्र किञ्चत्कालं सर्वेषु विश्रमत्सु अहं सुप्तोऽभवम्। प्रबुद्धश्च तत्प्रवहणं नाद्राक्षम्। ततो निष्क्रमणोपायान् विमृशन्नैकं महाशकुन्तमपश्यम्। तस्मिन् हस्तशतप्रमाणे निजाण्डे समुपविष्टे सति तं शनैरुपगम्य स्वशिरःस्थचीरपट्टि कायाऽऽत्मानं तन्नखपञ्चरेऽबध्नाम्। प्रत्यूषे च तेन हीरकोपत्यकायामवतारितोऽहमात्मबन्धनं कर्तितवान्। यत्र पर:शता अजगरा: निवसन्ति स्म, महाशकुन्तश्च तान् भक्षयन्ति स्म। तत्र हि साहसिनो वणजो

गिरीनधिस्य ततः पर्वतोपत्यकायां मांसखण्डानि निपातयन्ति स्म। महागृध्राः संसक्तानेकहीरकखण्डानि तानि मांसानि निजकुलायान् नयन्ति, तत्रस्थैः वणिजैः कोलाहलविद्रावितेषु गृध्रेषु मांसखंडसंसक्तहीरकावचयं क्रियते स्म। एकदा संगृहीतस्थूलहीरकराशिरहमात्मत्राणाय मांसखण्डैरात्मानं संवेष्ट्य निश्चेष्टमपतम्। एकश्च महागृध्रः चञ्च्वा विधृत्य मां स्वनीडमनैषीत् तत्र हीरक संचयार्थं सन्नद्धा वणिजः मां दृष्ट्वा आश्चर्यः व्यदधुः। तैः सह पोतमेकमास्य विदामपुरं प्रत्यागमम्।

तृतीया सिन्धुयात्रा-

तदनु भूयः प्रयातः वासरपुरमवाप्य पोताधिरूढः दिवसगणसमाप्यां यात्रामुद्दिश्य प्रावहम्। एकदा भीमः प्रभञ्जनः नरभक्षकैः अधिष्ठितेऽन्यतमे द्वीपे बलादस्मानक्षिपत्। नरभक्षिष्वेको नरपिशाचः तत्र प्रत्यहमस्मास्वेकं कवलीचकार, रात्रौ सुष्वाप, प्रभाते चोत्थाय क्वचिदयासीत्। एकदा वयं रात्रौ निद्रापरवशस्य तस्य चक्षुषि तप्तलोहशूलं निक्षिप्य तमन्धतामनयाम। तस्मिन्नपगतमात्रे समुद्रतटमागत्य तत्र निगूहितानि काष्ठफलकानि गृहीत्वा प्रवहणं प्रतीक्षमाणा आप्रभातमप्रतिष्ठाम। पुरुषाभ्यां सहागच्छन्तं तमवलोक्य फलकान्यधिस्ह्य तानि क्षेपणीभ्यां प्रेरयन्तः सत्वरं पलायामहि। ते तु नराधमाः महतीभिः शिलाभि अस्मत्फलकानि चूर्णीकृतवन्तः। अहमुभाभ्यां सहचराभ्यां फलकाश्रयेण प्लवमानः द्वीपमेकं प्रापम्। तत्र च वयं मृद्वीकाः भक्षयित्वा जीवनमयापयाम। अथान्यतमोऽजगरः निशायामस्मास्वेकं न्यगिलत् द्वितीयश्च वृक्षाधिरूढः तथैवोपरमं भेजे। एकावशेषोऽहं परमेश्वरकृपया तत्रत्यैर्वणिभिः सह सालहतं द्वीपमगमम्। तत्र द्वितीययात्रायामजितं पण्यजातं स्वं प्रत्यभिज्ञाय तच्च स्वायत्तीकृत्य ततः प्रस्थितो विदामपुरं प्रत्यागमम्। तत्रापरिमितं धनं समुपाय॑ दीनेभ्यश्च प्रचुरं धनं वित्तीर्य सुखेन न्यवसम्।

चतुर्थी सिन्धुयात्रा-

अथाऽहं पोतमारूढः पौरस्त्यद्वीपानुद्दिश्य प्रायाम्। एकदा भीषणया वात्ययाऽस्माकं प्रवहणं भग्नम्। तेन च बहवो वणिज: उपरताः। अहं फलकमेकमारुह्य कतिपयैः वणिग्भिः सह एकत्र द्वीपे प्रक्षिप्तः। तत्रास्माकं नरभक्षिपुस्पैः सह साक्षात्कारो जातः। भीत्या ततः निष्क्रमणोपायं विचार्यकस्मिन्दिवसेऽहं ततः प्रधावमानः सन् एकस्मिन् स्थले श्वेतपुरुषान् विलोक्य तानुपासरम्। तैः सह कतिपयदिनानि मरिचसञ्चयादिकर्मणि कालं अतिवाह्य प्रवहणमधिरूढः

तद्द्वीपाधिपं सम्प्रापितोऽभवम्। तत्र मया प्रभूतं धनमुपार्जितम्। एकदा तद्द्वीपाधिस्याज्ञया कृतदारपरिग्रहः कञ्चन कालं अनयम्। तद्देशाचारो यथा दम्पत्योरेकस्मिन्नुपरतेऽपरोऽपि तेनैव सह भूमिसात् क्रियते स्म। एकदा दुर्दैववशेन मम भार्या मृता। तस्याः शवेन सह मामपि महागते निधाय तन्मुखञ्च पिहितवन्तः सर्वे। अहं गुहायां स्वपाथेयकात् स्वल्पं प्रत्यहमुपभुञ्जन् तत्रैव प्राणानधारयम्। एवं रीत्या मया तत्र स्वजीवनं रक्षितम्। एकदा गुहावसाने विशालं छिद्रं सम्प्राप्य ततो बहिरागतः ततः समुद्रतटमागतवान्। पुनः तां प्रविश्य प्रचुरं शवालङ्करणरत्नमौक्तिकराशिं संगृह्य द्वि-त्रिदिनैः तत्र समागतं पोतमद्राक्षम्। तञ्चाधिरह्य कैश्चिद्दिनैः गृहं सम्प्राप्तः आमोदप्रमोदमात्रव्यवसायः तत्र न्यवसम्।

पञ्चमी सिन्धुयात्रा-

भूयोऽहं विचलितहृदयः पञ्चमी यात्रामुद्दिश्य प्रस्थातुं सन्नद्धोऽभवम्। स्वकं पोतं समाह्य वणिग्भिः सह प्रस्थितः कैश्चिद्दिनैः विजनं द्वीपं प्रापम्। तत्र विशालाण्डजाण्डं विलोक्य मत्सहचराः तदण्डं विभिद्य ततो निर्गच्छन्तं शावकं खण्डशोऽवकृत्य जघसुः। तच्छावकपितरौ पक्षिणौ महतीभिः शिलाभिः अस्मत्प्रवहणं तदधिरूढांश्च चूर्णीकृत्य समुद्रतलं प्रापयामासतुः। अहं तु फलकाश्रयेण कुत्रापि द्वीपे क्षिप्तः कथमपि समस्थलीमुपागमम्। तत्रैकं स्थविरमपश्यम्। स तु मां संकेतैरात्मानं स्कन्धयोनिधाय स्रोतस्तरीतुम् प्रेरयत्। मया तथैव कृतं परं स स्थविरः मामत्यर्थमपीडयत्। तदा अहं एकस्मिन् दिने एकां तुम्बी द्राक्षारसेन सम्पूर्य कतिपयदिनैरासवतां गतं तसं तस्मै स्थविराय प्रायच्छम्। स समग्रं तदासर्वं पीत्वा सञ्जातोन्मादः मयाऽधिशिलं क्षिप्त: विगतासुरपतत्। एवमहं तस्मात् स्थविरसंकटान्मुक्तः।

अथाहं कैश्चन वणिग्भिः सह पोतारूढः समुद्रतीरस्थं पत्तनं सम्प्राप्नवम्। तत्रैकस्मिन् वने स्वा: गोणीः नारिकेलफलैः पूरयितुकामाः वृक्षस्थान् वानरानुद्दिश्य प्रस्तरखण्डान् समाक्षिपन्। ते च वानराः नारिकेलफलानि अस्मान् लक्ष्यीकृत्य प्राक्षिपन्। एवं स्वाः गोणी: नारिकेलफलैःसम्पूर्य,तद्विक्रयेण तथा कुत्रचनमौक्तिकभृतानां शुक्तीनां क्रयविक्रयेण धनमर्जयित्वा सकुशलं वासरपुरं ततश्च विदामपुरं प्रत्यावर्तिषि । मल्लाभस्य दशमांशं धर्मकर्मसु विनियुज्य तत्र ससुखम् न्यवसम्।

षष्ठी सिन्धुयात्रा-

वर्षमात्रं प्रयाप्य पुनरहं षष्ठी यात्रामुद्दिश्य गृहानिरगाम्। अस्मत् प्रवहणमेकदा प्रबलवात्याचक्रेण शिलासङ्घाते निपत्य खण्डशोऽभवत्। पोतारूढाश्च सर्वे पण्यवस्तूनि संगृह्य कुत्रचन द्वीपमवातरन्। तत्र भोजनाभावेन सर्वे निधनम् प्राप्नुवन्। जीवितशेषोऽहं फलकाश्रयेण प्रवहन्नेकदा सुप्तप्रबुद्धः नद्यास्तीरे आत्मानं कृष्णवणैः पुरूषैः परिवृत्तमपश्यम्। तैश्चाहं तद्द्वीपाधिराजसदनं नीतः। स: द्वीपाधिपोऽपि मदीयसिन्धुयात्रावर्णनान्याकर्ण्य मत्तः प्रसन्नो जातः। तत्र वसन्नहं नगरनिरीक्षणादिभिः कञ्चन कालं व्यत्यापयम्।

अथ तेन भूपेनानुमतगृहगमनः ततः प्रस्थितः विदामापुरमागत्य तेन भूपतिना प्रेषितं तमुपहारराशिं पत्रेण सह हारीतनृपतये समर्प्य स्वम् गृहम् प्रायाम्।

सप्तमी सिन्धुयात्रा-

गृहं प्रतिनिवृत्तः आत्मनो वार्धक्यं विचार्य सुखेन गृह एव वस्तुमहं निरचिनवम्। परं पुनः महाराजहारीतेनाज्ञप्तः प्रेषितोपहाराय द्वीपाधिपाय प्रदेयानि उपहारवस्तूनि राज्ञश्च पत्रं नीत्वाप्रवहणारूढः निर्विघ्नं तद्द्वीपमुपागमम्। तत्र राजानं समासाद्य तस्मै उपायनानि पत्रं च समुपाहरम्। ततोऽहं तमामन्त्र्य ततः प्रातिष्ठे । मध्येमार्ग दासविक्रयव्यवसायिनः अस्मान् व्यक्रीणन्त। अहमेकेनाढ्येन वणिजा क्रीतः दत्तधनुर्बाणः वृक्षाधिरोपितः दन्तलिप्सया गजहननाय नियोजितः। एकदा बंहिष्ठो गजराज: मदारूढं वृक्षमावेष्ट्य समूलमपातयत्। निपतितं च मां मृतप्रायं स्वयूथैरनुसृतः श्मशानस्थानम् नीत्वाऽधः क्षिप्त्वा क्वचिदयासीत्। अहं च ततः प्रस्थित: मध्येमार्ग गजदन्तराशिं विक्रीय विदामपुरं प्रापम्। तत्र हारीतनृपतिमुपेत्यात्मवृत्तम-श्रावयम्। प्रसन्नेन च नृपतिना मदीयाः सप्तसिन्धुयात्राः सुवर्णाक्षरेषु समालेख्य स्वरत्नकोशे संस्थापिताः, अहम् च तेन सम्भावितः गृहमागत्य सुखेन न्यवसम्। उपसंहारः  एवं स्वयात्रावृत्तवर्णनमुपसंहृत्य सिन्धुवादः हितवादमुवाच-भद्र ! यथा मया सिन्धुयात्रासु क्लेशाः अनुभूताः तथा केनाप्यन्येन उपभुक्ताः किम्? अपि सम्प्रति भवान् मामकीनम् शान्तिसुखोपभोगमन्याय्यम् मनुते? इति।  हितवादस्तु इत्थम् सिन्धुवादम् क्षमा याचते स्म-आर्य! भवान् नाना यात्राक्लेशाननुभूय सम्प्रति विश्रामसुखोपभोगं कर्तुम् सर्वथाऽर्हति। अहम् तु आत्मनो दीनावस्थां विलोक्य भवदीयभाग्यसम्पदा सह तुलयन्ननुचितं प्रालपम्। क्षमस्व, उप क्ष्व च चिराय स्वश्रमोपार्जितं वैभवम्। इति।  सिन्धुवादस्तु प्रत्यहमिव तस्मै दीनारशतं समर्प्य तमात्मनः द्वारपालपदे नियोजितवान्।

Share:

कोई टिप्पणी नहीं:

शास्त्री I & II सेमेस्टर -पाठ्यपुस्तक

आचार्य प्रथम एवं द्वितीय सेमेस्टर -पाठ्यपुस्तक

आचार्य तृतीय एवं चतुर्थ सेमेस्टर -पाठ्यपुस्तक

पूर्वमध्यमा प्रथम (9)- पाठ्यपुस्तक

पूर्वमध्यमा द्वितीय (10) पाठ्यपुस्तक

समर्थक और मित्र- आप भी बने

संस्कृत विद्यालय संवर्धन सहयोग

संस्कृत विद्यालय संवर्धन सहयोग
संस्कृत विद्यालय एवं गरीब विद्यार्थियों के लिए संकल्पित,

हमारे बारे में

मेरा नाम चन्द्रदेव त्रिपाठी 'अतुल' है । सन् 2010 में मैने इलाहाबाद विश्वविद्यालय प्रयागराज से स्नातक तथा 2012 मेंइलाहाबाद विश्वविद्यालय से ही एम. ए.(हिन्दी) किया, 2013 में शिक्षा-शास्त्री (बी.एड.)। तत्पश्चात जे.आर.एफ. की परीक्षा उत्तीर्ण करके एनजीबीयू में शोध कार्य । सम्प्रति सन् 2015 से श्रीमत् परमहंस संस्कृत महाविद्यालय टीकरमाफी में प्रवक्ता( आधुनिक विषय हिन्दी ) के रूप में कार्यरत हूँ ।
संपर्क सूत्र -8009992553
फेसबुक - 'Chandra dev Tripathi 'Atul'
इमेल- atul15290@gmail.com
इन्स्टाग्राम- cdtripathiatul

यह लेखक के आधीन है, सर्वाधिकार सुरक्षित. Blogger द्वारा संचालित.